०३

अथ प्रथमप्रश्ने तृतीयोऽध्यायः

विष्णुश्च ह वै सोमश्च ब्रह्मवाद्यमवदेतामहं ब्राह्मणानां प्रतिष्ठेति विष्णुरब्रवीदहं प्रतिष्ठेति सोमस्तौ प्रजापतिं प्रश्नमैतां सोऽब्रवीत्प्रजापतिश्छन्दांसि विष्णुम-धिगच्छन्ति नक्षत्राणि सोमं तावुभौ ब्रह्मण्याविति सोऽब्रवीत्पूजितौ पूजयन्तॐ स्तुतौ स्तुन्वन्तौ प्रियौ प्रियन्तौ ब्रह्मण्यौ ब्रह्मवित्तौ वरप्रतिष्ठातारौ भवत इति १ यन्मां ब्राह्मणा वक्ष्यन्ति यज्ञेषु सोऽहमिति विष्णुरब्रवीत्तस्माद्विष्णुर्यज्ञो यज्ञो वै ब्राह्मणानां प्रतिष्ठेति । विज्ञायते च ब्राह्मणा वै छन्दांसि इत्येतस्मात् २
यन्मां ब्राह्मणा वक्ष्यन्ति नक्षत्रेषु सोऽहमिति सोमोऽब्रवीत्तस्माद्ब्राह्मणानां सोमो राजा तस्माद्विज्ञायते च ब्राह्मणो वा अष्टाविंशो नक्षत्राणां तत्तस्य वचः पुण्यम् इति ३ तावुभौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ ब्राह्मणेषु प्रतिष्ठितौ ४
य एवं विद्वान् ब्राह्मणपुरस्कृतानि कर्माणि करोति यज्ञस्य समृद्ध्या इति ५
युग्ममयुग्ममिति समं विषमं चैतेन देवं पित्र्यं च व्या-ख्यातम् ६
वेदकर्माणि प्रयोक्ष्यन्नादित एव तीर्थे स्नात्वोदेत्याहतं वासः परिधायाप अचम्यैकविंशत्या दर्भपुञ्जीलैरात्मानं पवयित्वा यस्य कुर्वन् भवति तं पवयति पवित्रं वै दर्भाः पवित्रं विष्णुस्स प्रतिष्ठा सोमस्य प्रतिष्ठित्यै इति विज्ञायते ७
एकविंशत्या पवयत्येकविंशो वै यज्ञ एकविंशः पुरुष एकविंश-तिश्छन्दांस्येकविंशतिर्वै देवलोकाः छन्दोभिरेवैनं यज्ञेन यजमानमेकविंशे प्रतिष्ठाप्य पूतं मेध्यं यज्ञियं पवयति । सप्तभिः पवयति सप्त छन्दांसि छन्दोभिरेवैनं पवयति । सप्तभिः पवयति सप्तैवास्यैते पुरुषास्सन्तति-मनुसन्तन्वन्ति त्रयः प्राञ्चस्त्रयः प्रत्यञ्च आत्मा सप्तम एतावन्त एवैनान् पवयति । त्रेधा विभक्तैः पवयति त्रय इमे लोका एभिरेवैनं लोकैः पवयति इति ब्राह्मणम् ८
अथाप आचम्य बाह्याभ्यन्तरतः पूतो मेध्यो यज्ञियो भूत्वा वेदकर्माणि प्रयोक्ष्यन् पूर्वेद्युरेव युग्मान् ब्राह्मणान् भोजयेदिति नान्दीमुखा एवैता उक्ता भवन्ति ९
तेषु भुक्तवत्सु स्वधायै स्थाने मधु मनिष्ये मधु जनिष्ये इत्येतद्यजुर्जपित्वा नान्दीमुखाः पितरः प्रीयन्ताम् इत्यपो निनयति स्वधैवैषोक्ता भवति २०
नैकाह्ना पित्र्यम् दैवं च कुर्वन्ति यस्यैकाह्ना पित्र्यं दैवं च कुर्वन्ति प्रजा हास्य प्रमायुका भवति तस्मात्पितृभ्यः पूर्वेद्युः क्रियते पितृभ्य एव तद्यज्ञं निष्क्रीय यजमानः प्रतनुते इति ब्राह्मणम् ११
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने तृतीयोऽध्यायः