विश्वास-प्रस्तुतिः
कङ्कचिदलजचिदिति श्येनचिता व्याख्यातौ ॥ २१.१ ॥
English
The kite-shaped fire-altar (kankacit) and the fire-altar in the form of an alaja bird are explained after the falcon-shaped (fire-altar).
मूलम्
कङ्कचिदलजचिदिति श्येनचिता व्याख्यातौ ॥ २१.१ ॥
टीका
कङ्कः पक्षिविशेषः अलजश्च । कङ्क इव चेतव्यः कङ्कचित् । अलज इव चेतव्योऽलजचित् । तौ श्येनचिता व्याख्यातौ पूर्वेणैव श्येनेन व्याख्यातौ । मुख्यत्वाद्द्विशतप्रस्तारत्वाच्च तस्यैवाकृतिः तान्येव करणानि स एवोपधानमार्गः । सङ्कल्प एव भेदः श्येनोऽलजः कङ्क इति ॥
विश्वास-प्रस्तुतिः
एवमि व हि श्येनस्य वर्षीयांसौ पक्षौ पुच्छाद्वक्रौ संनतं पुच्छं दीर्घ आत्मा मण्डलं शिरश्च । तस्माच्छ्रुतिसामर्थ्यात् ॥ २१.२ ॥
English
Like the falcon their two wings are larger than the tail and more curved (at the middle); the inclined tail is long (at the end and short where it joins with the body); neither the body nor the head is circular. This is according to the scriptures.
मूलम्
एवमि व हि श्येनस्य वर्षीयांसौ पक्षौ पुच्छाद्वक्रौ संनतं पुच्छं दीर्घ आत्मा मण्डलं शिरश्च । तस्माच्छ्रुतिसामर्थ्यात् ॥ २१.२ ॥
टीका
हिशब्दः प्रसिद्धौ । श्येनोऽप्येवमेव । वर्षीयांसौ बृहन्तौ । पक्षौ । कस्मात्पुच्छाद्दीर्घौ? न केवलं बृलन्तौ किं तु तौ वक्रौ । सन्नतं सम्यङ्नतं आत्मसमीपेऽल्पीयः अग्रे श्येने पृथु उच्यते तत्सन्नतमिति । दीर्घ आत्मा नं समचतुरश्रः न मण्डलः नापि दीर्घचतुरश्रः । अमण्डलमिवादीर्घचतुरश्रभूतं शिरः । एवम्प्रकारो लोके श्येनः । एवमेव कङ्कालजो लोके । तस्मात्तदाकारावेव कङ्कालजौ तेनैव व्याख्यातौ । श्रुतिसामर्थ्यात् । सामर्थ्यमभिधानशक्तिः । एतावदेव श्रुत्याभिधीयते । अशक्यत्वात्सर्वसाम्या (संपा) पादनस्य । न ह्यशङ्कनीयमर्थं वेदो विदधाति ॥
विश्वास-प्रस्तुतिः
अशिरस्को वानाम्नानात् ॥ २१.२ ॥
English
Or, in pursuance of the sacred tradition, (the fire-altar may be) without the head.
मूलम्
अशिरस्को वानाम्नानात् ॥ २१.२ ॥
टीका
वाशब्दः पक्षव्यावृत्तौ । अशिरस्क एव चेतव्यः । कुत इत्याह आनाम्नानात् । न हि शिर आम्नायते । तस्य कथमनाम्नानमित्यत्राह
विश्वास-प्रस्तुतिः
ज्ञायते च । कङ्कचितं शीर्षण्वन्तं चिन्वीत यः कामयेत सशीर्षोऽमुष्मिंल्लोके संभवेयमिति विद्यमाने कथं ब्रूयात् ॥ २१.३ ॥
English
And it is taught thus: ‘One who wishes to live with the head on in this world should provide the kaṅkacit with the head’. Why is it said when one (always) has (the head)?
मूलम्
ज्ञायते च । कङ्कचितं शीर्षण्वन्तं चिन्वीत यः कामयेत सशीर्षोऽमुष्मिंल्लोके संभवेयमिति विद्यमाने कथं ब्रूयात् ॥ २१.३ ॥
टीका
यदि शिरस आम्नानमस्ति शीर्षण्वन्तं चिन्वीतेति कथं ब्रूयादेवेत्यर्थः । यदि शिरस आम्नानं नास्ति तदा युज्यत एवैतद्विशेषणम् । इतरथा विशेषणमनर्थकमेव स्यात् । तस्मादशिरस्क एव चेतव्यः । चद्यशिरस्कः किमाकारःस इत्याह
विश्वास-प्रस्तुतिः
प्राकृतौ वक्रौ पक्षौ संनतं पुच्छं विकारश्रवणात् ॥ २१.४ ॥
English
Naturally the two wings are curved and the tail is narrowed because such modifications are so heard.
मूलम्
प्राकृतौ वक्रौ पक्षौ संनतं पुच्छं विकारश्रवणात् ॥ २१.४ ॥
टीका
प्रकृत्यां भवौ प्राकृतौ । तावेव पक्षौ वक्रीकर्तव्यौ । कुतः? विकारश्रवणात् । सन्नतं पुच्छं पुच्छं च सन्नतं कर्तव्यम् । वक्तपक्षो व्यस्तपुच्छ इति विकारःश्रूयते । पक्षपुच्छानां च वक्तता व्यस्तता च प्रकृतौ नास्ति । तस्माद्विकारत्वं पक्षपुच्छानाम् ॥
विश्वास-प्रस्तुतिः
यथाप्रकृत्यात्माविकारात् ॥ २१.४ ॥
English
Where no (such) modification is heard, the body retains its natural form.
