०८

विश्वास-प्रस्तुतिः - ०१

०१ अथातश् चान्द्रायणस्य कल्पं व्याख्यास्यामः ॥ [k: चान्द्रायणकल्पं]

Buhler - ०१
  1. Now, therefore, we will explain the rule of the Cāndrāyaṇa (lunar penance). 1
मूलम् - ०१

०१ अथातश् चान्द्रायणस्य कल्पं व्याख्यास्यामः ॥ [k: चान्द्रायणकल्पं]

विश्वास-प्रस्तुतिः - ०२

०२ शुक्लचतुर्दशीम् उपवसेत् ॥

Buhler - ०२
  1. Let him fast on the fourteenth day of the bright half of the month.
मूलम् - ०२

०२ शुक्लचतुर्दशीम् उपवसेत् ॥

विश्वास-प्रस्तुतिः - ०३

०३ केशश्मश्रुलोमनखानि वापयित्वापि वा श्मश्रूण्य् एवाहतंवासो वसानः सत्यं ब्रुवन्न् आवसथम् अभ्युपेयात् ॥

Buhler - ०३
  1. Having had the hair on his head, his beard, the hair on his body, and his nails, or his beard alone, cut, let him enter, dressed, in new clothes and speaking the truth, the place where the sacrificial fire is preserved.
मूलम् - ०३

०३ केशश्मश्रुलोमनखानि वापयित्वापि वा श्मश्रूण्य् एवाहतंवासो वसानः सत्यं ब्रुवन्न् आवसथम् अभ्युपेयात् ॥

विश्वास-प्रस्तुतिः - ०४

०४ तस्मिन्न् अस्य सकृत्प्रणीतो ऽग्निर् अरण्योर् निर्मन्थ्यो वा ॥

Buhler - ०४
  1. There a (common) fire, (which may be) fetched once (only, shall serve) him; or (the fire) must be produced by friction with the Araṇis. 2
मूलम् - ०४

०४ तस्मिन्न् अस्य सकृत्प्रणीतो ऽग्निर् अरण्योर् निर्मन्थ्यो वा ॥

विश्वास-प्रस्तुतिः - ०५

०५ ब्रह्मचारी सुहृत् प्रैषायोपकल्पी स्यात् ॥

Buhler - ०५
  1. Let a student, who is a friend (of the performer), be ready at hand to (carry out his) directions;
मूलम् - ०५

०५ ब्रह्मचारी सुहृत् प्रैषायोपकल्पी स्यात् ॥

विश्वास-प्रस्तुतिः - ०६

०६ हविष्यं च व्रतोपायनीयम् ॥ [k: व्रतोपायनम्]

Buhler - ०६
  1. And sacrificial viands (shall be his) food during the performance of the vow.
मूलम् - ०६

०६ हविष्यं च व्रतोपायनीयम् ॥ [k: व्रतोपायनम्]

विश्वास-प्रस्तुतिः - ०७

०७ अग्निम् उपसमाधाय संपरिस्तीर्याग्निमुखात् कृत्वापक्वाज् जुहोति ॥

Buhler - ०७
  1. Having heaped fuel on the fire, scattered (Kuśa grass) around it, and performed (the ceremonies) up to the end of the Agnimukha, he offers burnt oblations, (cutting off portions) from the cooked food,
मूलम् - ०७

०७ अग्निम् उपसमाधाय संपरिस्तीर्याग्निमुखात् कृत्वापक्वाज् जुहोति ॥

विश्वास-प्रस्तुतिः - ०८

०८ अग्नये या तिथिः स्यान् नक्षत्राय सदैवताय । अत्राह गोरमन्वतेति चान्द्रमसीं पञ्चमीं द्यावापृथिवीभ्यां षष्ठीमहोरात्राभ्यां सप्तमीं रौद्रीम् अष्टमीं सौरीं नवमीं वारुणींदशमीम् ऐन्द्रीम् एकादशीं वैश्वदेवीं द्वादशीम् इति ॥

Buhler - ०८
  1. (The first) to Agni, (the second) to the lunar day whichever it may be, (the third and the fourth) 3 to the lunar mansion together with its guardian deity, the fifth to the moon (with the verse), ‘Atrāha gor amanvata,’ the sixth to the sky and the earth, the seventh to day and night, the eighth to Rudra, the ninth to the sun, the tenth to Varuṇa, the eleventh to Indra, and the twelfth to all the gods.
मूलम् - ०८

