विश्वास-प्रस्तुतिः - ०१
०१ समाधुच्छन्दसा रुद्रा गायत्री प्रणवान्विता ।
Buhler - ०१
- The (eleven Anuvākas called) Rudras together with (the ten hymns) seen by Madhucchandas, the Gāyatrī with the syllable Om, and likewise the seven Vyāhṛtis (are the texts) which should be muttered (and) which remove guilt. 1
मूलम् - ०१
०१ समाधुच्छन्दसा रुद्रा गायत्री प्रणवान्विता ।
सप्त व्याहृतयश् चैव जप्याः पापविनाशनाः ॥ [k: जाप्याः]
विश्वास-प्रस्तुतिः - ०२
०२ मृगारेष्टिः पवित्रेष्टिस् त्रिहविः पावमान्य् अपि ।
इष्टयः पापनाशिन्यो वैश्वानर्या समन्विताः ॥
Buhler - ०२
- The Mṛgāreṣṭi, the Pavitreṣṭi, the Trihavis, the Pāvamānī are the Iṣṭis which efface sin, if they are (each) combined with the Vaiśvānara (Dvādaśakapāla). 2
मूलम् - ०२
०२ मृगारेष्टिः पवित्रेष्टिस् त्रिहविः पावमान्य् अपि ।
इष्टयः पापनाशिन्यो वैश्वानर्या समन्विताः ॥
विश्वास-प्रस्तुतिः - ०३
०३ इदं चैवापरं गुह्यम्
उच्यमानं निबोधत ।
मुच्यते सर्वपापेभ्यो
महतः पातकाद् ऋते ॥
Buhler - ०३
3-4. Learn, also, the following most excellent secret; he will be freed from all sins of all kinds …
मूलम् - ०३
०३ इदं चैवापरं गुह्यम् उच्यमानं निबोधत ।
मुच्यते सर्वपापेभ्यो महतः पातकाद् ऋते ॥
विश्वास-प्रस्तुतिः - ०४
०४ पवित्रैर् मार्जनं कुर्वन् रुद्रैकादशिनीं [k:रुद्रैकार्देशिकां] जपन् ।
पवित्राणि घृतैर् जुह्वत् प्रयच्छन् हेमगोतिलान् ॥
Buhler - ०४
who sprinkles himself with water, reciting the Pavitras, who mutters the eleven (Anuvākas called) Rudras, who offers burnt oblations of butter, reciting the Pavitras, and gives gold, a cow, and sesamum (to Brāhmaṇas).
मूलम् - ०४
०४ पवित्रैर् मार्जनं कुर्वन् रुद्रैकादशिनीं [k:रुद्रैकार्देशिकां] जपन् ।
पवित्राणि घृतैर् जुह्वत् प्रयच्छन् हेमगोतिलान् ॥
विश्वास-प्रस्तुतिः - ०५
०५ यो ऽश्नीयाद् यावकं पक्वं गोमूत्रे सशकृद्रसे ।
सदधिक्षीरसर्पिष्के मुच्यते सो ऽंहसः क्षणात् ॥
Buhler - ०५
- He who partakes of boiled barley-gruel, mixed with cow’s urine, liquid cowdung, sour milk, milk, and butter, is quickly freed from sin. 3
मूलम् - ०५
०५ यो ऽश्नीयाद् यावकं पक्वं गोमूत्रे सशकृद्रसे ।
सदधिक्षीरसर्पिष्के मुच्यते सो ऽंहसः क्षणात् ॥
विश्वास-प्रस्तुतिः - ०६
०६ प्रसूतो यश् च शूद्रायां येनागम्या च लङ्घिता ।
सप्तरात्रात् प्रमुच्येते विधिनैतेन ताव् उभौ ॥
Buhler - ०६
- Both he who has begotten a child on a Śūdra woman and he who has had connexion with a female, 4 intercourse with whom is forbidden (agamyā), are purified (if they live) according to this rule during seven days.
मूलम् - ०६
०६ प्रसूतो यश् च शूद्रायां येनागम्या च लङ्घिता ।
सप्तरात्रात् प्रमुच्येते विधिनैतेन ताव् उभौ ॥
विश्वास-प्रस्तुतिः - ०७
०७ रेतोमूत्रपुरीषाणां प्राशने ऽभोज्यभोजने ।
पर्याधानेज्ययोर् एतत् परिवित्ते च भेषजम् ॥
Buhler - ०७
- (That is likewise) the remedy when one has swallowed semen, ordure, and urine, or eaten the food of persons whose food must not be eaten, (and also) when a younger brother has kindled the sacred fire, has offered a Śrauta sacrifice, or taken a wife before the elder. 5
मूलम् - ०७
०७ रेतोमूत्रपुरीषाणां प्राशने ऽभोज्यभोजने ।
पर्याधानेज्ययोर् एतत् परिवित्ते च भेषजम् ॥
विश्वास-प्रस्तुतिः - ०८
०८ अपातकानि कर्माणि कृत्वैव सुबहून्य् अपि ।
मुच्यते सर्वपापेभ्य इत्य् एतद् वचनं सताम् ॥
Buhler - ०८
- He who has committed even a great number of (wicked) actions, excepting mortal sins, will be freed (by that rule) from all guilt. That is the statement of the virtuous.
मूलम् - ०८
०८ अपातकानि कर्माणि कृत्वैव सुबहून्य् अपि ।
मुच्यते सर्वपापेभ्य इत्य् एतद् वचनं सताम् ॥
विश्वास-प्रस्तुतिः - ०९
०९ मन्त्रमार्गप्रमाणं तु विधानं समुदीरितम् । [k: विधाने]
भरद्वाजादयो येन ब्रह्मणः सात्मतां गताः ॥ [k: समतां]
Buhler - ०९
- But (this) ordinance, which is based on the authority of the sacred texts, is stated (to be that) through which Bharadvāja and others became equal to Brahman,
मूलम् - ०९
०९ मन्त्रमार्गप्रमाणं तु विधानं समुदीरितम् । [k: विधाने]
भरद्वाजादयो येन ब्रह्मणः सात्मतां गताः ॥ [k: समतां]
विश्वास-प्रस्तुतिः - १०
१० प्रसन्नहृदयो विप्रः प्रयोगाद् अस्य कर्मणः ।
कामांस् तांस् तान् अवाप्नोति ये ये कामा हृदि स्थिताः ॥
ये ये कामा हृदि स्थिता इति ॥
Buhler - १०
- Through the performance of these rites a Brāhmaṇa, whose heart is full of peace, obtains whatever desires he may have in his heart.
मूलम् - १०
१० प्रसन्नहृदयो विप्रः प्रयोगाद् अस्य कर्मणः ।
कामांस् तांस् तान् अवाप्नोति ये ये कामा हृदि स्थिताः ॥
ये ये कामा हृदि स्थिता इति ॥
-
- The hymns are Rig-veda I, 1-10.
-
Regarding the Mṛgāreṣṭi, see Taitt. Saṃhitā IV, 7, 15. In explanation of the term Trihavis, Govinda adds the word Savaneṣṭi. ↩︎
-
Yāvaka, translated, as usually, by barley-gruel, can also denote, as Govinda points out, other dishes made of barley. ↩︎
-
See above, II, 1, 2, 7, 10, 13-14. ↩︎
-
See above, II, 2, 1, 21, 39-40. I follow the reading of M. and of the commentary, paryādhānejyayor etat parivitte ca bheṣajam. The reading of the Dekhan MSS. is etat patite caiva bhojanam, ’that food must be eaten and when one has become an outcast.' ↩︎