१३

विश्वास-प्रस्तुतिः - ०१

०१ यथा हि तूलम् ऐषीकम् अग्नौ प्रोतं प्रदीप्यते ।
तद्वत् सर्वाणि पापानि दह्यन्ते ह्य् आत्मयाजिनः ॥

Buhler - ०१
  1. Now they quote also (the following verse): ‘As cotton and reeds, thrown into a fire, blaze up, even so all the guilt of him who sacrifices to the soul is consumed;’
मूलम् - ०१

०१ यथा हि तूलम् ऐषीकम् अग्नौ प्रोतं प्रदीप्यते ।
तद्वत् सर्वाणि पापानि दह्यन्ते ह्य् आत्मयाजिनः ॥

विश्वास-प्रस्तुतिः - ०२

०२ केवलाघो भवति केवलादी । मोघम् अन्नं विन्दतेअप्रचेता [k omits अप्रचेता] इति ॥

Buhler - ०२
  1. (Moreover), ‘He who eats merely (in order to satisfy his own hunger) reaps only guilt. In vain (the fool) takes food.’ 1
मूलम् - ०२

०२ केवलाघो भवति केवलादी । मोघम् अन्नं विन्दतेअप्रचेता [k omits अप्रचेता] इति ॥

विश्वास-प्रस्तुतिः - ०३

०३ स एवम् एवाहरहः सायं प्रातर् जुहुयात् ॥

Buhler - ०३
  1. Let him daily, both in the morning and in the evening, sacrifice in this manner;
मूलम् - ०३

०३ स एवम् एवाहरहः सायं प्रातर् जुहुयात् ॥

विश्वास-प्रस्तुतिः - ०४

०४ अद्भिर् वा सायम् ॥

Buhler - ०४

4, Or (he may offer) water in the evening.

मूलम् - ०४

०४ अद्भिर् वा सायम् ॥

विश्वास-प्रस्तुतिः - ०५

०५ अथाप्य् उदाहरन्ति ।
अग्रे भोजयेद् अतिथीन् अन्तर्वत्नीर् अनन्तरम् ।
बालवृद्धांस् तथा दीनान् व्याधितांश् च विशेषतः ॥
अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्ते यथाविधि ।
भुज्यमानो न जानाति न स भुङ्क्ते स भुज्यते ॥

Buhler - ०५
  1. Now they quote also (the following verses): Let him first feed his guests, next the pregnant women, then the infants and the aged, thereafter the distressed and particularly the diseased. But he who eats first, without having given (food) to those (persons) according to the rule, does not know that he is being eaten. He does not eat, (but) he is eaten.’ 2
मूलम् - ०५

०५ अथाप्य् उदाहरन्ति ।
अग्रे भोजयेद् अतिथीन् अन्तर्वत्नीर् अनन्तरम् ।
बालवृद्धांस् तथा दीनान् व्याधितांश् च विशेषतः ॥
अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्ते यथाविधि ।
भुज्यमानो न जानाति न स भुङ्क्ते स भुज्यते ॥

विश्वास-प्रस्तुतिः - ०६

०६ पितृदैवतभृत्यानां मातापित्रोर् गुरोस् तथा ।
वाग्यतो विघसम् अश्नीयाद् एवं धर्मो विधीयते ॥ इति ॥

Buhler - ०६
  1. ‘Let him eat silently what remains, (after he has given their portions) to the manes, the gods, the servants, his parents, and his Gurus; that is declared to be the rule of the sacred law.’ 3
मूलम् - ०६

०६ पितृदैवतभृत्यानां मातापित्रोर् गुरोस् तथा ।
वाग्यतो विघसम् अश्नीयाद् एवं धर्मो विधीयते ॥ इति ॥

विश्वास-प्रस्तुतिः - ०७

०७ अथाप्य् उदाहरन्ति ।
अष्टौ ग्रासा मुनेर् भक्ष्याः षोडशारण्यवासिनः ।
द्वात्रिंशत् तु गृहस्थस्य अमितं [k: गृहस्थस्यापरिमितं] ब्रह्मचारिणः ॥ [k: द्वात्रिंशतं]

Buhler - ०७
  1. Nov they quote also (the following verses): Eight mouthfuls are the meal of an ascetic, sixteen that of a hermit in the woods, thirty-two that of a householder, and an unlimited (quantity) that of a student.’
मूलम् - ०७

