विश्वास-प्रस्तुतिः
चतस्रश्चतस्रः पक्षाग्रीयाः पक्षाग्रयोः पक्षाप्यययोश्च विशयाः ॥ २०.१ ॥
English
4 bricks for use at the end of the wing (pakṣāgriyā) are each placed at the end of the two wings and 4 at the juncture of the wing (with the body) each lying partly in both (the wing and the body).
मूलम्
चतस्रश्चतस्रः पक्षाग्रीयाः पक्षाग्रयोः पक्षाप्यययोश्च विशयाः ॥ २०.१ ॥
विश्वास-प्रस्तुतिः
ता आत्मनि चतसृभिश्चतसृभिः षोडशीभिर्यथायोगं पर्युपदध्यात् ॥ २०.२ ॥
English
Around these latter (pakṣāgrīyā bricks partly lying) in the body, 4 one- sixteenth bricks are placed on either side as these fit.
मूलम्
ता आत्मनि चतसृभिश्चतसृभिः षोडशीभिर्यथायोगं पर्युपदध्यात् ॥ २०.२ ॥
टीका
विपर्यस्य कारिता उत्तरे पक्षे । चतस्रश्चतस्रो विशयाः । पक्षसन्ध्योर्दक्षिणपक्षाप्यये विपर्यस्य कारिता उत्तरे पक्षेष्टका मात्रम् । पक्षयोरात्मन्यर्धेष्टकामात्रम् । ता इति विशयाः प्रत्यवमृश्यन्ते । आत्मनि चतसृभिश्चतसृभिःषोडसीभिः विपर्यस्य कारिताः । दक्षिणपक्षाप्ययस्था यथा तैरेताभिश्चतसृभिरुपदध्यात्तथा चतसृभिरुत्तरपक्षाप्ययस्थाः । प्रतीत्यस्मिन्नर्थे परिशब्दः ॥
विश्वास-प्रस्तुतिः
चतस्रश्चतस्रः पक्षमध्यीयाः पक्षमध्ययोः ॥ २०.३ ॥
English
4 bricks for use in the middle of the wing (pakṣamadhyiyā) are each placed in the middle of the two wings.
मूलम्
चतस्रश्चतस्रः पक्षमध्यीयाः पक्षमध्ययोः ॥ २०.३ ॥
विश्वास-प्रस्तुतिः
पक्षेष्टकाभिः प्राचीभिः पक्षौ प्रच्छादयेत् ॥ २०.४ ॥
English
The two wings are (then) to be covered by bricks for use in the wings (pakṣeṣṭakā), (the longer sides of the bricks being) turned towards east.
English - comment
19.9-20.4. Placement of bricks in the first layer. The placement of bricks is clearly explained in Fig. 21. The rules start with the placement of \(B_{3}\) bricks, -4 at the tip of the head ABC, 5 west of the line DE, 11 east of the line KF joining the eastern points of juncture of the wings with the body, 11 west of JG, the western line of juncture, 5 each on the eastern and the western side of IH, the junction line between the tail and the body, and finally 15 at the end of the tail LM. Thus 56 \(B_{3}s\) are used (tã evaitāḥ ṣaṭpañcāśatpādeṣṭakāḥ—Kapardi).
\(4 B_{6}s\) are placed at each end OP of the two wings, such that the triangular parts cover the triangular ends and the parallelogram parts part of the adjoining para-llelogram of the wing. 4 \(B_{6}s\) are placed at either junction FG, JK of the wings with the body such that the triangular parts lie in the body. The total number of \(B_{6}s\) used is 16. North of FG and south of JK each, 4 \(B_{1}\) bricks are placed in the body with their diagonally cut sides fitting exactly with the similar diagonal sides of the Bes. The remaining space in either wing is covered by 4 \(B_{5}s\) at the bending MN and by 40 B\(B_{4}s\), -20 \(B_{4}s\) each on either side of the bending; \(B_{4}s\) are turned eastwards. (catvārimsată catvāriṛśatā pakṣeṣṭakābhiḥ prāgāyatābhiḥ pakṣau pracchadayet-Karavinda).
The spaces of the fire-altar now left out are in the head between the rows of \(B_{3}\) bricks, in the body between the \(B_{3}s\) at the eastern and western ends and in the middle enclosed on east and west sides by \(B_{3}s\) and on south and north sides by \(B_{1}s\), and in the tail between \(B_{5}s\) at the juncture and the end. These spaces are to be
Fig. 21. Arrangement of bricks in the first layer of the fyenacit (2nd. type) with curved wings and extended tail (north wing not shown) (after Bürk).
covered by \(B_{1}s\), such that at the inclined edges at the four corners of the body and the two sides of the tail, the diagonal sides \((\frac{1}{4} \sqrt{2} pu., saviśeṣāh, as Kapardi explains)\) face outwards; elsewhere 2 \(B_{1}s\) lie with their diagonals touching each other so as to form a rectangle 60 aṅg. x 30 aṅg., as the geometry clearly indicates. The number of bricks and their types in the different parts of the fire-altar are given in Table 7.
