विश्वास-प्रस्तुतिः - ०१
०१ अथातः शौचाधिष्ठानम् ॥
Buhler - ०१
- Now (follows the description of) the means of purification.
मूलम् - ०१
०१ अथातः शौचाधिष्ठानम् ॥
विश्वास-प्रस्तुतिः - ०२
०२ अद्भिः शुध्यन्ति गात्राणि बुद्धिर् ज्ञानेन शुध्यति ।
अहिंसया च भूतात्मा मनः सत्येन शुध्यति ॥ इति ॥
Buhler - ०२
- The body is purified by water, the understanding by knowledge, the soul by abstention from injuring living beings, the internal organ by truth. 1
मूलम् - ०२
०२ अद्भिः शुध्यन्ति गात्राणि बुद्धिर् ज्ञानेन शुध्यति ।
अहिंसया च भूतात्मा मनः सत्येन शुध्यति ॥ इति ॥
विश्वास-प्रस्तुतिः - ०३
०३ मनःशुद्धिर् अन्तःशौचम् ॥
Buhler - ०३
- Purifying the internal organ (is called) internal purification.
मूलम् - ०३
०३ मनःशुद्धिर् अन्तःशौचम् ॥
विश्वास-प्रस्तुतिः - ०४
०४ बहिःशौचं व्याख्यास्यामः ॥
Buhler - ०४
- We will explain (the rules of) external purification.
मूलम् - ०४
०४ बहिःशौचं व्याख्यास्यामः ॥
विश्वास-प्रस्तुतिः - ०५
०५ कौशं सौत्रं वा त्रिस्त्रिवृद् यज्ञोपवीतम् ॥
Buhler - ०५
- The sacrificial thread (shall be made) of Kuśa grass, or cotton, (and consist) of thrice three strings.
मूलम् - ०५
०५ कौशं सौत्रं वा त्रिस्त्रिवृद् यज्ञोपवीतम् ॥
विश्वास-प्रस्तुतिः - ०६
०६ आ नाभेः ॥
Buhler - ०६
- (It shall hang down) to the navel.
मूलम् - ०६
०६ आ नाभेः ॥
विश्वास-प्रस्तुतिः - ०७
०७ दक्षिणं बाहुम् उद्धृत्य सव्यम् अवधाय शिरो ऽवदध्यात् ॥
Buhler - ०७
- (In putting it on) he shall raise the right arm, lower the left, and lower the head. 2
मूलम् - ०७
०७ दक्षिणं बाहुम् उद्धृत्य सव्यम् अवधाय शिरो ऽवदध्यात् ॥
विश्वास-प्रस्तुतिः - ०८
०८ विपरीतं पितृभ्यः ॥
Buhler - ०८
- The contrary (is done at sacrifices) to the manes.
मूलम् - ०८
०८ विपरीतं पितृभ्यः ॥
विश्वास-प्रस्तुतिः - ०९
०९ कण्ठे ऽवसक्तं निवीतम् ॥
Buhler - ०९
- (If the thread is) suspended round the neck, (it is called) nivīta.
मूलम् - ०९
०९ कण्ठे ऽवसक्तं निवीतम् ॥
विश्वास-प्रस्तुतिः - १०
१० अधो ऽवसक्तं अधोवीतम् ॥
Buhler - १०
- (If it is) suspended below (the navel, it is called) adhopavīta.
मूलम् - १०
१० अधो ऽवसक्तं अधोवीतम् ॥
विश्वास-प्रस्तुतिः - ११
११ प्राङ्मुख उदङ्मुखो वासीनः शौचम् आरभेत शुचौ देशेदक्षिणम् बाहुं जान्वन्तरा कृत्वा प्रक्षाल्य पादौ पाणी चामणिबन्धात् ॥
Buhler - ११
- Let him perform (the rite of personal) purification, facing the east or the north, (and) seated in a pure place; (let him) place his right arm between his knees and wash both hands up to the wrist and both feet (up to the ankles). 3
मूलम् - ११
११ प्राङ्मुख उदङ्मुखो वासीनः शौचम् आरभेत शुचौ देशेदक्षिणम् बाहुं जान्वन्तरा कृत्वा प्रक्षाल्य पादौ पाणी चामणिबन्धात् ॥
विश्वास-प्रस्तुतिः - १२
१२ पादप्रक्षालनोच्छेषणेन नाचामेत् ॥
Buhler - १२
- Let him not use for sipping the remainder of the water with which he has washed his feet.