मूलम्
यथाप्रकृत्यात्माविकारात् ॥ २१.४ ॥
टीका
यथाप्रकृत्यात्मा । कुतः? अविकारात् । नहि तत्र विकारःश्रूयते । तस्मात्प्रङ्कृतिवदेवात्मा चतुःपुरुषःसमचतुरश्रश्च । अरत्निनार्ऽधप्रादेशेन वा पक्षौ विवधेयेत् । द्विपुरुषां रज्जुमित्यादिश्येनवत् । ननु प्रकृतावरत्निना वर्धयेदित्युक्तम् । किमिदमुच्यते अरत्निनार्ऽधप्रादेशेन वेति? अरत्निनेत्यर्धविकारत्वप्रतिपादनपरं, न पक्षपुच्छानां तावन्मात्रमायाममापादयितुम् । आत्मनश्चतुर्थं चतुर्भागीयाश्वाष्टौ इत्युपधातव्यमिति
श्येनप्रतिपादितं न कर्तव्यम् । यथाप्रकृत्येवात्मा कर्तव्यः । किं च प्राकृतं पुच्छमिति वचनाच्च उपधानविधिश्च न घटते । श्येन इव चेतव्य इत्येवं क्रियमाणे प्रथमद्वितीयानामेव विकारो नेतरेषाम् । इतरथा चतुर्थादयोऽपि विकृता भवेयुः । तथाभूताश्च कर्तव्या भवेयुः । तस्माच्च करणानुप्रवेशेन चेतव्य इत्युक्तम् । श्येनवदेव पुच्छम् । करणान्युच्यन्ते चतुर्थषष्ठाभ्यां यथायोगनतं तत्प्रथमम् । द्वे पूर्ववत्संहिते द्वितीयमित्यादि । अथोपधानविधिः अष्टाचत्वारिंशत्प्रथमा उदीचीः पक्षयोः । श्येनवत्पुच्छम् । आत्मनःश्रोण्योस्तिस्रस्तिस्रः पञ्चम्य उदीच्यः । ततःसप्तसु रीतिषु षट्पञ्चाशच्चतुर्थ्यः दक्षिणायता उदगायताश्च । तासां पुरस्तादष्टौ पञ्चम्यः उदगायताः । श्रोण्योश्चतस्रः पञ्चम्य अक्ष्णया भिन्द्यात् । अष्टौ षष्ठयःसम्पद्यन्ते । एष द्विशतः प्रस्तारः । अपरस्मिन् प्रस्तारे चतस्रश्चतस्रो द्वितीया निर्णामयोरप्यययोश्च विशयास्तृतीयाः । चतस्रश्चतस्रः पूर्ववदष्टभागावेताः । पक्षेष्टकाभिः पक्षौ प्रच्छादयेत् । तद्द्वासप्ततिः पुच्छे श्येनवत् । सप्ताष्टमाभिःश्रोण्यंसेषु द्वे द्वे पञ्चम्यौ प्राचीः प्रतीचीश्च । प्राच्यः सप्त रीतयः । चतुर्मिस्तृतीयापञ्चम्यो रीत्योर्मध्ये त्रिंशत्षष्ठयः एका च पञ्चमी । एकत्र षोडशापरत्र चतुर्दश । एवं द्विशतः प्रस्तारः । अथवा स एवानुपुच्छमर्धपुरुषव्यासं सप्रादेशं पुरुषं प्रतीचीनमायच्छेत् । तस्य दक्षिणतोऽन्यमित्यादिना श्येनवत्पुच्छं कुर्यात् । पक्षौ प्राकृतौ द्विपुरुषायामौ । करणानि वक्ष्यामः द्वादशाङ्गुला यथा भवति तता तिर्यक्चतुर्थषष्ठाभ्यां नमयेत् । प्रथमं ते एव संहिते यथा तिष्ठतः तथा कारयेत् । द्वितीयं तृतीयमपि यत्षड्भागेनाष्टमभागेन वा वर्धयेदिति त एव वा पुच्छे चतुर्थं त्रयस्त्रिंशदङ्गुलविस्तारं पञ्चचत्वारिंशदङ्गुलायामं चतुर्दशतिलैरूनं सविशेषं पञ्चमं अर्धसप्ताङ्गुलव्यासं षट्पार्श्वं एकोनत्रिंशदायामं तु षट्त्रिंशदङ्गुलं चतुर्दशतिलैःसह पुच्छाप्यये विशययोः अष्टादशाङ्गुलं पुच्छे पञ्चदशाङ्कुमेव । आत्मानि चतुर्थादयो वैकृताः । पुच्छे तु प्राकृता एव । आत्मन्युपधानविधिःस एव । तत्र श्लोकाः
अर्न्ध त्रयोदशं व्यासमशिरस्के हविर्भुजि । तथा चतुर्थषष्ठाभ्यां नमयेत्प्रथमं तु तत् ॥
ते द्वे तु संहिते प्राची द्वितीयं करणं भवेत् । तृतीयमपि षड्भागमष्टभागेन वर्धितम् ॥
पक्षेष्टकाश्चतुर्थाःस्युः पुच्छं पुच्छवदुच्यते । षट्पञ्चाशच्चतुर्थ्यःस्युस्तिर्यग्दक्षोद गायताः ॥
अष्टौ पुरस्तात्तिर्यक्च श्रोण्योः षट्पञ्चमीः क्षिपेत् । श्रोण्याश्चतस्रः पञ्चम्यो भेदवद्द्विशतस्तथा ॥
श्येनवत्पक्षपुच्छेषु निधायात्मन्यपि क्षिपेत् । प्राच्यां चैव प्रतीच्यां च त्रिंशदेका च पञ्चमी ॥
तासामेवोत्तरे पार्श्वे चतुर्थ्यः षोडशद्वयम् । प्राच्यश्वैव प्रतीच्यश्च तथा षोडश दक्षिणे ॥
प्राचीश्वैव प्रतीचीश्च शिष्टे पञ्चमीं क्षिपेत् । करणस्य विपर्यासं चतुर्थस्यैव नेष्यते ॥
सप्रादेशेऽपि वा पुच्छे विस्तारो द्वादशं भवेत् । तथा चतुर्थषष्ठाभ्यां नमयेत्प्रथमं तु तत् ॥
ते द्वे तु संहिते प्राची द्वितीयं करणं हि तत् । तृतीयमपि षड्भागमष्टभागेन वर्धितम् ॥
द्वाविंशतिर्द्विगुणितं तिलानां चापि विंशतिः । सविशेषश्चतुर्थस्य तिर्यक्सत्यधिकं भवेत् ॥
