अथ वै भवति जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः इति १
ब्रह्मचर्य व्याख्यास्यामः २
आ समावर्तनादेवैतद्भवति नाचीर्णव्रतो ब्रह्मचारी भवति इति तदाश्रमो व्याख्यातः ३
अत ऊर्ध्वं ब्रह्मचर्यं येनानृणो भवति ४
स्वदार इत्येकम् ५
मन्त्रवत्प्रयोग इत्येकम् ६
ऋतावित्यपरम् ७
अथाधिब्रह्मचर्यम् विवाहे त्रिरात्रम् ८
ऋतौ त्रिरात्रम् ९
अमावास्यायां पौर्णमास्यां श्राद्धं दत्वा भुक्त्वा चैकरात्रम् १०
परस्त्रीषु दिवा च यावज्जीवम् ११
अग्न्याधेये द्वादशरात्रम् १२
आग्रयणेष्टिपशुबन्धानामुपवसथेष्वेकरात्रम् १३
एवमेव सर्वेषु वेदकर्मसु १४
चातुर्मास्येषु संवत्सरम् १५
यथाप्रयोगमन्येषु यज्ञक्रतुष्वन्यत्रर्तौ दीर्घसत्रेषु घर्मव्रतेषु च १६
तदेतद्धर्म्यं पुण्यं पुत्र्यमायुष्यं स्वर्ग्यं यशस्यमानृण्यमिति व्याख्यातं ब्रह्मचर्यम् १७
यज्ञेन देवेभ्यः इति यज्ञं व्याख्यास्यामः १८
एकविंशतिसंस्थो यज्ञ ऋग्यजुस्सामात्मकश्छन्दोभिश्चितो ग्राम्यारण्यपश्वौष-धीभिर्हविष्मान् दक्षिणाभिरायुष्मान् १९
स चतुर्धा ज्ञेय उपास्यश्च स्वाध्यायज्ञो जपयज्ञः कर्मयज्ञो मानसश्चेति २०
तेषां परस्पराद्दशगुणोत्तरो वीर्येण २१
ब्रह्मचारिगृहस्थवनस्थयतीनामविशेषेण प्रत्येकशः २२
सर्व एवैते गृहस्थ-स्याप्रतिषिद्धाः क्रियात्मकत्वात् २३
नाक्रियो ब्राह्मणो नासंस्कारो द्विजो नाविद्वान् विप्रो नैतैः हीनश्श्रोत्रियो नाश्रोत्रियस्य यज्ञ इति २४
तस्मादाचारः प्रमाणं संस्था आचारः क्रिया सन्ततिरिति नित्याभावात् २५
तस्माद्यः कश्चन क्रियावान् सतामनुमताचारस्स श्रोत्रिय एव विज्ञेयः १६
अथाप्युदाहरन्ति निषेके गर्भसंस्कारे जातकर्मक्रियासु च विधिवत्संस्कृता मन्त्रैश्चीर्णव्रतसमापनाः श्रोत्रिया इति ते ज्ञेयाश्शाखापाराश्च ये द्विजाः विधिवद्गृह्य ये पाणिमृतौ चीर्णव्रतावुभौ मन्त्रवत्सम्प्रयोगे तौ ब्राह्मण्य गर्भमादधुः इति २७
तस्मादाचारः प्रमाणम् २८
इति बोधायनीये गृह्यपरिभाषासूत्रे प्रथमप्रश्ने प्रथमोऽध्यायः