१४

अथ प्रथमप्रश्ने चतुर्दशोऽध्यायः

अथ व्रतस्नातकस्य वेदमनधीयानस्य तूष्णीं समावर्तनम् १
तीर्थे स्नात्वाऽग्निमुपसमाधाय सम्परिस्तीर्य मध्याह्ने पालाशीं समिधमाज्येनाक्त्वा-ऽभ्यादधाति इमं स्तोमम् इत्येतया २
तूष्णीं वपनं तूष्णीं सम्भारग्रहणं च कृत्वा रथस्य दक्षिणं चक्रमभिमृशति रथन्तरमसि इति । सव्यं बृहदसि इति ३ रथस्य मध्यममभिमृशति वामदेव्यमसि इति ४
रथं प्रवर्तमानमभिमन्त्रयते रथं वामश्विना रथो मा दुःखे मा सुखे रिषत् इति ५
रथाभावेऽप उपस्पृश्य भूमिमभिमृशति इह धृतिरिह विधृतिरिह रन्तिरिह रमतिः इति ६
अथाप उपस्पृश्य हृदयमभिमृशति मयीन्द्रियं वीर्यम् इति ७
अपो व्रीहिभिर्यवैर्वा समुदायुत्य शिष्याय प्रयच्छति ८
तत्प्रतिगृह्णाति आ म आगाद्वर्चसा यशसा इति ९
ब्राह्मणः आ म आगाद्वर्चसा यशसा संसृज प्रियः पशूनामधिपतिः प्रजानाम् इति तदुपस्पृश्य वदेत् १०
प्राक्सिक्तं तज्जलं पुरस्तात्सिञ्चति ११
अथ दधिमध्वाज्योदकमिश्रं वा दधिमध्वाज्योदकक्षीरमिश्रं वाऽर्घ्यमिति निवेदयेत् १२
शिष्योऽर्घ्यमभिमन्त्रयते स माऽवतु समाऽवन्तु स माजुषताम् इति १३
अथ द्वाभ्यां हस्ताभ्यां प्रतिगृह्णाति आ म आगाद्वर्चसा इति १४
तस्मिंश्चित् किञ्चिदापतितं स्यात्तदङ्गुष्ठेन च महानाम्न्या च सङ्गृह्येमां दिशं निरस्यति नेष्टा विद्धिम् इति १५ अथाप उपस्पृश्य सर्वाभिरङ्गुलीभि-स्समुदायुत्य प्राश्नाति इदं ते बलं हरामि इति प्रथमम् । श्रेष्ठं माऽधिपतिं कुरु इति द्वितीयम् । सोमोऽसि सोमपं मा कुरु इति तृतीयम् अन्नमस्यन्नं मा कुरु इति चतुर्थम् १६ एवं चतुष्कृत्वः प्राश्य त्रिरनुपिबेन्न सर्वं न तृप्तिं गच्छेत् १७ यमात्मनश्श्रेयां समिच्छेत्तस्मै शेषं दद्यादिति १८
अथ कर्णे दाम्ना बद्धां गामनुमन्त्रयते जहि मे पाप्पानमुपवेत्तुः इति १९
अथ गामुत्सृजेत् गौर्धेनुभव्या इति २०
अथादैनमाहृतं प्राश्नाति ब्रह्मन् त्वाश्नामि इति २१
अथोदकमिश्रं सक्तुमाहृतमश्नाति ब्रह्मन् त्वाऽश्नामि इति २२
एवमेव जडबधिरमूकान्धकुब्जादीनामशक्तस्तूष्णीं समिधमाधाय शेषं तूष्णीमाचरेत् २३
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने चतुर्दशोऽध्यायः