०९

विश्वास-प्रस्तुतिः - ०१

०१ अथातो ऽनश्नत्पारायणविधिं व्याख्यास्यामः ॥

Buhler - ०१
  1. Now, therefore, we will explain the rule of the Anaśnatpārāyaṇa (recitation of the whole Veda during a fast).
मूलम् - ०१

०१ अथातो ऽनश्नत्पारायणविधिं व्याख्यास्यामः ॥

विश्वास-प्रस्तुतिः - ०२

०२ शुचिवासाः स्याच् चीरवासा वा ॥

Buhler - ०२
  1. Let him wear a clean garment or a dress made of bark (or grass). 1
मूलम् - ०२

०२ शुचिवासाः स्याच् चीरवासा वा ॥

विश्वास-प्रस्तुतिः - ०३

०३ हविष्यम् अन्नम् इच्छेद् अपः फलानि वा ॥

Buhler - ०३
  1. Let him desire food, fit for a sacrifice, or water and fruit. 2
मूलम् - ०३

०३ हविष्यम् अन्नम् इच्छेद् अपः फलानि वा ॥

विश्वास-प्रस्तुतिः - ०४

०४ ग्रामात् प्राचीं वोदीचीं वा दिशम् उपनिष्क्रम्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलम् उपलिप्य प्रोक्ष्य लक्षणम् उल्लिख्य अद्भिर् अभ्युक्ष्य अग्निम् उपसमाधाय संपरिस्तीर्यैताभ्यो देवताभ्यो जुहुयात् । अग्नये स्वाहा । प्रजापतये स्वाहा । सोमायस्वाहा [k: सोमाय स्वाहा प्रजापतये स्वाहा] विश्वेभ्यो देवेभ्यःस्वयंभुव ऋग्भ्यो यजुर्भ्यः सामभ्यो ऽथर्वभ्यः श्रद्धायै प्रज्ञायैमेधायै श्रियै ह्रियै सवित्रे सावित्र्यै सदसस्पतये ऽनुमतये च ॥ [क् अद्द्स्: व्याहरेन् न चान्तरा विरमेत्]

Buhler - ०४
  1. Going forth from the village in an easterly or northerly direction, smearing a quadrangular sthaṇḍila, ‘a bull’s hide’ in size, with cowdung, sprinkling it, drawing the marks on it, sprinkling it with water, heaping fuel on the fire and scattering (Kuśa grass) around it, he offers burnt oblations to the following deities, to Agni Svāhā, to Prajāpati 3 Svāhā, to Soma Svāhā, to all the gods Svāhā, to Svayaṃbhu, to the Ṛcas, to the Yajus, to the Sāmans, to the Atharvans, to faith, to right knowledge, to wisdom, to fortune, to modesty, to Savitṛ, to the Sāvitrī (verse), to Sadasaspati, and to Anumati.
मूलम् - ०४

०४ ग्रामात् प्राचीं वोदीचीं वा दिशम् उपनिष्क्रम्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलम् उपलिप्य प्रोक्ष्य लक्षणम् उल्लिख्य अद्भिर् अभ्युक्ष्य अग्निम् उपसमाधाय संपरिस्तीर्यैताभ्यो देवताभ्यो जुहुयात् । अग्नये स्वाहा । प्रजापतये स्वाहा । सोमायस्वाहा [k: सोमाय स्वाहा प्रजापतये स्वाहा] विश्वेभ्यो देवेभ्यःस्वयंभुव ऋग्भ्यो यजुर्भ्यः सामभ्यो ऽथर्वभ्यः श्रद्धायै प्रज्ञायैमेधायै श्रियै ह्रियै सवित्रे सावित्र्यै सदसस्पतये ऽनुमतये च ॥ [क् अद्द्स्: व्याहरेन् न चान्तरा विरमेत्]

विश्वास-प्रस्तुतिः - ०५

०५ हुत्वा वेदादिम् आरभेत संततम् अधीयीत ॥ [k omits]

Buhler - ०५
  1. Having offered (these oblations), he must begin with the beginning of the Veda and continuously recite (it).
मूलम् - ०५

०५ हुत्वा वेदादिम् आरभेत संततम् अधीयीत ॥ [k omits]

विश्वास-प्रस्तुतिः - ०६

०६ नान्तरा व्याहरेन् न चान्तरा विरमेत् ॥ [k omits]

Buhler - ०६
  1. Let him not interrupt (the recitation) by talking, nor by stopping, 4
मूलम् - ०६

०६ नान्तरा व्याहरेन् न चान्तरा विरमेत् ॥ [k omits]

विश्वास-प्रस्तुतिः - ०७

०७ अथान्तरा व्याहरेद् अथान्तरा विरमेत् त्रिः प्राणान् आयम्य वृत्तान्ताद् एवारभेत ॥ [k: त्रीन्]

Buhler - ०७
  1. Now if he converses in between or stops, let him thrice suppress his breath, and begin just there where he left off.
मूलम् - ०७