मूलम् - १२
१२ पादप्रक्षालनोच्छेषणेन नाचामेत् ॥
विश्वास-प्रस्तुतिः - १३
१३ यद्य् आचामेद् भूमौ स्रावयित्वाचामेत् ॥
Buhler - १३
- But if he uses (that) for sipping, let him do it, after pouring (a portion of it) on the ground.
मूलम् - १३
१३ यद्य् आचामेद् भूमौ स्रावयित्वाचामेत् ॥
विश्वास-प्रस्तुतिः - १४
१४ ब्राह्मेण तीर्थेनाचामेत् ॥
Buhler - १४
- He shall sip out of the Tīrtha sacred to Brahman. 4
मूलम् - १४
१४ ब्राह्मेण तीर्थेनाचामेत् ॥
विश्वास-प्रस्तुतिः - १५
१५ अङ्गुष्ठमूलं ब्राह्मं तीर्थम् ॥
Buhler - १५
- The part (of the hand) at the root of the thumb (is called) the Tīrtha sacred to Brahman.
मूलम् - १५
१५ अङ्गुष्ठमूलं ब्राह्मं तीर्थम् ॥
विश्वास-प्रस्तुतिः - १६
१६ अङ्गुष्ठाग्रं पित्र्यम् अङ्गुल्यग्रं दैवम् अङ्गुलिमूलम् आर्षम् ॥
Buhler - १६
- The part above the thumb (is called the Tīrtha) sacred to the manes, the part at the tips of the fingers that sacred to the gods, the part at the root of the fingers that sacred to the Ṛṣis. 5
मूलम् - १६
१६ अङ्गुष्ठाग्रं पित्र्यम् अङ्गुल्यग्रं दैवम् अङ्गुलिमूलम् आर्षम् ॥
विश्वास-प्रस्तुतिः - १७
१७ नाङ्गुलीभिर् न सबुद्बुदाभिर् न सफेनाभिर् नोष्णाभिर्न क्षाराभिर् न लवणाभिर् न कलुषाभिर् न विवर्णाभिर् नदुर्गन्धरसाभिः ॥
Buhler - १७
- (Let him not use for sipping water that has trickled) from the fingers, nor (water) that is covered with bubbles or foam, nor (water that is) hot, or alkaline, or salt, or muddy, or discoloured, or has a bad smell or taste. 6
मूलम् - १७
१७ नाङ्गुलीभिर् न सबुद्बुदाभिर् न सफेनाभिर् नोष्णाभिर्न क्षाराभिर् न लवणाभिर् न कलुषाभिर् न विवर्णाभिर् नदुर्गन्धरसाभिः ॥
विश्वास-प्रस्तुतिः - १८
१८ न हसन् न जल्पन् न तिष्ठन् न विलोकयन् न प्रह्वो न प्रणतोन मुक्तशिखो न प्रावृतकण्ठो न वेष्टितशिरा न त्वरमाणोनायज्ञोपवीती न प्रसारितपादो न बद्धकक्ष्यो न बहिर्जानुःशब्दम् अकुर्वन् ॥
Buhler - १८
- (Let him not sip water) laughing, nor talking, nor standing, nor looking about, nor bending his head or his body forward, nor while the lock on his crown is untied, nor while his throat is wrapped up, nor while his head is covered, nor when he is in a hurry, nor without wearing the sacrificial thread, nor stretching his feet out, nor while his loins are girt (with a cloth), nor without holding his right arm between his knees, nor making a sound. 7
मूलम् - १८
१८ न हसन् न जल्पन् न तिष्ठन् न विलोकयन् न प्रह्वो न प्रणतोन मुक्तशिखो न प्रावृतकण्ठो न वेष्टितशिरा न त्वरमाणोनायज्ञोपवीती न प्रसारितपादो न बद्धकक्ष्यो न बहिर्जानुःशब्दम् अकुर्वन् ॥
विश्वास-प्रस्तुतिः - १९
१९ त्रिर् अपो हृदयंगमाः पिबेत् ॥
Buhler - १९
- Let him thrice drink water that reaches his heart. 8
मूलम् - १९
१९ त्रिर् अपो हृदयंगमाः पिबेत् ॥
विश्वास-प्रस्तुतिः - २०
२० त्रिः परिमृजेत् ॥
Buhler - २०
- Let him wipe (his lips) thrice.