०८ अग्नये या तिथिः स्यान् नक्षत्राय सदैवताय । अत्राह गोरमन्वतेति चान्द्रमसीं पञ्चमीं द्यावापृथिवीभ्यां षष्ठीमहोरात्राभ्यां सप्तमीं रौद्रीम् अष्टमीं सौरीं नवमीं वारुणींदशमीम् ऐन्द्रीम् एकादशीं वैश्वदेवीं द्वादशीम् इति ॥

विश्वास-प्रस्तुतिः - ०९

०९ अथापराः समामनन्ति दिग्भ्यश् च सदैवताभ्य उरोरन्तरिक्षाय सदैवताय ॥

Buhler - ०९
  1. Now they mention (the following) other (oblations which are to be offered) to the points of the horizon and to their (guardian) deities, to the wide middle sphere and to its (guardian) deity.
मूलम् - ०९

०९ अथापराः समामनन्ति दिग्भ्यश् च सदैवताभ्य उरोरन्तरिक्षाय सदैवताय ॥

विश्वास-प्रस्तुतिः - १०

१० नवोनवो भवति जायमान इति सौविष्टकृतींहुत्वाथैतद् धविरुच्छिष्टं कंसे वा चमसे वा व्युद्धृत्यहविष्यैर् व्यञ्जनैर् उपसिच्य पञ्चदश पिण्डान् प्रकृतिस्थान् प्राश्नाति ॥

Buhler - १०
  1. Having offered (the oblation) to Agni Sviṣṭakṛt (with the verse), ‘Ever new,’ &c., he then places the remainder of the sacrificial viands into a goblet (kaṃsa) or a cup (camasa), pours seasoning, that is fit for sacrifices, over them, and eats fifteen morsels of ordinary size, 4
मूलम् - १०

१० नवोनवो भवति जायमान इति सौविष्टकृतींहुत्वाथैतद् धविरुच्छिष्टं कंसे वा चमसे वा व्युद्धृत्यहविष्यैर् व्यञ्जनैर् उपसिच्य पञ्चदश पिण्डान् प्रकृतिस्थान् प्राश्नाति ॥

विश्वास-प्रस्तुतिः - ११

११ प्राणाय त्वेति प्रथमम् । अपानाय त्वेति द्वितीयम् । व्यानाय त्वेति तृतीयम् । उदानाय त्वेति चतुर्थम् । समानायत्वेति पञ्चमम् । यदा चत्वारो द्वाभ्यां पूर्वम् । यदा त्रयोद्वाभ्यां द्वाभ्यां पूर्वौ । यदा द्वौ द्वाभ्यां पूर्वं त्रिभिरुत्तरम् । एकं सर्वैः ॥

Buhler - ११
  1. The first (saying, ‘I offer) thee to Prāṇa,’ the second (saying,’ I offer) thee to Apāna,’ the third (saying, ‘I offer) thee to Vyāna,’ the fourth (saying, ‘I offer) thee to Udāna,’ the fifth (saying, ‘I offer) thee to Samāna.’ If there are only four (mouthfuls, he eats) the first reciting two (texts); if there are three, (he eats) the first two reciting two (texts) with each; if there are two, (he eats) the first reciting two (texts and) the second reciting three texts; (if, there is only) one, (he recites) all (the five texts) together. 5
मूलम् - ११

११ प्राणाय त्वेति प्रथमम् । अपानाय त्वेति द्वितीयम् । व्यानाय त्वेति तृतीयम् । उदानाय त्वेति चतुर्थम् । समानायत्वेति पञ्चमम् । यदा चत्वारो द्वाभ्यां पूर्वम् । यदा त्रयोद्वाभ्यां द्वाभ्यां पूर्वौ । यदा द्वौ द्वाभ्यां पूर्वं त्रिभिरुत्तरम् । एकं सर्वैः ॥