TABLE 7. Bricks in different parts of the citi-first layer
मूलम्
पक्षेष्टकाभिः प्राचीभिः पक्षौ प्रच्छादयेत् ॥ २०.४ ॥
टीका
पक्षमध्ये भवा वक्रभूताश्चतस्रो दक्षिणे पक्षमध्ये चतस्र एवोत्तरपक्षमध्ये । पक्षेष्टका उक्तलक्षणाः । ताभिः प्रागा यताभिः पक्षौ प्राच्छादयेत् । पक्षयोरुपदध्यात् । विपर्यस्य कारिताश्वत्वारिंशत् ॥
विश्वास-प्रस्तुतिः
अवशिष्टं षोडशीभिः प्राच्छादयेत् ॥ २०.५ ॥
English
The remaining space (of the fire-altar) is to be covered with one-sixteenth bricks;
मूलम्
अवशिष्टं षोडशीभिः प्राच्छादयेत् ॥ २०.५ ॥
टीका
शिष्ठमग्निक्षेत्रं षोडशीभिः उपदध्यात् ॥
विश्वास-प्रस्तुतिः
अन्त्या बाह्यविशेषा अन्यत्र शिरसः ॥ २०.५ ॥
English
at the (inclined) edges (of the fire-altar) the diagonal sides (of these bricks) are to face outwards; elsewhere. (their placement should be) as in the head.
मूलम्
अन्त्या बाह्यविशेषा अन्यत्र शिरसः ॥ २०.५ ॥
विश्वास-प्रस्तुतिः
अपरस्मिन् प्रस्तारे पुरस्ताच्छिरसि द्वे षोडश्यौ बाह्यविशेषे उपदध्यात् ॥ २०.६ ॥
English
In the other layer, 2 one-sixteenth bricks with their diagonal sides facing outwards are to be placed in the east of the head;
मूलम्
अपरस्मिन् प्रस्तारे पुरस्ताच्छिरसि द्वे षोडश्यौ बाह्यविशेषे उपदध्यात् ॥ २०.६ ॥
टीका
अन्ते भवा अन्त्याः अग्नयन्तस्थाः । ता बाह्यविशेषाः बाह्यतःसविशेषाः अन्यत्र शिरसः शिरो वर्जियित्वा । आत्मनि मध्ये षट्प्राच्यः षट्प्रतीच्यः । आत्मनि रीतिद्वयम् । अवशिष्टं पुच्छे च । तासु यदि षोडशीबिरेवोपधीयन्ते संख्यापूर्यते किं तु बिद्यते । चतसृष्वपि रीतिषु भेदो वर्जनीयः । तस्मादर्धाश्वोपधेयाः । कथमनुच्यमाना उपधीयन्ते नोच्यमानाः? उक्ता एव “यच्चतुरश्रं त्रयश्रि वा सम्पद्येतार्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेत्” इति वदता । ननु यद्यर्धाश्वोपधीयन्ते अतिरिच्यते संख्या॑ नैष दोषः॑ ऊनाधिकप्रस्तार इत्युक्तं पूर्वस्मिन् पटले । पुच्छे रीतिद्वयम् । तिस्रस्तिस्रोर्ऽधेष्टका उपधाय षोडश्यः पुनश्वोत्तरे पार्श्वे एकैकोर्ऽधः । एवमात्मनि द्वयो रीत्योर्दक्षिणतस्तिस्रोर्ऽधेष्टकाः । ततो द्वे षोडश्यौ एकैकोर्धः । शिरसि तिर्यग्द्वे षोडश्यौ । एवमष्टोत्तरं शतद्वयम् । अपरस्मिन्निति पूर्वभागे द्वे षोडश्यौ बाह्यतःसविशेषे घोणाकारे उपदध्यात् । विपर्यस्य कारिता दक्षिणतः ॥
विश्वास-प्रस्तुतिः
तेऽपरेण द्वे विशये अभ्यन्तरविशेषे ॥ २०.६ ॥
English
west of them two of these with their diagonal sides facing inwards (are to be placed) partly covering the head and the body.
