विश्वास-प्रस्तुतिः - ०१
०१ निवृत्तः पापकर्मभ्यः प्रवृत्तः पुण्यकर्मसु ।
Buhler - ०१
- The wishes of a Brāhmaṇa who has left off evil deeds and is (ever) engaged in holy works are fulfilled even without (the practice of) restraints. 1
मूलम् - ०१
०१ निवृत्तः पापकर्मभ्यः प्रवृत्तः पुण्यकर्मसु ।
यो विप्रस् तस्य सिध्यन्ति विना यन्त्रैर् अपि क्रियाः ॥
विश्वास-प्रस्तुतिः - ०२
०२ ब्राह्मणा ऋजवस् तस्माद् यद् यद् इच्छन्ति चेतसा ।
तत् तद् आसादयन्त्य् आशु संशुद्धा ऋजुकर्मभिः ॥
Buhler - ०२
- Upright Brāhmaṇas quickly accomplish whatever they wish in their hearts, if they are purified by honest actions.
मूलम् - ०२
०२ ब्राह्मणा ऋजवस् तस्माद् यद् यद् इच्छन्ति चेतसा ।
तत् तद् आसादयन्त्य् आशु संशुद्धा ऋजुकर्मभिः ॥
विश्वास-प्रस्तुतिः - ०३
०३ एवम् एतानि यन्त्राणि तावत् कार्याणि धीमता ।
कालेन यावतोपैति विग्रहः शुद्धिम् आत्मनः ॥ [k: विग्रहं]
Buhler - ०३
- Thus a wise man should practise those restraints until he has purified his bodily frame.
मूलम् - ०३
०३ एवम् एतानि यन्त्राणि तावत् कार्याणि धीमता ।
कालेन यावतोपैति विग्रहः शुद्धिम् आत्मनः ॥ [k: विग्रहं]
विश्वास-प्रस्तुतिः - ०४
०४ एभिर् यन्त्रैर् विशुद्धात्मा त्रिरात्रोपोषितस् ततः ।
तद् आरभेत येन र्द्धिं कर्मणा प्राप्तुम् इच्छति ॥
Buhler - ०४
- He who has been purified by those restraints should, after fasting three (days and) nights, begin the performance of that sacred rite through which he wishes to gain the fulfilment of his desires,
मूलम् - ०४
०४ एभिर् यन्त्रैर् विशुद्धात्मा त्रिरात्रोपोषितस् ततः ।
तद् आरभेत येन र्द्धिं कर्मणा प्राप्तुम् इच्छति ॥
विश्वास-प्रस्तुतिः - ०५
०५ क्ष्मापवित्रः सहस्राक्षो मृगारो ऽंहोमुचौ गणौ । [k: क्षापवित्रं]
पावमान्यश् च कूश्माण्ड्यो वैश्वानर्य ऋचश् च याः ॥
Buhler - ०५
- (Reciting) the Kṣāpavitra, the Sahasrākṣa, the Mṛgāra, the two Jaṇas (called) Aṃhomuc, the Pāvamanīs, the Kūṣmāṇḍīs, and the Ṛcas, addressed to Vaiśvānara, 2
मूलम् - ०५
०५ क्ष्मापवित्रः सहस्राक्षो मृगारो ऽंहोमुचौ गणौ । [k: क्षापवित्रं]
पावमान्यश् च कूश्माण्ड्यो वैश्वानर्य ऋचश् च याः ॥
विश्वास-प्रस्तुतिः - ०६
०६ घृतौदनेन ता जुह्वत् सप्ताहं सवनत्रयम् ।
मौनव्रती हविष्याशी निगृहीतेन्द्रियक्रियः ॥
Buhler - ०६
- (And) offering with (each of) these (Mantras) boiled rice and clarified butter during seven days, in the morning, at midday, and in the evening, keeping a rigid silence, living on food fit for a sacrifice, restraining his senses and his actions,
मूलम् - ०६
०६ घृतौदनेन ता जुह्वत् सप्ताहं सवनत्रयम् ।
मौनव्रती हविष्याशी निगृहीतेन्द्रियक्रियः ॥
विश्वास-प्रस्तुतिः - ०७
०७ सिंहे म इत्य् अपां पूर्णे पात्रे ऽवेक्ष्य चतुष्पथे ।
मुच्यते सर्वपापेभ्यो महतः पातकाद् अपि ॥
Buhler - ०७
- He is freed from all crimes, even mortal sins, after looking on a cross-road at a pot filled with water, (and reciting the text), ‘Siṃhe me manyuḥ.’
