अथ प्रथमप्रश्ने एकादशोऽध्यायः
स यदि पुत्रप्रसूर्भवति प्रसिद्धमौपासने जातकर्म कृत्वाऽन्यत्र फलीकरणहोमं जुहोति स सूतकाग्निर्भवति १
तं दशाहं धारयति २
अथ नवम्यां व्युष्टायां सूतकाग्नावाज्यं विलाप्योत्पूय युगमुत्थापयति ब्रह्मजज्ञानम् इति ३
अथो-दकुम्भमुत्थापयति भूर्भुवस्सुवरोम् इति ४
अथैनमप्सु विसर्जयति समुद्रं वः प्रहिणोम्यक्षितास्स्वां योनिमपि गच्छत । अच्छिद्रः प्रजथा भूयासं मा परासेचि मत्पयः इति ५
अथैतेनैव यथेतमेत्य सूतकाग्निमुपतिष्ठते बोधा नो अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधा वः । पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तनुवं वन्दे अग्ने इति ६
अथ पुत्रप्रसूमुपतिष्ठते सबोधि सूरिर्मघवा वसुदा वा वसुपतिः । युयोध्यस्मद्द्वेषांसि इति ७
अथ कुमारमुत्थापयति उत्तिष्ठ ब्रह्मणस्पते । देवयन्तस्त्वेमहे । उपप्रयन्तु मरुतस्सुदानवः । इन्द्र प्राशूर्भवा सचा इति ८
अथैनमादायोपनिष्क्रम्य आदित्यमुदीक्षयति उद्वयं तमसस्परि उदुत्यं चित्रं तद्विष्णोः परमं पदम् इति चतसृभिः ९
अथ तेनैव यथेतमेत्य कुमारं मातृहस्ते दत्वा सूतकाग्ना वाज्यस्य जुहोति हिरण्यगर्भस्स-मवर्तताग्रे इत्यान्तादनुवाक्यस्य प्रत्यृचम् १०
उत्सृजसि सूतकाग्निम् २२
आयुर्दा अग्ने हविषो जुषाणः इत्यरण्योर्वा समारोपयते १२
तमुपनयने मन्थति १३
अथौपासनमुपतिष्ठते अग्न आयूंषि पवसे अग्ने पवस्व स्वपाः इति द्वाभ्याम् १४
ज्योतिष्मत्या पुत्रस्य नाम गृह्णाति अन्नादमेवैनं करोति इति ब्राह्मणम् १५
अथैनं मूÞर्यवघ्रायाभिमन्त्रयते अग्निरायुष्मान् इति पञ्चभिः पर्या यैः १६
प्रवासादेत्यागतं वा पुत्रमेतैरेवाभिमन्त्रयते १७
प्रसिद्धं दशम्यामुत्थानम् १८
दशम्यां द्वादश्यां वा नामकरणम् १९
नामकरणोपनिष्क्रामणान्नप्राशनानि ब्राह्मणभोजनादेवैकेषाम् २०
पुण्याहवाचनादेवैकेषाम् २१
प्रसिद्धे चौलोप नयने २२
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने एकादशोऽध्यायः