०७ अथान्तरा व्याहरेद् अथान्तरा विरमेत् त्रिः प्राणान् आयम्य वृत्तान्ताद् एवारभेत ॥ [k: त्रीन्]

विश्वास-प्रस्तुतिः - ०८

०८ अप्रतिभायां यावता कालेन न वेद तावन्तं कालं तदधीयीत स यदा जानीयाद् ऋक्तो यजुष्टः सामतैति ॥ [k: यज् जानीयात्]

Buhler - ०८
  1. If he has forgotten (a passage), he shall recite for as long a time as he does not recollect it, what (he may know, Ṛk-verses) for Ṛk-verses, (Yajus-formulas) for Yajus-formulas, (Sāmans) for Sāmans.
मूलम् - ०८

०८ अप्रतिभायां यावता कालेन न वेद तावन्तं कालं तदधीयीत स यदा जानीयाद् ऋक्तो यजुष्टः सामतैति ॥ [k: यज् जानीयात्]

विश्वास-प्रस्तुतिः - ०९

०९ तद्ब्राह्मणं तक्छान्दसं तद्दैवतम् अधीयीत ॥

Buhler - ०९
  1. He may (also) recite the Brāhmaṇa of that (forgotten passage) or (the passage from the Anukramaṇī regarding) its metre and its deities.
मूलम् - ०९

०९ तद्ब्राह्मणं तक्छान्दसं तद्दैवतम् अधीयीत ॥

विश्वास-प्रस्तुतिः - १०

१० द्वादश वेदसंहिता अधीयीत । यदनेनानध्याये ऽधीयीत यद् गुरवः कोपिता यान्य् अकार्याणि भवन्तिताभिः पुनीते । शुद्धम् अस्य पूतं ब्रह्म भवति ॥

Buhler - १०
  1. Let him recite the Saṃhitā of (his) Veda twelve (times). He thereby removes (faults committed by) studying on forbidden (days, by) angering his teacher, (and through) improper acts. His (knowledge of the) Veda is sanctified, is purified.
मूलम् - १०

१० द्वादश वेदसंहिता अधीयीत । यदनेनानध्याये ऽधीयीत यद् गुरवः कोपिता यान्य् अकार्याणि भवन्तिताभिः पुनीते । शुद्धम् अस्य पूतं ब्रह्म भवति ॥

विश्वास-प्रस्तुतिः - ११

११ अत ऊर्ध्वं संचयः ॥

Buhler - ११
  1. (If he reads) more than that, a cumulation (of rewards will be the result).
मूलम् - ११

११ अत ऊर्ध्वं संचयः ॥

विश्वास-प्रस्तुतिः - १२

१२ अपरा द्वादश वेदसंहिता अधीत्य ताभिर् उशनसो लोकमवाप्नोति ॥

Buhler - १२
  1. If he recites the Saṃhitā of the Veda another twelve (times), he gains thereby the world of Uśanas.
मूलम् - १२

१२ अपरा द्वादश वेदसंहिता अधीत्य ताभिर् उशनसो लोकमवाप्नोति ॥

विश्वास-प्रस्तुतिः - १३

१३ अपरा द्वादश वेदसंहिता अधीत्य ताभिर् बृहस्पतेर् लोकमवाप्नोति ॥

Buhler - १३
  1. If he recites the Saṃhitā of the Veda another twelve (times), he gains thereby the world of Bṛhaspati.
मूलम् - १३

१३ अपरा द्वादश वेदसंहिता अधीत्य ताभिर् बृहस्पतेर् लोकमवाप्नोति ॥

विश्वास-प्रस्तुतिः - १४

१४ अपरा द्वादश वेदसंहिता अधीत्य ताभिः प्रजापतेर् लोकमवाप्नोति ॥

Buhler - १४
  1. If he recites the Saṃhitā of the Veda another twelve (times), he gains thereby the world of Prajāpati.
मूलम् - १४

१४ अपरा द्वादश वेदसंहिता अधीत्य ताभिः प्रजापतेर् लोकमवाप्नोति ॥

विश्वास-प्रस्तुतिः - १५

१५ अनश्नन् संहिता सहस्रम् अधीयीत । ब्रह्मभूतो विरजो [k:विराजो] ब्रह्म भवति ॥

Buhler - १५
  1. If, fasting, he recites the Saṃhitā one thou-sand (times), he becomes one with Brahman, resplendent like Brahman (and) Brahman (itself).
मूलम् - १५

१५ अनश्नन् संहिता सहस्रम् अधीयीत । ब्रह्मभूतो विरजो [k:विराजो] ब्रह्म भवति ॥

विश्वास-प्रस्तुतिः - १६

१६ संवत्सरं भैक्षं प्रयुञ्जानो दिव्यं चक्षुर् लभते ॥

Buhler - १६
  1. If he subsists during a year on food obtained by begging, he gains (the power of) supernatural vision.
मूलम् - १६