मूलम् - २०
२० त्रिः परिमृजेत् ॥
विश्वास-प्रस्तुतिः - २१
२१ द्विर् इत्य् एके ॥
Buhler - २१
- Some (declare that he shall do it) twice. 9
मूलम् - २१
२१ द्विर् इत्य् एके ॥
विश्वास-प्रस्तुतिः - २२
२२ सकृद् उभयं शूद्रस्य स्त्रियाश् च ॥
Buhler - २२
- A woman and a Śūdra (shall perform) both (acts) once (only).
मूलम् - २२
२२ सकृद् उभयं शूद्रस्य स्त्रियाश् च ॥
विश्वास-प्रस्तुतिः - २३
२३ अथाप्य् उदाहरन्ति ।
गताभिर् हृदयं विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ।
वैश्यो ऽद्भिः प्राशिताभिः स्यात् स्त्रीशूद्रौ स्पृश्यचान्ततः ॥ इति ॥
Buhler - २३
- Now they quote also (the following verse): A Brāhmaṇa is purified by water that reaches his heart, a Kṣatriya by (water) reaching his throat, a Vaiśya by (water barely) taken into the mouth, a woman and a Śūdra by touching (it) with the extremity (of the lips). 10
मूलम् - २३
२३ अथाप्य् उदाहरन्ति ।
गताभिर् हृदयं विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ।
वैश्यो ऽद्भिः प्राशिताभिः स्यात् स्त्रीशूद्रौ स्पृश्यचान्ततः ॥ इति ॥
विश्वास-प्रस्तुतिः - २४
२४ दन्तवद् दन्तसक्तेषु दन्तवत् तेषु धारणात् ।
स्रस्तेषु तेषु नाचामेत् तेषां संस्राववच् छुचिः ॥ इति ॥
Buhler - २४
- ‘If (drops) adhere to his teeth, (they must be considered pure) like the teeth, because they are fixed (in the mouth) like the teeth. Let him not sip water on their account in case they fall. If they flow out, he will be pure.’ 11
मूलम् - २४
२४ दन्तवद् दन्तसक्तेषु दन्तवत् तेषु धारणात् ।
स्रस्तेषु तेषु नाचामेत् तेषां संस्राववच् छुचिः ॥ इति ॥
विश्वास-प्रस्तुतिः - २५
२५ अथाप्य् उदाहरन्ति ।
दन्तवद् दन्तलग्नेषु यच् चाप्य् अन्तर् मुखे भवेत् ।
आचान्तस्यावशिष्टं स्यान् निगिरन्न् एव तच् छुचिः ॥ इति ॥
Buhler - २५
- Now they quote also (the following verse): If anything adheres to the teeth, (it is pure) like the teeth; and if he swallows (it or) whatever else may be in the mouth (or) may remain after sipping water, (he will become) pure.’ 12
मूलम् - २५
२५ अथाप्य् उदाहरन्ति ।
दन्तवद् दन्तलग्नेषु यच् चाप्य् अन्तर् मुखे भवेत् ।
आचान्तस्यावशिष्टं स्यान् निगिरन्न् एव तच् छुचिः ॥ इति ॥
विश्वास-प्रस्तुतिः - २६
२६ खान्य् अद्भिः संस्पृश्य पादौ नाभिं शिरः सव्यं पाणिमन्ततः ॥
Buhler - २६
- (After sipping) he shall touch the cavities (of the head) with water, the feet, the navel, the head, (and) lastly the left hand. 13
मूलम् - २६
२६ खान्य् अद्भिः संस्पृश्य पादौ नाभिं शिरः सव्यं पाणिमन्ततः ॥
विश्वास-प्रस्तुतिः - २७
२७ तैजसं चेद् आदायोच्छिष्टी स्यात् तदुदस्याचम्यादास्यन्न् अद्भिः प्रोक्षेत् ॥
Buhler - २७
- If he becomes impure while holding (a vessel) made of metal, he shall put it down, sip water and sprinkle it, when he is going to take it up.
