अथ प्रथमप्रश्ने अष्टमोऽध्यायः
अथ दशमोऽहन्ययुग्मा ब्राह्मणाः श्राविता भवन्ति १
अथ देवयजनो-ल्लेखनप्रभृत्याऽग्निमुखात् कृत्वा पक्वाज्जुहोति विश्वे देवाः विश्वे देवाः इति द्वाभ्याम् २
अथ वैश्वदेवं करोति ३
तूष्णीं सर्वाण्यायतनानि गन्धपुष्पधूपदीपैः प्रत्यलङ्करोति ४
प्रसिद्धं बलिहरणम् ५
वैश्वदेवं कृत्वाऽपरेणाग्निं दर्भेष्वासीनो दर्भान् धारयमाणः प्राङ्मुखस्सावित्रीं सहस्रकृत्य आवर्तयेच्छतकृत्वोऽपरिमि-तकृत्वो वा दशवारं वा ६
वेदादीन् छन्दांसि कूष्माण्ड्यानि चाधीयीत ७
अथ यज्ञसमृद्धीर्जुहोति इष्टेभ्यस्स्वाहा वषडनिष्टेभ्यस्स्वाहा इति ८
अष्टौ स्रवाहुतीर्हुत्वा स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ९
अथापरः आपरि-धानात्कृत्वा विश्वेभ्यो देवेभ्यः ब्राह्मणावुपवेश्य गन्धपुष्पधूपदीपैरभ्यर्च्य वैश्वदेवेन चरुणाऽनुदिश्य विश्वेभ्यो देवेभ्यस्स्वाहा इति १०
अथ प्राचीनावीतं कृत्वा सौवर्णं राजतं ताम्रायसकांस्यं मृन्मयं वा पात्रं याचति ११
तद्दक्षिणाग्रेषु दर्भेषु सादयित्वा तूष्णीं संस्कृताभिरद्भिरुत्तानं पात्रं कृत्वा प्रोक्ष्य तस्मिन् तिरः पवित्रमप आनयन्नाह आम आगन्तु पितरो देवयानान् समुद्रान् सलिलान् सवर्णानस्मिन् यज्ञे सर्वकामान् लभन्तेऽक्षीयमाणमुपदुह्यन्तामिमाः पितृभ्यो वो गृह्णामि पितामहेभ्यो वो गृह्णामि प्रपितामहेभ्यो वो गृह्णामि इति १२
अपोद्धुत्य पवित्रं तिलानावपति तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्नस्वधयेहि पितॄनिमान् लोकान् प्रीणयाहि नस्स्वधा नमः इति १३
अथ तिरः पवित्रं मध्वानयति मधु वाता ऋतायते इति तिसृभिरनुच्छन्दसम् १४
अथैनत्सर्वाभिरङ्गुलीभिस्समुदायुत्याभिमृशति सोमस्य त्वित्विषिरसि त-वेव मे त्विषिर्भूयादमृतमसि मृत्योर्मा पाहि दिद्योन्मा पाहि इति १५
तस्मिंश्चित्किञ्चिदापतितं स्यात्तदङ्गुष्ठेन च महानाम्न्या चोपसङ्गृह्येमां दिशं निरस्यति अवेष्टा दन्दशूका निरस्तं नमुचेश्शिरः इति १६
अथाप उपस्पृश्य पुनरेवाभिमृशति शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः इति १७
अथैनद्गन्धपुष्पधूपदीपैरभ्यर्च्य दक्षिणाम्रेषु दर्मैः प्रतिच्छाद्य भोज-नस्थानेष्वासनेषु च तिलान् सिकताश्च सम्प्रकिरति अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः इति १८
अथैनदद्भिरवोक्षति उदीरतामवर उत्परास उन्मध्यमाः । पितरस्सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु इति १९
अथ पितॄनावाहयति आयात पितरस्सोम्या गम्भीरैः पथिभिः पूर्व्यैः । प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च इति २०
अथ ब्राहमणानाहूय सदर्भोपकॢप्तेष्वासनेषूपवेश्य प्रसिद्धमग्नौ कृत्वा श्राद्धं पञ्च स्रुवाहुतीर्जुहोति याः प्राचीस्सं भवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधे स्वधा नमस्स्वाहा । अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या । दिवा दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमस्स्वाहा । अन्तर्दध ऋतुभिस्सर्वैरहोरात्रैस्ससन्धिकैः । अर्धमासैश्च मासैश्च मासैश्चान्तरन्यं प्रपिता-महाद्दधे स्वधा नमस्स्वाहा । यन्मे माता प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पिता वृङ्क्तां माऽऽभुरन्योऽवपद्यतां स्वधा नमस्स्वाहा । यद्वः क्रव्यादङ्गम-दहर्लोकाननयन् जातवेदाः । तद्वो अहं पुनरावेशयाम्यरिष्टास्सर्वैरङ्गैस्सम्भवथ पितरस्स्वधा नमस्स्वाहा इति २१