१६ संवत्सरं भैक्षं प्रयुञ्जानो दिव्यं चक्षुर् लभते ॥

विश्वास-प्रस्तुतिः - १७

१७ षण् मासान् यावकभक्षश् चतुरो मासान् उदकसक्तुभक्षो द्वौमासौ फलभक्षो मासम् अब्भक्षो द्वादशरात्रं वाप्राश्नन् क्षिप्रमन्तर्धीयते ज्ञातीन् पुनाति सप्तावरान् सप्त पूर्वान् आत्मानंपञ्चदशं पङ्क्तिं च पुनाति ॥

Buhler - १७
  1. If during six months he subsists on barley-gruel, during four months on water and barley-flour, during two months on fruit, (and) during one month on water, or performs Kṛcchra penances of twelve days, he (obtains the power of) suddenly disappearing, and sanctifies seven descendants, seven ancestors, and himself as the fifteenth, and (any) company (of Brāhmaṇas) which he may enter.
मूलम् - १७

१७ षण् मासान् यावकभक्षश् चतुरो मासान् उदकसक्तुभक्षो द्वौमासौ फलभक्षो मासम् अब्भक्षो द्वादशरात्रं वाप्राश्नन् क्षिप्रमन्तर्धीयते ज्ञातीन् पुनाति सप्तावरान् सप्त पूर्वान् आत्मानंपञ्चदशं पङ्क्तिं च पुनाति ॥

विश्वास-प्रस्तुतिः - १८

१८ ताम् एतां देवनिश्रयणीत्य् [k: देवनिश्श्रयणीत्य्] आचक्षते ॥

Buhler - १८
  1. They call that the ladder of the gods. 5
मूलम् - १८

१८ ताम् एतां देवनिश्रयणीत्य् [k: देवनिश्श्रयणीत्य्] आचक्षते ॥

विश्वास-प्रस्तुतिः - १९

१९ एतया वै देवा देवत्वम् अगच्छन्न् ऋषय ऋषित्वम् ॥

Buhler - १९
  1. By means of that the gods reached their divine station and the sages the position of Ṛṣis.
मूलम् - १९

१९ एतया वै देवा देवत्वम् अगच्छन्न् ऋषय ऋषित्वम् ॥

विश्वास-प्रस्तुतिः - २०

२० तस्य ह वा एतस्य यज्ञस्य त्रिविध एवारम्भकालःप्रातःसवने माध्यंदिने सवने ब्राह्मे वापररात्रे ॥

Buhler - २०
  1. The periods for beginning this sacrifice, forsooth, are three, the time of the morning libation, the time of the midday libation, and the last part of the night, (the Muhūrta) sacred to Brahman.
मूलम् - २०

२० तस्य ह वा एतस्य यज्ञस्य त्रिविध एवारम्भकालःप्रातःसवने माध्यंदिने सवने ब्राह्मे वापररात्रे ॥

विश्वास-प्रस्तुतिः - २१

२१ तं वा एतं प्रजापतिः सप्तर्षिभ्यः प्रोवाच सप्तर्षयोमहाजज्ञवे महाजज्ञुर् ब्राह्मणेभ्यः । ब्राह्मणेभ्यः ॥

Buhler - २१
  1. Prajāpati, forsooth, proclaimed this (rite) to the seven Ṛṣis, the seven Ṛṣis to Mahājajñu, and Mahājajñu to the Brāhmaṇas. 6
मूलम् - २१

२१ तं वा एतं प्रजापतिः सप्तर्षिभ्यः प्रोवाच सप्तर्षयोमहाजज्ञवे महाजज्ञुर् ब्राह्मणेभ्यः । ब्राह्मणेभ्यः ॥


    1. M. and the MSS. of the commentary read ciravāsāḥ instead of cīravāsāḥ,’ clad with a garment of bark or grass,’ and Govinda explains the var. lect. by ‘dressed in old clothes.’
     ↩︎
  1. This rule refers to the case only where the performer of the vow is unable to bear the prolonged fasting. ↩︎

  2. A sthaṇḍila is the raised mound, four fingers high, which is used as the altar for the Gṛhya ceremonies. Regarding the term, ‘a bull’s hide,’ see Viṣṇu XCII, 2. The marks (lakṣaṇa) are the lines which must be drawn on the altar; see e.g. Āśvalāyana Gṛhya-sūtra I, 3, 1. ↩︎

  3. ‘By talking, i.e. by uttering words not connected with the Veda.’–Govinda. ↩︎

  4. Govinda explains niḥśreṇīm, ’the ladder,’ by niḥśreyasahetum, ‘a cause of supreme bliss.’ ↩︎

  5. The name of the Ṛṣi who proclaimed it to the Brāhmans is not certain. The Dekhan MSS. read Mahājagru and Mahājagnu, M. Mahājajñu, the I. O. copy of the commentary Mahāyajñu and Mahājajñu, and the Telugu copy Mahājajñu. ↩︎