०२

विश्वास-प्रस्तुतिः - ०१

०१ प्रायश्चित्तानि वक्ष्यामो नानार्थानि पृथक्पृथक् ।

Buhler - ०१
  1. We will separately explain the various penances for the several offences, both heavier and lighter ones.
मूलम् - ०१

०१ प्रायश्चित्तानि वक्ष्यामो नानार्थानि पृथक्पृथक् ।

तेषुतेषु च दोषेषु गरीयांसि लघूनि च ॥

विश्वास-प्रस्तुतिः - ०२

०२ यद्य् अत्र हि भवेद् युक्तं तद् धि तत्रैव निर्दिशेत् ।
भूयोभूयो गरीयःसु लघुष्व् अल्पीयसस् तथा ॥

Buhler - ०२
  1. Let him prescribe whatever may be befitting for each (case),–heavier penances for great (crimes), and lighter ones for trivial (faults).
मूलम् - ०२

०२ यद्य् अत्र हि भवेद् युक्तं तद् धि तत्रैव निर्दिशेत् ।
भूयोभूयो गरीयःसु लघुष्व् अल्पीयसस् तथा ॥

विश्वास-प्रस्तुतिः - ०३

०३ विधिना शास्त्रदृष्टेन प्रायश्चित्तानि निर्दिशेत् ॥

Buhler - ०३
  1. Let him perform the penances according to the rule given in the Institutes of the Sacred Law.
मूलम् - ०३

०३ विधिना शास्त्रदृष्टेन प्रायश्चित्तानि निर्दिशेत् ॥

विश्वास-प्रस्तुतिः - ०४

०४ प्रतिग्रहीष्यमाणस् तु प्रतिगृह्य तथैव च ।
ऋचस् तरत्समन्द्यस् तु चतस्रः परिवर्तयेत् ॥

Buhler - ०४
  1. He who is about to accept gifts, or he who has accepted gifts, must repeatedly recite the four Ṛk-verses (called) Taratsamandīs. 1
मूलम् - ०४

०४ प्रतिग्रहीष्यमाणस् तु प्रतिगृह्य तथैव च ।
ऋचस् तरत्समन्द्यस् तु चतस्रः परिवर्तयेत् ॥

विश्वास-प्रस्तुतिः - ०५

०५ अभोज्यानां तु सर्वेषाम् अभोज्यान्नस्य भोजने ।
ऋग्भिस् तरत्समन्दीभिर् मार्जनंपापशोधनम् ॥ [k: तरत्समन्दीयैर्]

Buhler - ०५
  1. But in case one has eaten any kind of forbidden food; or that given by a person whose food must not be eaten, the means of removing the guilt is to sprinkle water (over one’s head) while one recites the Taratsamandī Ṛcas. 2
मूलम् - ०५

०५ अभोज्यानां तु सर्वेषाम् अभोज्यान्नस्य भोजने ।
ऋग्भिस् तरत्समन्दीभिर् मार्जनंपापशोधनम् ॥ [k: तरत्समन्दीयैर्]

विश्वास-प्रस्तुतिः - ०६

०६ भ्रूणहत्याविधिस् त्व् अन्यस् तं तु वक्ष्याम्य् अतः परम् ।
विधिना येन मुच्यन्ते पातकेभ्यो ऽपि सर्वशः ॥

Buhler - ०६
  1. But we will, hereafter, declare another rule for (the expiation of) the murder of a learned Brāhmaṇa, whereby (men) are freed also from mortal sins of all (kinds).
मूलम् - ०६

०६ भ्रूणहत्याविधिस् त्व् अन्यस् तं तु वक्ष्याम्य् अतः परम् ।
विधिना येन मुच्यन्ते पातकेभ्यो ऽपि सर्वशः ॥

विश्वास-प्रस्तुतिः - ०७

०७ प्राणायामान् पवित्राणि व्याहृतीः प्रणवं तथा ।
जपेद् अघमर्षणं सूक्तं पयसा द्वादश क्षपाः ॥ [k: -मर्षणं युक्तः पयसा]

