अथ प्रथमप्रश्ने सप्तमोऽध्यायः
अथ विवाहस्यारुन्धत्युपस्थानात्कृत्वा व्रतमुपैति अग्ने व्रतपत उपयमनव्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां वायो व्रतपते आदित्य व्रतपते व्रतानां व्रतपते उपयमनं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् इति १
उभौ जा-यापती व्रतचारिणौ भवतोऽधश्शयाते तयोश्शय्यामन्तरेणौदुम्बरदण्डो गन्धा-नुलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठत्यापक्वहोमान्निशायाम् २
हुते प-क्वहोमे व्रतं विसृज्य दण्डमुत्थापयति ऊर्जः पृथिव्या अध्युत्थितोऽसि वनस्पते शतवल्शो विरोह त्वया वयमिषमूर्जं वदन्तो रायस्पोषेण समिषा मदेम इति ३
अथैनं वध्वै प्रयच्छति प्रजया त्वा संसृजामि मासरेण सुरामिव इति ४
तं वधूः प्रतिगृह्णाति प्रजावती भूयासम् इति ५
अथैनं वराय प्रयच्छति प्रजया त्वा पशुभिस्संसृजामि मासरेण सुरामिव इति ६
तं वरः प्रतिगृह्णाति प्रजावान् पशुमान् भूयासम् इति ७
अथैनं स्थूणादेशे निधायान्तिकेन प्रतिपद्यते ८
प्रसिद्धमुपसंवेशनम् ९
श्वोभूते दण्डमादाय पुण्याहं वाचयि-त्वाऽप्सु विसर्जयति १०
अथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति अग्निर्मूर्धा भुवः इति द्वाभ्याम् ११
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् १२
स एष पार्वणो भवति १३
अथास्तमित आदित्येऽन्यो-न्यमलङ्कृत्योपरि शय्यायां शयाते १४
अथ वधूमभिमन्त्रयते सुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्वा याथास्तं विपरेतन इति १५
अथैनां सर्वसुरभिगन्धया मालया युनक्ति सं नौ मनस्सं हृदयानि नौ सं नाभिस्सं तनुत्वचः सं त्वा कामस्य योक्त्रेण युज्याम्यविमोचनाय इति १६
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने सप्तमोऽध्यायः