१३

अथ प्रथमप्रश्ने त्रयोदशोऽध्यायः

वेदमधीत्य स्नात्यन्नुपकल्पयते एरकां चोपबर्हणं च नापितं क्षुरं च दारूणि चोपस्तरणं च वृकलांश्च दन्तधावनमुष्णाश्चापश्शीताश्च सर्वसुरभिपिष्टं चाञ्जनं च स्रजं चादर्शं चाहतं च वासः प्रावारं च वसनान्तरं बादरमणिं सुवर्णोपधानं सूधं च प्रवर्तौ च दण्डं चोपानहौ च छत्रमानडुहं चर्म सर्वलोहितमित्येतेऽस्य सम्भारा उपकॢप्ता भवन्ति १
अथ स्नानस्य मीमांसा २
रोहिण्यां स्नाया-दित्येकम् प्राजापत्यं वा एतन्नक्षत्रं तदस्य प्राजापत्य एव नक्षत्रे स्नातं भवत्यथो सर्वान् रोहान् रोहति इति ३
तिष्ये स्नायादित्येकम् बार्हस्पत्यं वा एतन्नक्षत्रं तदस्य बार्हस्पत्य एव नक्षत्रे स्नातं भवत्यथो बृहस्पतिप्रसूतोऽसानि इति ४
उत्तरयोः फल्गुन्योस्स्नायादित्येकम् भग्यं वा एतन्नक्षत्रं तदस्य भग्य एव नक्षत्रे स्नातं भवत्यथो भग्योऽसानि इति ५
हस्ते स्नायादित्येकम् सावित्रं वा एतन्नक्षत्रं तदस्य सावित्र एव नक्षत्रे स्नातं भवत्यथो सवितृप्रसूतोऽसानि इति ६
चित्रायां स्नायादित्येकम् ऐन्द्रं वा एतन्नक्षत्रं तदयैन्द्र एव नक्षत्रे स्नातं भवत्यथो चित्रोऽसानि इति ७
विशाखयोस्स्नायादित्येकम् ऐन्द्राग्नं वा एतन्नक्षत्रं तदस्यैन्द्राग्न एव नक्षत्रे स्नातं भवत्यथो विशाखोऽसानि प्रजया पशुभिः इति ८ एतेषामेकस्मिन्नापूर्यमाणपक्षे पुरादित्यस्योदयाद्व्रजमभिप्रपद्यते नैनमेत-दहरादित्योभितपेत्तदहस्स्नातानां मुखं वा एष एतत्तेजसा यशसा तपति ९
अन्तर्लोम्ना चर्मणा व्रजमभिनिध्नन्ति १० पूर्वार्धमध्ये व्रजस्याग्निमुपसमाधाय सम्परिस्तीर्य आहरन्त्येतान् सम्भारान् सकृदेव सर्वान् यत्सह सर्वाणि मानुषाणि इत्येतस्मात् ब्राह्मणात् ११
दक्षिणतो ब्राह्मण उपविशति १२
उत्तरत उदपात्रं पालाशीं च समिधं निदधाति १३ अपरेणाग्निमुदीचीन-प्रतिषेवणामेरकां साधिवासामास्तीर्य तस्यां प्राङ्मुख उपविशति १४
उत्तरतो नापितः १५
उत्तरत उपबर्हणम् १६
आमध्यन्दिनं भिक्षां दद्यात् १७
अपीह गां पचेद्वशा चेत्स्यादत्रैताम् १८
पालाशीं समिधमाज्येनाक्त्वा मध्यन्दि-नेऽभ्यादधाति इमं स्तोममर्हते जातवेदसे रथमिव सम्महे मा मनीषया । भद्रा हि नः प्रमतिरस्य संसद्यग्रे सख्ये मा रिषामा वयं तव स्वाहा इति १९
अथैरकायामुदीचीनशिरा निपद्यते त्र्यायुषं जमदग्ने कश्यपस्य त्र्यायुषं अगस्त्यस्य त्र्यायुषमृषीणां त्र्यायुषं यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषम् इति २० क्लिद्यमानमनुमन्त्रयते शिवा मे भवथ संस्पर्शाः इति २१
क्षुरमभिमन्त्रयते क्षुरो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हिंसीः इति २२ उप्यमानमनुमन्त्रयते यत्क्षुरेण वर्चयसि वप्ता वपसि केशश्मश्रु वर्चया मे मुखं मा म आयुः प्रमोषीः इति २३
श्मश्रूण्येवाग्रे वपतेऽथोपपक्षावथ वेशान् यथोपपादभितराण्यङ्गानि २४
एतस्माद्ध्येषा जरसा पूर्व आयुषि प्रयान्ति पर्व आयुष्यन्नादा भवन्ति य एवं विद्वासो लोमानि वापयन्ते स यदि लोमानि वापयिष्यमाणस्स्यात् केशश्मश्रु वापयित्वा लोमानि संहृत्य नखानि निकृन्त-यीत २५
अथैनानि समुच्चित्य ब्रह्मचारिणे प्रयच्छन्नाह इमानि हृत्वा दर्भस्तम्बे वोदुम्बरमूले वा निधत्तात् इति । तानि स तत्र निदधाति २६
अपरेणाग्निं प्राङ्मुख उपविश्य मेखलां विस्रंसयति इमं विष्यामि वरुणस्य पाशम् इति २७
योऽस्य तत्र रातेः पुत्रो वान्तेवासी भवति तस्मै प्रयच्छन्नाह इमा हृत्वा न्यग्रोधे वोदुम्बरमूले वा निधत्तात् इति २८
तामु स तत्र निदधाति इदमहममुष्यायणस्य शुचा पाप्मानमपगूहाम्युत्तरस्य द्विषद्भ्यः इति २९
