अथ प्रथमप्रश्ने दशमोऽध्यायः
विवाहो व्याख्यातः । अत्राग्न्याधेयस्य कालः १
यथाश्रद्धमत ऊर्ध्वं जीवति पितर्यग्नीनादधीतेति बोधायनः २
जीवति मृते वा जायामवाप्य दशमेऽहनीति शालीकिः ३
मा दुर्ब्राह्मणो भवति ४
अथाप्युदाहरन्ति यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् । स वै दुर्ब्राह्मणो नाम यश्चैव वृषलीपतिः । इति ५
औपासनो वा नित्यो धार्य इति न दुर्ब्राह्मणो भवति ६
औपासनं वा धार-यमाणो ब्रह्मौदनं कृत्वोत्त्सृज्य कर्मणि कर्मण्येवैनं पुनस्संस्कृत्याहरति ७
यद्यु वै नाधास्यमानो भवति नैनमुत्सृजति ८
अथ वै भवति अदितिः पुत्रकामा साध्येभ्यो देवेभ्यो ब्रह्मौदनमपचत्तस्या उच्छेषणमददुस्तत्प्रश्नात् इति ९
यस्य पत्नी गृहे ऋतुमती भवति तस्यैतद्व्रतं यथा विवाहे त्रिरात्रम् १०
एतावदेव नाना नात्र पत्नी दण्डेन सह शेते । न स्नाति । चतुर्थ्यां स्नाति । ब्रह्मौदनस्य च प्राश्नाति ११
यः कामयेत देवेभ्य ऋषिभ्यः पितृभ्योऽनृणो भूयासमिति तस्यैतद्व्रतमृतावृतौ भवति १२
पुंसवनं विष्णव आहुतीश्च नित्याः १३
पुंस-वनप्रभृत्याज्याभिघारितं पत्न्यश्नात्या प्रसवात् १४
अष्टममासमुष्णोदकेन स्नात्वा विष्णवे बलिमुपहृत्य व्रतयति १५
अथ पुत्रप्रसूर्भवतीति विज्ञायते १६
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने दशमोऽध्यायः