मूलम् - ०७
०७ सिंहे म इत्य् अपां पूर्णे पात्रे ऽवेक्ष्य चतुष्पथे ।
मुच्यते सर्वपापेभ्यो महतः पातकाद् अपि ॥
विश्वास-प्रस्तुतिः - ०८
०८ वृद्धत्वे यौवने बाल्ये यः कृतः पापसंचयः ।
पूर्वजन्मसु चाज्ञानात् तस्माद् अपि विमुच्यते ॥ [k: वाज्ञानात्]
Buhler - ०८
- He is freed from the multitude of sins, committed unintentionally in old age, in youth, and in infancy, and even from those belonging to former births;
मूलम् - ०८
०८ वृद्धत्वे यौवने बाल्ये यः कृतः पापसंचयः ।
पूर्वजन्मसु चाज्ञानात् तस्माद् अपि विमुच्यते ॥ [k: वाज्ञानात्]
विश्वास-प्रस्तुतिः - ०९
०९ भोजयित्वा द्विजान् अन्ते पायसेन ससर्पिषा [k: सुसर्पिषा] ।
गोभूमितिलहेमानि भुक्तवद्भ्यः प्रदाय च ॥
Buhler - ०९
- After feeding at the end (of the seven days) Brāhmaṇas with milk and rice, well. mixed with butter, and distributing to them after their dinner cows, land, sesamum, and gold,
मूलम् - ०९
०९ भोजयित्वा द्विजान् अन्ते पायसेन ससर्पिषा [k: सुसर्पिषा] ।
गोभूमितिलहेमानि भुक्तवद्भ्यः प्रदाय च ॥
विश्वास-प्रस्तुतिः - १०
१० विप्रो भवति पूतात्मा निर्दग्धवृजिनेन्धनः ।
काम्यानां कर्मणां योग्यस् तथाधानादिकर्मणाम् ॥ [k: योज्यः]
Buhler - १०
- A Brāhmaṇa becomes internally pure, his guilt being consumed like fuel, and fit for the performance of rites which secure the fulfilment of wishes and of rites like the kindling of the sacred fire.
मूलम् - १०
१० विप्रो भवति पूतात्मा निर्दग्धवृजिनेन्धनः ।
काम्यानां कर्मणां योग्यस् तथाधानादिकर्मणाम् ॥ [k: योज्यः]
-
- Yantrāṇi, ‘restraints,’ i.e. Kṛcchras, the fasts, and other practices described in the preceding chapters.
-
According to Govinda the Kṣāpavitra, or as the Dekhan MSS. read, Kṣmāpavitra, occurs in the Sūtrapāṭha of the Taittirīyas, consists of six verses, and begins ‘Agne naya.’ The text meant must be similar to Taitt. Saṃhitā I, t, 14, 3. The Sahasrākṣa is the Puruṣasūkta. The Mṛgāra consists of the Yājyānuvākyās of the Mṛgāreṣṭi, Taitt. Saṃhitā IV, 7, t5. The two Jaṇas called Aṃhomuc are found Taitt. Saṃhitā II, 3, 13, 1, ‘yā vām indrāvaruṇau’ and ‘yo vām indrāvaruṇau: The verses addressed to Agni Vaiśvānara are the first eight of Taitt. Saṃhitā I, 5, 11. ↩︎