विभक्त-मूलम्

उपदिष्टो धर्मः प्रति-वेदम् ॥
तस्य+अनु व्याख्यास्यामः ॥
स्मार्तो द्वितीयः ॥
तृतीयः शिष्ट-आगमः ॥
शिष्टाः खलु विगत-मत्सरा निरहङ्काराः कुम्भी-धान्या अलोलुपा दम्भ-दर्प-लोभ-मोह-क्रोध-विवर्जिताः ॥
धर्मेण+अधिगतो येषां वेदः सपरिबृंहणः ।
शिष्टास् तद्-अनुमान-ज्ञाः श्रुति-प्रत्यक्ष-हेतवः ॥ इति ॥[cf. Va 6,43; M 12,109]
तद्-अभावे दश-अवरा परिषत् ॥
अथ+अपि+उदाहरन्ति ।
चातुर्वैद्यं विकल्पी च अङ्ग-विद् धर्म-पाठकः ।
आश्रम-स्थास् त्रयो विप्राः पर्षद् एषा दश-अवरा ॥
पञ्च वा स्युस् त्रयो वा स्युर् एको वा स्याद् अनिन्दितः ।
प्रतिवक्ता तु धर्मस्य न+इतरे तु सहस्रशः ॥
यथा दारुमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मणश् च+अनधीयानस् त्रयस् ते नाम-धारकाः ॥
यद् वदन्ति तमस्-मूढा मूर्खा धर्मम् अजानतः ।
तत् पापं शतधा भूत्वा वक्तॄन् समधिगच्छति ॥
बहु-द्वारस्य धर्मस्य सूक्ष्मा दुरनुगा गतिः ।
तस्मान् न वाच्यो ह्य् एकेन बहुज्ञेन+अपि संशये ॥
धर्म-शास्त्र-रथ-आरूढा वेद-खड्ग-धरा द्विजाः ।
क्रीड-अर्थम् अपि यद् ब्रूयुः स धर्मः परमः स्मृतः ॥
यथा+अश्मनि स्थितं तोयं मारुत-अर्कौ प्रणाशयेत् ।
तद्वत् कर्तरि यत् पापं जलवत् सम्प्रलीयते ॥
शरीरं बलम् आयुश् च वयः कालं च कर्म च ।
समीक्ष्य धर्मविद् बुद्ध्या प्रायश्चित्तानि निर्दिशेत् ॥
अव्रतानाम् अमन्त्राणां जाति-मात्र-उपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ इति ॥
पञ्चधा विप्रतिपत्तिर् दक्षिणतस् तथा+उत्तरतः ॥
यानि दक्षिणतस् तानि व्याख्यास्यामः ॥
यथा+एतद् अनुपेतेन सह भोजनं स्त्रिया सह भोजनं पर्युषित-भोजनं मातुल-पितृ-स्वसृ-दुहितृ-गमनम् इति ॥
अथ+उत्तरत ऊर्णा-विक्रयः सीधु-पानम् उभयतस्-दद्भिर् व्यवहार आयुधीयकं समुद्र-संयानम् इति ॥
इतरद् इतरस्मिन् कुर्वन् दुष्यति+इतरद् इतरस्मिन् ॥
तत्र तत्र देश-प्रामाण्यम् एव स्यात् ॥
मिथ्या+एतद् इति गौतमः ॥
उभयं च+एव । न+आद्रियेत शिष्ट-स्मृति-विरोध-दर्शनात् ॥
प्राग् आदर्शात् प्रत्यक् कनखलाद् [K: कालकवनाद् ] दक्षिणेन हिमवन्तम् उदक् पारियात्रम् एतद् आर्यावर्तम् । तस्मिन् य आचारः स प्रमाणम् ॥
गङ्गा-यमुनयोर् अन्तरम् इत्य् एके ॥
अथ+अप्य् अत्र भाल्लविनो गाथाम् उदाहरन्ति ॥
पश्चात् सिन्धुर् विधरणी सूर्यस्य+उदयनं पुरः ।
यावत् कृष्णा विधावन्ति तावद् धि ब्रह्मवर्चसम् ॥ इति ॥
अवन्तयस्+अङ्ग-मगधाः सुराष्ट्रा दक्षिणापथाः ।
उपावृत्-सिन्धु-सौवीरा एते सङ्कीर्ण-योनयः ॥
आरट्टान् कारस्करान् पुण्ड्रान् सौवीरान् वङ्गान् कलिङ्गान् प्रानूनान् इति च गत्वा पुनस्तोमेन यजेत सर्वपृष्ठया वा ॥
अथ+अप्य् उदाहरन्ति ।
पद्भ्यां स कुरुते पापं यः कलिङ्गान् प्रपद्यते ।
ऋषयो निष्कृतिं तस्य प्राहुर् वैश्वानरं हविः ॥
बहूनाम् अपि दोषाणां कृतानां दोष-निर्णये ।
पवित्र-इष्टिं प्रशंसन्ति सा[! disagreement] हि पावनम् उत्तमम् ॥ इति ॥
अथ+अप्य् उदाहरन्ति ।
वैश्वानरीं व्रातपतीं पवित्र-इष्टिं तथा+एव च ।
ऋतौ+ऋतौ प्रयुञ्जानः पापेभ्यो विप्रमुच्यते ॥ पापेभ्यो विप्रमुच्यत इति ॥
1.2
अष्टाचत्वारिंशद् वर्षाणि पौराणं वेद-ब्रह्मचर्यम् ॥
चतुर्विंशतिं द्वादश वा प्रति-वेदम् ॥
संवत्सर-अवमं वा प्रति-काण्डम् ॥
ग्रहण-अन्तं वा जीवितस्य+अस्थिरत्वात् ॥
कृष्णकेशस्+अग्नीन् आदधीत+इति श्रुतिः ॥
न+अस्य कर्म नियच्छन्ति किञ्चिद् आ मौञ्जि-बन्धनात् ।
वृत्त्या शूद्र-समो ह्य् एष यावद् वेदेन जायते ॥+इति ॥
गर्भ-आदिः सङ्ख्या वर्षाणाम् । तद्-अष्टमेषु ब्राह्मणम् उपनयीत ॥
त्र्य्-अधिकेषु राजन्यम् ॥
तस्माद् एक-अधिकेषु वैश्यम् ॥
वसन्तो ग्रीष्मः शरद् इत्य् ऋतवो वर्ण-आनुपूर्व्येण ॥
गायत्री-त्रिष्टुब्-जगतीभिर् यथा-क्रमम् ॥
आ षोडशाद् आ द्वाविंशाद् आ चतुर्विंशाद् अनात्यय एषां क्रमेण ॥
मौञ्जी धनुर्-ज्या शाणी+इति मेखलाः ॥
कृष्ण-रुरु-बस्त-अजिनान्य् अजिनानि ॥
मूर्ध-ललाट-नासाग्र-प्रमाणा याज्ञिकस्य वृक्षस्य दण्डाः ॥
भवत्-पूर्वां भिक्षा-मध्यां याच्ञा-अन्तां भिक्षां चरेत् सप्त-अक्षरां क्षां च हिं च न वर्धयेत् ॥
भवत्-पूर्वां ब्राह्मणो भिक्षेत भवन्-मध्यां राजन्यो भवद्-अन्तां वैश्यः सर्वेषु वर्णेषु ॥
ते ब्राह्मण-आद्याः स्वकर्मस्थाः ॥
सदा+अरण्यात् समिध आहृत्य+आदध्यात् ॥
सत्यवादी ह्रीमान् अनहङ्कारः ॥
पूर्व-उत्थायी जघन्य-संवेशी ॥
सर्वत्र+अप्रतिहत-गुरुवाक्यस्+अन्यत्र पातकात् ॥
यावद्-अर्थ-सम्भाषी स्त्रीभिः ॥
नृत्त-गीत-वादित्र-गन्ध-माल्य-उपानच्-छत्त्र-धारण-अञ्जन-अभ्यञ्जन् अ-वर्जी ॥
दक्षिणं दक्षिणेन सव्यं सव्येन च+उपसङ्गृह्णीयात् ॥
दीर्घम् आयुः स्वर्गं च+ईप्सन् कामम् अन्यस्मै साधु-वृत्ताय गुरुणा+अनुज्ञातः ॥
असाव् अहं भो इति श्रोत्रे संस्पृश्य मनः-समाधान-अर्थम् ॥
अधस्ताज् जान्वोर् आ पद्भ्याम् ॥
न+आसीनो न+आसीनाय न शयानो न शयानाय न+अप्रयतो न+अप्रयताय ॥
शक्ति-विषये मुहूर्तम् अपि न+अप्रयतः स्यात् ॥
समिद्-धारी+उदकुम्भ-पुष्प-अन्न-हस्तो न+अभिवादयेद् यच् च+अन्यद् अप्य् एवं-युक्तम् ॥
न समवाये+अभिवादयेद् अत्यन्तशः ॥
भ्रातृ-पत्नीनां युवतीनां च गुरु-प्त्नीनां जात-वीर्यः ॥
नौ-शिला-फलक-कुञ्जर-प्रासाद-कटेषु चक्रवत्सु च+अदोषम् सह-आसनम् ॥
प्रसाधन-उत्सादन[K: उच्छादन ]-स्नापन-उच्छिष्टबोजनानि+इति गुरोः ॥
उच्छिष्ट-वर्जनं[K: वर्जं ] तत्-पुत्रे+अनूचाने वा ॥
प्रसाधन-उत्सादन[K: उच्छादन ]-स्नापन-वर्जनं[ K: वर्जं ] च तत्-पत्न्याम् ॥
धावन्तम् अनुधावेद् गच्छन्तम् अनुगच्छेत् तिष्ठन्तम् अनुतिष्ठेत् ॥
न+अप्सु श्लाघमानः [K: श्लघमानः ] स्नायात् ॥
दण्ड इव प्लवेत् ॥
अब्राह्मणाद् अध्ययनम् आपदि ॥
शुश्रूषा+अनुव्रज्या च यावद्-अध्ययनम् ॥
तयोस् तद् एव पावनम् ॥
भ्रातृ-पुत्र-शिष्येषु च+एवम् ॥
ऋत्विज्-श्वशुर-पितृव्य-मातुलानां तु यवीयसां प्रत्युत्थाय-अभिभाषणम् ॥
प्रत्यभिवाद इति कात्यः ॥
शिशाव् आङ्गिरसे दर्शनात् ॥
धर्म-अर्थौ यत्र न स्यातां शुश्रूषा वा+अपि तद्विधा ।
विद्यया सह मर्तव्यं न च+एनाम् ऊषरे वपेत् ॥[cf. M 2,112]
अग्निर् इव कक्षं दहति ब्रह्म पृष्टम् अनादृतम् ।
तस्माद् वै शक्यं न ब्रूयाद् ब्रह्म मानम् अकुर्वताम् ॥ इति ॥
एव+अस्मै [K: अत्र +एव +अस्मै ] वचो वेदयन्ते ॥
ब्रह्म वै मृत्यवे प्रजाः प्रायच्छत् । तस्मै ब्रह्मचारिणम् एव न प्रायच्छत् । सस्+अब्रवीद् अस्तु मह्यम् अप्य् एतस्मिन् भाग इति । याम् एव रात्रिं समिधं न+आहरातै+इति ॥
तस्माद् ब्रह्मचारी यां रात्रिं समिधं न+आहरत्य् आयुष एव ताम् अवदाय वसति । तस्माद् ब्रह्मचारी समिधम् आहरेन् नेद् आयुषस्+अवदाय वसानि+इति ॥
दीर्ग-सत्त्रं वै+एष उपैति यो ब्रह्मचर्यम् उपैति । स याम् उपयन् समिधम् आदधाति सा प्रायणीया+अथ यां स्नास्यन् सा+उदयनीया+अथ या अन्तरेण सत्त्र्या एव+अस्य ताः ॥
ब्राह्मणो वै ब्रह्मचर्यम् उपयन्+चतुर्धा भूतानि प्रविशत्य् अग्निं पदा मृत्युं पदा+आचार्यं पदा+आत्मन्य् एव+अस्य चतुर्थः पादः परिशिष्यते ।
स यद् अग्नौ समिधम् आदधाति य एव+अस्य+अग्नौ पादस् तम् एव तेन परिक्रीणाति तं संस्कृत्य+आत्मन् धत्ते स एनम् आविशति ।
अथ यद् आत्मानं दरिद्री-क्रित्य+अह्रीर् भूत्वा भिक्षते ब्रह्मचर्यं चरति य एव+अस्य मृत्यौ पादस् तम् एव तेन परिक्रीणाति तं संस्कृत्य+आत्मन् धत्ते स एनम् आविशति ।
अथ यद् आचार्य-वचः करोति य एव+अस्य+आचार्ये पादस् तम् एव तेन परिक्रीणाति तं संस्कृत्य+आत्मन् धत्ते स एनम् आविशति ।
अथ यत् स्वाध्यायम् अधीते य एव+अस्य+आत्मनि पादस् तम् एव तेन परिक्रीणाति तं संस्कृत्य+आत्मन् धत्ते स एनम् आविशति
न ह वै स्नात्वा भिक्षेत । अपि ह वै स्नात्वा भिक्षां चरत्य् अपि ज्ञातीनाम् अशनाया+अपि पितॄणाम् अन्याभ्यः क्रियाभ्यः ।
स यद् अन्यां भिक्षितव्यां न विन्देत+अपि स्वाम् एव+आचार्य-जायां भिक्षेत+अथो स्वां मातरम् ।
न+एनं सप्तम्य् अभिक्षिता+अतीयात् ।
भैक्षस्य+अचरणे दोषः पावकस्य+असमिन्धने ।
सप्त-रात्रम् अकृत्वा+एतद् अवकीर्णि-व्रतं चरेत् ॥
तम् एवं विद्वांसम् एवं चरन्तं सर्वे वेदा आविशन्ति ॥
यथा ह वा अग्निः समिद्धो रोचते+एवं ह वै+एष स्नात्वा रोचते य एवं विद्वान् ब्रह्मचर्यं चरति+इति ब्राह्मणम् । इति ब्राह्मणम् ॥
1.3
अथ स्नातकस्य ॥
अन्तर्वास उत्तरीयम् ॥
वैणवं दण्डं धारयेत् ॥
स-उदकं च कमण्डलुम् ॥
द्वि-यज्ञोपवीती ॥
उष्णीषम् अजिनम् उत्तरीयम् उपानहौ छत्त्रं च+उपासनं दर्शपूर्णमासौ ॥
पर्वसु च केश-श्मश्रु-लोम-नख-वापनम् ॥
तस्य वृत्तिः ॥
ब्राह्मण-राजन्य-वैश्य-रथकारेष्व् आमं लिप्सेत ॥
भैक्षं वा ॥
वाग्यतस् तिष्ठेत् ॥
सर्वाणि च+अस्य देव-पितृ-संयुक्तानि पाकयज्ञ-संस्थानि भूतिकर्मानि कुर्वीत+इति ॥
एतेन विधिना प्रजापतेः परमेष्ठिनः परम-ऋषयः परमां काष्ठां गच्छन्ति+इति बौधायनः ॥
1.4
अथ कमण्डलु-चर्याम् उपदिशन्ति ॥
छागस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे ।
अप्सु च+एव कुश-स्तम्बे पावकः परिपठ्यते ॥
तस्मात्+शौचं कृत्वा पाणिना परिमृजीत पर्यग्निकरणं हि तत् । उद्दीप्यस्व जातवेद इति पुनर्-दाहाद् विशिष्यते ॥
तत्र+अपि किञ्चित् संस्पृष्टं मनसि मन्येत [K: मन्यते ] कुशैर् वा तृणैर् वा प्रज्वाल्य प्रदक्षिणं परिदहनम् ॥
अत ऊर्ध्वं श्व-वायस-प्रभृत्य्-उपहतानाम् अग्नि-वर्ण इत्य् उपदिशन्ति ॥
मूत्र-पुरीष-लोहित[K: रोहित ]-रेतः-प्रभृत्य्-उपहतानाम् उत्सर्गः ॥
भग्ने कमण्डलौ व्याहृतिभिः शतं जुहुयाज् जपेद् वा ॥
भूमिर् भूमिम् अगान् माता मातरम् अप्य् अगात् । भूयास्म पुत्रैः पशुभिर् यो नो द्वेष्टि स भिद्यताम् इति ॥[= AsSS 3.14.12, ApSS 30.20.9, ApMP 2.15.17; cf. SadvB 1,6,20, KausSS 30,20,9, KausS 136,2]
कपालानि संहृत्य+अप्सु प्रक्षिप्य सावित्रीं दश-अवरां कृत्वा पुनर् एव+अन्यं गृह्णीयात् ॥
वरुणम् आश्रित्य । एतत् ते वरुण पुनर् एव माम् ओम् इति । अक्षरं ध्यायेत् ॥
शूद्राद् गृह्य शतं कुर्याद् वैश्याद् अर्धशतं स्मृतम् ।
क्षत्रियात् पञ्चविंशत् तु ब्राह्मणाद् दश कीर्तिताः ॥
अस्तम्-इत आदित्य उदकं गृह्णीयान् न गृह्णीयाद् इति मीमांसन्ते ब्रह्मवादिनः ॥
गृह्णीयाद् इत्य् एतद् अपरम् ॥
यावद् उदकं गृह्णीयात् तावत् प्राणम् [K: प्राणान् ] आयच्छेत् ॥
अग्निर् ह वै ह्य् उदकं गृह्णाति ॥
कमण्डलु-उदकेन+अभिषिक्त-पाणि-पादो यावद् आर्द्रं तावद् अशुचिः परेषाम् । आत्मानम् एव पूतम् करोति । न+अन्यत् कर्म कुर्वीत+इति विज्ञायते ॥
अपि वा प्रति-शौचम् आ मणिबन्धात्+शुचिर् इति बौधायनः ॥
अथ+अप्य् उदाहरन्ति ॥
कमण्डलुर् द्विजातीनां शौच-अर्थं विहितः पुरा ।
ब्रह्मणा मुनि-मुख्यैश् च तस्मात् तं धारयेत् सदा ॥
ततः शौचं ततः पानं सन्ध्या-उपासनम् एव च ।
निर्-विशङ्केन कर्तव्यं यदि+इच्छेत् +श्रेय आत्मनः ॥
कुर्यात्+शुद्धेन मनसा न चित्तं दूषयेद् बुधः । सह कमण्डलुना+उत्पन्नः स्वयं-भूस् तस्मात् कमण्डलुना चरेत् [+आचरेत् ] ॥
मूत्र-पुरीषे कुर्वन् दक्षिणे हस्ते गृह्णाति सव्य आचमनीयम् । एतत् सिध्यति साधूनाम् ॥
यथा हि सोम-संयोगाच् चमसो मेध्य उच्यते ।
अपां तथा+एव संयोगान् नित्यो मेध्यः कमण्डलुः ॥
पितृ-देव-अग्नि-कार्येषु तस्मात् तं परिवर्जयेत् ॥
तस्माद् विना कमण्डलुना न+अध्वानं व्रजेन् न सीमन्तं न गृहाद् गृहम् ॥
पदम् अपि न गच्छेद् इषु-मात्राद् इत्य् एके ॥
यद् इच्छेद् धर्म-सन्ततिम् इति बौधायनः ॥
ऋग्-विधेन+इति वाग् वदति । ऋग्-विधेन+इति वाग् वदति ॥ [K: ऋग्विधमृग्विधानं वाग्वदति ऋग्विधमृग्विधानं वाग्वदति ॥ ]
