०१

विश्वास-प्रस्तुतिः - ०१

०१ प्रायश्चित्तानि वक्ष्यामो नानार्थानि पृथक्पृथक् ।

Buhler - ०१
  1. We will separately explain the various penances for the several offences, both heavier and lighter ones.
मूलम् - ०१

०१ प्रायश्चित्तानि वक्ष्यामो नानार्थानि पृथक्पृथक् ।

तेषुतेषु च दोषेषु गरीयांसि लघूनि च ॥

विश्वास-प्रस्तुतिः - ०२

०२ यद्य् अत्र हि भवेद् युक्तं तद् धि तत्रैव निर्दिशेत् ।
भूयोभूयो गरीयःसु लघुष्व् अल्पीयसस् तथा ॥

Buhler - ०२
  1. Let him prescribe whatever may be befitting for each (case),–heavier (penances) for great (crimes) and easier ones for trivial (faults).
मूलम् - ०२

०२ यद्य् अत्र हि भवेद् युक्तं तद् धि तत्रैव निर्दिशेत् ।
भूयोभूयो गरीयःसु लघुष्व् अल्पीयसस् तथा ॥

विश्वास-प्रस्तुतिः - ०३

०३ विधिना शास्त्रदृष्टेन प्राणायामान् समाचरेत् ।
यद् उपस्थकृतं पापं पद्भ्यां वा यत् कृतं भवेत् ।

Buhler - ०३
  1. Let him perform the penances according to the rule given in the Institutes (of the Sacred Law in cases) where an offence has been committed with the organ or with the feet (and) the arms, through 1 thoughts or speech, through the ear, the skin, the nose or the eye.
मूलम् - ०३

०३ विधिना शास्त्रदृष्टेन प्राणायामान् समाचरेत् ।
यद् उपस्थकृतं पापं पद्भ्यां वा यत् कृतं भवेत् ।

ब्ध्स् ४।१।३एफ़् बाहुभ्यां मनसा वाचा श्रोत्रत्वग्घ्राणचक्षुषा ॥
विश्वास-प्रस्तुतिः - ०४

०४ अपि वा चक्षुःश्रोत्रत्वग्घ्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैःशुध्यति ॥ [k: अथ वाचा]

Buhler - ०४
  1. Or, in (the case of) transgressions committed through the organ of vision, of hearing, of sensation, of smelling, and through thoughts, he also becomes pure by three suppressions of the breath.
मूलम् - ०४

०४ अपि वा चक्षुःश्रोत्रत्वग्घ्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैःशुध्यति ॥ [k: अथ वाचा]

विश्वास-प्रस्तुतिः - ०५

०५ शूद्रान्नस्त्रीगमनभोजनेषु केवलेषु पृथक्पृथक्सप्ताहं सप्तसप्त प्राणायामान् धारयेत् ॥

Buhler - ०५
  1. In case (he commits the offences) of eating the food of a Śūdra or of cohabiting with a Śūdra female, severally, he must perform, during seven days, seven suppressions of the breath on each day. 2
मूलम् - ०५

०५ शूद्रान्नस्त्रीगमनभोजनेषु केवलेषु पृथक्पृथक्सप्ताहं सप्तसप्त प्राणायामान् धारयेत् ॥

विश्वास-प्रस्तुतिः - ०६

०६ अभक्ष्याभोज्यापेयानाद्यप्राशनेषु तथापण्यविक्रयेषुमधुमांसघृततैलक्षारलवणावरान्नवर्जेषु यच् चान्यद् अप्येवंयुक्तं द्वादशाहं द्वादशद्वादश प्राणायामान् धारयेत् ॥

Buhler - ०६
  1. For partaking of food unfit for eating or drinking, and for selling forbidden merchandise, excepting honey, meat, clarified butter, oil, pungent condiments and bad food, and for similar (offences), he must perform, during twelve days, twelve suppressions of the breath on each day. 3
मूलम् - ०६

०६ अभक्ष्याभोज्यापेयानाद्यप्राशनेषु तथापण्यविक्रयेषुमधुमांसघृततैलक्षारलवणावरान्नवर्जेषु यच् चान्यद् अप्येवंयुक्तं द्वादशाहं द्वादशद्वादश प्राणायामान् धारयेत् ॥