पञ्चमं प्राकृतं विद्यात्षष्ठस्य विकृतास्त्रयः । षष्ठस्य पार्श्वं त्र्यधिकं कर्णः षट्त्रिंशदष्टभिः ॥
सप्तमाष्टमयोः पार्श्वमूनत्रिंशमिहेष्यते ।
आयामश्वापि षट्त्रिंशच्चतुर्दशतिलैःसह ॥
चतुर्थाद्यास्तु विकृताः पुच्छे चैवात्मनि क्षिपेत् ।
अष्टादशाङ्गुलं पुच्छे शययोरन्यदात्मनि ॥
करविन्दीया व्याख्या
कङ्क तौ
कङ्कालजौ पक्षिविशेषौ । कङ्कवच्चीयते अलजवच्चीयतिति कङ्कचिदलजचितौ श्येनचिता व्याख्यातौ । तयोर्विमानेष्टकाकरणोपधानानि श्येनस्येव कार्याणीत्यर्थः । मुख्यत्वात्पूर्वश्येनेनेति केचित् । आनन्तर्याद्द्वितीयश्येनेनेत्यन्ये । अविशेषादुभाभ्यामित्यपरे । उक्तं श्येनस्वरूपमनुभाषते अत्रैव शिरसो भावप्रतिपादनार्थम् ॥
एव र्थ्यात्
एवमिवहीति गतम् । श्येनस्य वर्षीयांसौ दीर्घतरौ पुच्छाद्वक्रौ पक्षौ सन्नतं पुच्छं आत्मसमीपे ह्रसीय अग्रे व्यस्तं दीर्घ आत्मा न समचतुरश्रः अमण्डलः न मण्डलाकारः ईषन्मण्डलः । न वा शिरश्च विद्यते । तच्चापि न मण्डलं नापि समचतुरश्रम् । एवमिव श्येनो लोके दृश्यते । एतावदेव श्येनसादृश्यमग्नेः । कुतः? श्रुतिसामर्थ्यात् सामर्थ्यमभिधानशक्तिः । एतावदेव श्येनश्रुत्या विधीयते । यदेतद्वक्रपक्षता व्यस्तपुच्छता दीर्घात्मतामण्डलता सशिरस्कता च । तस्मात्कङ्कालजावपि तदाकारौ चेतव्यावित्यर्थः ॥
अशिर नात्
अशिरस्को वा श्येनः अनाम्नानात् । नहि पक्षपुच्छात्मगतवक्रतादिवच्छिरस आम्नानमस्ति । श्येनविधानसामर्थ्याच्छिरसो विधानमस्तीति गम्यत इति केचित् । वयसां वा एष प्रतिमया चीयत इति प्रकृतावपि पक्षादिवत्शिरोविधानं प्रसज्येत् । नैष दोषः । तत्र हि पक्षपच्छविधानं परिसंख्यानार्थम् । तर्ह्यत्रापि तच्चोदकागतमेवेति तस्मात्सशिरस्कःश्येनः । किञ्च विज्ञायते च कङ्कचितं शीर्षण्वन्तं चिन्वीतेति । यदि चोदकप्राप्तया कङ्के शिरो विद्यते तत्कथं ब्रूयात्ब्राह्यणं कङ्कचितं शीर्षण्वन्तं चिन्वीतेति? न ब्रूयादेवेत्यर्थः । तस्मादशिरस्कः श्येनः । कङ्के शिरोविधानात् । तथा ते वयोमात्रसादृश्ये प्रकृते प्राप्ते श्येनप्राप्तिविधानसामर्थ्यादेव श्येने शिरोऽप्यस्तीति गम्यते । “त्रिवृत्ते अग्ने शिरः” इत्यादिना शिरस्युपधानदर्घनाच्च । अतस्तयोर्विकल्प इति मन्वानः वाशब्दं ब्रूते । तत्र कङ्कःश्येनोऽलज इति सङ्कलपमात्रभेदः नाकारे । दाक्षायणयज्ञादिवतशिरस्कःश्येन इत्युच्यते ॥
प्राकृ रात्
प्रकृतिवदेव पक्षौ वक्रौ पुच्छात्सन्नतं वक्रपक्षो व्यस्तपुच्छ इति विकारश्रवणात् । आत्मा तु यथा प्रकृत्या । यद्वा यथाप्रकृतिरविकृतः समचतुरश्रः चतुष्पुरुष इत्यर्थः । अविकारात् न हि विकारः श्रूयते । पक्षपुच्छेषु विकारग्रहणं नात्मनि । तस्मात्प्राकृत एवात्मा । अरत्निनार्धप्रादेशेन च एकैकं पक्षं प्रवर्धयेत् । यद्यपि प्राकृतौ पक्षावित्युक्तं तथापि पुच्छस्याप्राकृतत्वश्रणादुक्तप्रकारा पुरुषमात्रता गम्यते । तस्मात्पुच्छे प्रादेशमुपधाय पक्षयोर्विभजेदिति केचिन्मन्यन्ते । केचित्पक्षयोः प्रकृतित्वविधानादात्मनोऽविकारत्वाच्च पुच्छं सप्रादेशं मन्यन्ते । उभयस्मिन् पक्षेऽप्युक्तप्रकारेणाभ्युन्नेया इत्याचार्यो मन्यते । अत्र पुच्छस्याप्रकृतित्वपक्षे प्रथमद्वितीयकरणानां विकारः । इतरथा तेषामपि करणान्युच्यन्ते । चतुर्थषष्ठाभ्यां प्रथमं करणं यथार्धत्रयोदशव्यासं भवति तथा प्रजम्भयेत् । ते द्वे प्राची संहिते । तद्दितीयं प्रथमस्य षड्भागमङ्गुलं तृतीयम् । उपधानमुच्यते दक्षिणे पक्षे अष्टाचत्वारिंशत्प्रथमा