1.5
अथ+अतः शौच-अधिष्ठानम् ॥
अद्भिः शुध्यन्ति गात्राणि बुद्धिर् ज्ञानेन शुध्यति ।
अहिंसया च भूतात्मा मनः सत्येन शुध्यति ॥ इति ॥
मनः-शुद्धिर् अन्तः-शौचम् ॥
बहिः-शौचं व्याख्यास्यामः ॥
कौशं सौत्रं वा त्रिस्-त्रिवृद् यज्ञोपवीतम् ॥
आ नाभेः ॥
दक्षिणं बाहुम् उद्धृत्य सव्यम् अवधाय शिरस्+अवदध्यात् ॥
विपरीतं पितृभ्यः ॥
कण्ठे+अवसक्तं निवीतम् ॥
अधस्+अवसक्तं अधोवीतम् ॥
प्राङ्-मुख उदङ्-मुखो वा+आसीनः शौचम् आरभेत शुचौ देशे दक्षिणम् बाहुं जानु-अन्तरा कृत्वा प्रक्षाल्य पादौ पाणी च+आ मणिबन्धात् ॥
पाद-प्रक्षालन-उच्छेषणेन न+आचामेत् ॥
यद्य् आचामेद् भूमौ स्रावयित्वा+आचामेत् ॥
ब्राह्मेण तीर्थेन+आचामेत् ॥
अङ्गुष्ठ-मूलं ब्राह्मं तीर्थम् ॥
अङ्गुष्ठ-अग्रं पित्र्यम् अङ्गुल्य्-अग्रं दैवम् अङ्गुलि-मूलम् आर्षम् ॥
न+अङ्गुलीभिर् न स-बुद्बुदाभिर् न स-फेनाभिर् न+उष्णाभिर् न क्षाराभिर् न लवणाभिर् न कलुषाभिर् न विवर्णाभिर् न दुर्-गन्ध-रसाभिः ॥
न हसन् न जल्पन् न तिष्ठन् न विलोकयन् न प्रह्वो न प्रणतो न मुक्त-शिखो न प्रावृत-कण्ठो न वेष्टित-शिरा न त्वरमाणो न+अयज्ञोपवीती न प्रसारित-पादो न बद्ध-कक्ष्यो न बहिर्-जानुः शब्दम् अकुर्वन् ॥
त्रिर् अपो हृदयं-गमाः पिबेत् ॥
त्रिः परिमृजेत् ॥
द्विर् इत्य् एके ॥
सकृद् उभयं शूद्रस्य स्त्रियाश् च ॥
अथ+अप्य् उदाहरन्ति ।
गताभिर् हृदयं विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ।
वैश्यस्+अद्भिः प्राशिताभिः स्यात् स्त्री-शूद्रौ स्पृश्य च+अन्ततः ॥ इति ॥
दन्तवद् दन्त-सक्तेषु दन्तवत् तेषु धारणात् ।
स्रस्तेषु तेषु न+आचामेत् तेषां संस्राववत्+शुचिः ॥ इति ॥
अथ+अप्य् उदाहरन्ति ।
दन्तवद् दन्त-लग्नेषु यच् च+अप्य् अन्तर् मुखे भवेत् ।
आचान्तस्य+अवशिष्टं स्यान् निगिरन्न् एव तत्+शुचिः ॥ इति ॥
खान्य् अद्भिः संस्पृश्य पादौ नाभिं शिरः सव्यं पाणिम् अन्ततः ॥
तैजसं चेद् आदाय+उच्छिष्टी स्यात् तद् उदस्य+आचम्य+आदास्यन्न् अद्भिः प्रोक्षेत् ॥
अथ चेद् अन्नेन+उच्छिष्टी स्यात् तद् उदस्य+आचम्य+आदास्यन्न् अद्भिः प्रोक्षेत् ॥
अथ चेद् अद्भिर् उच्छिष्टी स्यात् तद् उदस्य+आचम्य+आदास्यन्न् अद्भिः प्रोक्षेत् ॥
एतद् एव विपरीतम् अमत्रे ॥
वानस्पत्ये विकल्पः ॥
तैजसानाम् उच्छिष्टानां गोशकृन्-मृद्-भस्मभिः परिमार्जनम् अन्यतमेन वा ॥
ताम्र-रजत-सुवर्णानाम् अम्लैः ॥
अमत्राणां दहनम् ॥
दारवाणां तक्षणम् ॥
वैणवानां गोमयेन ॥
फलमयानां गो-वाल-रज्ज्वा ॥
कृष्ण-अजिनानां बिल्व-तण्डुलैः ॥
कुतपानाम् अरिष्टैः ॥
और्णानाम् आदित्येन ॥
क्षौमाणां गौर-सर्षप-कल्केन ॥
मृदा चेलानाम् ॥
चेल-वच् चर्मणाम् ॥
तैजस-वद् उपल-मणीनाम् ॥
दारु-वद् अस्थ्नाम् ॥
क्षौम-वत्+शङ्ख-शृङ्ग-शुक्ति-दन्तानाम् ॥
पयसा वा ॥
चक्षुर्-घ्राण-आनुकूल्याद् वा मूत्र-पुरीष-असृज्-शुक्र-कुणप-स्पृष्टानां पूर्व-उक्तानाम् अन्यतमेन त्रिःसप्त-कृत्वः परिमार्जनम् ॥
अतैजसानाम् एवं-भूतानाम् उत्सर्गः ॥
वचनाद् यज्ञे चमस-पात्रानाम् ॥
न सोमेन+उच्छिष्टा भवन्ति+इति श्रुतिः ॥
कालस्+अग्निर् मनसः शुद्धिर् उदक-आद्य्-उपलेपनम् ।
अविज्ञातं च भूताणां षड्विधं शौचम् उच्यते ॥ इति ॥
अथ+अप्य् उदाहरन्ति ।
कालं देशं तथा+आत्मानं द्रव्यं द्रव्य-प्रयोजनम् । उपपत्तिम् अवस्थां च विज्ञाय शौचं शौच-ज्ञः कुशलो धर्म-ईप्सुः समाचरेत् ॥
नित्यं शुद्धः कारु-हस्तः पण्यं यच् च प्रसारितम् ।
ब्रह्मचारि-गतं भैक्षं नित्यं मेध्यम् इति श्रुतिः ॥
वत्सः प्रस्नवने मेध्यः शकुनिः फल-शातने ।
स्त्रियश् च रति-संसर्गे श्वा मृग-ग्रहणे शुचिः ॥
आकराः शुचयः सर्वे वर्जयित्वा सुरा-करम् ।
अदूष्याः सन्तता धारा वात-उद्भूताश् च रेणवः ॥
अमेध्येषु च ये वृक्षा उप्ताः पुष्प-फल-उपगाः ।
तेषाम् अपि न दुष्यन्ति पुष्पाणि च फलानि च ॥
चैत्य-वृक्षं चितिं यूपं चण्डालं वेद-विक्रयम् ।
एतानि ब्राह्मणः स्पृष्ट्वा स-चेलो जलम् आविशेत् ॥
आत्म-शय्या-आसनं वस्त्रं जाया-अपत्यं कमण्डलुः ।
शुचीन्य् आत्मन एतानि परेषाम् अशुचीनि तु ॥
आसनं शयनं यानं नावः पथि तृणानि च ।
चण्डाल-पतित-स्पृष्टं मारुतेन+एव शुध्यति ॥
खलक्षेत्रेषु यद् धान्यं कूप-वापीषु यज् जलम् ।
अभोज्याद् अपि तद् भोज्यं यच् च गोष्ठ-गतं पयः ॥
त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् ।
अदृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते ॥
आपः पवित्रं भूमि-गता गो-तृप्तिर् यासु जायते ।
अव्याप्ताश् चेद् अमेध्येन गन्ध-वर्ण-रस-अन्विताः ॥
भूमेस् तु सम्मार्जन-प्रोक्षण-उपलेपन-अवस्तरण-उल्लेखनैर् यथा-स्थानं दोष-विशेषात् प्रायत्यम् ॥
अथ+अप्य् उदाहरन्ति ॥
गो-चर्म-मात्रम् अब्-बिन्दुर् भूमेः शुध्यति पातितः ।
समूढम् असमूढं वा यत्र+अमेध्यं न लक्ष्यते ॥ इति ॥
परोक्षम् अधिश्रितस्य+अन्नस्य+अवद्योत्य-अभ्युक्षणम् ॥
तथा+आपणेयानां च भक्षाणाम् ॥
बीभत्सवः शुचि-कामा हि देवा न+अश्रद्दधानस्य हविर् जुषन्त इति ॥
शुचेर् अश्रद्दधानस्य श्रद्दधानस्य च+अशुचेः ।
मीमांसित्वा+उभयं देवाः समम् अन्नम् अकल्पयन् ॥
प्रजापतिस् तु तान् आह न समं विषमं हि तत् ।
हतम् अश्रद्दधानस्य श्रद्धा-पूतं विशिष्यते ॥ इति ॥
अथ+अप्य् उदाहरन्ति ।
अश्रद्धा परमः पाप्मा श्रद्धा हि परमं तपः ।
तस्माद् अश्रद्धया दत्तं हविर् न+अश्नन्ति देवताः ॥
इष्ट्वा दत्त्वा+अपि वा मूर्खः स्वर्गं नहि स गच्छति ॥
शङ्का-विहत-चारित्रो यः स्व-अभिप्रायम् आश्रितः ।
शास्त्र-अतिगः स्मृतो मूर्खो धर्म-तन्त्र-उपरोधनात् ॥ इति ॥
शाक-पुष्प-फल-मूल-ओषधीनां तु प्रक्षालनम् ॥
शुष्कं तृणम् अयाज्ञिकं काष्ठं लोष्टं वा तिरस्कृत्य+अहोरात्रयोर् उदग्-दक्षिणा-मुखः प्रवृत्य शिर उच्चरेद् अवमेहेद् वा ॥
मूत्रे मृदा+अद्भिः प्रक्षालनम् ॥
त्रिः पाणेः ॥
तद्वत् पुरीषे ॥
पर्यायात् त्रिस् त्रिः पायोः पाणेश् च ॥
मूत्र-वद् रेतस उत्सर्गे ॥
नीवीं विस्रस्य परिधाय+अप उपस्पृशेत् ॥
आर्द्रं तृणं गोमयं भूमिं वा समुपस्पृशेत् ॥
नाभेर् अधः स्पर्शनं कर्म-युक्तो वर्जयेत् ॥
ऊर्ध्वं वै पुरुषस्य नाभ्यै मेध्यम् अवाचीनम् अमेध्यम् इति श्रुतिः ॥
शूद्राणाम् आर्य-अधिष्ठितानाम् अर्धमासि मासि वा वपनम् आर्य-वद् आचमन-कल्पः ॥
वैश्यः कुसीदम् उपजीवेत् ॥
पञ्चविंशतिस् त्व् एव पञ्च-माषिकी स्यात् ॥
अथ+अप्य् उदाहरन्ति ।
यः समर्घम् ऋणं गृह्य महा-अर्घं सम्प्रयोजयेत् ।
स वै वार्द्धुषिको नाम सर्व-धर्मेषु गर्हितः ॥
वृद्धिं च भ्रूण-हत्यां च तुलया समतोलयत् ।
अतिष्ठद् भ्रूण-हा कोट्यां वार्द्धुषिः समकम्पत ॥ इति ॥
गोरक्षकान् वाणिजकांस् तथा कारु-कुशीलवान् ।
प्रेष्यान् वार्द्धुषिकांश् चैव विप्रान्+शूद्र-वद् आचरेत् ॥
कामं तु परिलुप्त-कृत्याय कदर्याय नास्तिकाय पापीयसे पूर्वौ दद्याताम् ॥
अयज्ञेन+अविवाहेन वेदस्य+उत्सादनेन च ।
कुलान्य् अकुलतां यान्ति ब्राह्मण-अतिक्रमेण च ॥
ब्राह्मण-अतिक्रमो न+अस्ति मूर्खे मन्त्र-विवर्जिते ।
ज्वलन्तम् अग्निम् उत्सृज्य नहि भस्मनि हूयते ॥
गोभिर् अश्वैश् च यानैश् च कृष्या राज-उपसेवया ।
कुलान्य् अकुलतां यान्ति यानि हीनानि मन्त्रतः ॥
मन्त्रतस् तु समृद्धानि कुलान्य् अल्प-धनान्य् अपि ।
कुल-सङ्ख्यां च गच्छन्ति कर्षन्ति च महद्-यशः ॥
वेदः कृषि-विनाशाय कृषिर् वेद-विनाशिनी ।
शक्तिमान् उभयं कुर्याद् अशक्तस् तु कृषिं त्यजेत् ॥
न वै देवान् पीवरस्+अ-संयत-आत्मा रोरूयमाणः ककुदी समश्नुते ।
चलत्-तुन्दी रभसः कम-वादी कृशास इत्य् अणवस् तत्र यान्ति ॥
यद् यौवने चरति विभ्रमेण सद् वा+असद् वा यादृशं वा यदा वा ।
उत्तरे चेद् वयसि साधु-वृत्तस् तद् एव+अस्य भवति न+इतराणि ॥
शोचेत मनसा नित्यं दुष्कृतान्य् अनुचिन्तयन् ।
तपस्वी च+अप्रमादी च ततः पापात् प्रमुच्यते ॥
स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
न तैर् उच्छिष्ट-भावः स्यात् तुल्यास् ते भूमि-गैः सह ॥ इति ॥
सपिण्डेष्व् आ दश-अहम् आशौचम् इति जनन-मरणयोर् अधिकृत्य वदन्त्य् ऋत्विग्-दीक्षित-ब्रह्मचारि-वर्जम् ॥
सपिण्डता त्व् आ सप्तमात् सपिण्डेषु ॥
आ सप्त-मासाद् आ दन्त-जननाद् वा+उदक-उपस्पर्शनम् ॥
पिण्ड-उदक-क्रिया प्रेते न+अत्रिवर्षे विधीयते ।
आ दन्त-जननाद् वा+अपि दहनं च न कारयेत् ॥
अप्रत्तासु च कन्यासु ॥
प्रत्तास्व् एके ह कुर्वते ॥
लोक-सङ्ग्रहण-अर्थं हि तद् अमन्त्राः स्त्रियो मताः ॥
स्त्रीणाम् अकृत-विवाहानां त्र्य्-अहात्+शुध्यन्ति बान्धवाः ।
यथा+उक्तेन+एव कल्पेन शुध्यन्ति च सनाभय इति ॥
अपि च प्रपितामहः पितामहः पिता स्वयं सोदर्या भ्रातरः सवर्णायाः पुत्रः पौत्रः प्रपौत्रस् तत्-पुत्र-वर्जं तेषां च पुत्र-पौत्रम् अविभक्त-दायम् सपिण्डान् आचक्षते ॥
विभक्त-दायान् अपि सकुल्यान् आचक्षते ॥
असत्स्व् अन्येषु तद्-गामी ह्य् अर्थो भवति ॥
सपिण्ड-अभावे सकुल्यः ॥
तद्-अभावे पिता+आचार्यो+अन्तेवास्य् ऋत्विग् वा हरेत् ॥
तद्-अभावे राजा तत्-स्वं [K: सत्स्वं ] त्रैविद्य-वृद्धेभ्यः सम्प्रयच्छेत् ॥
न त्व् एव कदा चित् स्वयं राजा ब्राह्मण-स्वम् आददीत ॥
अथ+अप्य् उदाहरन्ति ।
ब्रह्म-स्वं पुत्र-पौत्र-घ्नं विषम् एकाकिनं हरेत् ।
न विषं विषम् इत्य् आहुर् ब्रह्म-स्वं विषम् उच्यते ॥
तस्माद् राजा ब्राह्मण-स्वं न+आददीत । परमं ह्य् एतद् विषं यद् ब्राह्मण-स्वम् इति ॥
जनन-मरणयोः सन्निपाते समानो दश-रात्रः ॥
अथ यदि दश-रात्राः सन्निपतेयुर् आद्यं दश-रात्रम् आशौचम् आ नवमाद् दिवसात् ॥
जनने तावन् माता-पित्रोर् दश-अहम् आशौचम् ॥
मातुर् इत्य् एके तत्-परिहरणात् ॥
पितुर् इत्य् अपरे शुक्र-प्राधान्यात् ॥
अयोनिजा ह्य् अपि पुत्राः श्रूयन्ते ॥
माता-पित्रोर् एव तु संसर्ग-सामान्यात् ॥
मरणे तु यथा-बालं पुरस्कृत्य यज्ञोपवीतान्य् अपसव्यानि कृत्वा तीर्थम् अवतीर्य सकृत् सकृत् त्रिर् निमज्ज्य+उन्मज्ज्य+उत्तीर्य+। आचम्य तत्-प्रत्ययम् उदकम् आसिच्य+अत एव+उत्तीर्य+आचम्य गृह-द्वार्य् अङ्गारम् उद्कम् इति संस्पृश्य+अ-क्षार-लवण-आशिनो दश-अहं कटम् आसीरन् ॥
एकादश्यां द्वादश्यां वा श्राद्ध-कर्म ॥
शेष-क्रियायां लोकस्+अनुरोद्धव्यः ॥
अत्र+अप्य् असपिण्डेषु यथा-आसन्नं त्रि-रात्रम् अहो-रात्रम् एक-अहम् इति कुर्वीत ॥
आचार्य-उपाध्याय-तत्-पुत्रेषु त्रि-रात्रम् ॥
ऋत्विजां च ॥
शिष्य-सतीर्थ्य-सब्रह्मचारिषु त्रि-रात्रम् अहो-रात्रम् एक-अहम् इति कुर्वीत ॥
गर्भ-स्रावे गर्भ-मास-सम्मिता रात्रयः स्त्रीणाम् ॥
पर-शव-उपस्पर्शने+अन्-अभिसन्धि-पूर्वं स-चेलस्+अपः स्पृष्ट्वा सद्यः शुद्धो भवति ॥
अभिसन्धि-पूर्वं त्रि-रात्रम् ॥
ऋतुमत्यां च ॥
यस् ततो जायते सस्+अभिशस्त इति व्याख्यातान्य् अस्यै व्रतानि [K: ब्रतानि ] ॥
वेद-विक्रयिणं यूपं पतितं चितिम् एव च ।
स्पृष्ट्वा समाचरेत् स्नानं ष्वानं चण्डालम् एव च ॥
ब्राह्मणस्य व्रण-द्वारे पूय-शोणित-सम्भवे ।
कृमिर् उत्पद्यते तत्र प्रायश्चित्तं कथं भवेत् ॥
गो-मूत्रं गोमयं क्षीरं दधि सर्पिः कुश-उदकम् ।
त्र्य्-अहं स्नात्वा च पीत्वा च कृमि-दष्टः शुचिर् भवेत् ॥
शुना+उपहतः स-चेलस्+अवगाहेत ॥
प्रक्षाल्य वा तं देशम् अग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ च+आचम्य प्रयतो भवति ॥
अथ+अप्य् उदाहरन्ति ।
शुना दष्टस् तु यो विप्रो नदीं गत्वा समुद्र-गाम् ।
प्राण-आयाम-शतं कृत्वा घृतं प्राश्य विशुध्यति ॥
सुवर्ण-रजताभ्यां वा गवां शृङ्ग-उदकेन वा ।
नवैश् च कलशैः स्नात्वा सद्य एव शुचिर् भवेत् ॥ इति ॥
अभक्ष्याः पशवो ग्राम्याः ॥
