०८

विश्वास-प्रस्तुतिः - ०१

०१ अतिलोभात् प्रमादाद् वा यः करोति क्रियाम् इमाम् ।

Buhler - ०१
  1. He who, through excessive greed or carelessness, performs this rite for others, is tainted by sin, and peṛṣes like one who has swallowed poison.
मूलम् - ०१

०१ अतिलोभात् प्रमादाद् वा यः करोति क्रियाम् इमाम् ।

अन्यस्य सो ऽंह आविष्टो गरगीर् इव सीदति ॥

विश्वास-प्रस्तुतिः - ०२

०२ आचार्यस्य पितुर् मातुर् आत्मनश् च क्रियाम् इमाम् ।
कुर्वन् भात्य् अर्कवद् विप्रः सा कार्यैषाम् अतः क्रिया ॥

Buhler - ०२
  1. A Brāhmaṇa who performs this rite for his teacher, his father, his mother, or for himself is resplendent like the sun. Therefore this rite may be performed for those (persons).
मूलम् - ०२

०२ आचार्यस्य पितुर् मातुर् आत्मनश् च क्रियाम् इमाम् ।
कुर्वन् भात्य् अर्कवद् विप्रः सा कार्यैषाम् अतः क्रिया ॥

विश्वास-प्रस्तुतिः - ०३

०३ क एतेन सहस्राक्षं पवित्रेणाकरोच् छुचिम् ।
अग्निं वायुं रविं सोमं यमादींश् च सुरेश्वरान् ॥

Buhler - ०३
  1. Ka (Prajāpati) purified by means of this rite the god with a thousand eyes (Sahasrākṣa), Fire, Wind, the Sun, Soma, Yama, and other lords of the gods.
मूलम् - ०३

०३ क एतेन सहस्राक्षं पवित्रेणाकरोच् छुचिम् ।
अग्निं वायुं रविं सोमं यमादींश् च सुरेश्वरान् ॥

विश्वास-प्रस्तुतिः - ०४

०४ यत् किंचित् पुण्यनामेह त्रिषु लोकेषु विश्रुतम् ।
विप्रादि तत् कृतं केन पवित्रक्रिययानया ॥

Buhler - ०४
  1. Whatever there is in these three worlds, famed as possessing a holy name, Brāhmaṇas and the rest, (all) that was produced by Ka through this rite of sanctification.
मूलम् - ०४

०४ यत् किंचित् पुण्यनामेह त्रिषु लोकेषु विश्रुतम् ।
विप्रादि तत् कृतं केन पवित्रक्रिययानया ॥

विश्वास-प्रस्तुतिः - ०५

०५ प्राजापत्यम् इदं गुह्यं पापघ्नंप्रथमोद्भवम् । [k: प्रजापत्यम्]
समुत्पन्नान्य् अतः पश्चात् पवित्राणि सहस्रशः ॥

Buhler - ०५
  1. This sin-destroying secret of Prajāpati was first produced; thereafter thousands of purificatory rites .came into existence. 1
मूलम् - ०५

०५ प्राजापत्यम् इदं गुह्यं पापघ्नंप्रथमोद्भवम् । [k: प्रजापत्यम्]
समुत्पन्नान्य् अतः पश्चात् पवित्राणि सहस्रशः ॥

विश्वास-प्रस्तुतिः - ०६

०६ यो ऽब्दायनऋतुपक्षाहाञ् जुहोत्य् अष्टौ गणान् इमान् ।
पुनाति चात्मनो वंश्यान् दश पूर्वान् दशावरान् [k:दशापरान्] ॥

Buhler - ०६
  1. He who performs those eight Gaṇahomas on the (first) day of the year, of a half-year, of a season, or of a fortnight, sanctifies ten ancestors and ten descendants of his line;
मूलम् - ०६

०६ यो ऽब्दायनऋतुपक्षाहाञ् जुहोत्य् अष्टौ गणान् इमान् ।
पुनाति चात्मनो वंश्यान् दश पूर्वान् दशावरान् [k:दशापरान्] ॥

विश्वास-प्रस्तुतिः - ०७

०७ ज्ञायते चामरैर् द्युस्थैः पुण्यकर्मेति भूस्थितः ।
देववन् मोदते भूयः स्वर्गलोके ऽपि पुण्यकृत् ॥ [क् पुत्स्थिस् वेर्से अफ़्तेर् ब्ध्स् ४।८।१२]

