०४

अथ प्रथमप्रश्ने चतुर्थोऽध्यायः

अथापरेद्युर्देवानामिति १
अथापरेद्युर्ब्राह्मणानन्नेन परिवेषयेदिति दैवतं भवति २
यद्देवत्यं भवति तस्य पुण्याहं वाचयिष्यन्नाम गृह्णात्यसौ प्रीयतामिति ३
पुण्याहं वाचयिष्यन् ब्राह्मणान् सम्पूजयति ४
अरिक्तपाणयः प्राङ्मुखा युग्मास्तिष्ठन्ति ५
तेषां दक्षिणत उदङ्मुखोऽपिहितमुदकुम्भं धारयन् वाचयिता तिष्ठति ६
तस्य दक्षिणं बाहुमन्वितरस्तिष्ठति ७
अथैनान् सम्पूजयति मनस्समाधीयताम् इति ८
समाहितमनसः स्मः इतीतरेषां प्रतिवचनम् ९
मनो वै चन्द्रमा ब्राह्मणा नक्षत्राणि तस्माद्ब्राह्मणेषु मनस्समादधाति १० प्रसीदन्तु भवन्तः इति । प्रसन्नास्स्मः इतीतरेषां प्रतिवचनम् ११ तथैवास्य प्रसन्ना भवन्ति १२
शान्तिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । ऋद्धिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । शिवं कर्मास्तु इत्याशिषमेवैतामाशास्ते १३
तथैवेतरेषां प्रतिवचम् १४
ओमिति ब्रह्म । ओमितीदं सर्वम् तस्मादोमिति सन्धाय पुण्याहं भवन्तो ब्रुवन्तु इत्येतेनाहश्च नक्षत्रं च पूते भवतस्ते एवैनं पूते पुनीतः १५
ॐ स्वस्ति भवन्तो ब्रुवन्तु इत्येतेन गोब्राह्मणस्याशीरुक्ता भवति । त एवैनमशिषा समर्धयन्ति १६
ऋद्धिं भवन्तो ब्रुवन्तु इत्येतेन ऋग्यजुस्साम्नामृद्धिरुक्ता । तैरेव ऋद्धिमान् भवति १७
य एवं विद्वान् पुण्याहं वाचयति नास्य कर्मोपहतं भवति १८
यत्कर्म करोत्यपरेणाग्निं प्रदक्षिणमुपचारो यज्ञोपवीती दैवानि कर्माणि क्रियते विपरीतं पित्र्येषु १९
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने चतुर्थोऽध्यायः