अथ प्रथमप्रश्ने द्वादशोऽध्यायः
अथोपनीतस्याव्रत्यानि भवन्ति १
नान्यस्योच्छिष्टं भुञ्जीतान्यत्र पितृज्येष्ठाभ्याम् २
न स्त्रिया सह भुञ्जीत ३
मधुमांसश्राद्धसूतकान्नमनिर्दशाहं सन्धिनीक्षीरं छत्राकनिर्यासौ विलयनं गणान्नं गणिकान्नमित्येतेषु पुनस्संस्कारः ४
प्रतिषिद्धदेशगमनमित्येकेषाम् ५
अथाप्युदाहरन्ति सौराष्ट्रं सिन्धुसौवीरम-वन्तीं दक्षिणापथम् । एतानि ब्राह्मणो गत्वा पुनस्संस्कारमर्हति । इति ६
अथ पुनस्संस्कारान् व्याख्यास्यामः ७
अथ देवयजनोल्लेखनप्रभृत्याऽग्नि-मुखात् कृत्वा पालाशीं समिधमाज्येनाक्त्वाऽभ्याधापयन् वाचय्ति पुन-स्त्वाऽऽदित्या रुद्रा वसवस्समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वं तनुवो वर्धयस्व सत्यास्सन्तु यजमानस्य कामास्स्वाहा इति ८
अथाव्र-त्यप्रायश्चित्ते जुहोति यन्म आत्मनो मिन्दाऽभूत् पुनरग्निश्चक्षुरदात् इति द्वाभ्याम् ९
अथ पक्वाज्जुहोति सप्त ते अग्ने समिधस्सप्त जिह्वाः इति १०
अथा-ज्याहुतीरुपजुहोति येन देवाः पवित्रेण इति तिसृभिरनुच्छन्दसम् ११
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् १२
अथापरः आपरिधानात्कृत्वा पालाशीं समिधमाधायाव्रत्यप्रायश्चित्ते जुहोति १३
अथ व्याह्यतिभिर्जुहोति १४
अथापरः ब्राह्मणवचनादेव सावित्र्या शतकृत्वो घृतमभिमन्त्र्य प्राश्य कृतप्रायश्चित्तो भवति १५
गुरोर्वोच्छिष्टं भुञ्जीत १६
अथाप्युदाहरन्ति वपनं दक्षिणादानं मेखलादण्डमजिनं भैक्षाचर्या व्रतानि चैतानि निवर्तन्ते पुनस्संस्कारकर्मणीति १७
एते पुनस्संस्कारा व्याख्याताः १८
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने द्वादशोऽध्यायः