०७ अथाप्य् उदाहरन्ति ।
अष्टौ ग्रासा मुनेर् भक्ष्याः षोडशारण्यवासिनः ।
द्वात्रिंशत् तु गृहस्थस्य अमितं [k: गृहस्थस्यापरिमितं] ब्रह्मचारिणः ॥ [k: द्वात्रिंशतं]

विश्वास-प्रस्तुतिः - ०८

०८ आहिताग्निर् अनड्वांश् च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिध्यन्ति नैषां सिद्धिर् अनश्नताम् ॥ इति ॥

Buhler - ०८
  1. ‘An Agnihotrin, a draught-ox, and, a student, those three can do their work only if they eat (much); without eating (much) they cannot do it.’
मूलम् - ०८

०८ आहिताग्निर् अनड्वांश् च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिध्यन्ति नैषां सिद्धिर् अनश्नताम् ॥ इति ॥

विश्वास-प्रस्तुतिः - ०९

०९ गृहस्थो ब्रह्मचारी वा यो ऽनश्नंस् तु तपश् चरेत् ।
प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत् तु सः ॥

Buhler - ०९
  1. ‘A householder, or a student who practises 4 austerity by fasting, becomes an Avakīrṇin through the omission of the sacrifice to the vital airs;’
मूलम् - ०९

०९ गृहस्थो ब्रह्मचारी वा यो ऽनश्नंस् तु तपश् चरेत् ।
प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत् तु सः ॥

विश्वास-प्रस्तुतिः - १०

१० अन्यत्र प्रायश्चित्तात् । प्रायश्चित्ते तद् एव विधानम् ॥

Buhler - १०
  1. Except when he performs a penance. In the case of a penance that (fasting) is the rule.
मूलम् - १०

१० अन्यत्र प्रायश्चित्तात् । प्रायश्चित्ते तद् एव विधानम् ॥

विश्वास-प्रस्तुतिः - ११

११ अथाप्य् उदाहरन्ति ।
अन्तरा प्रातराशं च सायमाशं तथैव च ।
सदोपवासी भवति यो न भुङ्क्ते कदाचन ॥ [k:कदाचनेति]

Buhler - ११
  1. Now they quote also (the following verses): ‘He who never eats between the morning and the evening meals, (obtains the same reward as he who) constantly fasts.’
मूलम् - ११

११ अथाप्य् उदाहरन्ति ।
अन्तरा प्रातराशं च सायमाशं तथैव च ।
सदोपवासी भवति यो न भुङ्क्ते कदाचन ॥ [k:कदाचनेति]

विश्वास-प्रस्तुतिः - १२

१२ प्राणाग्निहोत्रमन्त्रांस् तु निरुद्धे भोजने जपेत् ।
त्रेताग्निहोत्रमन्त्रांस् तु द्रव्यालाभे यथा जपेत् ॥ इति ॥

Buhler - १२
  1. ‘As in case one obtains no materials (for the sacrifice), one must mutter the sacred texts to be recited at the Agnihotra, offered in the three fires, even so one should mutter the texts to be recited at the Prāṇāgnihotra, when one is prevented from dining.’
मूलम् - १२

१२ प्राणाग्निहोत्रमन्त्रांस् तु निरुद्धे भोजने जपेत् ।
त्रेताग्निहोत्रमन्त्रांस् तु द्रव्यालाभे यथा जपेत् ॥ इति ॥

विश्वास-प्रस्तुतिः - १३

१३ एवम् आचरन् ब्रह्मभूयाय कल्पते । ब्रह्मभूयाय कल्पत इति ॥ [k: एवम् एवाचरन्]

Buhler - १३
  1. ‘He who acts thus, will become one with Brahman.’ Thus spake Prajāpati (the lord of created beings).
मूलम् - १३

१३ एवम् आचरन् ब्रह्मभूयाय कल्पते । ब्रह्मभूयाय कल्पत इति ॥ [k: एवम् एवाचरन्]


    1. Rig-veda X, 117, 6, and Taittirīya Brāhmaṇa II, 8, 8, 3. The words have been transposed.
     ↩︎
  1. Vasiṣṭha XI, 6-8; Manu III, 114-115. I write, with the Dekhan and Gujarāt MSS., na sa bhuṅkte, sa bhujyate, instead of the senseless reading of M. and the commentary, na sa bhuṅkte na bhujyate. ↩︎

  2. Vasiṣṭha XI, 11. 7-8. Āpastamba II, 4, 9, 13. ↩︎

  3. -10. Āpastamba II, 4, 9, 12, and note on II, 1, 1, 2. ↩︎