मूलम्
तेऽपरेण द्वे विशये अभ्यन्तरविशेषे ॥ २०.६ ॥
विश्वास-प्रस्तुतिः
द्वाभ्यामर्धेष्टकाभ्यां यथायोगं पर्युपदध्यात् ॥ २०.७ ॥
English
2 half bricks are to be placed as these fit, and these are to be enclosed by 2 half bricks
मूलम्
द्वाभ्यामर्धेष्टकाभ्यां यथायोगं पर्युपदध्यात् ॥ २०.७ ॥
टीका
ताभ्यां पश्चादात्मनि अर्धेष्टकामात्रं॑ शेषं शिरसि ।
अभितो युज्यते यथा तथोपदध्यात् । चतस्र एता विशयाः ॥
करविन्दीया व्याख्या
चत योः
प्रत्येकं चतस्रः ॥
पक्षा याः
चकारेण पक्षाग्रीया अनुकृष्यन्ते । पक्षाप्यययोः चतस्रश्चतस्रः पक्षाग्रीया विशयाः स्युः । ताः सप्तमेन पक्षयोः शेरते । अवशिष्टे चतुर्थेनात्मनि ॥
ता आ ध्यात्
आत्मनि प्रविष्टपक्षाग्रीयापरितश्चतसृभिः षोडशीभिर्ः यथा युज्यन्ते तथोपदध्यात् । पक्षाग्रीयाणां च यथा विशेषाःसहिता भवेयुस्तथोपदध्यादित्यर्थः ॥
चत योः
यथायोगमित्येव । गतम् ॥
पक्ष दयेत्
यथायोगमित्येव । चत्वारिंशता चत्वारिंशता पक्षेष्टकाभिः प्रागायताभिः पक्षौ प्रच्छादयेत् ॥
अव येत्
अवशिष्टं अनुपहितमग्निक्षेत्रं पुच्छावशिष्टं षोडशीभिः प्रच्छादयेत् । पुच्छमध्ये द्वे रीत्यौ । पूर्वाश्चतुरिष्टकाः । पश्चिमाःषडिष्टकाः । द्वे द्वे विशेषसहिते
स्याताम् । ता एता दश आत्मनि । आत्ममध्ये तिस्रो रीतयः । प्राच्यश्चतुरष्टका आत्मन्येव । पश्चात्पुरस्ताच्चोदीच्यौ द्वे रीत्यौ चतुरिष्टके । ता विंशतिः । शिरसि द्वे षोडशयौ ॥
अन्त्या रसः
अन्ते उपधेया अन्त्याः । पुच्छे चतस्रः आत्मनि चतस्र । बाह्यविशेषाः बहिर्गतविशेषाः । न चात्र संख्यापूरणं॑ संख्याः याःस्थाने द्विशतविनियोगात् । तथाहि षट्पञ्चाशत्पादेष्टकाः अष्टावष्टौ पक्षाग्रीयास्वत्वारिंशच्चत्वारिंशत्पक्षेष्टकाः । अष्टौ । पक्षमध्यीयाश्वत्वारिंशत्षोडश्यः । एवं द्विशतः ॥
अप ध्यात्
द्वितीये प्रस्तारे शिरसः पूर्वभागे प्रागग्रे बाह्यविशेषे द्वे षोडश्यौ ॥
ते षे
तयोःषोडश्योः पश्चात्प्रागग्रे शिरस्यर्धपादेष्टकामात्रे विशये विशेषेणात्मनि । एवं विशये द्वे षोडश्यावन्तर्विशेषे ॥
द्वाभ्यां ध्यात्
ते इत्येव । ते विशये इष्टके द्वाभ्यामर्धेष्टकाभ्यां विशयाभ्यां यथायोगं परिगृह्णीयात् । षोडश्योरर्धेष्टकयोश्च यथा विशेषाःसंहिता भवेयुः तथोपदध्यादित्यर्थः ॥
सुन्दरराजीया व्याख्या
चत ग्रयोः
तासामर्धेष्टकामात्राण्यात्मनि ।
ता ध्यात्
दक्षिणाग्राभिः दक्षिणाप्ययस्था उदीचीरितराः ॥
चतस्र ध्यीयाः
पक्ष दयेत् अशीत्या प्रागायताभिः ॥
अव दयेत्
अणूकाः पञ्चदशभागीयानां स्थान इति वक्ष्यमाणत्वातणूकाभिः सह प्रच्छादनभेदपरिहाराय तत्र पुच्छात्मशिरःसु पूर्वनिहिताभिः पादरीतिभिःसह षोडश रीतयः उदीच्यः । पुच्छाग्रे पादरीतिरुक्ता । द्वितीयस्यां पार्श्वयोरणूके मध्ये चतस्रः षोडश्यः । एवं तृतीयाषष्ठीत्रयोदश्योऽणूकाभिरेव द्विप्रकाराभिः सन्ध्यन्तराले द्वादश षोडश्यः प्रगायताः शिरसोऽपरार्धे द्वे षोडश्यौ द्विशतः प्रस्तारः ॥