क्रव्यादाः शकुनयश् च ॥
तथा कुक्कुट-सूकरम् ॥
अन्यत्र+अज-अविभ्यः ॥
भक्ष्याः श्वाविद्-गोधा-शश-शल्यक-कच्छप-खङ्गाः खङ्ग-वर्जाः पञ्च पञ्चनखाः ॥
तथा+ऋश्य-हरिण-पृषत-महिष-वराह-कुलुङ्गाः कुलुङ्ग-वर्जाः पञ्च द्विखुरिणः ॥
पक्षिणस्-तित्तिरि-कपोत-कपिञ्जल-वार्ध्राणस-मयूर-वारणा वारण-वर्जाः पञ्च विष्किराः ॥
मत्स्याः सहस्रदंष्ट्रश् चिलिचिमो वर्मि-बृहच्छिरो-मशकरि-रोहित-राजीवाः ॥
अनिर्दशाह-सन्धिनी-क्षीरम् अपेयम् ॥
विवत्स-अन्यवत्सयोश् च ॥
आविकम् औष्ट्रिकम् ऐकशफम् अपेयम् ॥
अपेय-पयः-पाने कृच्छ्रो+अन्यत्र गव्यात् ॥
गव्ये तु त्रि-रात्रम् उपवासः ।
पर्युषितं शाक-यूष-मांस-सर्पिः-शृतधाना-गुड-दधि-मधु-सक्तु-वर्जम् ॥
शुक्तानि तथा-जातो गुडः ॥
श्रावण्यां पौर्णमास्याम् आषाढ्यां वा+उपाकृत्य तैष्यां माघ्यां वा+उत्सृजेयुः । उत्सृजेयुः ॥
1.6
शुचिम् अध्वरं देवा जुषन्ते ॥
शुचि-कामा हि देवाः शुचयश् च ॥
तद् एशा+अभिवदति [om-]
शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्य् अध्वरं शुचिभ्यः ।
ऋतेन सत्यम् ऋतसाप आयन्+शुचि-जन्मानः शुचयः पावकाः ॥ इति ॥[RV 7,56,12]
अहतं वाससां शुचि ।
तस्माद् यत् किं च+इज्या-संयुक्तं स्यात् सर्वं तद् अहतैर् वासोभिः कुर्यात् ॥
प्रक्षालित-उपवातान्य् अक्लिष्टानि वासांसि पत्नी-यजमानाव् ऋत्विजश् च परिदधीरन् ॥
एवं प्रक्रमाद् ऊर्ध्वम् ॥
दीर्घ-सोमेषु सत्त्रेषु च+एवम् ॥
यथा-समाम्नातं च ॥
यथा+एतद् अभिचरणीयेष्व् इष्टि-पशु-सोमेषु लोहित-उष्णीषा लोहित-वाससश् च+ऋत्विजः प्रचरेयुश् चित्र-वाससश् चित्र-आसङ्गा वृषाकपाव् इति च ॥
अग्न्याधाने क्षौमाणि वासांसि तेषाम् अलाभे कार्पासिकान्य् और्णानि वा भवन्ति ॥
मूत्र-पुरीष-लोहित-रेतः-प्रभृत्य्-उपहतानां मृदा+अद्भिर् इति प्रक्षालनम् ॥
वासोवत् तार्प्य-वल्कलानाम् [K: वृकलानाम् ] ॥
वल्कलवत् कृष्ण-अजिनानाम् ॥
न परिहितम् अधिरूढम् अप्रक्षालितं प्रावरणम् ॥
न+अपल्पूलितं मनुष्य-संयुक्तं देवत्रा युञ्ज्यात् ॥
घनाया भूमेर् उपघात उपलेपनम् ॥
सुषिरायाः कर्षणम् ॥
क्लिन्नाया मेध्यम् आहृत्य प्रच्छादनम् ॥
चतुर्भिः शुध्यते भूमिर् गोभिर् आक्रमणात् खननाद् दहनाद् अभिवर्षणात् ॥
पञ्चमाच् च+उपलेपनात् षष्ठात् कालात् ॥
असंस्कृतायां भूमौ न्यस्तानां तृणानां प्रक्षालनम् ॥
परोक्ष-उपहतानाम् अभ्युक्षणम् ॥
एवं क्षुद्र-समिधाम् ॥
महतां काष्ठानाम् उपघाते प्रक्षाल्य+अवशोषणम् ॥
बहूनां तु प्रोक्षणम् ॥
दारुमयाणां पात्राणाम् उच्छिष्ट-समन्वारब्धानाम् अवलेखनम् ॥
उच्छिष्ट-लेप-उपहतानाम् अवतक्षणम् ॥।
मूत्र-पुरीष-लोहित-रेतः-प्रभृत्य्-उपहतानाम् उत्सर्गः ॥
तद् एतद् अन्यत्र निर्देशात् ॥
यथा+एतद् अग्निहोत्रे घर्मोच्छिष्टे च दधिघर्मे च कुण्डपायिनाम् अयने च+उत्सर्गिणाम् अयने च दाक्षायण-यज्ञे च+इडादधेचेडादधे) [K: चैडादधे ] च चतुश्चक्रे च ब्रह्मौदनेषु च तेषु सर्वेषु दर्भैर् अद्भिः प्रक्षालनम् ॥
सर्वेष्व् एव सोम-भक्षेष्व् अद्भिर् एव मार्जालीये प्रक्षालनम् ॥
मूत्र-पुरीष-लोहित-रेतः-प्रभृत्य्-उपहतानाम् उत्सर्गः ॥
मृन्मयानां पात्राणाम् उच्छिष्ट-समन्वारब्धानाम् अवकूलनम् ॥
उच्छिष्ट-लेप-उपहतानां पुनर्-दहनम् ॥
मूत्र-पुरीष-लोहित-रेतः-प्रभृत्य्-उपहतानाम् उत्सर्गः ॥
तैजसानां पात्राणां पूर्ववत् परिमृष्टानां प्रक्षालनम् ॥
परिमार्जन-द्रव्याणि गोशकृन्-मृद्-भस्म+इति ॥
मूत्र-पुरीष-लोहित-रेतः-प्रभृत्य्-उपहतानां पुनर्-करणम् ॥
गोमूत्रे वा सप्त-रात्रं परिशायनं महा-नद्यां वा [K: वैवम् ] ॥
एवम् अश्ममयानाम् ॥
अलाबु-बिल्व-विनाडानां गोवालैः परिमार्जनम् ॥
नड-वेणु-शर-कुश-व्यूतानां गोमयेन+अद्भिर् इति प्रक्षालनम् ॥
व्रीहीणाम् उपघाते प्रक्षाल्य-अवशोषणम् ॥
बहूनां तु प्रोक्षणम् ॥
तण्डुलानाम् उत्सर्गः ॥
एवं सिद्ध-हविषाम् ॥
महतां श्व-वायस-प्रभृत्य्-उपहतानां तं देशं पुरुष-अन्नम् उद्धृत्य । पवमानः सुवर्जन इति । एतेन+अनुवाकेन+अभ्युक्षणम् ॥
मधु-उदके पयो-विकारे च पात्रात् पात्र-अन्तर-आनयने शौचम् ॥
एवं तैल-सर्पिषी उच्छिष्ट-समन्वारब्धे उदके+अवधाय+उपयोजयेत् ॥
अमेध्य-अभ्याधाने समारोप्य+अग्निं मथित्वा पवमानेष्टिः ॥
शौच-देश-मन्त्र-आवृद्-अर्थ-द्रव्य-संस्कार-काल-भेदेषु पूर्व-पूर्व-प्राधान्यम् । पूर्व-पूर्व-प्राधान्यम् ॥
1.7
उत्तरत उपचारो विहारः ॥
तथा+अपवर्गः ॥
विपरीतं पित्र्येषु ॥
पाद-उपहतं प्रक्षालयेत् ॥
अङ्गम् उपस्पृश्य सिचं वा+अप उपस्पृशेत् ॥
एवं छेदन-भेदन-खनन-निरसन-पित्र्य-राक्षस-नैरृत-रौद्र-अभिचरणीय् एषु ॥
न मन्त्रवता यज्ञ-अङ्गेन+आत्मानम् अभिपरिहरेत् ॥
अभ्यन्तराणि यज्ञ-अङ्गानि ॥
बाह्या ऋत्विजः ॥
पत्नी-यजमानाव् ऋत्विग्भ्यो+अन्तरतमौ ॥
यज्ञ-अन्गेभ्य आज्यम् आज्याद्+हवींषि हविर्भ्यः पशुः पशोः सोमः सोमाद् अग्नयः ॥
यथा-कर्म+ऋत्विजो न विहाराद् अभिपर्यावर्तेरन् ॥
प्राङ्-मुखश् चेद् दक्षिणम् अंसम् अभिपर्यावर्तेत ॥
प्रत्यङ्-मुखः सव्यम् ॥
अन्तरेण चात्वाल-उत्करौ यज्ञस्य तीर्थम् ॥
अ-चात्वाल आहवनीय-उत्करौ ॥
ततः कर्तारो यजमानः पत्नी च प्रपद्येरन् ॥
विसंस्थिते ॥
संस्थिते च सञ्चरो+अन्-उत्कर-देशात् [K: ऽनूत्करदेशात् ] ॥
न+अप्रोक्षितम् अप्रपन्नं क्लिन्नं काष्ठं समिधं वा+अभ्यादध्यात् ॥
अग्रेण+आहवनीयं ब्रह्म-यजमानौ प्रपद्येते ॥
जघनेन+आहवनीयम् इत्य् एके ॥
दक्षिणेन+आहवनीयं ब्रह्म-आयतनं तद्-अपरेण यजमानस्य ॥
उत्तरां श्रोणिम् उत्तरेण होतुः ॥
उत्कर आग्नीध्रस्य ॥
जघनेन गार्हपत्यं पत्न्याः ॥
तेषु काले-काल [K: काले काल ] एव दर्भान् संस्तृणाति ॥
एकैकस्य च+उद-कमण्डलुर् उपात्तः स्याद् आचमन-अर्थः ॥
व्रत-उपेतो दीक्षितः स्यात् ॥
न पर-पापं वदेन् न क्रुध्येन् न रोदेन् मूत्र-पुरीषे न+अवेक्षेत ॥
अमेध्यं दृष्ट्वा जपति । अबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीर् इति ॥
अथ यद्य् एनम् अभिवर्षति । उन्दतीर् बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्ट+इति ॥[K om-]
1.8
चत्वारो वर्णा ब्राह्मण-क्षत्रिय-विट्-शूद्राः ॥
तेषां वर्ण-अनुपूर्व्येण चतस्रो भार्या ब्राह्मणस्य ॥
तिस्रो राजन्यस्य ॥
द्वे वैश्यस्य ॥
एका शूद्रस्य ॥
तासु पुत्राः सवर्ण-अनन्तरासु सवर्णाः ॥
एकान्तर-द्व्यन्तरास्व् अम्बष्ठ-उग्र-निषादाः ॥
प्रतिलोमास्व् आयोगव-मागध-वैण-क्षत्तृ[K: क्षत्तु ]-पुल्कस-कुक्कुट-वैदेहक-चण्डालः ॥
अम्बष्ठात् प्रथमायां श्वपाकः ॥
उग्राद् द्वितीयायां वैणः ॥
निषादात् तृतीयायां पुल्कसः ॥
विपर्यये कुक्कुटः ॥
निषादेन निषाद्याम् आ पञ्चमाज् जातो+अपहन्ति शूद्रताम् ॥
तम् उपनयेत् षष्ठं याजयेत् ॥
सप्तमो+अविकृत-बीजः सम-बीजः सम इत्य् एषां सञ्ज्ञाः क्रमेण निपतन्ति ॥[K together with 1,8,16,14: तम्उपनयेत्षष्ठं याजयेत्सप्तमो ऽविकृतो भवति ]
त्रिषु वर्णेषु सादृश्याद् अव्रतो जनयेत् तु यान् [K om-]
तान् सावित्री-परिभ्रष्टान् व्रात्यान् आहुर् मनीषिणः [K om-]
व्रात्यान् आहुर् मनीषिण इति ॥[K om-]
1.9
रथकार-अम्बष्ठ-सूत-उग्र-मागध-आयोगव-वैण-क्षत्तृ-पुल्कस-कुक्कुट् अ-वैदेहक-चण्डाल-श्वपाक-प्रभृतयः ॥[K om-]
तत्र सवर्णासु सवर्णाः ॥
ब्राह्मणात् क्षत्रियायां ब्राह्मणो वैश्यायाम् अम्बष्ठः शूद्रायां निषादः ॥
पारशव इत्य् एके ॥
क्षत्रियाद् वैश्यायां क्षत्रियः शूद्रायाम् उग्रः ॥
वैश्यात्+शूद्रायां रथकारः ॥
शूद्राद् वैश्यायां मागधः क्षत्रियायां क्षत्ता ब्राह्मण्यां चण्डालः ॥
वैश्यात् क्षत्रियायाम् आयोगवो ब्राह्मण्यां वैदेहकः । क्षत्रियाद् ब्राह्मण्यां सूतः ॥
तत्र[K: अत्र ]+अम्बष्ठ-उग्रयोः संयोगे भवति+अनुलोमः ॥
क्षत्तृ-वैदेहकयोः प्रतिलोमः ॥
उग्राज् जातः क्षत्त्र्यां श्वपाकः ॥
वैदेहकाद् अम्बष्ठायां वैणः ॥
निषदात्+शूद्रायां पुल्कसः ॥
शूद्रान् निषाद्यां कुक्कुटः ॥
वर्ण-सङ्कराद् उत्पन्नान् व्रात्यान् आहुर् मनीषिणः । व्रात्यान् आहुर् मनीषिण इति ॥
1.10
षड्भागभृतो राजा रक्षेत् प्रजाः ॥
ब्रह्म वै स्वं महिमानं ब्राह्मणेष्व् अदधाद् अध्ययन-अध्यापन-यजन-याजन-दान-प्रतिग्रह-संयुक्तं वेदानां गुप्त्यै ॥
क्षत्रे बलम् अध्ययन-यजन-दान-शस्त्र-कोश-भूत-रक्षण-संयुक्तं क्षत्रस्य वृद्ध्यै ॥
विट्स्व् अध्ययन-यजन-दान-कृषि-वाणिज्य-पशुपालन-संयुक्तं कर्मणां वृद्ध्यै ॥
शूद्रेषु पूर्वेषां परिचर्याम् ॥
पत्तो ह्य् अषृज्यन्त+इति ॥
सर्वतोधुरं पुरोहितं वृणुयात् ॥
तस्य शासने वर्तेत ॥
सङ्ग्रामे न निवर्तेत ॥
न कर्णिभिर् न दिग्धैः प्रहरेत् ॥
भीत-मत्त-उन्मत्त-प्रमत्त-विसन्नाह-स्त्री-बाल-वृद्ध-ब्राह्मणैर् न युध्येत ॥
अन्यत्र+आततायिनः ॥
अथ+अप्य् उदाहरन्ति ।
अध्यापकं कुले जातं यो हन्याद् आततायिनम् ।
न तेन भ्रूणहा भवति मन्युस् तन् मन्युम् ऋच्छति ॥ इति ॥
सामुद्र-शुल्को वरं रूपम् उद्धृत्य दश-पणं शतम् ॥
अन्येषाम् अपि सार-अनुरूप्येण+अनुपहत्य धर्म्यं प्रकल्पयेत् ॥
अब्राह्मणस्य प्रनष्टस्वामिकं रिक्थं संवत्सरं परिपाल्य राजा हरेत् ॥
अवध्यो वै ब्राह्मणः सर्व-अपराधेषु ॥
ब्राह्मणस्य ब्रह्महत्या-गुरुतल्पगमन-सुवर्णस्तेय-सुरापानेषु कुसिन्ध-भग-सृगाल् अ-सुराध्वजांस् तप्तेन+अयसा ललाटे+अङ्कयित्वा विषयान् निर्धमनम् ॥
क्षत्रियादीनां ब्राह्मण-वधे वधः सर्वस्वहरणम् च ॥
तेषाम् एव तुल्य-अपकृष्ट-वधे यथा-बलम् अनुरूपान् दण्डान् प्रकल्पयेत् ॥
क्षत्रिय-वधे गो-सहस्रम् ऋषभ-अधिकं राज्ञ उत्सृजेद् वैर-निर्यातन-अर्थम् [K: वैरनिर्यातनाम् ] ॥
शतं वैश्ये दश शूद्र ऋषभश् च+अत्र+अधिकः ॥
शूद्र-वधेन स्त्री-वधो गो-वधश् च व्याख्यातो+अन्यत्र+आत्रेय्या वधाद् धेन्व्-अनडुहोश् च ॥
वधे धेन्व्-अनडुहोर् अन्ते चान्द्रायणं चरेत् ॥
आत्रेय्या वधः क्षत्रिय-वधेन व्याख्यातः ॥
हंस-भास-बर्हिण-चक्रवाक-प्रचलाक-काक-उलूक-मण्डूक[K: कण्टक ]-डिड्डिक[ K: डिड्डिक -मण्डूक ]-डेरिका-श्व-बभ्रु-नकुल-आदीनां वधे शूद्रवत् ॥
लोक-सङ्ग्रहण-अर्थं यथा दृष्टं श्रुतं वा साक्षी साक्ष्यं ब्रूयात् ॥
पादो+अधर्मस्य कर्तारं पादो गच्छति साक्षिणम् ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥
राजा भवत्य् अनेनाश् च मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं यत्र निन्द्यो ह निन्द्यते ॥
साक्षिणं च+एवम् उद्दिष्टं यत्नात् पृच्छेद् विचक्षणः ॥
यां रात्रिम् अजनिष्ठास् त्वं यां च रात्रिं मरिष्यसि ।
एतयोर् अन्तरा यत् ते सुकृतं सुकृतं भवेत् ।
तत् सर्वं राजगामि स्याद् अनृतं ब्रुवतस् तव ॥
त्रीन् एव च पितॄन् हन्ति त्रीन् एव च पितामहान् ।
सप्त जातान् अजातांश् च साक्षी साक्ष्यं मृषा वदन् ॥
हिरण्य-अर्थे अनृते हन्ति त्रीन् एव च पितामहान् ।
पञ्च पश्व्-अनृते हन्ति दश हन्ति गव-अनृते ॥
शतम् अश्व-अनृते हन्ति सहस्रं पुरुष-अनृते ।
सर्वं भूम्य्-अनृते हन्ति साक्षी साक्ष्यं मृषा वदन् ॥
चत्वारो वर्णाः पुत्रिणः साक्षिणः स्युर् अन्यत्र श्रोत्रिय-राजन्य-प्रव्रजित-मानुष्यहीनेभ्यः ॥
स्मृतौ प्रधानतः प्रतिपत्तिः ॥
अतो+अन्यथा कर्तपत्यम् ॥
द्वादश-रात्रं तप्तं पयः पिबेत् कूश्माण्डैर् वा जुहुयाद् इति । कूश्माण्डैर् वा जुहुयाद् इति ॥
1.11
अष्टौ विवाहाः ॥
श्रुत-शीले विज्ञाय ब्रह्मचारिणे+अर्थिने दीयते स ब्राह्मः ॥
आच्छाद्य+अलङ्कृत्य । एषा सह धर्मश्[K: धर्मं ] चर्यताम् इति । प्राजाप्त्यः ॥
पूर्वां लाजाहुतिं हुत्वा गोभ्यां सह+आर्षः ॥ [K: पूर्वां लाजाहुतिं हुत्वा गो -मिथुनं कन्यावते दत्त्वा ग्रहणमार्षः ]
दक्षिणासु नीयमानास्व् अन्तर्वेद्य् ऋत्विजे स दैवः ॥