उदीचीस्तथोत्तरे दक्षिणाः । पुच्छेऽशिरस्कपक्षोक्तमेव । त्रिंशदात्मनि । श्रोण्योस्तिस्रास्तिस्रः पञ्चम्य उदगायताः दक्षिणायताश्च । तासां पुरस्ताचतुर्(थार्)थीनामर्धेष्टकाः सप्त रीतयः । ताः षट्पञ्चाशत् । तासां पुरस्तादष्टौ पञ्चम्यः । श्रोण्यंसेषु चतस्रः । पञ्चमीरक्ष्णयाभिन्द्यात् । द्विशत एष प्रस्तारः । द्वितीयप्रस्तारे चतस्रश्चतस्रो द्वितीयाश्चतस्रश्चतस्र आत्मानमष्टभागावेताः । पक्षेष्टकाभिः प्राचीभिः पक्षौ प्रच्छादयेत् । एकैकस्मिन् पक्षे षट्त्रिंशत् । पुच्छे तु पूर्ववद्द्वादश सप्तम्यस्त्रयोदशाष्टम्यश्च । श्रोण्यंसेषु द्वे द्वे पञ्चम्यौ प्राच्यौ । आत्मशेषे चतुर्थीना मष्टेष्टकाः प्राच्यःसप्त रीतयः । तृतीयपञ्चमरीत्योर्मध्ये चतस्रश्चतुर्थीरुद्धृत्य त्रिंशतं षष्टिमेकां पञ्चमीमुपदध्यात् । तासामेकत्र षोडश षष्टिरिति । तत्र चतुर्दश एकत्र पञ्चमी । एष द्विशतः प्रस्तारः । सप्रदेशपक्षे पुच्छे पुरुषव्यासं प्रादेशपुरुषं प्रतीचीनमायच्छेत् । तस्य दक्षिणतोऽन्यमुत्तरतश्वेत्यादिना पुच्छं कुर्यात् । पक्षौ प्रकृतावेव । करणविशेषो यथा तिर्यगृजुत्वेन द्वादशाङ्गुलं भवति तथा प्रथमं करणं प्रजम्भयेत् । ते द्वे प्राजीत्यादिना द्वितीयम् । तृतीयस्यापि षड्बागमष्टभागेन वर्धितम् । चतुर्थादीनि द्विविधानि पुच्छचतुर्थे त्रयस्त्रिंशदह्गुलविस्तारम् । तस्य सविशेषः चतुश्वत्वारिंशदङ्गुलयः विंशति तिलाधिकाः । पञ्चममर्धसप्तदशङ्गुलव्यासम् । षष्ठस्य पार्श्वं त्रयस्त्रिंशदङ्गुलकम् । ताःषट्त्रिंशदङ्गुलयः । साष्टमयोःस एव व्यासः । पार्श्वमान्यावक्ष्णयावस्थिते एकोनत्रिंशदङ्गुले । आयामःषट्त्रिंशदङ्गुलयः चतुर्दश तिलाश्च । पुच्छाप्ययविशययोरष्टादशाङ्गुलम् । पुच्छे पञ्चदशाङ्गुलमात्मतिलचतुर्थ्यादयो विकृताः पुच्छ उपधेयाः । प्राकृत एवात्मनि उपधानविधिः । स एष द्वितीयश्येनः । विकृते तत्रोक्तकरणान्येवमुन्नीय कृत्वा चेतव्यम् ॥
सुन्दरराजीया व्याख्या
व्यत्या चिकीर्षेत्
कङ्क ख्यातौ
“कङ्कचितं शीर्षण्वन्तं चिन्वीत यः कामयेत शीर्षण्वानमुष्मिन् लोके स्यामिति” । अलजचितं चिन्वीत चतुःसीतं प्रतिष्ठाकाम" इति श्रुतावग्नी श्येनचिता पूर्वेणोत्तरेण वा व्याख्यातौ । अथोक्तस्यैव श्येनचितः प्रकारान्तरं विधित्सनुक्तौ तावत्प्रकारौ युक्ततराविति दर्शयितुमाह
एवमिव मर्थ्यात्
यथास्माभिरुक्तं एवमिव हि पततः श्येनस्य पक्षौ पुच्छाद्वर्षीयांसौ वक्रौ च मध्यतः पुच्छं च सन्नतमप्ययप्रदेशे आत्मा च आमण्डलः ईषन्मण्डलरूपः शिरश्वैवं भवति । तस्मात्तच्छब्दश्रुतेः यच्छब्दाध्याहारः कार्यः । यस्मादर्थे वा हिशब्दः । यस्मादेवंरूपः श्येनस्य पक्षपुच्छादिः प्रत्यक्षेण दृश्यते तत्मात्श्येनचितं चिन्वीतेति श्रुतिसामर्थ्यादेवंरूपपक्षपुच्छात्मशिरस्कः श्येनचिदित्युक्त इत्यर्थः ॥
अशि म्नामात्
अशिरस्को वा श्येनचिद्भवितुमर्हति । अनाम्नानात्॑ न(हि)च श्येनचित्प्रकरणे शिर आम्नायते । आत्मनोऽप्यविकारस्यैतदुपलक्षणम् । अशिरस्क (त्वे) कल्पे प्रमाणान्तरमस्तीत्याह
विज्ञा ब्रूयात्
यदि श्येनाकृतिविधानमात्रेणैव सशिरस्कत्वं भवेत् । तर्हि कङ्कचितोऽपि भवेदेव । तथा च तत्र शीर्षण्वन्तमिति विशेषो न वक्तव्यःस्यादित्यर्थः ॥
यद्यशिरस्कस्तर्ह्यस्य किं रूपमित्याह
प्राकृतौ श्रवणात्
प्राकृतावेव पक्षौ पुच्छौ षडरत्निं पञ्चारत्निं वा । तौ द्विपुरुषां रज्जुमुभयतःपाशामित्युक्तप्रकारेण वक्रीकर्तव्यौ । केचित्तु पूर्वोक्तायाम (भावात्) मार्गात्षष्टिशताङ्गुलया रज्ज्वा संनमन (मपी)मिच्छन्ति । पुच्छं च प्राकृतमेव सन्नतं अर्धपुरुषव्यासम् । पुरुषं प्रादेशाधिकं प्रतीचीनमायच्छेत् । तस्य दक्षिणतोऽन्यमित्यादि पूर्ववत् । प्रादेशप्रवृद्धयभावे पूर्ववदेव । विकारश्रवणादिति वक्रपक्षो व्यस्तपुच्छो भवतीति वचनादित्यर्थः ।
यथा कारात्
चतुः पुरुषः समचतुरश्र एव श्येनचित्यात्मा विकारस्याश्रवणात्
कपर्दिभाष्यम्
विश्वास-प्रस्तुतिः
यथो एतच्छेयनचितं चिन्वीतेति । यावदाम्नानसारूप्यं तद्व्याख्यातम् ॥ २१.५ ॥
English
Thus it is constructed in the form of the falcon, and the shape has been explained after the sacred tradition.