Buhler - ०७
  1. Let him (perform), during twelve nights, suppressions of the breath (and) mutter purificatory texts, the Vyāhṛtis, the syllable Om, (and) the Aghamarshaṇa hymn, (living) on milk;
मूलम् - ०७

०७ प्राणायामान् पवित्राणि व्याहृतीः प्रणवं तथा ।
जपेद् अघमर्षणं सूक्तं पयसा द्वादश क्षपाः ॥ [k: -मर्षणं युक्तः पयसा]

विश्वास-प्रस्तुतिः - ०८

०८ त्रिरात्रं वायुभक्षो वा क्लिन्नवासाः प्लुतः शुचिः ॥ [k: क्लिन्नवासाप्लुतश्]

Buhler - ०८
  1. Or (he becomes) pure if he bathes, and during three (days and) nights subsists on air and (remains dressed) in wet clothes.
मूलम् - ०८

०८ त्रिरात्रं वायुभक्षो वा क्लिन्नवासाः प्लुतः शुचिः ॥ [k: क्लिन्नवासाप्लुतश्]

विश्वास-प्रस्तुतिः - ०९

०९ प्रतिषिद्धांस् तथाचारान् अभ्यस्यापि पुनःपुनः ।
वारुणीभिर् उपस्थाय सर्वपापैः प्रमुच्यते ॥ इति ॥

Buhler - ०९
  1. But if he has repeatedly committed forbidden acts of all kinds, and has (afterwards) worshipped reciting the Vāruṇī (texts), he is freed from all sin. 3
मूलम् - ०९

०९ प्रतिषिद्धांस् तथाचारान् अभ्यस्यापि पुनःपुनः ।
वारुणीभिर् उपस्थाय सर्वपापैः प्रमुच्यते ॥ इति ॥

विश्वास-प्रस्तुतिः - १०

१० अथावकीर्ण्य् अमावास्यायां निश्य् अग्निम् उपसमाधायदार्विहोमिकीं परिचेष्टां कृत्वा द्वे आज्याहुती जुहोति । कामअवकीर्णो ऽस्म्य् अवकीर्णो ऽस्मि काम कामाय स्वाहा । कामअभिद्रुग्धो ऽस्म्य् अभिद्रुग्धो ऽस्मि काम कामाय स्वाहेति ॥ [च्फ़्। ब्ध्स् २।१।१।३४]

Buhler - १०
  1. Now a student who has broken his vow (avakīrṇin) shall heap fuel on the fire on the night of the new moon, perform the preparatory ceremonies required for a Darvīhoma, and offer two oblations of clarified butter (reciting the following texts): ‘O Lust, I have broken my vow, my vow I have broken, O Lust, to. Lust Svāhā;’ ‘O Lust, I have done evil, I have done evil, O Lust, to Lust Svāhā.’ 4
मूलम् - १०

१० अथावकीर्ण्य् अमावास्यायां निश्य् अग्निम् उपसमाधायदार्विहोमिकीं परिचेष्टां कृत्वा द्वे आज्याहुती जुहोति । कामअवकीर्णो ऽस्म्य् अवकीर्णो ऽस्मि काम कामाय स्वाहा । कामअभिद्रुग्धो ऽस्म्य् अभिद्रुग्धो ऽस्मि काम कामाय स्वाहेति ॥ [च्फ़्। ब्ध्स् २।१।१।३४]