धनेन+उपतोष्या+आसुरः ॥ [K: सकामेन सकामाया मिथस्संयोगो गान्धर्वः ]
सकामेन सकामाया मिथः संयोगो गान्धर्वः ॥ [K: धनेनोपतोष्यासुरः ]
प्रसह्य हरणाद् राक्षसः ॥
सुप्तां मत्तां प्रमत्तां वा+उपगच्छेद् इति पैशाचः ॥
तेषां चत्वारः पूर्वे ब्राह्मणस्य तेष्व् अपि पूर्वः पूर्वः श्रेयान् ॥
उत्तरेषाम् उत्तर उत्तरः [K: उत्तरोत्तरः ] पापीयान् ॥
अत्र+अपि षष्ठ-सप्तमौ क्षत्रधर्म-अनुगतौ तत्-प्रत्ययत्वात् क्षत्रस्य ॥
पञ्चम-अष्टमौ वैश्य-शूद्राणाम् ॥
अयन्त्रित-कलत्रा हि वैश्य-शूद्रा भवन्ति ॥
कर्षण-शुश्रूषा-अधिकृतत्वात् ॥
गान्धर्वम् अप्य् एके प्रशंसन्ति सर्वेषां स्नेह-अनुगतत्वात् ॥
यथा युक्तो विवाहस् तथा युक्ता प्रजा भवति+इति विज्ञायते ॥
अथ+अप्य् उदाहरन्ति । [K adds: साधवस्त्रिपुरुषमार्षाद्दश दैवाद्दश प्राजापत्याद्दश पूर्वान्दश +अपरानात्मानं च ब्राह्मीपुत्र इति विज्ञायते ॥वेद -स्वीकरण -शक्तिरप्येवंविधानामेव पुत्राणाम्भवति +इति ॥]
क्रीता द्रव्येण या नारी सा न पत्नी विधीयते ।
सा न दैवे न सा पित्र्ये दासीं तां काश्यपो+अब्रवीत् ॥
शुल्केन ये प्रयच्छन्ति स्वसुतां लोभ-मोहिताः ।
आत्म-विक्रयिणः पापा महा-किल्बिष-कारकाः ॥
पतन्ति नरके घोरे घ्नन्ति च+आ+सप्तमं कुलम् ।
गमन-आगमनं चैव सर्वं शुल्के विधीयते ॥
पौर्णमस्य्-अष्टका-अमावास्या-अग्न्युत्पात-भूमिकम्प-श्मशान-देशपति-श्रो त्रिय-एकतीर्थ-प्रयाणेष्व् अहोरात्रम् अनध्यायः ॥
वाते पूति-गन्धे नीहारे च नृत्त-गीत-वादित्र-रुदित-साम-शब्देषु तावन्तं कालम् ॥
स्तनयित्नु-वर्ष-विद्युत्-सन्निपाते त्र्यहम् अनध्यायो+अन्यत्र वर्षा-कालात् ॥
वर्षा-काले+अपि वर्ष-वर्जम् अहोरात्रयोश् च तत्-कालम् ॥
पित्र्य-प्रतिग्रह-भोजनयोश् च तद्-दिवस-शेषम् ॥
भोजनेष्व् आ जरणम् ॥
पाणि-मुखो हि ब्राह्मणः ॥
अथ+अप्य् उदाहरन्ति ।
भुक्तं प्रतिगृहीतं च निर्विशेषम् इति श्रुतिः ॥
पितर्य्[K: पितुर्य् ] उपरते त्रि-रात्रम् ॥
द्वयम् उ ह वै सुश्रवसो+अनूचानस्य रेतो ब्राह्मणस्य+ऊर्ध्वं नाभेर् अधस्ताद् अन्यत् । स यद् ऊर्ध्वं नाभेस् तेन ह+एतत् प्रजायते यद् ब्राह्मणान् उपनयति यद् अध्यापयति यद् याजयति यत् साधु करोति । सर्वा+अस्य+एषा प्रजा भवति । अथ यद् अवाचीणं नाभेस् तेन ह+अस्य+औरसी प्रजा भवति । तस्मात्+श्रोत्रियम् अनूचानम् अप्रजो+असि+इति न वदन्ति ॥
तस्माद् द्वि-नामा द्वि-मुखो विप्रो द्वि-रेता द्वि-जन्मा च+इति ॥
शूद्र-अपपात्र-श्रवण-सन्दर्शनयोश् च तावन्तं कालम् ॥
नक्तं शिवा-विरावे न+अधीयीत स्वप्न-अन्तम् ॥
अहोरात्रयोश् च सन्ध्ययोः पर्वसु च न+अधीयीत ॥
न मांसम् अश्नीयान् न स्त्रियम् उपेयात् ॥
पर्वसु हि रक्षः-पिशाचा व्यभिचारवन्तो भवन्ति+इति विज्ञायते ॥
अन्येषु च+अद्भुत-उत्पातेष्व् अहोरात्रम् अनध्यायो+अन्यत्र मानसात् ॥
मानसे+अपि जनन-मरणयोर् अनध्यायः ॥
अथ+अप्य् उदाहरन्ति ।
हन्ति+अष्टमी ह्य् उपाध्यायं हन्ति शिष्यं चतुर्दशी ।
हन्ति पञ्चदशी विद्यां तस्मात् पर्वणि वर्जयेत् ।
तस्मात् पर्वणि वर्जयेद् इति ॥
2.1
अथ+अतः प्रायश्चित्तानि ॥
भ्रूणहा द्वादश समाः ॥
कपाली खट्वा-अङ्गी गर्दभ-चर्म-वासा अरण्य-निकेतनः श्मशाने ध्वजं शव-शिरः कृत्वा कुटीं कारयेत् । ताम् आवसेत् । सप्त-आगाराणि भैक्षं चरन् स्वकर्म+आचक्षाणस् तेन प्राणान् धारयेत् । अलब्ध्वा+उपवासः ॥
अश्वमेधेन गोसवेन+अग्निष्टुता वा यजेत ॥
अश्वमेध-अवभृथे वा+आत्मानं पावयेत् ॥
अथ+अप्य् उदाहरन्ति ।
अमत्या ब्राह्मणं हत्वा दुष्टो भवति धर्मतः ।
ऋषयो निष्कृतिं तस्य वदन्त्य् अमति-पूर्वके ।
मति-पूर्वं घ्नतस् तस्य निष्कृतिर् न+उपलभ्यते ॥
अपगूर्य चरेत् कृच्छ्रम् अतिकृच्छ्रं निपातने ।
कृच्छ्रं चान्द्रायणं चैव लोहितस्य प्रवर्तने ।
तस्मान् नैव+अपगुरेत न च कुर्वीत शोणितम् ॥ इति ॥
नव समा राजन्यस्य ॥
तिस्रो वैश्यस्य ॥
संवत्सरं शूद्रस्य ॥
स्त्रियाश् च ॥
ब्राह्मणवद् आत्रेय्याः ॥
गुरुतल्पगस् तप्ते लोह-शयने शयीत ॥
सूर्मिं वा ज्वलन्तीं श्लिष्येत् ॥
लिङ्गं वा सवृषणं परिवास्य+अञ्जलाव् आधाय दक्षिणा-प्रतीच्योर् दिशोर् अन्तरेण गच्छेद् आ निपतनात् ॥
स्तेनः प्रकीर्य केशान् सैध्रकम् मुसलम् आदाय स्कन्धेन राजानं गच्छेद् अनेन मां जहि+इति । तेन+एनं हन्यात् ॥
अथ+अप्य् उदाहरन्ति ।
स्कन्धेन+आदाय मुसलं स्तेनो राजानम् अन्वियात् ।
अनेन शाधि मां राजन् क्षत्र-धर्मम् अनुस्मरन् ॥
शासने वा विसर्गे वा स्तेनो मुच्येत किल्बिषात् ।
अशासनात् तु तद् राजा स्तेनाद् आप्नोति किल्बिषम् ॥ इति ॥
सुरां पीत्वा+उष्णया कायं दहेत् ॥
अमत्या पाने कृच्छ्र-अब्द-पादं चरेत् पुनर्-उपनयनं च ॥
वपन-व्रत-नियम-लोपश् च पूर्व-अनुष्ठितत्वात् ॥
अथ+अप्य् उदाहरन्ति ।
अमत्या वारुणीं पीत्वा प्राश्य मूत्र-पुरीषयोः ।
ब्राह्मणः क्षत्रियो वैश्यः पुनः-संस्कारम् अर्हति ॥
सुरा-धाने तु यो भाण्डे अपः पर्युषिताः पिबेत् ।
शङ्खपुष्पी-विपक्वेन षडहं क्षीरेण वर्तयेत् ॥
गुरु-प्रयुक्तश् चेन् म्रियेत गुरुस् त्रीन् कृच्छ्रांश् चरेत् ॥
एतद् एव+असंस्कृते ॥
ब्रह्मचारिणः शव-कर्मणा व्रत-आवृत्तिर् अन्यत्र माता-पित्रोर् आचार्याच् च ॥
स चेद् व्याधीयीत कामं गुरोर् उच्छिष्टं भैषज्य-अर्थे सर्वं प्राश्नीयात् ॥
येन+इच्छेत् तेन चिकित्सेत् ॥
स यदा गदी स्यात् तद् उत्थाय+आदित्यम् उपतिष्ठेत[K: उपतिष्ठते ] । हंसः शुचिषद् इति । एतया ॥
दिवा रेतः सिक्त्वा त्रिर् अपो हृदयं-गमाः पिबेद् रेतस्याभिः ॥
यो ब्रह्मचारी स्त्रियम् उपेयात् सो+अवकीर्णी ॥
स गर्दभं पशुम् आलभेत ॥
नैरृतः पशुः पुरोडाशश् च रक्षो-देवतो[K: -दैवतो ] यम-देवतो[ K: -दैवतो ] वा ॥
शिश्नात् प्राशित्रम् अप्स्व् अवदानैश् चरन्ति+इति विज्ञायते ॥
अपि वा+अमावास्यायां निश्य् अग्निम् उपसमाधाय दार्विहोमिकीं[K: दाविंहोमिकीं ] परिचेष्टां कृत्वा द्वे आज्य-आहुती जुहोति । काम+अवकीर्णो+अस्म्य् अवकीर्णो+अस्मि काम कामाय स्वाहा । काम+अभिद्रुग्धो+अस्म्य् अभिद्रुग्धो+अस्मि काम कामाय स्वाहा+इति ॥
हुत्वा प्रयत-अञ्जलिः कवातिर्यङ्ङ् अग्निम् अभिमन्त्रयेत[K: उपतिष्ठेत ] । सं मा सिञ्चन्तु मरुतः सम् इन्द्रः सं बृहस्पतिः । सं मा+अयम् अग्निः सिञ्चत्व् आयुषा च बलेन च+आयुष्मन्तं करोत मा+इति ॥
अथ+अस्य [K: अथ यस्य ] ज्ञातयः परिषद्य् उद-पात्रं निनयेयुर् असाव् अहम् इत्थं-भूत इति । चरित्वा+अपः पयो घृतं मधु लवणम् इत्य् आरब्धवन्तं ब्राह्मणा ब्रूयुश् चरितं त्वया+इति । ओम् इति+इतरः प्रत्याह । चरित-निर्वेशं सवनीयं कुर्युः ॥
सगोत्रां चेद् अमत्या+उपगच्छेन्[K: उपयच्छेन् ] मातृवद् एनां बिभृयात् ॥
प्रजाता चेत् कृच्छ्र-अब्द-पादं[K: -षादं ] चरित्वा । यन् म आत्मनो मिन्दा+अभूत् । पुनर् अग्निश् चक्षुर् अदाद् इति । एताभ्यां जुहुयात् ॥
परिवित्तः परिवेत्ता या च+एनं परिविन्दति ।
सर्वे ते नरकं यान्ति दातृ-याजक-पञ्चमाः ॥
परिवित्तः परिवेत्ता दाता यश् च+अपि याजकः ।
कृच्छ्र-द्वादश-रात्रेण स्त्री त्रि-रात्रेण शुध्यति ॥ इति ॥
अथ पतनीयानि ॥
समुद्र-संयानम् ॥
ब्रह्मस्व-न्यास-अपहरणम् ॥
भूम्य्-अनृतम् ॥
सर्व-पण्यैर् व्यवहरणम् ॥
शूद्र-सेवनम् ॥
शूद्रा-अभिजननम् ॥
तद्-अपत्यत्वं च ॥
एतेषाम् [K: एषाम् ] अन्यतमं [ K: अन्यतमत् ] कृत्वा ॥
चतुर्थ-काला मित-भोजिनः स्युर् अपो+अभ्यवेयुः [K omits अपो ऽभ्यवेयुः ] सवन-अनुकल्पम् ।
स्थान-आसनाभ्यां विहरन्त एते त्रिभिर् वर्षैस् तद् अपघ्नन्ति [K: अपहन्ति ] पापम् ॥
यद् एक-रात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणः सेवमानः ।
चतुर्थ-काल उदक-अभ्यवायी त्रिभिर् वर्षैस् तद् अपहन्ति पापम् ॥ इति ॥
अथ+उपपातकानि ॥
अगम्या-गमनं गुर्वी-सखीं गुरु-सखीम् अपपात्रां पतितां च गत्वा भेषज-करणं ग्राम-याजनं रङ्ग-उपजीवनं नाट्य-आचार्यता गो-महिषी-रक्षणं यच् च+अन्यद् अप्य् एवं-युक्तं कन्या-दूषणम् इति ॥
तेषां तु निर्वेशः पतितवृत्तिर् द्वौ संवत्सरौ ॥
अथ+अशुचिकराणि ॥
द्यूतम् अभिचारो+अनाहिताग्नेर् उञ्छ-वृत्तिता समावृत्तस्य भैक्षचर्या तस्य च+एव गुरु-कुले वास ऊर्ध्वं चतुर्भ्यो मासेभ्यस् तस्य च+अध्यापनं नक्षत्र-निर्देशश् च+इति ॥
तेषां तु निर्वेशो द्वादश मासान् द्वादश अर्ध-मासान् द्वादश द्वादश-अहान् द्वादश षड्-अहान् द्वादश त्र्य्-अहान् द्वादशाहं षड्-अहं त्र्य्-अहम् अहोरात्रम् एक-अहम् इति यथा कर्म-अभ्यासः ॥
अथ पतिताः समवसाय धर्मांश् चरेयुर् इतरेतर-याजका इतरेतर-अध्यापका मिथो विवहमानाः । पुत्रान् सन्निष्पाद्य ब्रूयुर् विप्रव्रजत+अस्मत् त एवम् आर्यान् सम्प्रतिपत्स्यथ+इति ॥
अथ+अपि न सेन्द्रियः पतति ॥
तद् एतेन वेदितव्यम् । अङ्ग-हीनो+अपि [K: अपि हि ] स-अङ्गं जनयेत् [ K: जनयतीति ] ॥
मिथ्या+एतद् इति हारीतः ॥
दधि-धानी-सधर्माः स्त्रियः स्युः । यो हि दधि-धान्याम् अप्रयतं पय आतच्य मन्थति न तत्+शिष्टा धर्मकृत्येषु+उपयोजयन्ति ॥
एवम् अशुचि शुक्रं यन् निर्वर्तते न तेन सह सम्प्रयोगो विद्यते ॥
अशुचि-शुक्र-उत्पन्नानां तेषाम् इच्छतां प्रायश्चित्तिः ॥
पतनीयानां तृतीयो+अंशः स्त्रीणाम् अंशस् तृतीयः ॥
अथ+अप्य् उदाहरन्ति [K om-]
भोजन-अभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः ।
श्व-विष्ठायां कृमिर् [K: क्रिमिर् ] भूत्वा पितृभिः सह मज्जति ॥ इति ॥
पितॄन् वा एष विक्रीणीते यस् तिलान् विक्रीणीते । प्राणान् वा एष विक्रीणीते यस् तण्डुलान् विक्रीणीते । सुकृत-अंशान् वा एष विक्रीणीते यः पणमानो दुहितरं ददाति ॥
तृण-काष्ठम् [K: तृणं काष्ठम् ] अविकृतं विक्रेयम् ॥
अथ+अप्य् उदाहरन्ति [K: उदारन्ति ] ।
पशवश् च+एकतो-दन्ता अश्मा च लवण-उद्धृतः ।
एतद् ब्राह्मण ते पण्यं तन्तुश् च+अरजनीकृतः ॥ इति ॥
पातक-वर्जं वा बभ्रुं पिङ्गलां गां रोमशां सर्पिषा+अवसिच्य कृष्णैस् तिलैर् अवकीर्य+अनूचानाय दद्यात् ॥
कूश्माण्डैर् वा द्वादशाहम् ॥
यद् अर्वाचीनम् एनो भ्रूण-हत्यायास् तस्मान् मुच्यत इति ॥
पातक-अभिशंसने कृच्छ्रः ॥
तद्-अब्दो[K: तदशब्दो ]+अभिशंसितुः ॥
संवत्सरेण पतति पतितेन समाचरन् । याजन-अध्यापनाद् यौनान् न तु यान-आसन-अशनाद् इति ॥
अमेध्य-प्राशने प्रायश्चित्तिर् [K: प्रायश्चित्तं ] नैष्पुरीष्यम् । तत् सप्तरात्रेण+अवाप्यते ॥
अपः पयो घृतं पराक इति प्रति-त्र्यहम् उष्णानि स तप्त-कृच्छ्रः ॥
त्र्यहं प्रातस् तथा सायम् [K adds: त्र्यहमन्यद् ] अयाचितं [ K adds: त्र्यहं परं तु नाश्नीयात् ] पराक इति कृच्छ्रः ॥
प्रातः सायम् अयाचितं पराक इति त्रयश् चतूरात्राः स एष स्त्री-बाल-वृद्धानां कृच्छ्रः ॥
यावत् सकृद् आददीत तावद् अश्नीयात् पूर्ववत् सो+अतिकृच्छ्रः ॥
अब्-भक्षस् तृतीयः स कृच्छ्रातिकृच्छ्रः ॥
कृच्छ्रे त्रिषवणम् उदक-उपस्पर्शनम् ॥
अधः-शयनम् ॥
एक-वस्त्रता केश-श्मश्रु-लोम-नख-वापनम् ॥
एतद् एव स्त्रियाः केश-वपन-वर्जम् । केश-वपन-वर्जम् ॥
2.2
नित्य-उदकी नित्य-यज्ञोपवीती नित्य-स्वाध्यायी वृषल-अन्न-वर्जी ।
ऋतौ च गच्छन् विधिवच् च जुह्वन् न ब्राह्मणश् च्यवते ब्रह्मलोकात् ॥
मनुः पुत्रेभ्यो दायं व्यभजद् इति श्रुतिः ॥
समशः सर्वेषाम् अविशेषात् ॥
वरं वा रूपम् उद्धरेज् ज्येष्ठः ॥
तस्माज् ज्येष्ठं पुत्रं धनेन निरवसाययन्ति+इति श्रुतिः ॥
दशानां वा+एकम् उद्धरेज् ज्येष्ठः ॥
समम् इतरे विभजेरन् ॥
पितुर् अनुमत्या दाय-विभागः सति पितरि ॥
चतुर्णां वर्णानां गो-अश्व-अज-अवयो ज्येष्ठ-अंशः ॥
नाना-वर्ण-स्त्री-पुत्र-समवाये दायं दश-अंशान् कृत्वा चतुरस् त्रीन् द्वाव् एकम् इति यथा-क्रमं विभजेरन् ॥