मूलम्
यथो एतच्छेयनचितं चिन्वीतेति । यावदाम्नानसारूप्यं तद्व्याख्यातम् ॥ २१.५ ॥
टीका
तत्र यावदाम्नानमेव सारूप्यं ग्राह्यम् । जातिवाचकानां शब्दानां किमपि सामान्यमेव प्रवृत्तिनिमित्तं दृश्यते । यथा गौर्वाहीक इति । एवमत्रापि यावदाम्नानमेव सारूप्यं गृहीत्वा श्येनशब्दो वर्तते । तत्तु सारूयं व्याख्यातं वक्रपक्ष इत्यादिना ॥
विश्वास-प्रस्तुतिः
त्रिस्तावोऽग्निर्भवतीत्यश्वमेधे विज्ञायते ॥ २१.६ ॥
English
According to tradition, the fire-altar for the aśvamedha (sacrifice) is three times as large (as the seven-fold with aratni and prādeśa).
मूलम्
त्रिस्तावोऽग्निर्भवतीत्यश्वमेधे विज्ञायते ॥ २१.६ ॥
विश्वास-प्रस्तुतिः
तत्र सर्वाब्यासोऽविशेषात् ॥ २१.७ ॥
English
All (sorts of) enlargements are possible in this case as nothing particular is mentioned.
मूलम्
तत्र सर्वाब्यासोऽविशेषात् ॥ २१.७ ॥
टीका
तत्र नारत्निप्रादेशस्य सप्तविधस्याभ्यासः । कुतः? अविशेषात्॑ न हि कश्विद्विशेषोऽत्राम्नायते । तस्मात्सर्वस्यावृत्तिः ।
विश्वास-प्रस्तुतिः
दीर्घचतुरश्राणां समासेन पक्षपुच्छानां समास उक्तः ॥ २१.८ ॥
English
The enlargement of the wings and the tail is stated to be brought about by the addition of rectangles.
मूलम्
दीर्घचतुरश्राणां समासेन पक्षपुच्छानां समास उक्तः ॥ २१.८ ॥
टीका
दीर्घचतुरश्राणां पक्षपुच्छानां समासविधिरूक्तः । “यदन्यत्सप्तभ्य” इत्यादिना विधासप्तमकरणीमित्यादिना (च) वा । वेणुत्रिकरण्या वा विहरेदित्यर्थः ॥
विश्वास-प्रस्तुतिः
एकविंशोऽग्निर्भवतीत्यश्वमेधे विज्ञायते ॥ २१.९ ॥
English
It is (further) taught that, for the aśvamedha sacrifice, the fire-altar is of twenty-one.
मूलम्
एकविंशोऽग्निर्भवतीत्यश्वमेधे विज्ञायते ॥ २१.९ ॥
टीका
गतमेतत् ।
विश्वास-प्रस्तुतिः
तत्र पुरुषाभ्यासो नारत्निप्रादेशानां सङ्ख्यासंयोगात्सङ्ख्यासंयोगात् ॥ २१.१० ॥
मूलम्
तत्र पुरुषाभ्यासो नारत्निप्रादेशानां सङ्ख्यासंयोगात्सङ्ख्यासंयोगात् ॥ २१.१० ॥
टीका
समाप्तः शुल्बप्रश्नः
तत्र पुरुषाभ्यासः नारत्निप्रादेशानाम् । कुतः? संख्यासंयोगात् एकविंश इति । न सप्तविध इत्यत्रापि संख्या विधीयते । वाक्यान्तरेण तत्र अरत्निप्रादेशा निविशन्ते । न तत्र सप्तसंख्यायां निविशन्ते । तस्मात्संख्यासंयोगात्पुरुषाभ्यास एव नारत्निप्रादेशानाम् । तत्र श्लोको भवति
त्रिविधेन नरं प्रोक्तं त्रिस्तावति विभाव (सोः)सौ ।
एक (विंशे) विधे ततौ न्यूनं तिलानां चैव सप्त (भिः)तिः ॥
द्विरुक्तिर्मङ्गलार्था ।
इत्यापस्तम्बसूत्रविवरणे कपर्दिस्वामिभाष्ये
शुल्बाख्यप्रश्ने षष्ठः पटलः
करविन्दीया व्याख्या
अ(य)थो ख्यातम्
श्येनचितमिति विहितं यत्प्रकारं यावच्चास्याम्नानसारूप्यं मानविहितं श्येनसारूप्यं तत्सर्वं व्याख्यातम् । तत्र वक्रपक्षादिगुणैराम्नातेन यच्छयेनस्य सारूप्यमुक्तं॑ श्येनागग्नेरर्धदशमा अरत्नय इत्यादिना चयनप्रकार उक्तः, तेन उक्तौ कङ्कालजौ स्यातामित्यर्थः ॥
त्रिस्या षात्
आश्वमेधिकाग्नेस्त्रिस्तावविधौ सारत्निप्रादेशाभ्यासः न पुरुषमात्रस्य॑ विशेषाभावात् । अविशेषेण प्राकृताग्निज्ञत्रैगुण्यविधानादित्यर्थः ॥
दीर्घ क्तः
दीर्घचतुरश्राणां समास इत्युक्तम् । एवं द्वे दीर्घचतुरश्रे समस्येते॑ तन्निमित्तो निर्ह्रासो विवृद्धिर्वेति । यावदिच्छन् दीर्घचतुरश्राणि समस्योदिति । तेन त्रिस्तावेऽग्नौ प्रथमविहरणेन समास उक्तः ॥
