अथ प्रथमप्रश्ने नवमोऽध्यायः
अथ वै भवति किञ्चिद्यज्ञस्य वाऽतिवेलं वा श्रद्धायुक्तस्य तत्त्वविदः १
पात्रमासाद्य नक्षत्रे वा ब्राह्मणानाहूय सदर्भोपक्लुप्तेष्वासनेषूपवेश्यामन्त्रयते भवत्स्वेवाग्नौ करणं पिण्डाश्च इत्येव ब्रूयात् २
तथेत्युक्तस्तेषां सपवित्रेषु पाणिषु तिलोदकं ददाति । तथाऽलङ्कृत्य ददाति । तथैव भुक्तवत्सु च ददाति ३
नोच्छिष्टं परिससूहति ४
अत्र त्रीन् पिण्डान् ददाति ब्राह्मणेभ्यो दक्षिणतः ५
विज्ञायते च ब्राह्मणो वै सर्वा देवताः एष वा अग्निर्वैश्वानरो यद्ब्राह्मणः इति ६
हुतमेवास्य भवति ७
अथ यद्यग्नौ कुर्यादौपासने पचने वाऽन्नस्य तिस्र आहुतीर्जुहोति सोमाय पितृपीताय स्वधा नमस्स्वाहा । यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहा । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहा इति ८
हुतमेवास्य भवति ९
अपि वा सङ्कल्पेन ब्राह्मणान् भोजयेत् सङ्कल्पसिद्धिरस्तु इति वाचयित्वा १०
एवमापत्सु कुर्वीत न च नित्यं तु कारयेत् ये नित्या उपासते श्राद्धानि च हवींषि च ११
गामत्र कुर्यादिति बोधायनः १२
तस्या औपवसथ्यया कल्पो व्याख्यातः १३
आमिक्षया वैतत्क्रियत इति शालीकिः १४
अपूपेनेत्यौपमन्यवः १५
चरुणा वेत्योपमन्यवीपुत्रः १६
पितृणामनृणो भवति इति विज्ञायते १७
अथोप-निष्क्रम्य बाह्यानि चित्रियाण्यभ्यर्च्य त्रिवृताऽन्नेन ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा प्रतोदमिषुं च ब्राह्मणेभ्यो दत्त्वा प्रदक्षिणीकृत्य गृहानेत्य अध्वर्युं वृणीते कुनखिनमाङ्गिरसमिति १८
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने नवमोऽध्यायः