औरसे तु+उत्पन्ने सवर्णास् तृतीय-अंश-हराः ॥
सवर्णा-पुत्र-अनन्तरा-पुत्रयोर् अनन्तरा-पुत्रश् चेद् गुणवान् स ज्येष्ठ-अंशं हरेत् ॥
गुणवान् हि शेषाणां भर्ता भवति ॥
सवर्णायां संस्कृतायां स्वयम्-उत्पादितम् औरसं पुत्रं विद्यात् ।
अथ+अप्य् उदाहरन्ति [K om-]
अङ्गाद् अङ्गात् सम्भवसि हृदयाद् अधि जायसे [K om-]
आत्मा वै पुत्र-नाम+असि स जीव शरदः शतम् ॥ इति ॥[K om-]
अभ्युपगम्य दुहितरि जातं पुत्रिका-पुत्रम् अन्यं दौहित्रम् ॥
अथ+अप्य् उदाहरन्ति ।
आदिशेत् प्रथमे पिण्डे मातरं पुत्रिका-सुतः ।
द्वितीये पितरं तस्यास् तृतीये च पितामहम् ॥ इति ॥
मृतस्य प्रसूतो यः क्लीब-व्याधितयोर् वा+अन्येन+अनुमते [K: ऽनुमतेन ] स्वे क्षेत्रे स क्षेत्रजः ॥
स एष द्वि-पिता द्वि-गोत्रश् च द्वयोर् अपि स्वधा-रिक्थ-भाग् भवति ॥
अथ+अप्य् उदाहरन्ति ।
द्वि-पितुः पिण्ड-दानं स्यात् पिण्डे-पिण्डे च नामनी ।
त्रयश् च पिण्डाः षण्णां स्युर् एवं कुर्वन् न मुह्यति ॥ इति ॥
माता-पितृभ्यां दत्तो+अन्यतरेण वा यो+अपत्य-अर्थे परिगृह्यते स दत्तः ॥
सदृशं यं सकामं स्वयं कुर्यात् स कृत्रिमः ॥
गृहे गूढ-उत्पन्नो+अन्ते ज्ञातो गूढजः [K: गूढोः ] ॥
माता-पितृभ्याम् उत्सृष्टो+अन्यतरेण वा यो+अपत्य-अर्थे परिगृह्यते सो+अपविद्धः ॥
असंस्कृताम् अनतिसृष्टां याम् उपगच्छेत् [K: उपयच्छेत् ] तस्यां यो जातः स कानीनः ॥
या गर्भिणी संस्क्रियते विज्ञाता वा+अविज्ञाता वा तस्यां यो जातः स सहोढः ॥
माता-पित्रोर् हस्तात् क्रीतो+अन्यतरेण वा यो+अपत्य-अर्थे परिगृह्यते स क्रीतः ॥
क्लीबं त्यक्त्वा पतितं वा या+अन्यं पतिं विन्देत् तस्यां पुनर्भ्वां यो जातः स पौनर्भवः ॥
माता-पितृ-विहीनो यः स्वयम् आत्मानं दद्यात् स स्वयं-दत्तः ॥
द्विजाति-प्रवरात्+शूद्रायां जातो निषादः ॥
कामात् पारशव इति पुत्राः ॥
अथ+अप्य् उदाहरन्ति ।
औरसं पुत्रिका-पुत्रं क्षेत्रजं दत्त-कृत्रिमौ ।
गूढजं च+अपविद्धं च रिक्थ-भाजः प्रचक्षते ॥
कानीनं च सहोढं च क्रीतं पौनर्भवं तथा ।
स्वयं-दत्तं निषादं च गोत्र-भाजः प्रचक्षते ॥
तेषां प्रथम एव+इत्य् आह+औपजङ्घनिः ॥
इदानीम् अहम् ईर्ष्यामि स्त्रीणां जनक नो पुरा ।
यतो यमस्य सदने जनयितुः पुत्रम् अब्रुवन् ॥
रेतोधाः पुत्रं नयति परेत्य यम-सादने ।
तस्मात् स्व-भार्यां [K: तस्माद्भार्यां ] रक्षन्तु [ K: रक्षन्ति ] बिभ्यतः [ K: बिभ्यन्तः ] पर-रेतसः ॥
अप्रमत्ता रक्षत [K: रक्षथ ] तन्तुम् एतं मा वः क्षेत्रे परबीजानि वाप्सुः [ K: वप्सुः ] ।
जनयितुः पुत्रो भवति साम्पराये [K: साम्षराये ] मोघं वेत्ता कुरुते तन्तुम् एतम् ॥ इति ॥
तेषाम् अप्राप्त-व्यवहाराणाम् अंशान् स-उपचयान् सुनिगुप्तान् निदध्युर् आ व्यवहार-प्रापणात् ॥
अतीत-व्यवहारान् ग्रास-आच्छादनैर् बिभृयुः ॥
अन्ध-जड-क्लीब-व्यसनि-व्याधित-आदींश् च ॥
अकर्मिणः ॥
पतित-तज्-जात-वर्जम् ॥
न पतितैः संव्यवहारो विद्यते ॥
पतिताम् अपि तु मातरं बिभृयाद् अनभिभाषमाणः ॥
मातुर् अलङ्कारं दुहितरः साम्प्रदायिकं लभेरन्न् अन्यद् वा ॥
न स्त्रियाः [K: स्त्री ] स्वातन्त्र्यं विद्यते [ K: विदन्ते ] ॥
अथ+अप्य् उदाहरन्ति ।
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस् तु स्थविरी-भावे [K: स्थाविरे भावे ] न स्त्री स्वातन्त्र्यम् अर्हति ॥ इति ॥
निरिन्द्रिया ह्य् अदायाश् च स्त्रियो मता इति श्रुतिः ॥
भर्तृ-हिते यतमानाः स्वर्गं लोकं जयेरन् ॥
व्यतिक्रमे कृच्छ्रः ॥
शूद्रे चान्द्रायणं चरेत् ॥
वैश्य-आदिषु प्रतिलोमं कृच्छ्र-अतिकृच्छ्र-आदींश् चरेत् ॥
पुंसां ब्राह्मण-आदीनां संवत्सरं ब्रह्मचर्यम् ॥
शूद्रं कट-अग्निना [K: कटारिनना ] दहेत् ॥
अथ+अप्य् उदाहरन्ति ॥
अब्राह्मणस्य शारीरो दण्डः सङ्ग्रहणे भवेत् ॥
सर्वेषाम् एव वर्णानां दारा रक्ष्यतमा धनात् ॥
न तु चारण-दारेषु न रङ्ग-अवतरे [K: रङ्गावतारे ] वधः ।
संसर्जयन्ति ता ह्य् एतान् निगुप्तांश् च+आलयन्त्य् अपि ॥
स्त्रियः पवित्रम् अतुलं न+एता दुष्यन्ति कर्हिचित् ।
मासि-मासि रजो ह्य् आसां दुरितान्य् अपकर्षति ॥
सोमः शौचं ददौ [K: ददत् ] तासां गन्धर्वः शिक्षितां गिरम् ।
अग्निश् च सर्वभक्षत्वं [K: सर्वभक्ष्यत्वं ] तस्मान् निष्कल्मषाः स्त्रियः ॥
अप्रजां दशमे वर्षे स्त्री-प्रजां द्वादशे त्यजेत् ।
मृत-प्रजां पञ्चदशे सद्यस् त्व् अप्रिय-वादिनीम् ॥
संवत्सरं प्रेत-पत्नी मधु-मांस-मद्य-लवणानि वर्जयेद् अधः शयीत ॥
षण्-मासान् इति मौद्गल्यः ॥
अत ऊर्ध्वं गुरुभिर् अनुमता देवराज् जनयेत् पुत्रम् अपुत्रा ॥
अथ+अप्य् उदाहरन्ति ।
वशा च+उत्पन्न-पुत्रा च नीरजस्का गत-प्रजा ।
न+अकामा सन्नियोज्या स्यात् फलं यस्यां न विद्यते ॥ इति ॥
मातुल-पितृ-स्वसा भगिनी भागिनेयी स्नुषा मातुलानी सखि-वधूर् इत्य् अगम्याः ॥
अगम्यानां गमने कृच्छ्र-अतिकृच्छ्रौ चान्द्रायणम् इति प्रायश्चित्तिः ॥
एतेन चण्डाली-व्यवायो व्याख्यातः ॥
अथ+अप्य् उदाहरन्ति ।
चण्डालीं ब्राह्मणो गत्वा भुक्त्वा च प्रतिगृह्य च ।
अज्ञानात् पतितो विप्रो ज्ञानात् तु समतां व्रजेत् ॥
पितुर् गुरोर् नरेन्द्रस्य भार्यां गत्वा प्रमादतः ।
गुरुतल्पी भवेत् तेन पूर्व-उक्तस् तस्य निष्क्रयः [K: निश्चयः ] ॥ इति ॥
अध्यापन-याजन-प्रतिग्रहैर् अशक्तः क्षत्र-धर्मेण जीवेत् प्रत्यनन्तरत्वात् ॥
न+इति गौतमः । अत्युग्रो हि क्षत्र-धर्मो ब्राह्मणस्य ॥
अथ+अप्य् उदाहरन्ति ।
गव-अर्थे ब्राह्मण-अर्थे वा वर्णानां वा+अपि सङ्करे ।
गृह्णीयातां विप्र-विशौ शस्त्रं धर्म-व्यपेक्षया ॥
वैश्य-वृत्तिर् अनुष्ठेया प्रत्यनन्तरत्वात् ॥
प्राक् प्रातर्-आशात् कर्षी स्यात् ॥
अस्यूत-नासिकाभ्यां समुष्काभ्याम् अतुदन्न् आरया मुहुर्-मुहुर् अभ्युच्छन्दयन् ॥[B2,2,4,20,21 = B3,2,3]
भार्या-आदिर् अग्निः । तस्मिन् कर्म-करणं प्राग् अग्न्याधेयात् ॥
अग्न्याधेय-प्रभृत्य् अथ+इमान्य् अजस्राणि भवन्ति यथा+एतद् अग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमासाव् आग्रयणम् उदगयन-दक्षिणायनयोः पशुश् चातुर्मास्यान्य् ऋतुमुखे षड्ढोता वसन्ते ज्योतिष्तोम इत्य् एवं क्षेम-प्रापणम् ॥
अथ+अप्य् उदाहरन्ति ।
न दिवा-स्वप्न-शीलेन न च सर्व-अन्न-भोजिना ।
कामं शक्यं नभो गन्तुम् आरूढ-पतितेन वा ॥
दैन्यं शाठ्यं जैह्म्यं च वर्जयेत् ॥
अथ+अप्य् अत्र+उशनसश् च वृषपर्वणश् च दुहित्रोः संवादे गाथाम् उदाहरन्ति ।
स्तुवतो दुहिता त्वं वै याचतः प्रतिगृह्णतः ।
अथ+अहं स्तूयमानस्य ददतो+अप्रतिगृह्णतः ।
ददतो+अप्रतिगृह्णत इति ॥
2.3
तपस्यम् अपोवगाहनम्[अपस् -अवगाहनम् ][ K: तपस्यमवगाहनम् ] ॥
देवतास् तर्पयित्वा पितृ-तर्पणम् ॥
अनुतीर्थम् अप उत्सिञ्चति [K: उत्सिञ्चेद् ] । ऊर्जं वहन्तीर् इति ॥
अथ+अप्य् उदाहरन्ति ।
स्रवन्तीष्व् अनिरुद्धासु त्रयो वर्णा द्विजातयः ।
प्रातर्-उत्थाय [K: प्रातरुत्थायाय ] कुर्वीरन् देव-ऋषि-पितृ-तर्पणम् ॥
निरुद्धासु न कुर्वीरन्न् अंश-भाक् तत्र सेतु-कृत् ॥
तस्मात् पर-कृतान् सेतून् कूपांश् च परिवर्जयेद् इति ॥
अथ+अप्य् उदाहरन्ति ।
उद्धृत्य वा+अपि त्रीन् पिण्डान् कुर्याद् आपत्सु न+उ सदा ।
निरुद्धासु तु मृत्-पिण्डान् कूपात् त्रीन् अब्-घटांस् तथा ॥ इति ॥
बहु-प्रतिग्राह्यस्य+अप्रतिग्राह्यस्य वा प्रतिगृह्य [K: बहु प्रतिग्राह्यस्य प्रतिगृह्याप्रतिग्राह्यस्य वा ]+अयाज्यं वा याजयित्व+अनाश्य-अन्नस्य वा+अन्नम् अशित्वा तरत्समन्दीयं जपेद् इति ॥
अथ+अप्य् उदाहरन्ति ।
गुरु-सङ्करिणश् च+एव शिष्य-सङ्करिणश् च ये ।
आहार-मन्त्र-सङ्कीर्णा दीर्घं तम उपासते ॥ इति ॥
अथ स्नातक-व्रतानि ॥
सायं प्रातर् यद् अशनीयं स्यात् तेन+अन्नेन वैश्वदेवं बलिम् उपहृत्य ब्राह्मण-क्षत्रिय-विट्-शूद्रान् अभ्यागतान् यथा-शक्ति पूजयेत् ॥
यदि बहूनां न शक्नुयाद् एकस्मै गुणवते दद्यात् ॥
यो वा प्रथमम् उपगतः [K: उपागतः ] स्यात् ॥
शूद्रश् चेद् आगतस् तं कर्मणि नियुञ्ज्यात् ॥
श्रोत्रियाय वा+अग्रं दद्यात् ॥
ये नित्या भाक्तिकाः [K: नित्याभक्तिकास् ] स्युस् तेषाम् अनुपरोधेन संविभागो विहितः ॥
न त्व् एव कदाचिद् अदत्त्वा [K: अदत्वा ] भुञ्जीत ॥
अथ+अप्य् अत्र+अन्न-गीतौ श्लोकाव् उदाहरन्ति ।
यो माम् अदत्त्वा [K: अदत्वा ] पितृ-देवताभ्यो भृत्य-अतिथीनां च सुहृज्-जनस्य ।
सम्पन्नम् अश्नन् विषम् अत्ति मोहात् तम् अद्म्य् अहं तस्य च मृत्युर् अस्मि ॥
हुत-अग्निहोत्रः कृत-वैश्वदेवः पूज्य+अतिथीन् भृत्य-जन-अवशिष्टम् ।
तुष्टः शुचिः श्रद्-दधद् अत्ति यो मां तस्य+अमृतं स्यां स च मां भुनक्ति [K: भुनक्तीति ] ॥
सुब्राह्मण-श्रोत्रिय-वेदपारगेभ्यो गुर्व्-अर्थ-निवेश-औषध-अर्थ-वृत्ति-क्षीण-यक्ष्यमाण-अध्ययन-अध्व-सं योग-वैश्वजितेषु द्रव्य-संविभागो यथा-शक्ति कार्यो बहिर्वेदि भिक्षमाणेषु ॥
कृत-अन्नम् इतरेषु ॥
सुप्रक्षालित-पाद-पाणिर् आचान्तः शुचौ संवृते देशे+अन्नम् उपहृतम् उपसङ्गृह्य काम-क्रोध-द्रोह-लोभ-मोहान् अपहत्य सर्वाभिर् अङ्गुलीभिः शब्दम् अकुर्वन् प्राश्नीयात् ॥
न पिण्ड-शेषं पात्र्याम् उत्सृजेत् ॥
मांस-मत्स्य-तिल-संसृष्ट-प्राशने+अप उपस्पृश्य+अग्निम् अभिमृशेत् ॥
अस्तमिते च स्नानम् ॥
पालाशम् आसनं पादुके दन्त-धावनम् इति वर्जयेत् ॥
न+उत्सङ्गे+अन्नं भक्षयेत् ॥
आसन्द्यां न भुञ्जीत ॥
वैणवं दण्डं धारयेद् रुक्म-कुण्डले च ॥
पदा पादस्य प्रक्षालनम् अधिष्ठानं च वर्जयेत् ॥
न बहिर्-मालां धारयेत् ॥
सूर्यम् उदय-अस्तमये न निरीक्षेत ॥
न+इन्द्र-धनुर् इति परस्मै प्रब्रूयात् ॥
यदि ब्रूयान् मणि-धनुर् इत्य् एव ब्रूयात् ॥
पुर-द्वारि+इन्द्रकील-परिघाव् अन्तरेण न+अतीयात् ॥
प्लेङ्खयोर् [K: प्रेङ्खयोर् ] अन्तरेण न गच्छेत् ॥
वत्स-तन्तीं च न+उपरि गच्छेत् ॥
भस्म-अस्थि-रोम-तुष-कपाल-अपस्नानानि न+अधितिष्ठेत् ॥
गां धयन्तीं न परस्मै प्रब्रूयात् ॥
न+अधेनुम् अधेनुर् इति ब्रूयात् ॥
यदि ब्रूयाद् धेनुं भव्या+इत्य् [K: धेनुभव्येत्य् ] एव ब्रूयात् ॥
शुक्ता रूक्षाः परुषा वाचो न ब्रूयात् ॥
न+एको+अध्वानं व्रजेत् ॥
न पतितैर् न स्त्रिया न शूद्रेण ॥
न प्रतिसायं व्रजेत् ॥
न नग्नः स्नायात् ॥
न नक्तं स्नायात् ॥
न नदीं बाहुकस् तरेत् ॥
न कूपम् अवेक्षेत ॥
न गर्तम् अवेक्षेत ॥
न तत्र+उपविशेद् यत एनम् अन्य उत्थापयेत् ॥
पन्था देयो ब्राह्मणाय गवे राज्ञे ह्य् अचक्षुषे ।
वृद्धाय भार-तप्ताय गर्भिण्यै दुर्बलाय च ॥
प्रभूत-एध-उदक[K: प्रभूतधोदक ]-यव-ससमित्-कुश-माल्य-उपनिष्क्रमणम् आढ्य-जन-आकुलम् अनलस-समृद्धम् आर्य-जन-भूयिष्ठम् अ-दस्यु-प्रवेश्यं ग्रामम् आवसितुं यतेत धार्मिकः ॥
उदपान-उदके ग्रामे ब्राह्मणो वृषली-पतिः ।
उषित्वा द्वादश समाः शूद्र-साधर्म्यम् ऋच्छति ॥
पुर-रेणु-कुण्ठित-शरीरस् तत्-परिपुर्ण[K: तत्परिपूर्ण ]-नेत्र-वदनश् च ।
नगरे वसन् सुनियत-आत्मा सिद्धिम् अवाप्स्यति+इति न तद् अस्ति ॥
रथ-अश्व-गज-धान्यानां गवां च+एव रजः शुभम् ।
अप्रशस्तं समूहन्याः श्व-अज-अवि-खर-वाससाम् ॥
पूज्यान् पूजयेत् ॥
ऋषि-विद्वन्-नृप-वर-मातुल-श्वशुर-ऋत्विजः ।
एते+अर्घ्याः शास्त्र-विहिताः स्मृताः काल-विभागशः ॥
ऋषि-विद्वन्-नृपाः प्राप्ताः क्रिया-आरम्भे वर-ऋत्विजौ ।
मातुल-श्वशुरौ पूज्यौ संवत्सर-गत-आगतौ ॥ इति ॥
अग्न्य्-अगारे गवां मध्ये ब्राह्मणानां च सन्निधौ ।
स्वाध्याये भोजने च+एव दक्षिणं बाहुम् उद्धरेत् ॥
उत्तरं वासः कर्तव्यं पञ्चस्व् एतेषु कर्मसु ।
स्वाध्याय-उत्सर्ग-दानेषु भोजन-आचामयोस् [K: भोजनाचमनयोस् ] तथा ॥