एक गात्
अश्वमेधे एकविंशाग्निश्रुतौ पुरुषाणामेवाभ्यासः नारत्निप्रादेशानाम् । “सप्तविधो वाव प्राकृतोऽग्निरिति” सप्तसंख्या पृथक्संनिवेशनी । समानजातीयेषु पुरुषेष्वेव संयुक्तः नारत्नयादिषु । अरत्निप्रादेशास्त्वरत्निना दक्षिणत इति वाक्येन स्वरूपमात्रेण विहिता नार्धसंख्यया । अतः प्रकृतौ पुरुषाणामेव संख्या संयोगादश्वमेधेऽप्येकविंशाग्नौ पुरुषाणामेव संख्यासंयोगो युक्त इति अरत्निप्रादेशास्त्वनभ्यस्ता भवेयुः । पुरुषाब्यासादनन्तरमरत्निना दक्षिणत इति कुर्यादित्यर्थः । एतदुक्तं भवति त्रिस्तावे एकविंशप्रस्तारद्वयविधेस्त्रिस्ताव एकविंश एवाग्निः ब्राह्नणदर्शनात् । द्वादश दश वा स्यात् । द्विरुक्तिः प्रस्नपरिसमाप्तिद्योतनार्था ॥
इति श्रीकरविन्दस्वामिकृतायां शुल्बप्रदीपिकायां षष्ठः पटलः
सुन्दरराजीया व्याख्या
ननु सिरसोऽभावे श्येनाकृतेरपूर्वत्वात्श्येनचितं चिन्वीतेति विधिवाक्येनैव विरोधप्रसङ्गः॑ तत्राह
अ(य)थो ख्यातम्
यदेतच्छयेनचितं चिन्वीतोति॑ यत्तेन यावदामानातं वक्रपक्षो व्यस्तपुच्छः इति विहितसारूप्यमुक्तं॑ अन्यथा पक्षपुच्छविकारविधेरानर्थक्यप्रसङ्गादिति भावः । अस्मिन् पक्षे इष्टकानां करणानि द्विपूरुषया रज्ज्वा पक्षसंनमने पुरुषस्य चतुर्थायामं पञ्चमव्यासं यथायोगनतं तत्प्रथमं॑ तस्यकैसर्णोऽष्टादशाङ्गुलः सपादैकपञ्चदशाङ्गुलोऽन्यः । द्वे द्वे पूर्ववत्संहिते तत्द्वितीयम् । प्रथम पञ्चमे करणे संहिते तृतीयम्॑ चतुर्थपञ्चमषष्ठानि पूर्वश्येनचिद्वदेव । पुच्छे याः षष्ठीचतुर्थ्यः उपधेयास्तासामन्ये करणे । तत्र चतुर्थ्यां पार्श्वे पूर्ववदेव एका तिर्यङ्बानी त्रयस्त्रिंशदङ्गुला अन्या सार्धचतुश्वत्वारिंशदङ्गुला षष्ठयास्तु पञ्चदशमेकं फलकम् । त्रयस्त्रिंशदङ्गुलं द्वितीयं षट्त्रिंशकं साष्टतिलं तृतीयम् । सप्तमस्य तिर्यङ्भान्यावरत्निमात्रौ । पार्श्वेन (नव) विंशत्यङ्गुले । कर्णश्वैकः । (अन्यः कर्णः पञ्चचत्वारिंशदङ्गुलः एकादशतिलोनः । अष्टप्रस्य नवविंशके पार्श्वे । द्वादशिकाषट्त्रिंशिके तिरश्वयौ शिरसोऽभावान्नवमं करणं न भवति । अरत्निप्रादेशाभावे पुच्छेष्टकाः पूर्वश्येनवदेव) । पक्षस्थानाञ्च तदनुगुणं नमनम् । उपधाने च पक्षयोः प्रथमा अशीतिरुदीच्यः पुच्छं पूर्वश्येनवदेव । पुच्छाप्ययस्थचतुर्थ्योरष्टादशाङ्गुलम् । पुच्छे पूर्वश्येनवदेव । पुच्छे पञ्चदशाङ्गुलमात्मनि । आत्मन्युदीच्यो नव रीतयः । उदीचीभिरिष्टकाभिः । तासां मध्यमाः सप्त । अष्टाभिः चतुर्थीभिः चतुर्थरीत्यां दक्षिणरीतौ ततः षष्टयश्चतस्रः द्वे चतुर्थ्यौ । एवमेव षष्ठी रीतिः । श्रोण्यंसेषु चतस्रश्चतस्रः षष्ठयः । शेषे षट्पञ्चम्यः । एष द्विशतः प्रस्तारः । (तत्राशिरस्कस्य श्येनचितः पक्षयोः प्रथमेष्टका उदीच्यो रीतयः । त्रिंशत्त्रिंशत् । पुच्छे तु पूर्ववत् । आत्मन्युदीच्यो रीत्यो नव स्युः । तत्राद्यरीतिगा आद्यास्वतस्रः षष्ठयृः स्युरेव । एवमन्त्या पिष्टकाः । दक्षिणोत्तरत एकैका पञ्चमीष्टका । पुच्छाप्ययस्थे तन्मध्ये उक्ते । एवं दशेष्टकाः अन्त्या अपि रीतय एवं स्युः । पञ्चम्यः मध्यतोऽधिके । तुरयिरीत्यां चतुर्थ्यौ । द्वे चतस्रः षष्ठिकाः । ततश्चतुर्थ्यौ पूर्ववत्षष्ठयः । चतुथ्यौ द्वे दोष्टकाः? एवं शेषमग्निं चतुर्थीभिः पूरयेत् । एवं नवतिरात्मस्थाः प्रास्तारे