विश्वास-प्रस्तुतिः - १२

१२ निग्राभ्या स्थेति । अपः पीत्वाथाज्याहुतीरुपजुहोति । प्राणापानव्यानोदानसमाना मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा । वाङ्मनः । शिरःपाणि । त्वक्चर्ममांस [k: त्वक्चर्म] । शब्दस्पर्शरूप पृथिव्यप्तेजो । [k: शब्दस्पर्श पृथिवी]

Buhler - १२
  1. Having drunk water (with the text), ‘Thou 6 art water used for moistening Soma,’ &c., he then offers the (following) additional oblations of clarified butter, with the seven Anuvākas (beginning), ‘May my Prāṇa, Apāna, Vyāna, Udāna, and Samāna be purified;’ ‘May my voice, mind, eye, ear,’ &c. ‘May my head, hands, feet;’ ‘May my skin;’ ‘May the sense of hearing, touch;’ ‘May earth, water;’ ‘May that which consists of food.’
मूलम् - १२

१२ निग्राभ्या स्थेति । अपः पीत्वाथाज्याहुतीरुपजुहोति । प्राणापानव्यानोदानसमाना मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा । वाङ्मनः । शिरःपाणि । त्वक्चर्ममांस [k: त्वक्चर्म] । शब्दस्पर्शरूप पृथिव्यप्तेजो । [k: शब्दस्पर्श पृथिवी]

अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्तां ज्योतिर् अहं विरजा विपाप्मा भूयासं स्वाहेति सप्तभिर् अनुवाकैः ॥ [k: अन्नमयप्राणमय इत्य् एतैस् सप्तभिर् अनुवाकैः]
विश्वास-प्रस्तुतिः - १३

१३ जयप्रभृति सिद्धम् आ धेनुवरप्रदानात् ॥

Buhler - १३
  1. (The ceremonies) beginning with the muttering (of sacred texts) and ending with the gift of a cow as a fee are known. 7
मूलम् - १३

१३ जयप्रभृति सिद्धम् आ धेनुवरप्रदानात् ॥

विश्वास-प्रस्तुतिः - १४

१४ सौरीभिर् आदित्यम् उपतिष्ठते चान्द्रमसीभिश् चन्द्रमसम् ॥

Buhler - १४
  1. He worships the sun with (three verses) ad–dressed to Sūrya and the moon with (three verses) addressed to Candramas. 8
मूलम् - १४

१४ सौरीभिर् आदित्यम् उपतिष्ठते चान्द्रमसीभिश् चन्द्रमसम् ॥

विश्वास-प्रस्तुतिः - १५

१५ अग्ने त्वं सु जागृहीति संविशञ् जपति ॥

Buhler - १५
  1. When he goes to rest, he mutters (the verse), ‘O fire, keep thou good watch,’ 9
मूलम् - १५

१५ अग्ने त्वं सु जागृहीति संविशञ् जपति ॥

विश्वास-प्रस्तुतिः - १६

१६ त्वम् अग्ने व्रतपा असीति प्रबुद्धः ॥

Buhler - १६
  1. When he awakes (in the morning, the verse), ‘O fire, thou art the protector of vows.’ 10
मूलम् - १६

१६ त्वम् अग्ने व्रतपा असीति प्रबुद्धः ॥

विश्वास-प्रस्तुतिः - १७

१७ स्त्रीशूद्रैर् नाभिभाषेत मूत्रपुरीषे नावेक्षेत ॥

Buhler - १७
  1. Let him not talk with women and Śūdras addressing them first; let him not look at urine and ordure.
मूलम् - १७

१७ स्त्रीशूद्रैर् नाभिभाषेत मूत्रपुरीषे नावेक्षेत ॥

विश्वास-प्रस्तुतिः - १८

१८ अमेध्यं दृष्ट्वा जपति । अबद्धं मनो दरिद्रं चक्षुः सूर्योज्योतिषां श्रेष्ठो दीक्षे मा मा हासीर् इति ॥ [क् अद्द्स्: अथ यद्य् एनमभिवर्षत्य् उन्दतीर् बलं धत्तेति]

Buhler - १८
  1. If he has seen any impure substance, he mutters (the text), ‘Unrestrained (was) the internal organ, wretched my eye; the sun is the most 11 excellent among the lights of heaven; O initiation, mayest thou not forsake me.’
मूलम् - १८