हवनं भोजनं दानम् उपहारः प्रतिग्रहः ।
बहिर्-जानु न कार्याणि तद्वद् आचमनं स्मृतम् ॥
अन्ने श्रितानि भूतानि अन्नं प्राणम् इति श्रुतिः ।
तस्माद् अन्नं प्रदातव्यम् अन्नं हि परमं हविः ॥
हुतेन शाम्यते पापं हुतम् अन्नेन शाम्यति ।
अन्नं दक्षिणया शान्तिम् उपयाति+इति न श्रुतिः [K: नश्श्रुतिरिति ] ।
उपयाति+इति नः श्रुतिर् इति ॥[K om-]
2.4
अथ+अतः सन्ध्या-उपासन-विधिं व्याख्यास्यामः ॥
तीर्थं गत्वा+अप्रयतो+अभिषिक्तः प्रयतो वा+अनभिषिक्तः प्रक्षालित-पाद-पाणिर् अप आचम्य सुरभिमत्या+अब्लिङ्गाभिर् वारुणीभिर् हिरण्यवर्णाभिः पावमानीभिर् व्याहृतिभिर् अन्यैश् च पवित्रैर् आत्मानं प्रोक्ष्य प्रयतो भवति ॥
अथ+अप्य् उदाहरन्ति ।
अपोवगाहनं [अपस् -अवगाहनं ] स्नानं विहितं सार्ववर्णिकम् ।
मन्त्रवत्-प्रोक्षणं च+अपि द्विजातीनां विशिष्यते ॥ इति ॥
सर्व-कर्मणां च+एव+आरम्भेषु प्राक् सन्ध्या-उपासन-कालाच् च+एतेन+एव पवित्र-समूहेन+आत्मानं प्रोक्ष्य प्रयतो भवति ॥
अथ+अप्य् उदाहरन्ति । दर्भेष्व् आसीनो दर्भान् धारयमाणः स-उदकेन पाणिना प्रत्यङ्-मुखः सावित्रीं सहस्रकृत्व आवर्तयेत् ॥
प्राण-आयाम-शो वा शतकृत्वः ॥
उभयतः-प्रणवां स-सप्त-व्याहृतिकां मनसा वा दशकृत्वः ॥
त्रिभिश् च प्राण-आयामैस् तान्तो ब्रह्महृदयेन ॥
वारुणीभ्यां रात्रिम् उपतिष्ठते । इमं मे वरुण । तत् त्वा यामि+इति । द्वाभ्याम् ॥
एवम् एव प्रातः प्राङ्-मुखस् तिष्ठन् ॥
मैत्रीभ्याम् अहर् उपतिष्ठते। मित्रस्य चर्षणीधृतः । मित्रो जनान् यातयति+इति । द्वाभ्याम् ॥
सुपूर्वाम् अपि पूर्वाम् उपक्रम्य+उदित आदित्ये समाप्नुयात् ॥
अनस्तमित उपक्रम्य सुपश्चाद् अपि पश्चिमाम् ॥
सन्ध्ययोश् च सम्पत्ताव् अहो-रात्रयोश् च सन्तत्यै [K: सन्ततिः ] ॥
अपि च+अत्र प्रजापति-गीतौ श्लोकौ भवतः ।
अनागतां तु ये पूर्वाम् अनतीतां तु पश्चिमाम् ।
सन्ध्यां न+उपासते विप्राः कथं ते ब्राह्मणाः स्मृताः ॥
सायं प्रातः सदा सन्ध्यां ये विप्रा न+उ उपासते ।
कामं तान् धार्मिको राजा शूद्र-कर्मसु योजयेद् ॥ इति ॥
तत्र सायम्-अतिक्रमे रात्र्य्-उपवासः प्रातर्-अतिक्रमे+अहर्-उपवासः ॥
स्थान-आसन-फलम् अवाप्नोति ॥
अथ+अप्य् उदाहरन्ति ।
यद् उपस्थ-कृतं पापं पद्भ्यां वा यत् कृतं भवेत् ।
बाहुभ्यां मनसा वा+अपि वाचा वा यत् कृतं भवेत् ।
सायं सन्ध्याम् उपस्थाय तेन तस्मात् प्रमुच्यते ॥
रात्र्या च+अपि सन्धीयते न च+एनं वरुणो गृह्णाति ॥
एवम् एव प्रातर् उपस्थाय रात्रि-कृतात् पापात् प्रमुच्यते ॥
अह्ना च+अपि सन्धीयते मित्रश् च+एनं गोपायत्य् आदित्यश् च+एनं स्वर्गं लोकम् उन्नयति ॥
स एवम् एव+अहर्-अहर् अहो-रात्रयोः सन्धिषु+उपतिष्ठमानो ब्रह्म-पूतो ब्रह्म-भूतो ब्राह्मणः शास्त्रम् अनुवर्तमानो ब्रह्म-लोकम् अभिजयति+इति विज्ञायते । ब्रह्मलोकम् अभिजयति+इति विज्ञायते ॥
2.5
अथ हस्तौ प्रक्षाल्य कमण्डलुं मृत्-पिण्डं च सङ्गृह्य [K: गृह्य ] तीर्थं गत्वा त्रिः पादौ प्रक्षालयते त्रिर् आत्मानं ॥
अथ ह+एके ब्रुवते । श्मशानम् आपो देव-गृहं गोष्ठं यत्र च ब्राह्मणा अप्रक्षाल्य पादौ तन् न प्रवेष्टव्यम् इति ॥
अथ+अपो+अभिप्रपद्यते ।
हिरण्य-शृङ्गं वरुणं प्रपद्ये तीर्थं मे देहि याचितः ।
यन् मया भुक्तम् असाधूनां पापेभ्यश् च प्रतिग्रहः ॥
यन् मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् ।
तन् न [K: म ] इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः-पुनः ॥ इति ॥
अथ+अञ्जलिना+अप उपहन्ति [K: अथाञ्जलिना उपहन्ति ] । सुमित्रा न आप ओषधयः सन्त्व् इति ॥
तां दिशं निरुक्षति यस्याम् अस्य दिशि द्वेष्यो भवति । दुर्मित्रास् तस्मै भूयासुर् यो+अस्मान् द्वेष्टि यं च वयं द्विष्म इति ॥
अथ+अप उपस्पृश्य त्रिः प्रदक्षिणम् उदकम् आवर्तयति । यद् अपां [K: यदर्पां ] क्रुरं [ K: क्रूरं ] यद् अमेध्यं यद् अशान्तं तद् अपगच्छताद् [ H: अप गच्छताद् ] इति ॥
अप्सु निमज्ज्य+उन्मज्ज्य ॥
न+अप्सु सतः प्रयमणं विद्यते न वासः-पल्पूलनं न+उपस्पर्शनम् ॥
यद्य् उपरुद्धाः स्युर् एतेन+उपतिष्ठते । नमो+अग्नये+अप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमो+अद्भ्य इति ॥
उत्तीर्य+आचम्य+आचान्तः पुनर् आचामेत् ।
आपः पुनन्तु पृथिवीं [K: पृथिवी ] पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर् ब्रह्म पूता पुनातु माम् ॥
यद् उच्छिष्टम् अभोज्यं यद् वा दुश्चरितं मम । सर्वं पुनन्तु माम् आपो+असतां च प्रतिग्रहं स्वाहा+इति ॥
पवित्रे कृत्वा+अद्भिर् मार्जयति । आपो हि ष्ठा मयोभुव इति तिसृभिः । हिरण्य-वर्णाः शुचयः पावका इति चतसृभिः । पवमानः सुवर्जन [K: सुवर्चन ] इति । एतेन+अनुवाकेन मार्जयित्वा+अन्तर्-जल-गतो+अघमर्षणेन त्रीन् प्राण-आयामान् धारयित्वा+उत्तीर्य वासः पीडयित्वा प्रक्षालित-उपवातान्य् अक्लिष्टानि वासांसि परिधाय+अप आचम्य दर्भेष्व् आसीनो दर्भान् धारयमाणः प्राङ्-मुखः सावित्रीं सहस्रकृत्व आवर्तयेत्+शतकृत्वो+अपरिमितकृत्वो वा दश-अवरम् ॥
अथ+आदित्यम् उपतिष्ठते । उद् वयं तमसस् परि । उद् उ त्यम् । चित्रम् । तच् चक्षुर् देवहितम् । य उदगाद् इति ॥
अथ+अप्य् उदाहरन्ति । प्रणवो व्याहृतयः सावित्री च+इत्य् एते पञ्च ब्रह्म-यज्ञा अहर्-अहर् ब्राह्मणं किल्बिषात् पावयन्ति ॥
पूतः पञ्चभिर् ब्रह्म-यज्ञैर् अथ+उत्तरं देवतास् तर्पयति ॥
ओम् [K omits ओम् ] अग्निः प्रजापतिः सोमो रुद्रो+अदितिर् बृहस्पतिः सर्पा इत्य् एतानि प्राग्-द्वाराणि दैवतानि स-नक्षत्राणि स-ग्रहाणि स-अहो-रात्राणि स-मुहूर्तानि तर्पयामि । ओं वसूंश् च तर्पयामि ॥
ओं [K omits ओं ] पितरो+अर्यमा भगः सविता त्वष्टा वायुर् इन्द्राग्नी इत्य् एतानि दक्षिण-द्वाराणि दैवतानि स-नक्षत्राणि स-ग्रहाणि स-अहो-रात्राणि स-मुहूर्तानि तर्पयामि । ओं रुद्रांश् च तर्पयामि ॥
ओं [K omits ओं ] मित्र इन्द्रो महापितर आपो विश्वे देवा ब्रह्मा विष्णुर् इत्य् एतानि प्रत्यग्-द्वाराणि दैवतानि स-नक्षत्राणि स-ग्रहाणि स-अहो-रात्राणि स-मुहूर्तानि तर्पयामि । ओम् आदित्यांश् च तर्पयामि ॥
ओं [K omits ओं ] वसवो वरुणो+अज एकपाद् अहिर्बुध्न्यः पूषा+अश्विनौ यम इत्य् एतान्य् उदग्-द्वाराणि दैवतानि स-नक्षत्राणि स-ग्रहाणि स-अहो-रात्राणि स-मुहूर्तानि तर्पयामि । ओं विश्वान् देवांस् तर्पयामि । ओं साध्यांश् च तर्पयामि [ K: साध्यांस्तर्पयामि ] ॥
ओं [K omits ओं ] ब्रह्माणं तर्पयामि । ओं [ K omits ओं ] प्रजापतिं तर्पयामि । ओं [ K omits ओं ] चतुर्-मुखं तर्पयामि । ओं [ K omits ओं ] परमेष्ठिनं तर्पयामि । ओं [ K omits ओं ] हिरण्यगर्भं तर्पयामि । ओं [ K omits ओं ] स्वयम्भुवं तर्पयामि । ओं [ K omits ओं ] ब्रह्म-पार्षदांस् तर्पयामि । ओं [ K omits ओं ] ब्रह्म-पार्षदीश् च तर्पयामि । ओम् [ K omits ओम् ] अग्निं तर्पयामि । ओं [ K omits ओं ] वायुं तर्पयामि । ओं [ K omits ओं ] वरुणं तर्पयामि । ओं [ K omits ओं ] सूर्यं तर्पयामि । ओं [ K omits ओं ] चन्द्रमसं तर्पयामि । ओं [ K omits ओं ] नक्षत्राणि तर्पयामि । [ K: ज्योतींषि तर्पयामि । ] ओं [ K omits ओं ] सद्योजातं तर्पयामि । ओं भूः पुरुषं तर्पयामि । ओं भुवः पुरुषं तर्पयामि । ओं सुवः पुरुषं तर्पयामि । ओं भूर् भुवः सुवः पुरुषं तर्पयामि । ओं भूस् तर्पयामि । ओं भुवस् तर्पयामि । ओं सुवस् तर्पयामि । ओं महस् तर्पयामि । ओं जनस् तर्पयामि । ओं तपस् तर्पयामि । ओं सत्यं तर्पयामि ॥
ओं भवं देवं तर्पयामि । ओं शर्वं देवम् तर्पयामि । ओम् ईशानं देवं तर्पयामि । ओं पशुपतिं देवं तर्पयामि । ओं रुद्रं देवं तर्पयामि । ओम् उग्रं देवं तर्पयामि । ओं भीमं देवं तर्पयामि । ओं महान्तं देवं तर्पयामि ।
ओं भवस्य देवस्य पत्नीं तर्पयामि । ओं शर्वस्य देवस्य पत्नीं तर्पयामि । ओम् ईशानस्य देवस्य पत्नीं तर्पयामि । ओं पशुपतेर् देवस्य पत्नीं तर्पयामि । ओं रुद्रस्य देवस्य पत्नीं तर्पयामि । ओम् उग्रस्य देवस्य पत्नीं तर्पयामि । ओं भीमस्य देवस्य पत्नीं तर्पयामि । ओं महतो देवस्य पत्नीं तर्पयामि ।
ओं भवस्य देवस्य सुतं तर्पयामि । ओं शर्वस्य देवस्य सुतं तर्पयामि । ओम् ईशानस्य देवस्य सुतं तर्पयामि । ओं पशुपतेर् देवस्य सुतं तर्पयामि । ओं रुद्रस्य देवस्य सुतं तर्पयामि । ओम् उग्रस्य देवस्य सुतं तर्पयामि । ओं भीमस्य देवस्य सुतं तर्पयामि । ओं महतो देवस्य सुतं तर्पयामि । ओं रुद्रांस् तर्पयामि । ओं [K omits ओं ] रुद्र-पार्षदांस् तर्पयामि । ओं [ K omits ओं ] रुद्र-पार्षदीश् च तर्पयामि ॥
ओं विघ्नं तर्पयामि । ओं विनायकं [K omits ओं ] तर्पयामि । ओं [ K omits ओं ] वीरं तर्पयामि । ओं [ K omits ओं ] स्थूलं [ K: शूरं ] तर्पयामि । ओं [ K omits ओं ] वरदं तर्पयामि । ओं [ K omits ओं ] हस्तिमुखं तर्पयामि । ओं [ K omits ओं ] वक्रतुण्डं तर्पयामि । ओम् [ K omits ओम् ] एकदन्तं तर्पयामि । ओं [ K omits ओं ] लम्बोदरं तर्पयामि । [ K: गणपतिं तर्पयामि । ] ओं [ K omits ओं ] विघ्न-पार्षदांस् तर्पयामि । ओं [ K omits ओं ] विघ्न-पार्षदीश् च तर्पयामि ॥
ओं सनत्कुमारं तर्पयामि । ओं [K omits ओं ] स्कन्दं तर्पयामि । ओम् [ K omits ओम् ] इन्द्रं तर्पयामि । ओं [ K omits ओं ] षष्ठीं तर्पयामि । ओं [ K omits ओं ] षण्मुखं तर्पयामि । ओं [ K omits ओं ] जयन्तं [ K: विशाखं ] तर्पयामि । ओं [ K omits ओं ] विशाखं [ K: जयन्तं ] तर्पयामि । ओं [ K omits ओं ] महासेनं तर्पयामि । ओं सुब्रह्मण्यं तर्पयामि [ K omits: ओं सुब्रह्मण्यं तर्पयामि ] । ओं [ K omits ओं ] स्कन्द-पार्षदांस् तर्पयामि । ओं [ K omits ओं ] स्कन्द-पार्षदीश् च तर्पयामि ॥
ओम् आदित्यं तर्पयामि । ओं [K omits ओं ] सोमं तर्पयामि । ओम् [ K omits ओम् ] अङ्गारकं तर्पयामि । ओं [ K omits ओं ] बुधं तर्पयामि । ओं [ K omits ओं ] बृहस्पतिं तर्पयामि । ओं [ K omits ओं ] शुक्रं तर्पयामि । ओं [ K omits ओं ] शनैश्चरं तर्पयामि । ओं [ K omits ओं ] राहुं तर्पयामि । ओं [ K omits ओं ] केतुं तर्पयामि ॥
ओं केशवं तर्पयामि । ओं [K omits ओं ] नारायणं तर्पयामि । ओं [ K omits ओं ] माधवं तर्पयामि । ओं [ K omits ओं ] गोविन्दं तर्पयामि । ओं [ K omits ओं ] विष्णुं तर्पयामि । ओं [ K omits ओं ] मधुसूदनं तर्पयामि । ओं [ K omits ओं ] त्रिविक्रमं तर्पयामि । ओं [ K omits ओं ] वामनं तर्पयामि । ओं [ K omits ओं ] श्रीधरं तर्पयामि । ओं [ K omits ओं ] हृषीकेशं तर्पयामि । ओं [ K omits ओं ] पद्मनाभं तर्पयामि । ओं [ K omits ओं ] दामोदरं तर्पयामि । ओं [ K omits ओं ] श्रियं देवीं तर्पयामि । ओं [ K omits ओं ] सरस्वतीं देवीं तर्पयामि । ओं [ K omits ओं ] पुष्टिं [ K: पुष्टिं देवीं ] तर्पयामि । ओं [ K omits ओं ] तुष्टिं [ K: तुष्टिं देवीं ] तर्पयामि । ओं [ K omits ओं ] गरुत्मन्तं [ K: वैनतेयं ] तर्पयामि । ओं [ K omits ओं ] विष्णु-पार्षदांस् तर्पयामि । ओं [ K omits ओं ] विष्णु-पार्षदीश् च तर्पयामि ॥
ओं यमं तर्पयामि । ओं [K omits ओं ] यमराजं तर्पयामि । ओं [ K omits ओं ] धर्मं तर्पयामि । ओं [ K omits ओं ] धर्मराजं तर्पयामि । ओं [ K omits ओं ] कालं तर्पयामि । ओं [ K omits ओं ] नीलं तर्पयामि । ओं [ K omits ओं ] मृत्युं तर्पयामि । ओं [ K omits ओं ] वैवस्वतं [ K: अन्तकं ] तर्पयामि । ओं [ K omits ओं ] चित्रं तर्पयामि । ओं [ K omits ओं ] चित्रगुप्तं तर्पयामि । ओम् [ K omits ओम् ] औदुम्बरं तर्पयामि । [ K: वैवस्वतं तर्पयामि । ] ओं [ K omits ओं ] वैवस्वत-पार्षदांस् तर्पयामि । ओं [ K omits ओं ] वैवस्वत-पार्षदीश् च तर्पयामि ॥