मूलम् - २७
२७ तैजसं चेद् आदायोच्छिष्टी स्यात् तदुदस्याचम्यादास्यन्न् अद्भिः प्रोक्षेत् ॥
विश्वास-प्रस्तुतिः - २८
२८ अथ चेद् अन्नेनोच्छिष्टी स्यात् तद् उदस्याचम्यादास्यन्नद्भिः प्रोक्षेत् ॥
Buhler - २८
- Now if he becomes impure (while he is occupied) with food, he shall put it down, sip water and sprinkle it, when he is going to take it up. 14
मूलम् - २८
२८ अथ चेद् अन्नेनोच्छिष्टी स्यात् तद् उदस्याचम्यादास्यन्नद्भिः प्रोक्षेत् ॥
विश्वास-प्रस्तुतिः - २९
२९ अथ चेद् अद्भिर् उच्छिष्टी स्यात् तद् उदस्याचम्यादास्यन्नद्भिः प्रोक्षेत् ॥
Buhler - २९
- Now if he becomes impure (while occupied) with water, he shall put it down, sip water and sprinkle it, when he is going to take it up
मूलम् - २९
२९ अथ चेद् अद्भिर् उच्छिष्टी स्यात् तद् उदस्याचम्यादास्यन्नद्भिः प्रोक्षेत् ॥
विश्वास-प्रस्तुतिः - ३०
३० एतद् एव विपरीतम् अमत्रे ॥
Buhler - ३०
- That is contrary (to the rule) in (the case of an earthen) vessel. 15
मूलम् - ३०
३० एतद् एव विपरीतम् अमत्रे ॥
विश्वास-प्रस्तुतिः - ३१
३१ वानस्पत्ये विकल्पः ॥
Buhler - ३१
- In (the case of a vessel) made of wood there is an option.
मूलम् - ३१
३१ वानस्पत्ये विकल्पः ॥
विश्वास-प्रस्तुतिः - ३२
३२ तैजसानाम् उच्छिष्टानां गोशकृन्मृद्भस्मभिः परिमार्जनमन्यतमेन वा ॥
Buhler - ३२
- Defiled (objects) made of metal must be scoured with cowdung, earth, and ashes, or with one of these (three). 16
मूलम् - ३२
३२ तैजसानाम् उच्छिष्टानां गोशकृन्मृद्भस्मभिः परिमार्जनमन्यतमेन वा ॥
विश्वास-प्रस्तुतिः - ३३
३३ ताम्ररजतसुवर्णानाम् अम्लैः ॥
Buhler - ३३
- Copper, silver, and gold (must be cleaned) with acids. 17
मूलम् - ३३
३३ ताम्ररजतसुवर्णानाम् अम्लैः ॥
विश्वास-प्रस्तुतिः - ३४
३४ अमत्राणां दहनम् ॥
Buhler - ३४
- Earthen vessels must be heated. 18
मूलम् - ३४
३४ अमत्राणां दहनम् ॥
विश्वास-प्रस्तुतिः - ३५
३५ दारवाणां तक्षणम् ॥
Buhler - ३५
- (Objects) made of wood must be planed.