विश्वास-प्रस्तुतिः - ११

११ हुत्वा प्रयताञ्जलिः कवातिर्यङ्ङ् अग्निम् उपतिष्ठेत । सं मासिञ्चन्तु मरुतः सम् इन्द्रः सं बृहस्पतिः । सं मायम् अग्निः सिञ्चत्वायुषा च बलेन चायुष्मन्तं करोत मेति [= ब्ध्स् २।१।१।३५] । प्रति हास्मै मरुतः प्राणान् दधति प्रति इन्द्रो बलं प्रतिबृहस्पतिर् ब्रह्मवर्चसं प्रत्य् अग्निर् इतरत् सर्वम् । सर्वतनुर् भूत्वासर्वम् आयुर् एति । त्रिर् अभिमन्त्रयेत । त्रिषत्या हि देवा इतिविज्ञायते ॥ [k: करोतु]

Buhler - ११
  1. After he has made the offering, he shall address the fire, closely joining his hands and turning sideways, (with the following texts): ‘May the Maruts grant me, may Indra, may Bṛhaspati,, may this fire grant me long life and strength, make me long-lived.’ The Maruts, forsooth, give back to him the vital airs, Indra gives back to him strength, Bṛhaspati the lustre of Brahman, Fire all the remainder. (Thus) his body is made whole, and he attains the full length of life. Let him next address (the gods) with three (repetitions of the texts). For the gods are trebly true. (All that) has been declared in the Veda.
मूलम् - ११

११ हुत्वा प्रयताञ्जलिः कवातिर्यङ्ङ् अग्निम् उपतिष्ठेत । सं मासिञ्चन्तु मरुतः सम् इन्द्रः सं बृहस्पतिः । सं मायम् अग्निः सिञ्चत्वायुषा च बलेन चायुष्मन्तं करोत मेति [= ब्ध्स् २।१।१।३५] । प्रति हास्मै मरुतः प्राणान् दधति प्रति इन्द्रो बलं प्रतिबृहस्पतिर् ब्रह्मवर्चसं प्रत्य् अग्निर् इतरत् सर्वम् । सर्वतनुर् भूत्वासर्वम् आयुर् एति । त्रिर् अभिमन्त्रयेत । त्रिषत्या हि देवा इतिविज्ञायते ॥ [k: करोतु]

विश्वास-प्रस्तुतिः - १२

१२ यो ऽपूत इव मन्येत आत्मानम् उपपातकैः ।
स हुत्वैतेन विधिना सर्वस्मात् पापात् प्रमुच्यते ॥

Buhler - १२
  1. He who considers himself defiled by minor offences (upapātaka), will be freed from all guilt if he offers burnt oblations according to this same rule; 5
मूलम् - १२

१२ यो ऽपूत इव मन्येत आत्मानम् उपपातकैः ।
स हुत्वैतेन विधिना सर्वस्मात् पापात् प्रमुच्यते ॥

विश्वास-प्रस्तुतिः - १३

१३ अपि वानाद्यापेयप्रतिषिद्धभोजनेषु दोषवच् च कर्मकृत्वाभिसंधिपूर्वम् अनभिसंधिपूर्वं वा शूद्रायां च रेतःसिक्त्वायोनौ वाब्लिङ्गाभिर् वारुणीभिश् चोपस्पृश्य प्रयतोभवति ॥

Buhler - १३
  1. Or if he has partaken of food unfit to be eaten or to be drunk or of forbidden food, and if he has committed sinful acts or performed sinful rites either unintentionally or intentionally, and if he has had connexion with a female of the Śūdra caste or committed an unnatural crime, he becomes pure by bathing (and reciting) the Abliṅga (verses) and (those called) Vāruṇīs. 6
मूलम् - १३

१३ अपि वानाद्यापेयप्रतिषिद्धभोजनेषु दोषवच् च कर्मकृत्वाभिसंधिपूर्वम् अनभिसंधिपूर्वं वा शूद्रायां च रेतःसिक्त्वायोनौ वाब्लिङ्गाभिर् वारुणीभिश् चोपस्पृश्य प्रयतोभवति ॥

