१४

विश्वास-प्रस्तुतिः - ०१

०१ पित्र्यम् आयुष्यं स्वर्ग्यं यशस्यं पुष्टिकर्म च ॥

Buhler - ०१
  1. The offering to the manes secures long life and heaven, is worthy of praise and a rite ensuring prosperity. 1
मूलम् - ०१

०१ पित्र्यम् आयुष्यं स्वर्ग्यं यशस्यं पुष्टिकर्म च ॥

विश्वास-प्रस्तुतिः - ०२

०२ त्रिमधुस् त्रिणाचिकेतस् त्रिसुपर्णः पञ्चाग्निःषडङ्गविच् छीर्षको ज्येष्ठसामकः स्नातक इति पङ्क्तिपावनाः ॥

Buhler - ०२
  1. Persons who sanctify the company are, a Trimadhu, a Triṇāciketa, a Trisuparṇa, one who keeps five fires, and one who knows the six Aṅgas, one who performs the vow called Śiras, one who knows the Gyeṣṭhasāman, (and) a Snātaka; 2
मूलम् - ०२

०२ त्रिमधुस् त्रिणाचिकेतस् त्रिसुपर्णः पञ्चाग्निःषडङ्गविच् छीर्षको ज्येष्ठसामकः स्नातक इति पङ्क्तिपावनाः ॥

विश्वास-प्रस्तुतिः - ०३

०३ तदभावे रहस्यवित् ॥

Buhler - ०३
  1. On failure of these, one who knows the (texts called) Rahasya. 3
मूलम् - ०३

०३ तदभावे रहस्यवित् ॥

विश्वास-प्रस्तुतिः - ०४

०४ ऋचो यजूंषि सामानीति श्राद्धस्य महिमा । तस्मादेवंविदं सपिण्डम् अप्य् आशयेत् ॥

Buhler - ०४
  1. The Ṛk-verses, the Yajus-formulas, and the Sāmans (give) lustre to a funeral offering. Therefore he may feed (on that occasion) even a Sapiṇḍa relation who (knows) those (texts). 4
मूलम् - ०४

०४ ऋचो यजूंषि सामानीति श्राद्धस्य महिमा । तस्मादेवंविदं सपिण्डम् अप्य् आशयेत् ॥

विश्वास-प्रस्तुतिः - ०५

०५ राक्षोघ्नानि च सामानि स्वधावन्ति यजूंषि च ।
मध्वृचो ऽथ पवित्राणि श्रावयेद् आशयञ् छनैः ॥

Buhler - ०५
  1. Let him who feeds (Brāhmaṇas at a funeral sacrifice) cause them to hear successively the Rakṣoghna Sāmans, the Yajus-formulas (called) Svadhāvat, the Ṛk-verses (called) Madhu, and the (texts called) Pavitras. 5
मूलम् - ०५

०५ राक्षोघ्नानि च सामानि स्वधावन्ति यजूंषि च ।
मध्वृचो ऽथ पवित्राणि श्रावयेद् आशयञ् छनैः ॥

विश्वास-प्रस्तुतिः - ०६

०६ चरणवतो ऽनूचानान् योनिगोत्रमन्त्रासंबद्धाञ् छुचीन् मन्त्रवतस् त्र्यवरान् अयुजः पूर्वेद्युः प्रातर् एववा निमन्त्र्य सदर्भोपकॢप्तेष्व् आसनेषु प्राङ्मुखान् उपवेशयत्युदङ्मुखान् वा ॥

Buhler - ०६
  1. Having invited on the day before (the Śrāddha), or just in the morning, virtuous, pure (men), such as Trimadhus, who know the Vedāṅgas and the sacred texts, who are not related by marriage, nor members of the same family, nor connected through the Veda, at least three, (but always) an odd number, the (sacrificer) makes them sit down on prepared seats, covered with Darbha grass, facing the east or the north. 6
मूलम् - ०६

०६ चरणवतो ऽनूचानान् योनिगोत्रमन्त्रासंबद्धाञ् छुचीन् मन्त्रवतस् त्र्यवरान् अयुजः पूर्वेद्युः प्रातर् एववा निमन्त्र्य सदर्भोपकॢप्तेष्व् आसनेषु प्राङ्मुखान् उपवेशयत्युदङ्मुखान् वा ॥