मूलम् - ३५
३५ दारवाणां तक्षणम् ॥
विश्वास-प्रस्तुतिः - ३६
३६ वैणवानां गोमयेन ॥
Buhler - ३६
- (Objects) made of bamboo (must be cleaned) with cowdung, 19
मूलम् - ३६
३६ वैणवानां गोमयेन ॥
विश्वास-प्रस्तुतिः - ३७
३७ फलमयानां गोवालरज्ज्वा ॥
Buhler - ३७
- (Objects) made of fruits with a rope of cow-hair, 20
मूलम् - ३७
३७ फलमयानां गोवालरज्ज्वा ॥
विश्वास-प्रस्तुतिः - ३८
३८ कृष्णाजिनानां बिल्वतण्डुलैः ॥
Buhler - ३८
- Skins of black deer with (ground) Bel nut and rice,
मूलम् - ३८
३८ कृष्णाजिनानां बिल्वतण्डुलैः ॥
विश्वास-प्रस्तुतिः - ३९
३९ कुतपानाम् अरिष्टैः ॥
Buhler - ३९
- Blankets (of the hair of the mountain goat) with Areka nuts, 21
मूलम् - ३९
३९ कुतपानाम् अरिष्टैः ॥
विश्वास-प्रस्तुतिः - ४०
४० और्णानाम् आदित्येन ॥
Buhler - ४०
- (Cloth) made of (sheep’s) wool by the (rays of the) sun,
मूलम् - ४०
४० और्णानाम् आदित्येन ॥
विश्वास-प्रस्तुतिः - ४१
४१ क्षौमाणां गौरसर्षपकल्केन ॥
Buhler - ४१
- Linen (cloth) with a paste of yellow mustard, 22
मूलम् - ४१
४१ क्षौमाणां गौरसर्षपकल्केन ॥
विश्वास-प्रस्तुतिः - ४२
४२ मृदा चेलानाम् ॥
Buhler - ४२
- Cotton cloth with earth, 23
मूलम् - ४२
४२ मृदा चेलानाम् ॥
विश्वास-प्रस्तुतिः - ४३
४३ चेलवच् चर्मणाम् ॥
Buhler - ४३
- Skins (other than deer-skins shall be treated) like cotton cloth, 24
मूलम् - ४३
४३ चेलवच् चर्मणाम् ॥
विश्वास-प्रस्तुतिः - ४४
४४ तैजसवद् उपलमणीनाम् ॥
Buhler - ४४
- Stones and gems like (objects) made of metal, 25
मूलम् - ४४
४४ तैजसवद् उपलमणीनाम् ॥
विश्वास-प्रस्तुतिः - ४५
४५ दारुवद् अस्थ्नाम् ॥
Buhler - ४५
- Bones like wood, 26
मूलम् - ४५
४५ दारुवद् अस्थ्नाम् ॥
विश्वास-प्रस्तुतिः - ४६
४६ क्षौमवच् छङ्खशृङ्गशुक्तिदन्तानाम् ॥
Buhler - ४६
- Conch-shells, horn, pearl-shells, and ivory like linen cloth. 27
मूलम् - ४६
४६ क्षौमवच् छङ्खशृङ्गशुक्तिदन्तानाम् ॥
विश्वास-प्रस्तुतिः - ४७
४७ पयसा वा ॥
Buhler - ४७
- Or (they may be cleaned) with milk.
मूलम् - ४७
४७ पयसा वा ॥
विश्वास-प्रस्तुतिः - ४८
४८ चक्षुर्घ्राणानुकूल्याद् वामूत्रपुरीषासृज्शुक्रकुणपस्पृष्टानां पूर्वोक्तानाम् अन्यतमेनत्रिःसप्तकृत्वः परिमार्जनम् ॥
Buhler - ४८
- (Objects) which have been defiled by urine, ordure, blood, semen, or a dead body, (but) are agreeable to the eye and the nose, shall be rubbed seven times with one of the substances mentioned above.
मूलम् - ४८
४८ चक्षुर्घ्राणानुकूल्याद् वामूत्रपुरीषासृज्शुक्रकुणपस्पृष्टानां पूर्वोक्तानाम् अन्यतमेनत्रिःसप्तकृत्वः परिमार्जनम् ॥
विश्वास-प्रस्तुतिः - ४९
४९ अतैजसानाम् एवंभूतानाम् उत्सर्गः ॥
Buhler - ४९
- (Objects) not made of metal which are in the same condition must be thrown away. 28
मूलम् - ४९
४९ अतैजसानाम् एवंभूतानाम् उत्सर्गः ॥
विश्वास-प्रस्तुतिः - ५०
५० वचनाद् यज्ञे चमसपात्रानाम् ॥
Buhler - ५०
- The cups and vessels (used) at a sacrifice (must be cleaned) according to the injunction (of the Veda). 29
मूलम् - ५०
५० वचनाद् यज्ञे चमसपात्रानाम् ॥
विश्वास-प्रस्तुतिः - ५१
५१ न सोमेनोच्छिष्टा भवन्तीति श्रुतिः ॥
Buhler - ५१
- The Veda (declares), ‘They do not become impure through Soma.’