विश्वास-प्रस्तुतिः - १४

१४ अथाप्य् उदाहरन्ति ।
अनाद्यापेयप्रतिषिद्धभोजने विरुद्धधर्माचरिते [k:अनाद्यप्राशनापेयप्रतिषिद्धभोजनेविशुद्धधर्माचरिते] च कर्मणि ।
मतिप्रवृत्ते ऽपि च पातकोपमैर् विशुध्यते ऽथापि चसर्वपातकैः ॥

Buhler - १४
  1. Now they quote also (the following verse): If he has partaken of food unfit to be eaten or to be drunk, or of forbidden food, and if he has committed forbidden acts or performed forbidden rites, he will, nevertheless, be freed from (crimes) committed intentionally which are similar to mortal sins, nay, even from mortal sins (pātaka).’ 7
मूलम् - १४

१४ अथाप्य् उदाहरन्ति ।
अनाद्यापेयप्रतिषिद्धभोजने विरुद्धधर्माचरिते [k:अनाद्यप्राशनापेयप्रतिषिद्धभोजनेविशुद्धधर्माचरिते] च कर्मणि ।
मतिप्रवृत्ते ऽपि च पातकोपमैर् विशुध्यते ऽथापि चसर्वपातकैः ॥

विश्वास-प्रस्तुतिः - १५

१५ त्रिरात्रं वाप्य् उपवसंस् त्रिर् अह्नो ऽभ्युपयन्न् अपः । [k: अह्नोभ्युपेयाद्]
प्राणान् आत्मनि संयम्य त्रिः पठेद् अघमर्षणम् ।

Buhler - १५
  1. Or let him fast during three (days and) nights, bathe thrice a day, and, suppressing his breath, thrice recite the Aghamarshaṇa. Manu has declared that that is equal (in efficacy) to the final bath at a horse-sacrifice. 8
मूलम् - १५

१५ त्रिरात्रं वाप्य् उपवसंस् त्रिर् अह्नो ऽभ्युपयन्न् अपः । [k: अह्नोभ्युपेयाद्]
प्राणान् आत्मनि संयम्य त्रिः पठेद् अघमर्षणम् ।

ब्ध्स् ४।२।१५एफ़् यथाश्वमेधावभृथ एवं तन् मनुर् अब्रवीत् ॥
विश्वास-प्रस्तुतिः - १६

१६ विज्ञायते च ।
चरणं पवित्रं विततं पुराणं येन पूतस् तरति दुष्कृतानि ।
तेन पवित्रेण शुद्धेन पूता अति पाप्मानम् अरातिं तरेम ॥ इति ॥

Buhler - १६
  1. And it is declared in the Veda, ‘(That is) the ancient purificatory rite, which is widely known (in the Institutes of the Sacred Law); purified thereby man conquers sin. May we, sanctified by this holy means of purification, conquer our enemy, sin.’
मूलम् - १६

१६ विज्ञायते च ।
चरणं पवित्रं विततं पुराणं येन पूतस् तरति दुष्कृतानि ।
तेन पवित्रेण शुद्धेन पूता अति पाप्मानम् अरातिं तरेम ॥ इति ॥


  1. Gautama XXIV, 2. The gift is, of course, one which ought not to be accepted. ↩︎

  2. Rig-veda IX, 58. Mārjanam, literally ‘rubbing,’ means sprinkling the head with a handful of water.–Govinda. ↩︎

  3. ‘Upasthāna, “worshipping,” i.e. sprinkling one’s head with a handful of water.’–Govinda. ↩︎

  4. A repetition of the rule given above, II, 1, I, 34; see also III, 4. ↩︎

  5. Gautama XXV, 6. ↩︎

  6. Govinda gives, like Haradatta on Gautama XXV, 7, as an instance of a doṣavat karma, ‘a sinful rite,’ the abhicāra or ‘magic rite in order to harm enemies.’ The expression has, however, in our Sūtra, a wider sense. ↩︎

  7. I.e. if he performs the penance prescribed in the preceding Sūtra. ↩︎

  8. Vasiṣṭha XXVI, 8; Gautama XXIV, 10. ↩︎