०२

अथ प्रथमप्रश्ने द्वितीयोऽध्यायः

अथ वै भवति सर्वेण वै यज्ञेन देवास्सुवर्गं लोकमायन् इति स एष हुतादिरासहस्रसंवत्सरान्तस्सर्वो यज्ञो यो हि यद्वेद स्वाध्यायजपकर्ममानसेषु तेनैवास्य तद्गुणेनेष्टं भवतीति तदेतन्मन्त्रब्राह्मणं व्याख्यातम् १
अथ वै भवति देवा वै पुष्टिं नाविन्दन्तां मिथुनेऽपश्यन् इत्येताद्विज्ञाय दारानाहृत्य सर्वयज्ञ-भाजो भवन्तीति व्याख्यातो यज्ञः २
प्रजया पितृभ्यः इति अथास्य प्रजा भवन्ति यानुत्पादयते यानुपनयते यान् ध्यापयते यान् याजयते इति सर्वाऽस्यैषा प्रजा भवतीति प्रजा व्याख्याता ३
एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी इत्याहिताग्निरित्येवैष उक्तो भवति ४
अथाप्युदाहरन्ति पुदिति नरकस्याख्या दुःखं च नरकं विदुः पुदि त्राणात्ततः पुत्त्रमिहेच्छिन्ति परत्र च न मांसपेशलः पुत्त्रो नाविद्वान् नाप्यकर्मकृत् स्वयं न याति यस्स्वर्गं किं पुनः पितरं तरेत् इति ५ विज्ञायते अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्रे पुत्रः पित्रे लोककृज्जातवेदः इति ६ एतस्माद्गार्हपत्य उक्तो भवति गार्हपत्यादाहवनीयस्तस्मादग्न्याधेयेनानृण आहवनीयादिति प्रणीतः तस्मात् पशुबन्धयाज्यनृणश्शालामुखीयादाग्नीध्रीय आग्नीध्रीयादपरे धिष्ण्याः ७
विभूरसि प्रवाहणः इत्येते विहरणोपस्थानीयाः एषाऽस्य दैवी प्रजा भवति इति तस्मात्सोमयाज्यनृणः ८
तस्मात् गृहस्थस्य सर्व एवैते यज्ञास्तस्मा-द्गृहाश्श्रेय इति ९
अथास्य श्रेयोऽवाप्तिरापूर्यमाणपक्ष इति पूर्वपक्ष एवैष उक्तो भवति सोमेनापूर्यमाणेन व्याख्यातः १० अहोरात्राणि वा वृद्धिमन्ति ह्रासवन्ति च भवन्ति । यत्राह्नां वृद्धिर्भवति स एवैष उक्तो भवतीति ११
अथ हैकेषां विज्ञायतेऽह्नः पञ्चसु कालेषु कुर्वीतेत्युदगयन इत्येवेदमुक्तं भवति १२
संवत्सरो वै देवानामहोरात्रं तस्यैतदुदगयनमहः दक्षिणायनं रात्रि-स्तस्याह्नः पञ्चसु कालेषु कुर्वीतेति तस्य प्रातस्सङ्गवौ शिशिरवसन्तौ मध्यन्दिनं ग्रीष्मोऽपराह्णसायाह्ने वर्षाशरदौ प्रातस्सङ्गवे सायमिति विवाहं न कुर्वन्ति । काममितराणि १३
अथान्यत्रापि कुर्वन् भवति पुण्ये नक्षत्र इति । देवनक्षत्राणि वा अन्यानि । यमनक्षत्राण्यन्यानि । यानि देवनक्षत्राणि । तेषु कुर्वीत यत्कारी स्यात् इत्येवेदमुक्तं भवति १४
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने द्वितीयोऽध्यायः