१८ अमेध्यं दृष्ट्वा जपति । अबद्धं मनो दरिद्रं चक्षुः सूर्योज्योतिषां श्रेष्ठो दीक्षे मा मा हासीर् इति ॥ [क् अद्द्स्: अथ यद्य् एनमभिवर्षत्य् उन्दतीर् बलं धत्तेति]

विश्वास-प्रस्तुतिः - १९

१९ प्रथमायाम् अपरपक्षस्य चतुर्दश ग्रासान् ॥

Buhler - १९
  1. On the first day of the latter half (of the month he eats) fourteen mouthfuls.
मूलम् - १९

१९ प्रथमायाम् अपरपक्षस्य चतुर्दश ग्रासान् ॥

विश्वास-प्रस्तुतिः - २०

२० एवम् एकापचयेनामावास्यायाः ॥

Buhler - २०
  1. Thus (he takes every day) one (mouthful) less up to the day of the new moon.
मूलम् - २०

२० एवम् एकापचयेनामावास्यायाः ॥

विश्वास-प्रस्तुतिः - २१

२१ अमावास्यायां ग्रासो न विद्यते ॥

Buhler - २१
  1. On the day of the new moon there is not (even) one mouthful (left to take).
मूलम् - २१

२१ अमावास्यायां ग्रासो न विद्यते ॥

विश्वास-प्रस्तुतिः - २२

२२ अथ [k omits अथ] प्रथमायां पूर्वपक्षस्यैकः । द्वौद्वितीयायाम् [k: द्वितीयस्याम्] ॥

Buhler - २२
  1. On the first day of the first half (of the month) one (mouthful may be eaten), on the second two.
मूलम् - २२

२२ अथ [k omits अथ] प्रथमायां पूर्वपक्षस्यैकः । द्वौद्वितीयायाम् [k: द्वितीयस्याम्] ॥

विश्वास-प्रस्तुतिः - २३

२३ एवम् एकोपचयेना पौर्णमास्याः ॥

Buhler - २३
  1. Thus he daily increases (his meal) by one (mouthful) up to the day of the full moon.
मूलम् - २३

२३ एवम् एकोपचयेना पौर्णमास्याः ॥

विश्वास-प्रस्तुतिः - २४

२४ पौर्णमास्यां स्थालीपाकस्य जुहोत्य् अग्नये या तिथिः स्यान्नक्षत्रेभ्यश् च सदैवतेभ्यः ॥

Buhler - २४
  1. On the day of the full moon he offers a Sthālīpāka to Agni, to the lunar day whichever it may be, and to the lunar mansions as well as to their (guardian) deities.
मूलम् - २४

२४ पौर्णमास्यां स्थालीपाकस्य जुहोत्य् अग्नये या तिथिः स्यान्नक्षत्रेभ्यश् च सदैवतेभ्यः ॥

विश्वास-प्रस्तुतिः - २५

२५ पुरस्ताच् छ्रोणाया अभिजितः सदैवतस्य हुत्वा गांब्राह्मणेभ्यो दद्यात् ॥

Buhler - २५
  1. Having offered a burnt oblation to (the lunar mansion) Abhijit (which stands) before Śroṇā, and to its (guardian) deity, he must give a cow to the Brāhmaṇas.
मूलम् - २५

२५ पुरस्ताच् छ्रोणाया अभिजितः सदैवतस्य हुत्वा गांब्राह्मणेभ्यो दद्यात् ॥

विश्वास-प्रस्तुतिः - २६

२६ तद् एतच् चान्द्रायणं पिपीलिकामध्यम् । विपरीतं यवमध्यम् ॥

Buhler - २६
  1. That is the ant-shaped lunar penance; (that which is performed in the) inverted (order is called) the barleycorn-shaped (lunar penance). 12
मूलम् - २६

२६ तद् एतच् चान्द्रायणं पिपीलिकामध्यम् । विपरीतं यवमध्यम् ॥

विश्वास-प्रस्तुतिः - २७

२७ अतो ऽन्यतरच् चरित्वा सर्वेभ्यः पातकेभ्यः पापकृच् छुद्धोभवति ॥

Buhler - २७
  1. A sinner who has performed either of these two (penances) becomes free from all mortal sins (pātaka).
मूलम् - २७