द्विशतेष्टकाः) । अपरस्मिंश्चतस्रश्चतस्रः निर्नामयोर्द्वितीयाः । अप्यययोश्च तृतीयाः । पक्षयोः शेषे षट्पञ्चाशत्प्रथमाः प्राच्यः पुच्छे पूर्ववत् । सप्तम्योऽष्टम्यश्च आत्मनि नव रीत्यः । प्राच्यः प्राचीभिरिष्टकाभिः । तत्र पक्षाप्ययस्थानां पश्चात्पुरस्ताच्च पञ्चपञ्चम्यः षट्च षष्ठयः । ता दक्षिणोत्तररीतिमध्ये (सप्तरीत्यः पूर्वप्रस्तारवत् । द्वितीयषष्ठयो (द्वितीयाष्टम्यो) रीत्योर्मध्ये) षोडशषोडश षष्ठयः । (ता दक्षिणोत्तरे रीतिमध्ये पूर्वप्रस्तारवत् । द्वितीयाष्टम्यो रीत्योर्मध्येषोडशषोडश षष्ठयः । एवं द्विशतः प्रस्तारः । तत्रापरस्मिन् प्रस्तारे पक्षे द्वितीयाः । पक्षमध्यतः द्वितीयाः । अप्यये शेषे प्रथमाः । एवमुत्तरपक्षे प्राच्यः । इमाः सर्वा द्विसप्ततिः । अथात्मनि प्राच्यो नव रीत्यस्युः । आद्यायां पञ्चमीद्वितीयम् ॥
आदित्यपक्षाप्ययगा द्वे षष्ठयौ पञ्चमी तथा । पञ्चम्येकान्त्यरीत्यातो द्वे षष्ठयावप्ययः पुरः ॥
षष्टयावेका पञ्चमी स्याद्द्वितीयस्यामथावलौ । मध्ये षोडश षष्ठयः स्युरेवमष्टमरीतिगाः ॥
चतुर्थषष्ठरीत्यौ तु प्रथमोत्तरवत्तथा । आत्मशेषं चतुर्थीभिः …… पुच्छगोचराः ॥
सप्तम्यो द्वादशाष्टम्यस्त्रयोदश च पूर्ववत् । एवं द्वितीयप्रस्तारो द्वितीयेऽष्टक इष्यते ॥)
केचित्त्तु यथा प्रकृत्येति वचनादिष्टका अपि । (आत्मनि प्रकृतिवदेवेत्याहुः । तथा प्रथमकरणस्य पार्श्वे चत्वारिंशदङ्गुले । अरत्नी एव (तिरश्वयौ) तिर्यङ्भान्यौ (एकः कर्णः पञ्चविंशतिकःसप्तदशतिलः । अन्यस्तिलत्रयोनैकषष्ठयङ्गुलः) । द्वे सहिते द्वितीयं (करण्या अरत्नि) प्रथमस्यारत्निप्रादेशेन यथायोगनतेन वर्धयेत् । तृतीयं पुच्छान्नवमचतुर्थषष्ठसप्तमाष्टमानि पूर्ववत्प्रकृतिवदात्मन इष्टकाः पञ्चमबागीयाः । तत्र प्रादेशाः षडङ्गुलव्यासाः कार्याः । आत्मानि दक्षिणत उत्तरश्च दशा (ध्यर्धार्ः) ध्या उदगायताः । आत्मशेषे पञ्चम्य उदीच्यो दश रीतयः । मध्ये द्वे उद्धृत्याष्टादशाङ्गुले पुच्छाप्यये द्वे चतुर्थ्यौ आत्मानमरत्निना वेति द्वे अभितश्चतस्रः षडङ्गुलव्यासाः । पुच्छा प्ययस्थयोः पश्चात्पञ्चार्ध्याः प्राच्यः । पुच्छ(विशेषाः) शेषं पूर्ववत् । (पक्षयोस्त्रिंशत्त्रिंशत्प्रथमा उतीच्यः । एष द्विशतः प्रस्तारः । अपरस्मिंस्तु तिस्रस्तिस्रो निर्णामयोः । द्वितीयाः पक्षशेषे द्विचत्वारिंशत्प्रथमाः प्राच्यः । पुच्छपूर्ववत्) । आत्मन्युदीच्यो नव रीतयः । ता आ (तासामा) द्यन्ताः (रीतिः प्राचीभिरर्ध्याभिः । अन्त्याः पञ्चमीभिः मध्यमरीतीनां पञ्चानामाद्याः अन्याश्वार्ध्याः) श्वताः प्राच्यः द्वितीयस्य आत्यामुद्धृत्य तत्राष्टौ षडङ्गुलव्यासाः उपदध्यात्तत्र पस्वात्पुरस्ताच्च द्वे द्वे उदगायते । मध्ये चतस्रः प्रागायताः । अष्टमरीत्या आद्यन्ते(न्त्ये) द्वितीयामन्त्यां चोद्धृत्य नवनवाष्टाङ्गुलयः द्विशतः प्रस्तारः । यदा तु समचतुरश्राभिरुपधीयन्ते तदाप्येवमेव पक्षौ । पुच्छं तु पूर्ववदेव । पक्षाप्यये द्वे अणूके आत्मानं प्रादेशेन प्राप्तेऽभितो द्वे द्वे षडङ्गुले एताः षड्दशभिः प्रादेशैः परिगृह्णीयात् । आत्मशेषे अरत्नयः । द्विशतः प्रस्तारः । अपरस्मिंस्तु सन्ध्यनतराले पञ्चचत्वारिंशदरत्नयः । श्रोण्यंसेषु द्वादशद्वादश (अणूकाःपादाः) । (पाद्ये) शेषे विंशतिरणूकाः । आत्म(मध्य) गतमुद्धृत्य नवाष्टाङ्गुलाः । (द्विशतः प्रस्तारः) यदा तु षष्ठशताङ्गुलया रज्ज्वा पक्षयोर्नमनं तदा पुरुषस्य पञ्चमायामं