त्रेधा वपां विभज्यौदुम्बर्या दर्व्या जुहोति सोमाय पितृमते शुष्मिणे जुहुमो हविः । वाजन्निदं जुषस्व नस्स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा । अङ्गिरस्वन्तमूतये यमं पितृमन्तमाहुवे । वैवस्वतेदमद्धि नस्स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा । यदग्ने कव्यवाहन पितॄन्यक्षि ऋतावृधः । प्र देवेभ्यो वह हव्यं पितृभ्यश्च स्वजा हव्यं देवेभ्यः पितृभ्यस्स्वधा नमस्स्वाहा इति २२
अथापूपमष्टधा विभज्य त्रीण्यवदानानि वपायाः कल्पेन हुत्वाऽथेतराणि ब्राह्मणेभ्यो दत्वाऽत्रैतान्य-वदानानीडासूने प्रतिच्छाद्यौदनं मांसं यूषमित्याज्येन समुदायुत्यौदुम्बर्या दर्व्योपघातं दक्षिणार्धे जुहोति पितृभ्यस्स्वधा नमस्स्वाहा इत्यादिः । सर्वाभ्यस्स्वधा नमस्स्वाहा इत्यन्तो मन्त्र ऊह्यः २३
अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमस्स्वाहा इति २४
परिवेष्य भुक्तवतोऽनुव्रज्य प्रदक्षिणी-कृत्य शेषमनुज्ञाप्यैतेनैव यथेतमेत्यान्नशेषेण तिस्र आहुतीर्जुहोति यन्मे माता प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पिता वृङ्क्तां माऽऽभुरन्योऽवपद्यतां स्वधा नमस्स्वाहा २५
यन्मे पितामही प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पितामहो वृङ्क्तां माऽऽभुरन्योऽवपद्यतां स्वधा नमस्स्वाहा २७
यन्मे प्रपितामही प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः प्रपितामहो वृङ्क्तां माभुरन्योऽवपद्यतां स्वधा नमस्स्वाहा इति २६
दक्षिणेनाग्निं दक्षिणाग्रान् दर्भान् संस्तीर्य तेष्वन्नशेषैः त्रीन् पिण्डान् ददाति एतत्ते ततासौ ये ते मातामहा ये त आचार्यां ये ते गुरवो ये ते सखायो ये ते ज्ञातयो ये तेऽमात्या ये तेऽन्तेवासिनस्तेभ्यश्च पत्न्यस्तेभ्यस्ताभ्यश्च स्वधा नमः इति २८
द्वितीयं ददाति एतत्ते पितामहासौ ये ते मातामहा ये त आचार्या ये ते गुरवो ये ते सखायो ये ते ज्ञातयो ये तेऽमात्या ये तेऽन्तेवासिनस्तेभ्यश्च पत्न्यस्तेभ्यस्ताभ्यश्च स्वधा नमः इति २९
तृतीयं ददाति एतत्ते प्रपितामहासौ ये ते मातामहा ये त आचार्या ये ते गुरवो ये ते सखायो ये ते ज्ञातयो ये तेऽमात्या ये तेऽन्तेवासिनस्तेभ्यश्च पत्न्यस्तेभ्यस्ताभ्यश्च स्वधा नमः इति ३०
अत्र भूमौ लेपं निमार्ष्टि ये नः पतिता गर्भा असृग्भाज उपासते तेभ्यस्स्वजा स्वधा नमस्तृष्णुवन्तु मदन्तु च ३१
य आमा ये पक्वा ये च दुष्टाः पतन्ति नः तेभ्यस्स्वजा स्वधा नमस्तृष्णुवन्तु मदन्तु च ३२
ये कुमारा यास्त्रियो येऽविज्ञाताः पतन्ति नः तेभ्यस्स्वजा स्वधा नमस्तृष्णुवन्तु मदन्तु च इति ३३
अथैनान् सङ्क्षालनेनाभिषिञ्चति ये समानाः ये सजाताः इति द्वाभ्याम् ३४
अथ ये बर्हिषि पिण्डास्तेषां तथैव सङ्क्षालनेन त्रिरपसलैः परिषिञ्चति ऊर्जं वहन्तीः इति ३५
जयप्रभृति सिद्धमत ऊर्ध्वम् ३६
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने अष्टमोऽध्यायः