२७ अतो ऽन्यतरच् चरित्वा सर्वेभ्यः पातकेभ्यः पापकृच् छुद्धोभवति ॥

विश्वास-प्रस्तुतिः - २८

२८ कामाय कामायैतद् आहार्यम् इत्य् आचक्षते ॥

Buhler - २८
  1. They declare that the (Cāndrāyaṇa) shall be performed for the sake of the fulfilment of wishes of all kinds.
मूलम् - २८

२८ कामाय कामायैतद् आहार्यम् इत्य् आचक्षते ॥

विश्वास-प्रस्तुतिः - २९

२९ यं कामं कामयते तम् एतेनाप्नोति ॥

Buhler - २९
  1. ‘Thereby man obtains every wish which he may conceive.’
मूलम् - २९

२९ यं कामं कामयते तम् एतेनाप्नोति ॥

विश्वास-प्रस्तुतिः - ३०

३० एतेन वा ऋषय आत्मानं शोधयित्वा पुरा कर्माण्य् असाधयन् । तद् एतद् धन्यं पुण्यं पुत्र्यं पौत्र्यं पशव्यम् आयुष्यं स्वर्ग्यंयशस्यं सार्वकामिकम् ॥

Buhler - ३०
  1. ‘Thereby the sages formerly purified themselves and accomplished their objects. That (rite) procures wealth, spiritual merit, sons, cattle, long life, heavenly bliss, and fame; it secures the fulfilment of all desires.’
मूलम् - ३०

३० एतेन वा ऋषय आत्मानं शोधयित्वा पुरा कर्माण्य् असाधयन् । तद् एतद् धन्यं पुण्यं पुत्र्यं पौत्र्यं पशव्यम् आयुष्यं स्वर्ग्यंयशस्यं सार्वकामिकम् ॥

विश्वास-प्रस्तुतिः - ३१

३१ नक्षत्राणां द्युतिं सूर्याचन्द्रमसोर् एव [k omits एव]सायुज्यं सलोकताम् आप्नोति य उ चैनद् अधीते । य उ चैनद् अधीते ॥

Buhler - ३१
  1. ‘He who studies this, becomes the companion of the lunar constellations, of sun and moon, and dwells in their world.’
मूलम् - ३१

३१ नक्षत्राणां द्युतिं सूर्याचन्द्रमसोर् एव [k omits एव]सायुज्यं सलोकताम् आप्नोति य उ चैनद् अधीते । य उ चैनद् अधीते ॥


    1. For this chapter compare Gautama XXVII.
     ↩︎
  1. The meaning of the Sūtra is that the fire which has been carried into the āvasatha must be kept burning during the whole month which the Cāndrāyaṇa lasts. For a burnt oblation has to be performed at the end of the penance. Should it be extinguished, it must be rekindled by friction. ↩︎

  2. The text quoted occurs Taitt. Brāhmaṇa I, 5, 8, 1. ↩︎

  3. Taitt. Saṃhitā II, 3, 5, 3. ↩︎

  4. This is an imitation of the Prāṇāgnihotra described above, II, 7, 12. ↩︎

  5. Taitt. Saṃhitā III, 1, 8, 1. The seven Anuvākas are Taitt. Āraṇyaka X, 51-57. One oblation is to be offered with each Anuvāka. ↩︎

  6. Govinda here mentions that the whole of the ceremonies alluded to are the uttaraṃ dārvihomikaṃ tantram. ↩︎

  7. As Govinda states, the former verses are ‘ud vayaṃ tamasas pari,’ Taitt. Saṃhitā IV, I, 7, 4; ‘ud u tyaṃ jātavedasaṃ,’ ibid. I, 1, 8, 4; ‘citram devānām,’ ibid. I, 4, 43, 1; while the verses addressed to the moon are ’nano navo,’ Ibid. II, 4, 14, 1; ‘sa citracitram,’ Rig-veda VI, 6, 7; and ‘atrāha gor,’ Taitt. Brāhmaṇa 1, 5, 8, 1. ↩︎

  8. Taitt. Saṃhitā I, 2, 3, I. ↩︎

  9. Taitt. Saṃhitā, loc. cit. ↩︎

  10. Taitt. Saṃhitā III, I, 1, 2. ↩︎

  11. Viṣṇu XLVII, 3-5. ↩︎