ओं [K omits ओं ] भूमि-देवांस् [ K: भरद्वाजं ] तर्पयामि । ओं [ K omits ओं ] काश्यपम् [ K: गौतमं ] तर्पयामि । ओम् [ K omits ओम् ] अन्तरिक्षं [ K: अत्रिं ] तर्पयामि । [ K: आङ्गिरसं तर्पयामि । ] ओं [ K omits ओं ] विद्यां तर्पयामि । [ K: दुर्गां तर्पयामि ज्येष्ठां तर्पयामि । ] ओं [ K omits ओं ] धन्वन्तरिं तर्पयामि । ओं [ K omits ओं ] धन्वन्तरि-पार्षदांस् तर्पयामि । ओं [ K omits ओं ] धन्वन्तरि-पार्षदीश् च तर्पयामि+इति [ K: तर्पयामि ] ॥
अथ निवीती ॥
ओम् ऋषींस् तर्पयामि । ओं [K omits ओं ] महर्षींस् [ K: परमर्षींस् ] तर्पयामि । ओं [ K omits ओं ] परमर्षींस् [ K: महर्षींस् ] तर्पयामि । ओं [ K omits ओं ] ब्रह्मर्षींस् तर्पयामि । ओं [ K omits ओं ] देवर्षींस् तर्पयामि । ओं [ K omits ओं ] राजर्षींस् तर्पयामि । ओं [ K omits ओं ] श्रुतर्षींस् तर्पयामि । ओं [ K omits ओं ] जनरृषींस् तर्पयामि । ओं [ K omits ओं ] तपरृषींस् [ K: तपर्षींस् ] तर्पयामि । ओं [ K omits ओं ] सत्यर्षींस् तर्पयामि । ओं [ K omits ओं ] सप्तर्षींस् तर्पयामि । ओं [ K omits ओ ? ] काण्डर्षींस् तर्पयामि । ओं [ K omits ओ ? ] ऋषिकांस् तर्पयामि । ओम् [ K omits ओम् ] ऋषि-पत्नीस् तर्पयामि । ओम् [ K omits ओम् ] ऋषि-पुत्रांस् तर्पयामि । ओम् [ K omits ओम् ] ऋषि-पौत्रांस् तर्पयामि ।
ओं [K omits ओ ? ] काण्वं बौधायनं तर्पयामि । ओम् [ K omits ओम् ] आपस्तम्बं सूत्रकारं तर्पयामि । ओं [ K omits ओ ? ] सत्याषाढं हिरण्यकेशिनं तर्पयामि । ओं [ K omits ओ ? ] वाजसनेयिनं याज्ञवल्क्यम् तर्पयामि । ओम् [ K omits ओम् ] आश्वलायनं शौनकं तर्पयामि । ओं [ K omits ओ ? ] व्यासं तर्पयामि । ओं [ K omits ओ ? ] वसिष्ठं तर्पयामि ।
ओं [K omits ओ ? ] प्रणवं तर्पयामि । ओं [ K omits ओ ? ] व्याहृतीस् तर्पयामि । ओं [ K omits ओ ? ] सावित्रीं तर्पयामि । ओं [ K omits ओ ? ] गायत्रीं तर्पयामि । ओं [ K omits ओ ? ] छन्दांसि तर्पयामि । ओम् [ K omits ओम् ] ऋग्वेदं तर्पयामि । ओं [ K omits ओ ? ] यजुर्वेदं तर्पयामि । ओं [ K omits ओ ? ] सामवेदं तर्पयामि । ओम् [ K omits ओम् ] अथर्ववेदं तर्पयामि । ओम् [ K omits ओम् ] अथर्वाङ्गिरसस् [ K: अथर्वाङ्गिरसं ] तर्पयामि । ओम् [ K omits ओम् ] इतिहास-पुराणानि तर्पयामि । ओं [ K omits ओ ? ] सर्व-वेदांस् तर्पयामि । ओं [ K omits ओ ? ] सर्व-देव-जनांस् तर्पयामि । ओं [ K omits ओ ? ] सर्व-भूतानि तर्पयामि+इति [ K: तर्पयामि ] ॥
अथ प्राचीनावीति । ओं पितॄन् स्वधा नमस् तर्पयामि । ओं [K omits ओ ? ] पितामहान् स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] प्रपितामहान् स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] मातॄः स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] पितामहीः स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] प्रपितामहीः स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] मातामहान् स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] मातुः पितामहान् स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] मातुः प्रपितामहान् स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] मातामहीः स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] मातुः पितामहीः स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] मातुः प्रपितामहीः स्वधा नमस् तर्पयामि ॥
ओम् आचार्यान् स्वधा नमस् तर्पयामि । ओम् [K omits ओम् ] आचार्य-पत्नीः स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] गुरून् स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] गुरु-पत्नीः स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] सखीन् स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] सखि-पत्नीः स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] ज्ञातीन् स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] ज्ञाति-पत्नीः स्वधा नमस् तर्पयामि । ओम् [ K omits ओम् ] अमात्यान् स्वधा नमस् तर्पयामि । ओम् [ K omits ओम् ] अमात्य-पत्नीः स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] सर्वान् स्वधा नमस् तर्पयामि । ओं [ K omits ओ ? ] सर्वाः स्वधा नमस् तर्पयामि+इति ॥
अनुतीर्थम् अप उत्सिञ्चति ॥
ऊर्जं वहन्तीर् अमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितॄन् । तृप्यत तृप्यत तृप्यत+इति ॥
न+एक-वस्त्रो न+आर्द्र-वासा दैवानि [K: देवानि ] कर्माण्य् अनुसञ्चरेत् ॥
पितृ-संयुक्तानि च+इत्य् एकेषाम् । पितृ-संयुक्तानि च+इत्य् एकेषाम् ॥
2.6
अथ+इमे पञ्च महा-यज्ञाः । तान्य् एव महा-सत्त्राणि । देव-यज्ञः पितृ-यज्ञो भूत-यज्ञो मनुष्य-यज्ञो ब्रह्म-यज्ञ इति ॥
अहर्-अहः स्वाहा-कुर्याद् आ काष्ठात् । तथा+एतं देव-यज्ञं समाप्नोति ॥
अहर्-अहः स्वधा-कुर्याद् आ+उद-पात्रात् । तथा+एतं पितृ-यज्ञं समाप्नोति ॥
अहर्-अहर् नमस्-कुर्याद् आ पुष्पेभ्यः । तथा+एतम् भूत-यज्ञं समाप्नोति ॥
अहर्-अहर् ब्राह्मणेभ्यो+अन्नं दद्याद् आ मूल-फल-शाकेभ्यः । तथा+एतं मनुष्य-यज्ञं समाप्नोति ॥
अहर्-अहः स्वाध्यायं कुर्याद् आ प्रणवात् । तथा+एतं ब्रह्म-यज्ञं समाप्नोति ॥
स्वाध्यायो वै ब्रह्म-यज्ञः । तस्य ह वा एतस्य ब्रह्म-यज्ञस्य वाग् एव जुहूर् मन उपभृच् चक्षुर् ध्रुवा मेधा स्रुवः सत्यम् अवभृथः स्वर्गो लोक उदयनम् । यावन्तं ह वा इमां वित्तस्य पूर्णां ददत् स्वर्गं लोकं जयति तावन्तं लोकं जयति [K omits: तावन्तं लोकं जयति ] भूयांसं च+अक्षय्यं च+अप पुनर्मृत्युं जयति य एवं विद्वान् स्वाध्यायम् अधीते । तस्मात् स्वाध्यायो+अध्येतव्य इति हि ब्राह्मणम् ॥
अथ+अप्य् उदाहरन्ति । स्व्-अभ्यक्तः सु-हितः सुखे शयने शयानो यं यं क्रतुम् अधीते तेन तेन+अस्य+इष्टं भवति+इति ॥
तस्य ह वा एतस्य धर्मस्य चतुर्धा भेदम् एक आहुः । अदृष्टत्वात् । ये चत्वार इति । कर्म-वादः ॥
ऐष्टिक-पाशुक-सौमिक-दार्विहोमाणाम् [K: -दार्वीहोमाणाम् ] ॥
तद् एषा+अभिवदति ।
ये चत्वारः पथयो देव-याना अन्तरा द्यावा-पृथिवी वियन्ति ।
तेषां यो अज्यानिम् अजीतिम् आवहात् तस्मै नो देवाः परि दत्त+इह सर्वे ॥ इति ॥
ब्रह्मचारी गृहस्थो वानप्रस्थः परिव्राजक इति ॥
ब्रह्मचारी गुरु-शुश्रूषी+आ मरणात् ॥
वानप्रस्थो वैखानस-शास्त्र-समुदाचारः ॥
वैखानसो वने मूल-फल-आशी तपः-शीलः सवनेषु+उदकम् उपस्पृशन्+श्रामणकेन+अग्निम् आधाय+अग्राम्य-भोजी देव-पितृ-भूत-मनुष्य-ऋषि-पूजकः सर्व-अतिथिः प्रतिषिद्ध-वर्जं बैष्कम् अप्य् उपयुञ्जीत । न फाल-कृष्टम् अधितिष्ठेद् ग्रामं च न प्रविशेत् । जटिलश् चीर-अजिन-वासा न+अतिसांवत्सरं भुञ्जीत ॥
परिव्राजकः परित्यज्य बन्धून् अपरिग्रहः प्रव्रजेद् [K: परिव्रजेद् ] यथा-विधि ॥
अरण्यं गत्वा ॥
शिखा-मुण्डः ॥
कौपीन-आच्छादनः [K: कौपीनाच्छादनाः ] ॥
वर्षास्व् एकस्थः ॥
काषाय-वासाः ॥
सन्न-मुसले व्यङ्गारे निवृत्त-शराव-सम्पाते भिक्षेत ॥
वाङ्-मनः-कर्म-दण्डैर् भूतानाम् अद्रोही ॥
पवित्रं बिभ्रत्[K: बिभृयात् ]+शौच-अर्थम् ॥
उद्धृत-परिपूताभिर् अद्भिर् अप्-कार्यं कुर्वाणः [K: अद्भिः कार्यं कुर्यात् ] ॥
अपविध्य वैदिकानि कर्माण्य् उभयतः परिच्छिन्ना मध्यमं पदं संश्लिष्यामह इति वदन्तः ॥
ऐकाश्रम्यं त्व् आचार्या अप्रजनत्वाद् [K: अप्रजननत्वाद् ] इतरेषाम् ॥
तत्र+उदाहरन्ति । प्राह्लादिर् ह वै कपिलो नाम+असुर आस । स एतान् भेदांश् चकार देवैः [K: देवैस्सह ] स्पर्धमानः । तान् मनीषी न+आद्रियेत ॥
अदृष्टत्वात् । ये चत्वार इति । कर्म-वाद ऐष्टिक-पाशुक-सौमिक-दार्विहोमाणाम् [K: -दार्वीहोमाणाम् ] ॥
तद् एषा+अभ्यनूच्यते ।
एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते न+उ कनीयान् ।
तस्य+एव+आत्मा पदवित् तं विदित्वा न कर्मणा लिप्यते पापकेन ॥ इति ॥[cf. B2,10,17,7]
स ब्रूयात् ।
येन सूर्यस् तपति तेजसा+इद्धः पिता पुत्रेण पितृमान् योनि-योनौ ।
न+अवेदविन् मनुते तं बृहन्तं सर्व-अनुभूम् [K: सर्वानुभुम् ] आत्मानं सम्पराये [ K: साम्पराये ] ॥ इति ॥
इमे ये न+अर्वाङ् न परश् चरन्ति न ब्राह्मणासो न सुतेकरासः ।
त एते वाचम् अभिपद्य पापया सिरीस् तन्त्रं तन्वते अप्रजज्ञये ॥ इति ॥
प्रजाभिर् अग्ने अमृतत्वम् अश्याम् । जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जायते ब्रह्मचर्येण+ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति । एवम् ऋण-संयोग-वादिन्यो+असङ्ख्येया [K: ऋणसंयोगादीन्यसङ्ख्येयानि ] भवन्ति ॥ [cf. B2,9,16,7]
त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञम् अनुप्रदानम् ।
य एतानि कुर्वते तैर् इत् सह स्मो रजो भूत्वा ध्वंसते+अन्यत् प्रशंसन् ॥ इति ।
ध्वंसते+अन्यत् [K omits: ध्वंसते ऽन्यत् ] प्रशंसन्न् इति ॥
2.7
अथ शालीन-यायावराणाम् आत्म-याजिनां प्राण-आहुतीर् व्याख्यास्यामः ॥
सर्व-अवश्यक-अवसाने सम्मृष्ट-उपलिप्ते देशे प्राङ्-मुख उपविश्य तद् भूतम् आह्रियमाणम् । भूर् भुवः सुवर् ओम् इति । उपस्थाय वाचं यच्छेत् ॥
न्यस्तम् अन्नं महा-व्याहृतिभिः प्रदक्षिणम् उदकं परिषिच्य सव्येन पाणिना+अविमुञ्चन् । अमृत-उपस्तरणम् असि+इति । पुरस्ताद् अपः पीत्वा पञ्च-अन्नेन प्राण-आहुतीर् जुहोति । प्राणे निविष्टो+अमृतं जुहोमि । शिवो मा विश+अप्रदाहाय । प्राणाय स्वाहा । अपाने निविष्टो+अमृतं जुहोमि । शिवो मा विश+अप्रदाहाय । अपानाय स्वाहा । व्याने निविष्टो+अमृतं जुहोमि । शिवो मा विश+अप्रदाहाय । व्यानाय स्वाहा । उदाने निविष्टो+अमृतं जुहोमि । शिवो मा विश+अप्रदाहाय । उदानाय स्वाहा । समाने निविष्टो+अमृतं जुहोमि । शिवो मा विश+अप्रदाहाय । समानाय स्वाहा+इति ॥ [K omits: अपाने निविष्टो —समानाय स्वाहा ]
पञ्च-अन्नेन प्राण-आहुतीर् हुत्वा तूष्णीं भूयो व्रतयेत् प्रजापतिं मनसा ध्यायन् । न+अन्तरा वाचं विसृजेत् ॥
यद्य् [K: यद् ] अन्तरा वाचं विसृजेत् । भूर् भुवः सुवर् ओम् इति । जपित्वा पुनर् एव भुञ्जीत ॥
त्वक्-केश-नख-कीट-आखु-पुरीषाणि दृष्ट्वा तं देशं पिण्डम् उद्धृत्य+अद्भिर् अभ्युक्ष्य भस्म+अवकीर्य पुनर् अद्भिः प्रोक्ष्य वाचा च प्रशस्तम् उपयुञ्जीत ॥
अथ+अप्य् उदाहरन्ति ।
आसीनः प्राङ्-मुखो+अश्नीयाद् वाग्-यतो+अन्नम् अकुत्सयन् ।
अस्कन्दयंस् तन्-मनाश् च भुक्त्वा च+अग्निम् उपस्पृशेद् ॥ इति ॥
सर्व-भक्ष्य-अपूप-कन्द-मूल-फल-मांसानि [K: -मांसादीनि ] दन्तैर् न+अवद्येत् ॥
न+अति-सुहितः ॥
अमृत-अपिधानम् असि+इति । उपरिष्टाद् अपः पीत्वा+आचान्तो हृदय-देशम् अभिमृशति । प्राणानां ग्रन्थिर् असि रुद्रो मा विश+अन्तकः । तेन+अन्नेन+आप्यायस्व+इति ॥
पुनर् आचम्य दक्षिणे पाद-अङ्गुष्ठे पाणी निस्रावयति ।
अङ्गुष्ठ-मात्रः पुरुषो+अङ्गुष्ठं च समाश्रितः ।
ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्व-भुक् ॥ इति ॥
हुत-अनुमन्त्रणम् ऊर्ध्व-हस्तः समाचरेत् । श्रद्धायां प्राणे निविश्य+अमृतं हुतम् । प्राणम् अन्नेन+आप्यायस्व । श्रद्धायाम् अपाने निविश्य+अमृतं हुतम् । प्राणम् अन्नेन+आप्यायस्व । श्रद्धायां व्याने निविश्य+अमृतं हुतम् । प्राणम् अन्नेन+आप्यायस्व । श्रद्धायाम् उदाने निविश्य+अमृतं हुतम् । प्राणम् अन्नेन+आप्यायस्व । श्रद्धायां समाने निविश्य+अमृतं हुतम् । प्राणम् अन्नेन+आप्यायस्व+इति । पञ्चभिः ॥ [K omits: श्रद्धायामपाने —श्रद्धायां समाने —अन्नेनाप्यायस्व ]