षष्ठव्यासमेकं वा प्रथमं करणम् । यथायोगनतं तत्कर्णस्त्रयोविंशत्यङ्गुलःसैकविंशतितिलः । अन्यः सप्तत्रिंशः सैकादशतिलः । विंशत्यङ्गुलायामं त्रयोदशतिलयुक्तं चतुर्दशाङ्गुलव्यासं प्राञ्चं चतुरश्रं भूमौ लिखित्वा षोडशाङ्गुलया रज्ज्वोभयतः पाशया तं पक्षवत्संनमयेत् । तद्द्व (त्तृतीयं) देवप्रथमस्य षड्बागमष्टभागेन वर्धयेत् । यथायोगनतेन त (तत्र)त्तृतीयम् । अन्यानि पूर्ववत् । उपधाने प्रथमे प्रस्तारे निर्नामयोः षट्षट्द्वितीयाः । पक्षशेषे प्रथमा द्वासप्ततिरुदीच्यः । पुच्छमात्मा च पूर्ववत् । श्रोण्यंसेषु द्वे द्वे षष्ठयौ । द्विशतः प्रस्तारः । अपस्मिंस्तु पक्षयोः सप्ततिः प्रथमाः । प्राच्यः पञ्चपञ्चाप्यययोः । तृतीयाः पुच्छात्मनोः पूर्ववत् । आत्मनि तु षोडश षष्ठीरुद्धृत्याष्टौ पञ्चमीः क्षिपेत् । द्विशतः प्रस्तारः । आत्मनः प्रकृतिवदिष्टका इति पक्षेऽपि तदनुगुणा इष्टका द्रष्टव्या ॥
त्रि यते
“द्विस्तावात्रिस्तावा वेदिः” इत्यत्र लिङ्गस्याविवक्षितत्वाद ग्नेश्च वेदेश्च विवक्षि (विहि) तत्वात्समासान्तः । प्राकृतस्यैवाग्नेः सप्तविधस्यैवात्र त्रिगुणत्वम् । न त्वनन्तर (गुणस्य) कृतस्याभ्यासस्य सर्वाभ्यासो विशेषोऽतःसर्वस्य सारत्निप्रादेशस्यैवाभ्यासः॑ त्रिस्तावस्य विधौ विधाभ्यासवत्पुरुषाणामिति विशेषाश्रवणात् । एवमर्धत्रयोविंशाः पुरुषा अग्निर्भवति । पुरुषस्य त्रिकरणो वेणुःसपञ्चतिलोनाष्टादशतद्वयाङ्गुलयः पुरुषस्थानीयाः ॥
दीर्घचतु उक्तः
तुल्ययोश्चतुरश्रयोरित्यत्रैव प्रकार उक्तः । तिर्यङ्भानीपार्श्वमान्योश्च त्रिकरणीपार्श्वमानी च ॥
एकविं यते
शाखान्तरे “एकविंशतिः पुरुषः परिमाण” इत्येकविंशः सतोमोर्ऽधविधं पञ्चाशदध्यर्धाः इत्यत्रोपधेयः । प्रायिकत्वादस्तोमेऽपि ॥
तत्र असंयोगात्
संख्या हि तुल्यजातीयस्य संख्यान्तरस्यैव निवर्तिका॑ यथा विधाभ्यासेष्विति भावः । अस्मिन् पक्षे अर्धद्वाविंशाः पुरुषास्तत्र द्वे शते तिस्रश्वाङ्गुलयः षट्तिलाः पुरुषस्थानीयो वेणुः । तस्य चतुर्थपञ्चमषष्ठदशमा अणूकारत्न्यूर्वस्थिप्रादेशा अवगन्तव्याः । अरत्निप्रादेशाभावेऽपि पक्षद्वयेऽप्येकविंशतिरेव पुरुषाः । श्रीमद्रामायणे त्वष्टादशपुरुषत्वमस्वमेधाग्नेर्दृश्यते
स चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः । गारूडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥
इति । स तु शाखान्तरे (ण) षड्विधस्यापि कृतित्वदर्शनात् । त्रिस्तावोऽवगन्तव्यः । उक्तं हि षड्विधस्यापि प्रकृतित्वं बोधा यनेन “षड्विधं सप्तविधं द्वादशविधं वा यावद्विधं वा चेष्यमाणो भवति” इति । अत्र त्रयोदशविधान्तानग्नीन् चित्वाश्वमेधमारभते । स ततः परमग्निं चिन्वानो द्वाविंशत्यादिविधमेव चिन्वीत । न तु पूर्वविधम् । न ज्यायासं चित्वा कनीयासं चिन्वीत" इति । अथ यो द्वाविंशतिविधादूर्ध्वमपि विधामभ्यस्य ततः परमश्वमेधमारभते यथा त्रिंशद्विधान्ते॑ तस्याप्यश्वमेधाग्निस्त्रिस्तावक एकविंशो वा तस्य प्रकारान्तराभावात् । ततः परं तु पूर्वकृतादारभ्यैकत्त्रिंशद्विधादिकमेव चिन्वीत । पूर्वेषां कृतत्वात्॑ व्यञ्जितं चैतत्सर्वं बोधायनेन “अश्वमेधः प्राप्तश्वेदाहरेदत ऊर्ध्वां विधामब्यस्येन्नेतरानाद्रियेत । अतीतं चेदाहरेदाहृत्य कृतान्ते प्रकृत्याददीत” इति ॥
इति श्री सुन्दरराजीये शुल्बप्रदीपे षष्ठः पटलः
इति सुन्दरराजीयं संपूर्णं समाप्तः सव्याख्य आपस्तम्बीयशुल्बप्रश्नः