वृकलैः प्रधाव्य दान्तान्वि-धावते अन्नाद्याय व्यपोहध्वं भगो सजा यमागतम् । स मे मुखं प्रसर्पतु वर्चसे च भगाय च इति ३०
उभयीरपस्सन्निषिञ्चति उष्णासु शीता आनयति देवमा-नुषस्य व्यावृत्त्यै इति ३१
तासामञ्जलीनोपहत्याभिषिञ्चति आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति तिसृभिः षोढा विहितो वै पुरुषः इत्येतस्मात् ब्राह्मणात् ३२
अथैतस्य सर्वसुरभिपिष्टं समुदायुत्य त्रिः प्रसिञ्चति नमश्शाकजञ्जभाभ्यां तमस्ताभ्यो देवताभ्यो या अभिग्राहिणीः इति ३३
अनुलिम्पेत् अप्सरासु यो गन्धो गन्धर्वेषु च यद्यशः । दिव्यो यो मानुषो गन्धस्स मामाविशात्विह इति ३४
अहतं वासः परिधत्ते स्वा मा तनूराविश शिवो मा तनूराविश इत्येवमेव सायमेवमेवात ऊर्ध्वम् ३५ अथैतं बादरमणिं स्वर्णोपधानं सूत्रे प्रोत्य दर्व्यामाधाय दर्वीदण्डे सूत्रेण पर्यस्य जुहोति इयमोषधे त्रायमाणा सहमाना सहस्वती । सा मा करोतु सोमवर्चसं सूर्यवर्चसं ब्रह्मवर्चसं ब्रह्मवर्चसिनं मान्नादं करोतु स्वाहा इति ३६
अथैनमुदपात्रेण परिप्लावयति विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमही द्विषः इति ३७
अपाशोसि इत्युक्त्वाऽक्ष्णया परिहरति । वध्यं हि प्रत्यञ्चं प्रतिमुञ्चन्ति व्यावृत्त्यै इत्येतस्माद्ब्राह्मणात् ३८
अथैतौ प्रवर्तौ सूत्रे प्रोत्य दर्व्यामाधाय दर्वीदण्डे सूत्रेण पर्यस्य जुहोति आयुष्यं वर्चस्यं रायस्पोषमौद्भिद्यम् । इदं हिरण्यं वर्चसे जैत्र्यायाविशतादिमं रयिं स्वाहा इति ३९
द्वितीयां जुहोति शुनीमिवाहं हिरण्यस्य पितुरिव नामग्राहम् । तं मा करोतु सोमवर्चसं सूर्यवर्चसं ब्रह्मवर्चसिनं माऽन्नादं करोतु स्वाहा इति ४०
तृतीयां जुहोति उच्चैर्वाजि पृतनासाहं सभासाहं धनञ्जयम् । सर्वास्स-मृद्धीरृद्धयो हिरण्ये यास्समाहितास्स्वाहा इति ४१ चतुर्थीं जुहोति विराजं च स्वराजं चाभिष्टीर्या च नोगृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा सं सृजामसि स्वाहा इति ४२
पञ्चमीं जुहोति यशो मा कुरु ब्राह्मणेषु यशो राजसु मा कुरु । यशो विश्येषु शूद्रेष्वहमस्मै यशस्तव स्वाहा इति ४३ अथैतावुदपात्रेऽनुप्लावयति विश्वा उत त्वया वयम् इत्येतया ४४
तयोरन्तर-मादाय दक्षिणे कर्ण आबध्नाति आयुष्यं वर्चस्यम् इत्येताभिः पञ्चभिः ४५
अथैनमनुपरिवर्तते ऋतुभिस्त्वातवैस्संवत्सरस्य धायसा तैस्त्वा सहानुकरोमि इति ४६ एवमेवोत्तरे कर्णे प्रवर्तमाबध्नीत ४७
अत स्रजं प्रतिमुञ्चति शुभिके शिर आरोह शोभयन्ती मुखं मम । मुखं हि मम शोभय भूयांसं च भगं कुरु । यां त्वा जहार जमदग्निश्श्रद्धायै कामायान्यै । तां त्वेमां प्रतिमुञ्चामि वर्चसे च भगाय च इति ४८
त्रैककुदेनाञ्जनेनाङ्क्ते यदाञ्जनं त्रैककुदं जातं हिमवत उपरि । तेन वामाञ्जे मयि पर्वतवर्चसमस्तु इति ४९
आदर्शे परिपश्यते यन्मे मनः परागतमादर्शे परिपश्यतः । इदं तं मयि पश्याम्यायुष्यं वर्चस्यं मे अस्तु इति ५०
अथोपानहावुपमुञ्चते द्यौरसि इति दक्षिणे पादे । पृथिव्यसि इत्युत्तरे ५१
अथ दण्डमादत्ते सखा मा गोपाय इति ५२ छत्रमादत्ते दिव्योऽसि सुपर्णोऽन्तरिक्षान्मा पाहि इति ५३
अथोपनिष्क्रम्य दिशमुपतिष्ठते देवीष्षडुर्वीरुरुणः कृणोत विश्वेदेवास इव वीरयध्वम् । मा हास्महे प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् इति ५४ चन्द्रमसं सूपस्थाः इति ५५
यत्र यत्र कामयते तदेतीत्येतत्समावर्तनम् ५६
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने त्रयोदशोऽध्यायः