- प्रागादर्शात्, प्रत्यक् कनखलाद् +++(=गङ्गासमीपे गिरिः)+++, दक्षिणेन हिमवन्तम्, उदक् पारियात्रम् +++(=विन्ध्यपश्चिमे गिरिः)+++, एतदार्यावर्तम् । तस्मिन्य आचारः सप्रमाणम् ९ गङ्गायमुनयोरन्तरमित्येके १०
- अथाप्यत्र भाल्लविनो गाथामुदाहरन्ति ११ पश्चात्सिन्धुर्विधरणी सूर्यस्योदयनं पुरः १२-१ यावत्कृष्णा विधावन्ति तावद्धि ब्रह्मवर्चसम् । इति १३-१
- अवन्तयोऽङ्गमगधाः सुराष्ट्रा दक्षिणापथाः १३-२ उपावृत्सिन्धुसौवीरा एते संकीर्णयोनयः १४-१
- आरट्टान् कारस्करान् पुण्ड्रान् सौवीरान् वङ्गान् कलिङ्गान् प्रानूनानिति च गत्वा पुनस्तोमेन यजेत सर्वपृष्ठया वा १४-२
- अथाप्युदाहरन्ति -
पद्भ्यां स कुरुते पापं यः कलिङ्गान्प्रपद्यते।
ऋषयो निष्कृतिं तस्य प्राहुर्वैश्वानरं हविः॥