विश्वास-प्रस्तुतिः - ०७

०७ पातकपतनीयोपपातकवर्जेषु यच् चान्यद् अप्य् एवंयुक्तमर्धमासं द्वादशद्वादश प्राणायामान् धारयेत् ॥

Buhler - ०७
  1. For other transgressions excepting mortal sins (pātaka), crimes causing loss of caste (patanīya), and the minor faults (called upapātaka), he must perform, during half a month, twelve suppressions of the breath on each day. 4
मूलम् - ०७

०७ पातकपतनीयोपपातकवर्जेषु यच् चान्यद् अप्य् एवंयुक्तमर्धमासं द्वादशद्वादश प्राणायामान् धारयेत् ॥

विश्वास-प्रस्तुतिः - ०८

०८ पातकपतनीयवर्जेषु यच् चान्यद् अप्य् एवंयुक्तं द्वादशद्वादशाहान् द्वादशद्वादश प्राणायामान् धारयेत् ॥

Buhler - ०८
  1. For other transgressions excepting mortal sins 5 and crimes causing loss of caste, he must perform, during twelve periods of twelve days, twelve suppressions of the breath on each day.
मूलम् - ०८

०८ पातकपतनीयवर्जेषु यच् चान्यद् अप्य् एवंयुक्तं द्वादशद्वादशाहान् द्वादशद्वादश प्राणायामान् धारयेत् ॥

विश्वास-प्रस्तुतिः - ०९

०९ पातकवर्जेषु यच् चान्यद् अप्य् एवंयुक्तं द्वादशार्धमासान्द्वादशद्वादश प्राणायामान् धारयेत् ॥

Buhler - ०९
  1. For other transgressions excepting mortal sins he must perform, during twelve half-months, twelve suppressions of the breath on each day. 6
मूलम् - ०९

०९ पातकवर्जेषु यच् चान्यद् अप्य् एवंयुक्तं द्वादशार्धमासान्द्वादशद्वादश प्राणायामान् धारयेत् ॥

विश्वास-प्रस्तुतिः - १०

१० अथ पातकेषु संवत्सरं द्वादशद्वादश प्राणायामान्धारयेत् ॥

Buhler - १०
  1. But for mortal sins he must perform, during a year, twelve suppressions of the breath on each day.
मूलम् - १०

१० अथ पातकेषु संवत्सरं द्वादशद्वादश प्राणायामान्धारयेत् ॥

विश्वास-प्रस्तुतिः - ११

११ दद्याद् गुणवते कन्यां नग्निकां ब्रह्मचारिणे ।
अपि वा गुणहीनाय नोपरुन्ध्याद् रजस्वलाम् ॥

Buhler - ११
  1. Let him give his daughter, while she still goes naked, to a man who has not broken the vow of chastity and who possesses good qualities, or even to one destitute of good qualities; let him not keep (the maiden) in (his house) after she has reached the age of puberty. 7
मूलम् - ११

११ दद्याद् गुणवते कन्यां नग्निकां ब्रह्मचारिणे ।
अपि वा गुणहीनाय नोपरुन्ध्याद् रजस्वलाम् ॥

विश्वास-प्रस्तुतिः - १२

१२ त्रीणि वर्षाण्य् ऋतुमतीं यः कन्यां न प्रयच्छति ।
स तुल्यं भ्रूणहत्यायै दोषम् ऋच्छत्य् असंशयम् ॥

Buhler - १२
  1. He who does not give away a marriageable daughter during three years doubtlessly contracts a guilt equal to (that of) destroying an embryo.
मूलम् - १२

१२ त्रीणि वर्षाण्य् ऋतुमतीं यः कन्यां न प्रयच्छति ।
स तुल्यं भ्रूणहत्यायै दोषम् ऋच्छत्य् असंशयम् ॥

विश्वास-प्रस्तुतिः - १३

१३ न याचते चेद् एवं स्याद् याचते चेत् पृथक्पृथक् ।
एकैकस्मिन्न् ऋतौ दोषं पातकं मनुर् अब्रवीत् ॥

Buhler - १३
  1. Such will be the case if anybody asks her in marriage, and also if nobody demands her. Manu has declared that at each appearance of the menses (the father incurs the guilt of) a mortal sin.
मूलम् - १३

१३ न याचते चेद् एवं स्याद् याचते चेत् पृथक्पृथक् ।
एकैकस्मिन्न् ऋतौ दोषं पातकं मनुर् अब्रवीत् ॥

