अथ प्रथमप्रश्ने षष्ठोऽध्यायः
सर्वत्र दर्वीहोमेष्वाघारवत्सु पुरोनुवाक्यामनूच्य याज्यया जुहोति सदेवत्वाय इति ब्राह्मणम् १
यत्रैकाऽऽम्नाता स्यात्तां द्विरभ्यावर्तयेत् २
तत्सवितुर्वरेण्यम् इत्यनुद्रुत्याम्नातायां जुहोति । अथ वा भूर्भुवस्सुवरोम् इत्यनुद्रुत्य तत्सवितु-र्वरेण्यम् इति जुहोति ३
अनाम्नातेषु तदेतत्सर्वप्रायश्चित्तम् ४
विष्णव आहुतीषु नामकरणोपनिष्क्रामणान्नप्राशनोपाकर्मव्रतेषु च पक्वहोमस्स्यान्नापक्वाः पाक-यज्ञास्सर्वत्र पक्वहोमं कुर्यादिति ५
एतेन होमदानप्राशनानि व्याख्यातानि भवन्ति पक्वाज्जुहोति पक्वाद्ददाति पक्वात्प्रश्नातीति पाकयज्ञास्तस्माद्धुत-प्रहुताहुतेषु पक्वः कार्य इति ६
एकविंशतिदारुमिध्मं करोति यज्ञस्य सरू-पत्वाय ७
अभिघारयति तेजसैवैनं समर्धयति इति ब्राह्मणम् ८
अरत्निमात्रीं दर्वीं बाहुमात्रीमित्यपरम् ९
अथ वै भवति निरृतिगृहीता वै दर्वी यद्दर्व्या जुहुयान्निरृत्याऽस्य यज्ञं ग्राहयेत् इति दर्व्याऽन्नस्य जुहोति स्रुवेणाज्यस्य वैकङ्कती स्रुगाकृतिर्भवति इति विज्ञायते १०
अथाप्युदाहरन्ति यथा सुभूमिजो वृक्षस्सुमूलस्सुप्रतिष्ठितः बहुशाखस्सुपुष्पश्च फलवानुपयुज्यते ११
देवदानवगन्धर्वैः ऋषिभिः पितृभिस्तथा पक्षिभिः षट्पदैश्चापि मशकैश्च पिपीलिकैः १२
एवं हि पाकयज्ञेषु सर्वमेतत्प्रतिष्ठितम् हुतस्सुभूमिर्विज्ञेया मूलं प्रहुत उच्यते १३
आहुतोत्र प्रतिष्ठानं यज्ञवृक्षो महोच्छ्रयः बह्व्यस्तस्य स्मृताश्शाखास्सुपुष्पास्सुफलोपगाः १४
मन्त्रब्राह्मणतत्त्वज्ञैस्सुदृष्टास्ता उपासकैः एवं हि यज्ञवृक्षस्य योऽभिज्ञः श्रोत्रियस्स्मृतः १५
दारस्याहरणं कुर्यात्कर्मेत्येवं विपश्चितः सुभूमिं च सुमूलं च सुप्रतिष्ठानमेव च १६
वृक्षं पुष्पफलोपेतं बहुशाखं स पश्यति ज्ञानं सुभूमिराचारो मूलं श्रद्धा प्रतिष्ठितिः १७
क्षमाऽहिंसा दमश्शाखाः सत्यं पुष्पफलोपगम् ज्ञानोपभोग्यं बुद्धानां गृहिणां यज्ञपादपम् १८
अकामहतया बुद्ध्या त्यक्ताहङ्कारलोभया निश्चयाध्यवसायाभ्यां चक्षुर्भ्यां स तु पश्यति १९
तस्यैको वज्रसङ्काशः क्रोधः परशुरुच्यते तेनैव माच्छिनन् मोहात् त्याज्यः क्रोधो गृहेष्वतः २०
गृहा मूलं हि यज्ञानां गृहा ह्यानृण्यकारणम् गृहाह्याश्रमपूजार्थं स्थित्यर्थं च गृहास्स्मृताः २१
पाकयज्ञा हविर्यज्ञास्सोमयज्ञाश्च ते त्रयः स्थिता मूलेषु वृक्षेषु प्रमादी तेषु सीदति । इति इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने षष्ठोऽध्यायः