विश्वास-प्रस्तुतिः - ०७

०७ अथैनांस् तिलमिश्रा अपः प्रतिग्राह्य गन्धैर् माल्यैश्चालंकृत्य । अग्नौ करिष्यामीति । अनुज्ञातो ऽग्निम् उपसमाधायसंपरिस्तीर्याग्निमुखात् कृत्वान्नस्यैव तिस्र आहुतीर् जुहोति । सोमाय पितृपीताय स्वधा नमः स्वाहा । यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहा । अग्नयेकव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहेति ॥ [k: कृत्वाज्यस्यैव]

Buhler - ०७
  1. Then he offers to them water mixed with sesamum seed, adorns them with scents and garlands (and says), ‘I wish to offer oblations in the fire.’ 7 When he has received permission (to do so), he heaps fuel on the sacred fire, scatters Kuśa grass around it, performs (all the ceremonies) up to the end of the Agnimukha, and offers three burnt oblations of food only, (reciting the following texts): ‘To Soma, accompanied by the manes, Svāhā!’ ‘To Yama, accompanied by the Aṅgiras and by the manes, Svāhā!’ ‘To Agni, who carries the offerings to the manes, who causes sacrifices to be well performed, Svāhā!’
मूलम् - ०७

०७ अथैनांस् तिलमिश्रा अपः प्रतिग्राह्य गन्धैर् माल्यैश्चालंकृत्य । अग्नौ करिष्यामीति । अनुज्ञातो ऽग्निम् उपसमाधायसंपरिस्तीर्याग्निमुखात् कृत्वान्नस्यैव तिस्र आहुतीर् जुहोति । सोमाय पितृपीताय स्वधा नमः स्वाहा । यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहा । अग्नयेकव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहेति ॥ [k: कृत्वाज्यस्यैव]

विश्वास-प्रस्तुतिः - ०८

०८ तच्छेषेणान्नम् अभिघार्यान्नस्यैता एव तिस्रो जुहुयात् ॥ [k: तिस्र आहुतीर्]

Buhler - ०८
  1. He shall make these three oblations with food only which has been sprinkled with the remainder of the (clarified butter). 8
मूलम् - ०८

०८ तच्छेषेणान्नम् अभिघार्यान्नस्यैता एव तिस्रो जुहुयात् ॥ [k: तिस्र आहुतीर्]

विश्वास-प्रस्तुतिः - ०९

०९ वयसां पिण्डं दद्यात् ॥

Buhler - ०९
  1. Let him give a cake of food to the birds.
मूलम् - ०९

०९ वयसां पिण्डं दद्यात् ॥

विश्वास-प्रस्तुतिः - १०

१० वयसां हि पितरः प्रतिमया चरन्तीति विज्ञायते ॥

Buhler - १०
  1. For it is declared in the Veda, ‘The manes roam about in the shape of birds.’
मूलम् - १०

१० वयसां हि पितरः प्रतिमया चरन्तीति विज्ञायते ॥

विश्वास-प्रस्तुतिः - ११

११ अथेतरत् साङ्गुष्ठेन पाणिनाभिमृशति ॥

Buhler - ११
  1. Next he touches the (other food) with his hand and with the thumb,
मूलम् - ११

११ अथेतरत् साङ्गुष्ठेन पाणिनाभिमृशति ॥

विश्वास-प्रस्तुतिः - १२

१२ पृथिवीसमन्तस्य ते ऽग्निर् उपद्रष्टा ऋचस् ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस् त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतांप्राणापानयोर् जुहोम्य् अक्षितम् असि मा पितृ̄णां क्षेष्ठा अमुत्रामुष्मिंलोक इति । [k: पृथिवीसमं तस्य]
अन्तरिक्षसमन्तस्य [k: अन्तरिक्षस्समं तस्य] ते वायुर् उपश्रोता यजूंषि ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्रह्मणस् त्वा मुखे जुहोमि ब्राह्मणानां त्वाविद्यावतां प्राणापानयोर् जुहोम्य् अक्षितम् असि मा पितामहानांक्षेष्ठा अमुत्रामुष्मिं लोक इति ।
द्युसमन्तस्य त आदित्यो ऽनुख्यातासामानि ते महिमा दत्तस्य अप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्रह्मणस् त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतांप्राणापानयोर् जुहोम्य् अक्षितम् असि मा प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिं लोक इति ॥ [k: द्यौसमं तस्य]