मूलम् - ५१
५१ न सोमेनोच्छिष्टा भवन्तीति श्रुतिः ॥
विश्वास-प्रस्तुतिः - ५२
५२ कालो ऽग्निर् मनसः शुद्धिर् उदकाद्युपलेपनम् ।
अविज्ञातं च भूताणां षड्विधं शौचम् उच्यते ॥ इति ॥
Buhler - ५२
- ‘Time, fire, purity of mind, water and the like (fluids), smearing with cowdung and ignorance (of defilement) are declared to be the sixfold (means of) purification for created beings.’ 30
मूलम् - ५२
५२ कालो ऽग्निर् मनसः शुद्धिर् उदकाद्युपलेपनम् ।
अविज्ञातं च भूताणां षड्विधं शौचम् उच्यते ॥ इति ॥
विश्वास-प्रस्तुतिः - ५३
५३ अथाप्य् उदाहरन्ति ।
कालं देशं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिम् अवस्थां च विज्ञाय शौचं शौचज्ञः कुशलो धर्मेप्सुःसमाचरेत् ॥
Buhler - ५३
- Now they quote also (the following verse): ‘A clever man, who knows (the rules of) purification and is desirous of righteousness, shall perform (the rites of) purification, after having fully considered the time, and the place (of the defilement), likewise himself, (as well as) the object (to be cleaned) and the substance (to be employed), the purpose of the object, the cause (of the defilement), and the condition (of the thing or person defiled).’
मूलम् - ५३
५३ अथाप्य् उदाहरन्ति ।
कालं देशं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिम् अवस्थां च विज्ञाय शौचं शौचज्ञः कुशलो धर्मेप्सुःसमाचरेत् ॥
-
- Vasiṣṭha III, 60.
-
-9. Manu II, 63. ↩︎
-
Vasiṣṭha III, 26. Govinda points out that the word śaucam, ‘(rite of) purification,’ has here the meaning of ācamanam, ‘sipping water.’ He thinks that the ca, ‘and,’ which stands after pādau, ‘both feet,’ indicates that other portions of the body which have been defiled must be washed also. ↩︎
-
Vasiṣṭha III, 26. ↩︎
-
Viṣṇu LXII, 3-4. All the MSS. except M. place the Tīrtha sacred to the gods at the root of the fingers, and that sacred to the Ṛṣis at the tips of the fingers; and Govinda has the same erroneous reading. ↩︎
-
Vasiṣṭha III, 36. ↩︎
-
Vasiṣṭha III, 30. ↩︎
-
-20. Vasiṣṭha III, 26; Āpastamba I, 5, 16, 3. ↩︎
-
Vasiṣṭha III, 27; Āpastamba I, 5.16, 4. ↩︎
-
Vasiṣṭha III, 31-34. ↩︎
-
The MSS. read in the last pāda of this verse, teṣāṃ saṃsrāye [ya or va]-ccuciṭiti. I think saṃsrāvaṇācchucir iti is the correct reading. ↩︎
-
Vasiṣṭha III, 41. ↩︎
-
Vasiṣṭha III, 28-29. ↩︎
-
Vasiṣṭha III, 43-44. ↩︎
-
‘(The word) amatram, literally “a vessel,” denotes here an earthen vessel. The meaning is that such a one, if it is very much defiled, shall only be put down and not be taken back. Any other (earthen vessel) shall be heated.’–Govinda. ↩︎
-
Vasiṣṭha III, 49. ↩︎
-
Manu V, 114; Vasiṣṭha III, 63. ↩︎
-
-35. Vasiṣṭha III, 49. ↩︎
-
Vasiṣṭha III, 53. ↩︎
-
Vasiṣṭha III, 54. Govinda thinks that the word rajju, ‘a rope,’ is used here in the sense of ‘a conglomeration,’ and merely indicates that a quantity of cowhair must be used. ↩︎
-
Manu V, 120. ↩︎
-
Vasiṣṭha III, 55. ↩︎
-
Vasiṣṭha III, 49. ↩︎
-
Vasiṣṭha III, 53. ↩︎
-
Vasiṣṭha III, 50. ↩︎
-
Vasiṣṭha III, 52. ↩︎
-
Vasiṣṭha III, 51. ↩︎
-
Vasiṣṭha III, 59. ↩︎
-
Govinda explains this Sūtra differently. He says: ‘The fault of defilement by remnants does not affect sacrificial cups and vessels. This must be understood. If they are defiled by urine and the like, they must be thrown away.’ My explanation is based on the parallel passage of Āpastamba I, 5, 17, 13. See also below, I, 6, 13, 11 seq. ↩︎
-
Viṣṇu XXII, 88. ↩︎