Buhler - ०७
  1. And, while still on earth, he is known to the gods in heaven as a holy man, and (after death) that virtuous man rejoices for a very long time in heaven like a god.
मूलम् - ०७

०७ ज्ञायते चामरैर् द्युस्थैः पुण्यकर्मेति भूस्थितः ।
देववन् मोदते भूयः स्वर्गलोके ऽपि पुण्यकृत् ॥ [क् पुत्स्थिस् वेर्से अफ़्तेर् ब्ध्स् ४।८।१२]

विश्वास-प्रस्तुतिः - ०८

०८ एतान् अष्टौ गणान् होतुं न शक्नोति यदि द्विजः ।
एको ऽपि तेन होतव्यो रजस् तेनास्य नश्यति ॥

Buhler - ०८
  1. If a Brāhmaṇa is unable to offer those eight Gaṇahomas, let him offer one; thereby his guilt is effaced.
मूलम् - ०८

०८ एतान् अष्टौ गणान् होतुं न शक्नोति यदि द्विजः ।
एको ऽपि तेन होतव्यो रजस् तेनास्य नश्यति ॥

विश्वास-प्रस्तुतिः - ०९

०९ सूनवो यस्य शिष्या वा जुह्वत्य् अष्टौ गणान् इमान् ।
अध्यापनपरिक्रीतैर् अंहसः सो ऽपि मुच्यते ॥

Buhler - ०९
  1. He, also, whose sons or pupils offer those eight Gaṇahomas, is freed from his sin which is bought off by his having instructed (them).
मूलम् - ०९

०९ सूनवो यस्य शिष्या वा जुह्वत्य् अष्टौ गणान् इमान् ।
अध्यापनपरिक्रीतैर् अंहसः सो ऽपि मुच्यते ॥

विश्वास-प्रस्तुतिः - १०

१० धनेनापि परिक्रीतैर् आत्मपापजिघांसया ।
हावनीया ह्य् अशक्तेन नावसाद्यः शरीरधृक् ॥

Buhler - १०
  1. Through a desire of removing one’s guilt one even may cause (these oblations) to be offered by men who have been engaged for money, in case oneself is unable (to do it); a man need not torment himself. 2
मूलम् - १०

१० धनेनापि परिक्रीतैर् आत्मपापजिघांसया ।
हावनीया ह्य् अशक्तेन नावसाद्यः शरीरधृक् ॥

विश्वास-प्रस्तुतिः - ११

११ धनस्य क्रियते त्यागः कर्मणां सुकृताम् अपि ।
पुंसो ऽनृणस्य पापस्य विमोक्षः क्रियते क्वचित् ॥

Buhler - ११
  1. Even among the virtuous a distribution of wealth is made (for the success) of holy rites; some-times a man who is free from debt is (thereby) freed from guilt.
मूलम् - ११

११ धनस्य क्रियते त्यागः कर्मणां सुकृताम् अपि ।
पुंसो ऽनृणस्य पापस्य विमोक्षः क्रियते क्वचित् ॥

विश्वास-प्रस्तुतिः - १२

१२ विमुक्तो विधिनैतेन सर्वपापार्णसागरात् । [k: मुक्तो यो]
आत्मानं मन्यते शुद्धं समर्थं कर्मसाधने ॥

Buhler - १२

12, Liberated according to this rule from the ocean of guilt and debt, he considers himself pure and able to successfully perform the sacred rites.

मूलम् - १२

१२ विमुक्तो विधिनैतेन सर्वपापार्णसागरात् । [k: मुक्तो यो]
आत्मानं मन्यते शुद्धं समर्थं कर्मसाधने ॥

विश्वास-प्रस्तुतिः - १३

१३ सर्वपापार्णमुक्तात्मा क्रिया आरभते तु याः ।
अयत्नेनैव ताः सिद्धिं यान्ति शुद्धशरीरिणः ॥

Buhler - १३
  1. But in the case of that pure mortal who, freed from all sin and debts, begins the sacred rites, they will succeed without any effort.
मूलम् - १३

१३ सर्वपापार्णमुक्तात्मा क्रिया आरभते तु याः ।
अयत्नेनैव ताः सिद्धिं यान्ति शुद्धशरीरिणः ॥

