०५

अथ प्रथमप्रश्ने पञ्चमोऽध्यायः

अथ शुचौ समे देशे इति कथं विज्ञायते १ गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्तं भवति तच्छुचिर्भवति २
तस्य मध्यात् उद्धृत्यावोक्ष्या-रत्निमात्रं समचतुरतुरश्रं स्थण्डिलं करोति । तत्रोल्लेखनादि कर्म प्रतिपद्यते ३ दर्भेषु दक्षिणतो ब्राह्मण उपविशति । स यद्युपविशत्यादिशो व्युन्नय-न्नाशास्ते ४
यद्यु वै नोपविशति दर्भेषु दक्षिणतः प्रागग्रं कूर्चं निधाय ॐ भूर्भुवस्सुवरॐ ब्रह्मन् ब्रह्मासि नमस्ते ब्रह्मणे इत्युपतिष्ठते ब्रह्मैवात्रासीनो भवति तस्मै वरं ददाति ब्राह्मणं वा भोजयेदिति ५
एतेन सशिरस्को यज्ञः यो वै यज्ञस्य शिरो वेद शीर्षण्वान् मेध्यो भवति इति ६
उत्तरत उदपात्रं ब्राह्म-णमिध्माबर्हिरिति एतद्वै यज्ञस्य शिरो य एवं वेद शीर्षण्वान् मेध्यो भवति इति ब्राह्मणम् ७
अथ शम्याः परिदधाति शम्या वा परिधयो वा इति विज्ञायते । नापरिधाय जुहुयात् रक्षसामपहत्यै इति ८ सर्वत्र परिसमूहनपर्युक्षणपरि-स्तरणपरिधानोपसमाधानालङ्करणमित्यादरादाचार्याः ९
सर्वत्रालङ्कृत्य ये तत्र ब्राह्मणास्सन्ति ताननुज्ञाप्य कुर्वीत यत्कारी स्यात् समृद्धमेवास्य तत् १०
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने पञ्चमोऽध्यायः