विश्वास-प्रस्तुतिः - १४

१४ त्रीणि वर्षाण्य् ऋतुमती काङ्क्षेत पितृशासनम् ।
ततश् चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ।

Buhler - १४
  1. Three years let a marriageable damsel wait for the order of her father. But after (that) time let her choose for herself in the fourth year a husband (of) equal (rank). If no man (of) equal (rank) be found, she may take even one destitute of good qualities.
मूलम् - १४

१४ त्रीणि वर्षाण्य् ऋतुमती काङ्क्षेत पितृशासनम् ।
ततश् चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ।

ब्ध्स् ४।१।१४एफ़् अविद्यमाने सदृशे गुणहीनम् अपि श्रयेत् ॥
विश्वास-प्रस्तुतिः - १५

१५ बलाच् चेत् प्रहृता कन्या मन्त्रैर् यदि न संस्कृता ।
अन्यस्मै विधिवद् देया यथा कन्या तथैव सा ॥

Buhler - १५
  1. If a damsel has been abducted by force, and has not been wedded with sacred texts, she may lawfully be given to another man; she is even like a maiden. 8
मूलम् - १५

१५ बलाच् चेत् प्रहृता कन्या मन्त्रैर् यदि न संस्कृता ।
अन्यस्मै विधिवद् देया यथा कन्या तथैव सा ॥

विश्वास-प्रस्तुतिः - १६

१६ निसृष्टायां हुते वापि यस्यै भर्ता म्रियेत सः ।
सा चेद् अक्षतयोनिः स्याद् गतप्रत्यागता सती ।

Buhler - १६
  1. If, after (a damsel) has been given away, or even after (the nuptial sacrifices) have been offered, the husband dies, she who (thus) has left (her father’s house) and has returned, may be again wedded according to the rule applicable to second weddings, provided the marriage had not been consummated. 9
मूलम् - १६

१६ निसृष्टायां हुते वापि यस्यै भर्ता म्रियेत सः ।
सा चेद् अक्षतयोनिः स्याद् गतप्रत्यागता सती ।

ब्ध्स् ४।१।१६एफ़् पौनर्भवेन विधिना पुनःसंस्कारम् अर्हति ॥
विश्वास-प्रस्तुतिः - १७

१७ त्रीणि वर्षाण्य् ऋतुमतीं यो भार्यां नाधिगच्छति ।
स तुल्यं भ्रूणहत्यायै दोषम् ऋच्छत्य् असंशयम् ॥

Buhler - १७
  1. He who does not approach, during three years, a wife who is marriageable, incurs, without doubt, a guilt equal to that of destroying an embryo.
मूलम् - १७

१७ त्रीणि वर्षाण्य् ऋतुमतीं यो भार्यां नाधिगच्छति ।
स तुल्यं भ्रूणहत्यायै दोषम् ऋच्छत्य् असंशयम् ॥

विश्वास-प्रस्तुतिः - १८

१८ ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
पितरस् तस्य तं मासं तस्मिन् रजसि शेरते ॥

Buhler - १८
  1. But the ancestors of that man who does not approach his wife who bathed after her temporary uncleanness, though he dwells near her, lie during that month in the menstrual excretions (of the wife).
मूलम् - १८

१८ ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
पितरस् तस्य तं मासं तस्मिन् रजसि शेरते ॥

विश्वास-प्रस्तुतिः - १९

१९ ऋतौ नोपैति यो भार्याम् अनृतौ यश् च गच्छति ।
तुल्यम् आहुस् तयोर् दोषम् अयोनौ यश् च सिञ्चति ॥

Buhler - १९
  1. They declare that the guilt of the husband who does not approach his wife in due season, of him who approaches her during her temporary uncleanness, and of him who commits an unnatural crime (with her), is equally (great).
मूलम् - १९

१९ ऋतौ नोपैति यो भार्याम् अनृतौ यश् च गच्छति ।
तुल्यम् आहुस् तयोर् दोषम् अयोनौ यश् च सिञ्चति ॥

विश्वास-प्रस्तुतिः - २०

२० भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेद् ऋतुम् ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं [H: भ्रुण-]निर्धमेद् गृहात् ॥

Buhler - २०
  1. Let him proclaim in the village a wife who, being obdurate against her husband, makes herself sterile, as one who destroys embryos, and drive her from his house.
मूलम् - २०

२० भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेद् ऋतुम् ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं [H: भ्रुण-]निर्धमेद् गृहात् ॥

विश्वास-प्रस्तुतिः - २१

२१ ऋतुस्नातां न चेद् गच्छेन् नियतां धर्मचारिणीम् ।
नियमातिक्रमे तस्य प्राणायामशतं स्मृतम् ॥

Buhler - २१
  1. But for the transgression of that husband who does not approach a wife who bathed after temporary uncleanness, (the performance of) one hundred suppressions of the breath is prescribed (as a penance). 10
मूलम् - २१

२१ ऋतुस्नातां न चेद् गच्छेन् नियतां धर्मचारिणीम् ।
नियमातिक्रमे तस्य प्राणायामशतं स्मृतम् ॥

विश्वास-प्रस्तुतिः - २२

२२ प्राणायामान् पवित्राणि व्याहृतीः प्रणवं तथा ।
पवित्रपाणिर् आसीनो ब्रह्म नैत्यकम् अभ्यसेत् ॥

Buhler - २२
  1. Seated with Kuśa grass in his hands, let him repeatedly suppress his breath, and again and again recite purificatory texts, the Vyāhṛtis, the syllable Om, and the daily portion of the Veda. 11
मूलम् - २२

२२ प्राणायामान् पवित्राणि व्याहृतीः प्रणवं तथा ।
पवित्रपाणिर् आसीनो ब्रह्म नैत्यकम् अभ्यसेत् ॥

विश्वास-प्रस्तुतिः - २३

२३ आवर्तयेत् सदा युक्तः प्राणायामान् पुनःपुनः ।
आ केशान्तान् नखाग्राच् च तपस् तप्यत उत्तमम् ॥

Buhler - २३
  1. Always intent on the practice of Yoga, let him again and again suppress his breath. (Thus) he performs the highest austerity up to the ends of his hair and up to the ends of his nails.
मूलम् - २३

२३ आवर्तयेत् सदा युक्तः प्राणायामान् पुनःपुनः ।
आ केशान्तान् नखाग्राच् च तपस् तप्यत उत्तमम् ॥

विश्वास-प्रस्तुतिः - २४

२४ निरोधाज् जायते वायुर् वायोर् अग्निश् च जायते ।
तापेनापो ऽधिजायन्ते ततो ऽन्तः शुध्यते त्रिभिः ॥

Buhler - २४
  1. Through the obstruction (of the respiration) air is generated, through air fire is produced, then through heat water is formed; hence he is internally purified by (those) three.
मूलम् - २४

२४ निरोधाज् जायते वायुर् वायोर् अग्निश् च जायते ।
तापेनापो ऽधिजायन्ते ततो ऽन्तः शुध्यते त्रिभिः ॥

विश्वास-प्रस्तुतिः - २५

२५ योगेनावाप्यते ज्ञानं योगो धर्मस्य लक्षणम् ।
योगमूला गुणाः सर्वे तस्माद् युक्तः सदा भवेत् ॥

Buhler - २५
  1. Through the practice of Yoga (true) knowledge is obtained, Yoga is the sum of the sacred law, all good qualities are gained through Yoga; therefore let him always be absorbed in the practice of Yoga. 12
मूलम् - २५

२५ योगेनावाप्यते ज्ञानं योगो धर्मस्य लक्षणम् ।
योगमूला गुणाः सर्वे तस्माद् युक्तः सदा भवेत् ॥

विश्वास-प्रस्तुतिः - २६

२६ प्रणवाद्यास् त्रयो वेदाः प्रणवे पर्यवस्थिताः ।
प्रणवो व्याहृतयश् चैव नित्यं ब्रह्म सनातनम् ॥

Buhler - २६
  1. The Vedas likewise begin with the syllable Om, and they end with the syllable Om. The syllable Om and the Vyāhṛtis are the eternal, everlasting Brahman. 13
मूलम् - २६

२६ प्रणवाद्यास् त्रयो वेदाः प्रणवे पर्यवस्थिताः ।
प्रणवो व्याहृतयश् चैव नित्यं ब्रह्म सनातनम् ॥

विश्वास-प्रस्तुतिः - २७

प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।
त्रिपदायां च गायत्र्यां न भयं विद्यते क्वचित् ॥

Buhler - २७
  1. For him who is constantly engaged in (reciting) the syllable Om, the seven Vyāhṛtis, and the three-footed Gāyatrī, no danger exists anywhere. 14
मूलम् - २७