Buhler - १२
  1. (And recites the following texts): ‘Fire sees thee, who art co-extensive with the earth, the Ṛk-verses are thy greatness, lest the gift be in vain; the earth is the vessel for thee, the sky the cover; I offer thee in the mouth of Brahman, I offer thee in the Prāṇa and the Apāna of learned Brāhmaṇas; thou art imperishable, mayest thou never fail to (the manes of our) fathers yonder, in the other world.’ ‘Air hears thee, who art co-extensive with the middle sphere, 9 the Yajus-formulas are thy greatness, lest the gift be in vain; the earth is the vessel for thee, the sky the cover; . . . mayest thou never fail to the (manes of our) grandfathers yonder, in the other world.’ ‘The sun reveals thee, who art co-extensive with the sky, the Sāmans are thy greatness, lest the gift be in vain; . . . . mayest thou never fail to the (manes of our) great-grandfathers yonder, in the other world.’
मूलम् - १२

१२ पृथिवीसमन्तस्य ते ऽग्निर् उपद्रष्टा ऋचस् ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस् त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतांप्राणापानयोर् जुहोम्य् अक्षितम् असि मा पितृ̄णां क्षेष्ठा अमुत्रामुष्मिंलोक इति । [k: पृथिवीसमं तस्य]
अन्तरिक्षसमन्तस्य [k: अन्तरिक्षस्समं तस्य] ते वायुर् उपश्रोता यजूंषि ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्रह्मणस् त्वा मुखे जुहोमि ब्राह्मणानां त्वाविद्यावतां प्राणापानयोर् जुहोम्य् अक्षितम् असि मा पितामहानांक्षेष्ठा अमुत्रामुष्मिं लोक इति ।
द्युसमन्तस्य त आदित्यो ऽनुख्यातासामानि ते महिमा दत्तस्य अप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्रह्मणस् त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतांप्राणापानयोर् जुहोम्य् अक्षितम् असि मा प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिं लोक इति ॥ [k: द्यौसमं तस्य]


    1. Āpastamba II, 7, 16, 1-2.
     ↩︎
  1. Āpastamba II, 7, 17, 22; Vasiṣṭha III, 19. Govinda states that the Atharvavedins know the vow called Śiras; see also Vasiṣṭha XXVI, 12, and note. ↩︎

  2. Govinda says that persons acquainted with the Rahasyas or p. 267 Āraṇyakas are preferable to those mentioned in the preceding Sūtra, and thus the order must be reversed. ↩︎

  3. Āpastamba II, 7, 17, 5. ↩︎

  4. The texts on which the Rakṣoghna Sāmans are based occur Sāma-veda I, 1, 1, 3, 4–6; the Svadhāvat Yajus, Taitt. Brāhmaṇa I, 3, 10, 2; the Madhu Ṛcas, Rig-veda I, 90, 6; and the three Pavitras, Taitt. Brāhmaṇa I, q, 8, 2. ↩︎

  5. Āpastamba II, 7, 14, 5. All the MSS., including those of the commentary, read yonigotramantrasambandhān instead of yonigotramantrāsambandhān. But the explanation of gotrasambandhāḥ by asagotrāḥ shows still a faint trace of the former existence of the reading which I have restored conjecturally and translated. Its correctness is proved by the parallel passage of Āpastamba. ↩︎

  6. Viṣṇu LXXIII, 12–13; Manu III, 208-211. The Agnimukha p. 268 is a term denoting all the preliminaries which precede the Pradhānahoma of a ceremony. The Dekhan and Gujarāt MSS. read ājyasya instead of annasyaiva. ↩︎

  7. Clarified butter is necessary for the rites included in the Agnimukha. ↩︎

  8. The Mantras are addressed to the food which is to be offered. ↩︎