विश्वास-प्रस्तुतिः - १४

१४ प्राजापत्यम् इदं पुण्यम् ऋषिणा समुदीरितम् । [k: प्रजापत्यम् ॥। ऋषीणां]
इदम् अध्यापयेन् नित्यं धारयेच् छृणुते ऽपि वा ।

Buhler - १४
  1. Let him daily (study and) teach this holy (rule) of Prajāpati, which the sage has proclaimed, let him remember it or hear it. (By doing that) he is freed from all guilt and will be exalted in Brahman’s world.
मूलम् - १४

१४ प्राजापत्यम् इदं पुण्यम् ऋषिणा समुदीरितम् । [k: प्रजापत्यम् ॥। ऋषीणां]
इदम् अध्यापयेन् नित्यं धारयेच् छृणुते ऽपि वा ।

ब्ध्स् ४।८।१४एफ़् मुच्यते सर्वपापेभ्यो ब्रह्मलोके महीयते ॥
विश्वास-प्रस्तुतिः - १५

१५ यान् सिषाधयिषुर् मन्त्रान् द्वादशाहानि ताञ् जपेत् ।
घृतेन पयसा दध्ना प्राश्य निश्य् ओदनं सकृत् ॥ [क् बेफ़ोरे ब्ध्स् ४।८।१६-१अब्: ऋग्यजुस्सामवेदानाम् अथर्वाङ्गिरसाम् अपि ।]

Buhler - १५
  1. Let him mutter during twelve days those sacred texts through which he wishes to accomplish (his desires), eating once (a day) at night boiled rice with clarified butter, with milk, or with sour milk.
मूलम् - १५

१५ यान् सिषाधयिषुर् मन्त्रान् द्वादशाहानि ताञ् जपेत् ।
घृतेन पयसा दध्ना प्राश्य निश्य् ओदनं सकृत् ॥ [क् बेफ़ोरे ब्ध्स् ४।८।१६-१अब्: ऋग्यजुस्सामवेदानाम् अथर्वाङ्गिरसाम् अपि ।]

विश्वास-प्रस्तुतिः - १६

१६ दशवारं तथा होमः सर्पिषा सवनत्रयम् ।
पूर्वसेवा भवेद् एषां मन्त्राणां कर्मसाधने ॥ [k: एषा]
मन्त्राणां कर्मसाधन इति ॥ अतिलोभात् प्रमादाद् वा । निवृत्तः पापकर्मभ्यः ॥ समाधुश्छन्दसारुद्राः ॥ अथातः संप्रवक्ष्यामि ॥ प्रायश्चित्तानि वक्ष्यामः ॥ प्रायश्चित्तानि वक्ष्यामः ॥ प्रायश्चित्तानि वक्ष्यामः ॥ प्रायश्चित्तानिवक्ष्यामः ॥ इति चतुर्थः प्रश्नः ॥ ४

Buhler - १६
  1. (Let him offer) ten times a burnt oblation and sprinkle clarified butter. (That is) the preliminary worship (which must be performed) when one desires to accomplish one’s objects through those sacred texts.
मूलम् - १६

१६ दशवारं तथा होमः सर्पिषा सवनत्रयम् ।
पूर्वसेवा भवेद् एषां मन्त्राणां कर्मसाधने ॥ [k: एषा]
मन्त्राणां कर्मसाधन इति ॥ अतिलोभात् प्रमादाद् वा । निवृत्तः पापकर्मभ्यः ॥ समाधुश्छन्दसारुद्राः ॥ अथातः संप्रवक्ष्यामि ॥ प्रायश्चित्तानि वक्ष्यामः ॥ प्रायश्चित्तानि वक्ष्यामः ॥ प्रायश्चित्तानि वक्ष्यामः ॥ प्रायश्चित्तानिवक्ष्यामः ॥ इति चतुर्थः प्रश्नः ॥ ४

॥ इति बौधायनधर्मसूत्रंसमाप्तम् ॥


    1. I.e. those mentioned V, 7, 5.
     ↩︎
  1. The meaning is that in case a wealthy man is unable to bear ’the restraints,’ he may hire others to perform the Homas. Though the hired performer will be guilty of a serious offence (Sūtra 1), the person who causes them to be performed will derive benefit from them. ↩︎