प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।
त्रिपदायां च गायत्र्यां न भयं विद्यते क्वचित् ॥

विश्वास-प्रस्तुतिः - २८

२८ सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥

Buhler - २८
  1. If, restraining his breath, he thrice recites the Gāyatrī together with the syllable Om and with the (text called) Śiras, that is called one suppression of breath. 15
मूलम् - २८

२८ सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥

विश्वास-प्रस्तुतिः - २९

२९ सव्याहृतिकाः सप्रणवाः प्राणायामास् तु षोडश ।
अपि भ्रूणहनं मासात् पुनन्त्य् अहरहर्धृताः ॥ [k: अहरहः कृताः]

Buhler - २९
  1. But sixteen suppressions of breath, accompanied 16 by (the recitation of) the Vyāhṛtis and of the syllable Om, repeated daily, purify after a month even the slayer of a learned Brāhmaṇa.
मूलम् - २९

२९ सव्याहृतिकाः सप्रणवाः प्राणायामास् तु षोडश ।
अपि भ्रूणहनं मासात् पुनन्त्य् अहरहर्धृताः ॥ [k: अहरहः कृताः]

विश्वास-प्रस्तुतिः - ३०

३० एतदाद्यं तपः श्रेष्ठम् एतद् धर्मस्य लक्षणम् ।
सर्वदोषोपघातार्थम् एतद् एव विशिष्यते ॥
एतद् एव विशिष्यत इति ॥

Buhler - ३०
  1. That is the highest austerity, that is the best description of the sacred law. That, indeed, is the best means of removing all sin.
मूलम् - ३०

३० एतदाद्यं तपः श्रेष्ठम् एतद् धर्मस्य लक्षणम् ।
सर्वदोषोपघातार्थम् एतद् एव विशिष्यते ॥
एतद् एव विशिष्यत इति ॥


  1. The construction is certainly elliptical. I understand tatra with the first half-verse. Govinda separates the two half-verses, yad upasthakṛtam papaṃ, &c., from the first, and reads at the end p. 313 of the half-verse prāṇāyāmān samācaret, ‘one should perform suppressions of the breath (in even or equal numbers).’ ↩︎

  2. Govinda tries to reconcile this rule with the one given above, I, I, 2, 7, by assuming that the word Śūdra denotes here a Brāhmaṇa who lives like a Śūdra and neglects his sacred duties. ↩︎

  3. I read, conjecturally, dvādaśāham, ’twelve days.’ The MSS. of the text have dvādaśa dvādaśāham, or corruptions pointing to this reading, and C. I. reads ardhamāsam. Regarding avarānna, ‘bad food,’ see note on Āpastamba II, 6, 15, 16. ↩︎

  4. I read, conjecturally, ardhamāsaṃ, ‘half a month;’ D. has ardhamāsān; K. dvādaśāhaṃ; M. dvādaśārdhamāsam; C. I. dvādaśārdhamāsān, which is explained by shaṇmāsān. ↩︎

  5. I read with M. dvādaśa dvādaśāhān. D. K. have dvādaśāham. The commentary omits the Sūtra altogether. ↩︎

  6. I read with D., K., and M., dvādaśārdhamāsān. The commentary omits also this Sūtra. ↩︎

  7. Vasiṣṭha XVII, 67-71, and above. ↩︎

  8. Vasiṣṭha XVII, 73. ↩︎

  9. Vasiṣṭha XVII, 74. ↩︎

  10. The MSS. of the text read, ṛtusnātāṃ to yo bhāryāṃ niyatāṃ brahmacāriṇīm | niyamātikrame tasya prāṇāyāmaśataṃ smṛtam. The commentary omits the first half of the verse altogether. The latter, as read in the MSS., gives no sense. It seems to me that p. 316 either its end must have been saṃnidhau nopagacchati (as in Sūtra 17), or that a whole half-verse has been lost. ↩︎

  11. -24. Vasiṣṭha XXV, 4-6. ↩︎

  12. Vasiṣṭha XXV, 8. ↩︎

  13. Vasiṣṭha XXV, 10. ↩︎

  14. Vasiṣṭha XXV, 9. ↩︎

  15. Vasiṣṭha XXV, 13. ↩︎

  16. Vasiṣṭha XXVI, 4. ↩︎