ब्रह्मणि म आत्मा+अमृतत्वाय+इति [K: आत्मामृतत्वायेत्यात्मानम् ] ॥
अक्षरेण च+आत्मानं योजयेत् ॥
सर्व-क्रतु-याजिनाम् आत्म-याजी विशिष्यते ॥
अथ+अप्य् उदाहरन्ति ॥
यथा हि तूलम् ऐषीकम् अग्नौ प्रोतं प्रदीप्यते ।
तद्वत् सर्वाणि पापानि दह्यन्ते ह्य् आत्म-याजिनः ॥
केवल-अघो भवति केवल-आदी । मोघम् अन्नं विन्दते अप्रचेता [K omits अप्रचेता ] इति ॥
स एवम् एव+अहर्-अहः सायं प्रातर् जुहुयात् ॥
अद्भिर् वा सायम् ॥
अथ+अप्य् उदाहरन्ति ।
अग्रे भोजयेद् अतिथीन् अन्तर्वत्नीर् अनन्तरम् ।
बाल-वृद्धांस् तथा दीनान् व्याधितांश् च विशेषतः ॥
अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्ते यथा-विधि ।
भुज्यमानो न जानाति न स भुङ्क्ते स भुज्यते ॥
पितृ-दैवत-भृत्यानां माता-पित्रोर् गुरोस् तथा ।
वाग्-यतो विघसम् अश्नीयाद् एवं धर्मो विधीयते ॥ इति ॥
अथ+अप्य् उदाहरन्ति ।
अष्टौ ग्रासा मुनेर् भक्ष्याः षोडश+अरण्य-वासिनः ।
द्वात्रिंशत् तु [K: द्वात्रिंशतं ] गृहस्थस्य अमितं [ K: गृहस्थस्यापरिमितं ] ब्रह्मचारिणः ॥
आहित-अग्निर् अनड्वांश् च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिध्यन्ति न+एषां सिद्धिर् अनश्नताम् ॥ इति ॥
गृहस्थो ब्रह्मचारी वा यो+अनश्नंस् तु तपश् चरेत् ।
प्राण-अग्निहोत्र-लोपेन अवकीर्णी भवेत् तु सः ॥
अन्यत्र प्रायश्चित्तात् । प्रायश्चित्ते तद् एव विधानम् ॥
अथ+अप्य् उदाहरन्ति ।
अन्तरा प्रातर्-आशं च सायम्-आशं तथा+एव च ।
सदा-उपवासी भवति यो न भुङ्क्ते कदाचन [K: कदाचनेति ] ॥
प्राण-अग्निहोत्र-मन्त्रांस् तु निरुद्धे भोजने जपेत् ।
त्रेता-अग्निहोत्र-मन्त्रांस् तु द्रव्य-अलाभे यथा जपेत् ॥ इति ॥
एवम् आचरन् [K: एवमेवाचरन् ] ब्रह्म-भूयाय कल्पते । ब्रह्म-भूयाय कल्पत इति ॥
2.8
पित्र्यम् आयुष्यं स्वर्ग्यं यशस्यं पुष्टि-कर्म च ॥
त्रिमधुस् त्रिणाचिकेतस् त्रिसुपर्णः पञ्च-अग्निः षडङ्ग-वित्+शीर्षको ज्येष्ठसामकः स्नातक इति पङ्क्ति-पावनाः ॥
तद्-अभावे रहस्य-वित् ॥
ऋचो यजूंषि सामानि+इति श्राद्धस्य महिमा । तस्माद् एवं-विदं सपिण्डम् अप्य् आशयेत् ॥
राक्षोघ्नानि च सामानि स्वधावन्ति यजूंषि च ।
मध्व्-ऋचो+अथ पवित्राणि श्रावयेद् आशयन्+शनैः ॥
चरण-वतो+अनूचानान् योनि-गोत्र-मन्त्र-असम्बद्धान्[क् -असम्बन्धान्]+शुचीन् मन्त्रवतस् त्र्य्-अवरान् अयुजः पूर्वेद्युः प्रातर् एव वा निमन्त्र्य स-दर्भ-उपकॢप्तेष्व् आसनेषु प्राङ्-मुखान् उपवेशयत्य् उदङ्-मुखान् वा ॥
अथ+एनांस् तिल-मिश्रा अपः प्रतिग्राह्य गन्धैर् माल्यैश् च+अलङ्कृत्य । अग्नौ करिष्यामि+इति । अनुज्ञातो+ग्निम् उपसमाधाय सम्परिस्तीर्य+आ+अग्निमुखात् कृत्वा+अन्नस्य+एव [K: कृत्वाज्यस्यैव ] तिस्र आहुतीर् जुहोति । सोमाय पितृ-पीताय स्वधा नमः स्वाहा । यमाय+अङ्गिरस्वते पितृमते स्वधा नमः स्वाहा । अग्नये कव्य-वाहनाय स्विष्टकृते स्वधा नमः स्वाहा+इति ॥
तत्-शेषेण+अन्नम् अभिघार्य+अन्नस्य+एता एव तिस्रो [K: तिस्र आहुतीर् ] जुहुयात् ॥
वयसां पिण्डं दद्यात् ॥
वयसां हि पितरः प्रतिमया चरन्ति+इति विज्ञायते ॥
अथ+इतरत् स-अङ्गुष्ठेन पाणिना+अभिमृशति ॥
पृथिवी-समन्तस्य [K: पृथिवीसमं तस्य ] ते+अग्निर् उपद्रष्टा+ऋचस् ते महिमा दत्तस्य+अप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्रह्मणस् त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राण-अपानयोर् जुहोम्य् अक्षितम् असि मा पितॄणां क्षेष्ठा अमुत्र+अमुष्मिं लोक इति ।
अन्तरिक्ष-समन्तस्य [K: अन्तरिक्षस्समं तस्य ] ते वायुर् उपश्रोता यजूंषि ते महिमा दत्तस्य+अप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्रह्मणस् त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राण-अपानयोर् जुहोम्य् अक्षितम् असि मा पितामहानां क्षेष्ठा अमुत्र+अमुष्मिं लोक इति ।
द्यु-समन्तस्य [K: द्यौसमं तस्य ] त आदित्यो+अनुख्याता सामानि ते महिमा दत्तस्य अप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्रह्मणस् त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राण-अपानयोर् जुहोम्य् अक्षितम् असि मा प्रपितामहानां क्षेष्ठा अमुत्र+अमुष्मिं लोक इति ॥
अथ वै भवति ॥
अग्नौ करण-शेषेण तद् अन्नम् अभिघारयेत् ।
निर्-अङ्गुष्ठं तु यद् दत्तं न तत् प्रीणाति वै पितॄन् ॥
उभयोः शाखयोर् मुक्तं पितृभ्यो+अन्नं निवेदितम् ।
तद् अन्तरम् उपासन्ते असुरा [K: उपासन्ते ऽसुरा वै ] दुष्ट-चेतसः ॥
यातुधानाः पिशाचाश् च प्रतिलुम्पन्ति तत्+हविः ।
तिल-दाने ह्य् अदायाश् च तथा क्रोध-वशे+असुराः ॥
काषाय-वासा यान् कुरुते जप-होम-प्रतिग्रहान् ।
न तद् देवं-गमं [K: देवगमं ] भवति हव्य-कव्येषु यत्+हविः ॥
यच् च दत्तम् अनङ्गुष्ठं यच् च+एव प्रतिगृह्यते ।
आचामति च यस् तिष्ठन् न स तेन समृध्यते ॥ इति ॥
आद्य्-अन्तयोर् अपां प्रदानं सर्वत्र ॥
जय-प्रभृति यथा-विधानम् ॥
शेषम् उक्तम् अष्टका-होमे ॥
द्वौ दैवे [K: देवे ] पितृ-कार्ये त्रीन् एकैकम् उभयत्र वा ।
भोजयेत् सुसमृद्धो+अपि न प्रसज्येत [K: प्रसज्जेत ] विस्तरे ॥
सत्क्रियां देश-कालौ च शौचं ब्राह्मण-सम्पदम् ।
पञ्च+एतान् विस्तरो हन्ति तस्मात् तं परिवर्जयेत् ॥
उरस्तः पितरस् तस्य वामतश् च पितामहाः ।
दक्षिणतः प्रपितामहाः पृष्ठतः पिण्ड-तर्ककाः ॥ इति ॥
2.9
प्रजा-कामस्य+उपदेशः ॥
प्रजनन-निमित्ता समाख्या+इत्य् अश्विनाव् ऊचतुः ॥
आयुषा तपसा युक्तः स्वाध्याय-इज्या-परायणः ।
प्रजाम् उत्पादयेद् युक्तः स्वे-स्वे वर्णे [K: वंशे ] जित-इन्द्रियः ॥
ब्राह्मणस्य+ऋण-संयोगस् त्रिभिर् भवति जन्मतः ।
तानि मुच्य+आत्मवान् भवति विमुक्तो धर्म-संशयात् ॥
स्वाध्यायेन ऋषीन् पूज्य सोमेन च पुरन्दरम् ।
प्रजया च पितॄन् पूर्वान् अनृणो दिवि मोदते ॥
पुत्रेण लोकाञ् जयति पौत्रेण+अनन्त्यम् [K: पौत्रेणामृतम् ] अश्नुते ।
अथ पुत्रस्य पौत्रेण नाकम् एव+अधिरोहति ॥ इति ॥
विज्ञायते च । जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जायते ब्रह्मचर्येण+ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति । एवम् ऋण-संयोगं वेदो दर्शयति ॥[cf. B2,6,11,33]
सत्-पुत्रम् उत्पाद्य+आत्मानं तारयति ॥
सप्त+अवरान् सप्त पूर्वान् षड् अन्यान् आत्म-सप्तमान् । सत्-पुत्रम् अधिगच्छानस् तारयत्य् एनसो भयात् ॥
तस्मात् प्रजा-सन्तानम् उत्पाद्य फलम् अवाप्नोति [K: फलं प्राप्नोति ] ॥
तस्माद् यत्नवान् प्रजाम् उत्पादयेत् ॥
औषध-मन्त्र-संयोगेन ॥
तस्य+उपदेशः श्रुति-सामान्येन+उपदिश्यते ॥
सर्व-वर्णेभ्यः फलवत्त्वाद् [K: फलत्त्वाद् ] इति । फलवत्त्वाद् [ K: फलत्त्वाद् ] इति ॥
2.10
अथ+अतः सन्न्यास-विधिं व्याख्यास्यामः ॥
सो+अत एव ब्रह्मचर्यवान् प्रव्रजति+इत्य् एकेषाम् ॥
अथ शालीन-यायावराणाम् अनपत्यानाम् ॥
विधुरो वा प्रजाः स्वधर्मे प्रतिष्ठाप्य वा ॥
सप्तत्या ऊर्ध्वं सन्न्यासम् उपदिशन्ति ॥
वानप्रस्थस्य वा कर्म-विरामे ॥
एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् ।
तस्य+एव+आत्मा पदवित् तं विदित्वा न कर्मणा लिप्यते पापकेन ॥ इति ॥[cf. B2,6,11,30]
अपुनर्भवं नयति+इति नित्यः ॥
महद् एनं गमयति+इति महिमा ॥
केश-श्मश्रु-लोम-नखानि वापयित्वा+उपकल्पयते ॥
यष्टयः शिक्यं जल-पवित्रं कमण्डलुं पात्रम् इति ॥
एतत् समादाय ग्राम-अन्ते ग्राम-सीमान्ते+अग्न्य्-अगारे वा+आज्यं पयो दधि+इति त्रिवृत् प्राश्य+उपवसेत् ॥
अपो वा ॥
ओं भूः सावित्रीं प्रविशामि तत् सवितुर् वरेण्यम् । ओं भुवः सावित्रीं प्रविशामि भर्गो देवस्य धीमहि । ओं सुवः सावित्रीं प्रविशामि धियो यो नः प्रचोदयाद् इति । पच्छो[पद्-शस्]+अर्धर्चशस् ततः समस्तया च व्यस्तया च ॥
आत्मानम् आत्मन [K omits: आत्मानमात्मन ] आश्रमाद् आश्रमम् उपनीय ब्रह्म-पूतो भवति+इति विज्ञायते ॥
अथ+अप्य् उदाहरन्ति ।
आश्रमाद् आश्रमं गत्वा हुत-होमो जित-इन्द्रियः ।
भिक्षा-बलि-परिश्रान्तः पश्चाद् भवति भिक्षुकः ॥ इति ॥
स एष भिक्षुर् आनन्त्याय ॥
पुरा+आदित्यस्य+अस्तमयाद् गार्हपत्यम् उपसमाधाय+अन्वाहार्यपचनम् आहृत्य ज्वलन्तम् आहवनीयम् उद्धृत्य गार्हपत्य आज्यं विलाप्य+उत्पूय स्रुचि चतुर्-गृहीतं गृहीत्वा समिद्वत्य् आहवनीये पूर्ण-आहुतिं जुहोति । ओं स्वाहा+इति ॥
एतद् ब्रह्म-अन्वाधानम् इति विज्ञायते ॥
अथ सायं हुते+अग्निहोत्र उत्तरेण गार्हपत्यं तृणानि संस्तीर्य तेषु द्वन्द्वं न्यञ्चि पात्राणि सादयित्वा दक्षिणेन+आहवनीयं ब्रह्म-आयतने दर्भान् संस्तीर्य तेषु कृष्ण-अजिनं च+अन्तर्धाय+एतां रात्रिं जागर्ति ॥
य एवं विद्वान् ब्रह्म-रात्रिम् उपोष्य ब्राह्मणो+अग्नीन् [K: उपोष्याग्नीन् ] समारोप्य प्रमीयते सर्वं पाप्मानं तरति तरति ब्रह्म-हत्याम् ॥
अथ ब्राह्मे मुहूर्त उत्थाय काल एव प्रातर्-अग्निहोत्रं जुहोति ॥
अथ पृष्ठ्यां स्तीर्त्वा+अपः प्रणीय वैश्वानरं द्वादश-कपालं निर्वपति । सा प्रसिद्ध-इष्टिः सन्तिष्ठते ॥
आहवनीये+अग्निहोत्र-पात्राणि प्रक्षिपत्य् अमृन्मयान्य् अनश्ममयानि [K: प्रक्षिपेदमृण्मयान्यनायसानि ] ॥
गार्हपत्ये+अरणी । भवतं नः समनसाव् इति ॥
आत्मन्य् [K: अथात्मन्य् ] अग्नीन् समारोपयते । या ते अग्ने यज्ञिया तनूर् इति त्रिस् त्रिर् एकैकं समाजिघ्रति ॥
अथ+अन्तर्वेदि तिष्ठन् । ओं भूर् भुवः सुवः सन्न्यस्तं मया सन्न्यस्तं मया सन्न्यस्तं मया+इति । त्रिर् उपांशु+उक्त्वा त्रिर् उच्चैः ॥
त्रिषत्या हि देवा इति विज्ञायते ॥
अभयं सर्व-भूतेभ्यो मत्त इति च+अपां पूर्णम् अञ्जलिं निनयति ॥
अथ+अप्य् उदाहरन्ति ।
अभयं सर्व-भूतेभ्यो दत्त्वा यश् चरते मुनिः ।
न तस्य सर्व-भूतेभ्यो भयं च+अपि+इह [K: चापि ह ] जायते ॥ इति ॥
स वाचंयमो भवति ॥
सखा मा [K: मे ] गोपाय+इति दण्डम् आदत्ते ॥
यद् अस्य पारे रजस इति शिक्यं गृह्णाति ॥
येन देवाः पवित्रेण+इति जल-पवित्रं गृह्णाति ॥
येन देवा ज्योतिषा+ऊर्ध्वा उदायन्न् इति कमण्डलुं गृह्णाति ॥
सप्त-व्याहृतिभिः पात्रं गृह्णाति ॥
यष्टयः शिक्यं जल-पवित्रं कमण्डलुं पात्रम् इत्य् एतत् समादाय यत्र+आपस् तत्र [K: तद् ] गत्वा स्नात्व+अप आचम्य सुरभिमत्या+अब्लिङ्गाभिर् वारुणीभिर् हिरण्यवर्णाभिः पावमानीभिर् इति मार्जयित्वा+अन्तर्-जल-गतो+अघमर्षणेन षोडश प्राण-आयामान् धारयित्वा+उत्तीर्य वासः पीडयित्वा+अन्यत् प्रयतं वासः परिधाय+अप आचम्य । ओं भूर् भुवः सुवर् इति । जल-पवित्रम् आदाय तर्पयति । ओं भूस् तर्पयामि । ओं भुवस् तर्पयामि । ओं सुवस् तर्पयामि । ओं महस् तर्पयामि । ओं जनस् तर्पयामि । ओं तपस् तर्पयामि । ओं सत्यं तर्पयामि+इति ॥
देववत् [K omits देववत् ] पितृभ्यो+अञ्जलिम् आदाय [ K: उपादाय ] । ओं भूः स्वधा । ओं भुवः स्वधा । ओं सुवः स्वधा । ओं भूर् भुवः सुवर् महर् नम इति ॥
अथ । उद् उ त्यम् । चित्रम् इति । द्वाभ्याम् आदित्यम् उपतिष्ठते ॥
ओम् इति ब्रह्म ब्रह्म वा एष ज्योतिर् य एष तपत्य् एष वेदो [K: ओम् —एष ज्योतिः य एष ज्योतिः य एष तर्पत्यैष वेदा ] य एष तपति [ K: य एव तर्पयति ] वेद्यम् एव+एतद् य एष तपति [ K: तर्पयति ] । एवम् एव+एष आत्मानं तर्पयति । आत्मने नमस्-करोति । आत्मा ब्रह्म+आत्मा ज्योतिः ॥
सावित्रीं सहस्रकृत्व आवर्तयेत्+शतकृत्वो+अपरिमितकृत्वो वा ।