अन्त्या शिरसः
च शब्दोऽत्राध्याहर्तव्यः । द्वाभ्यां विशेषाः । अन्तेषु या उपधेयास्ता बाह्यविशेषाः षोडश्यो भवेयुः । एतच्चात्मन्येव । पक्षयोरशक्यत्वात्पुच्छभेदसम्भवाच्च । तस्मादात्मनः श्रोण्यंसेष्वष्टौ षोडशीर्दक्षि (णाग्रा) णा उदगग्राश्चोपदध्यात् । एकैकत्र द्वेद्वे । अस्मिन् पक्षे यच्चतुरश्रं त्र्यश्रि वेति वक्ष्यमाणाभिः पाद्याभिः संख्यापूरणम् । तत्र पुच्छाप्ययस्य पुरस्ताद्द्वे अर्धे शिरसोऽप्ययस्य पश्चाद्द्वे अर्धे । तासां मध्ये चतुर्विशतिः पाद्याः । पार्श्वयोः षट्षट्षोडश्यः । यद्वा एताः पाद्याः षोडशीश्वः षट्त्रिंशतमुद्धृत्य षट्त्रिंशदर्(ध्यार्) धा निधेयाः । तत्र दक्षिणपार्श्वस्था प्रागुत्तरविशेषाः विपरीता
उत्तराः । पुच्छमध्ये षट्षोडश्यः प्रागायताः । ततः पा (तत्प्रा) र्श्वयोस्वतस्रोर्ऽधेष्टकाः । शेषं पूर्ववदेव । अ(त)त्र आत्मनि प्राच्यः पञ्चरीत्यः उदीच्यो वा अष्टौ ॥
अपर दध्यात्
ते प शेषे
एते अपि प्रागग्रे ।
द्वाभ्यां दध्यात्
तयोः षोडश्योर्मध्ये शिरसोऽप्यये द्वे अर्धेष्टके इत्यर्थः ।
कपर्दिभाष्यम्
विश्वास-प्रस्तुतिः
बाह्यविशेषाभ्यां परिगृह्णीयात् ॥ २०.७ ॥
English
with their diagonal sides facing outwards.
मूलम्
बाह्यविशेषाभ्यां परिगृह्णीयात् ॥ २०.७ ॥
टीका
उभयत्र तृतीयापदश्रवणात्विध्यन्तरमेतत्न पूर्वयोर्विशेषणम् । चशब्दोऽध्याहर्तव्यः बाह्यविशेषाभ्यां चेति । बाह्यविशेषाभ्यां चार्धेष्टकाभ्यां परिगृह्णीयात् । शिरस्यनवकाशादात्मन्येव ।
विश्वास-प्रस्तुतिः
आत्मनः करणीनां सन्धिषु षोडश्यो बाह्यविशेषा उपदध्यात् ॥ २०.८ ॥
English
One-sixteenth bricks with their diagonal sides facing outwards are to be placed where the sides of the body meet (that is, at the western and eastern corners).
मूलम्
आत्मनः करणीनां सन्धिषु षोडश्यो बाह्यविशेषा उपदध्यात् ॥ २०.८ ॥
टीका
आत्मनः करण्यः, तासां सन्धिषु श्रोण्यंसेषु चतस्रः षोडश्यो बाह्यविशेषाः प्रत्यन्तविशेषाः ॥
विश्वास-प्रस्तुतिः
चतस्रश्चतस्रोऽर्धेष्टकाः पक्षाग्रयोः ॥ २०.९ ॥
English
4 half bricks (are to be placed) at each end of the two wings.
मूलम्
चतस्रश्चतस्रोऽर्धेष्टकाः पक्षाग्रयोः ॥ २०.९ ॥
टीका
नखाकारेष्वर्धेष्टकाश्वोपधेयाश्चतस्रश्चतस्रः ॥
विश्वास-प्रस्तुतिः
पक्षेष्टकाभिरुदीचीभिः पक्षौ प्रच्छादयेत् ॥ २०.९ ॥
English
Two wings are (then) to be covered with bricks for use in the wings (pakṣeṣṭakā), (their longer sides) turned towards north.
मूलम्
पक्षेष्टकाभिरुदीचीभिः पक्षौ प्रच्छादयेत् ॥ २०.९ ॥
टीका
उदगायताभिः पक्षयो रुपदध्यात् । षट्पञ्चाशाद्विपर्यस्य कारिताः ।
विश्वास-प्रस्तुतिः
तिस्रस्तिस्रोऽर्धेष्टकाः पुच्छपार्श्वयोः ॥ २०.१० ॥
English
3 half bricks (are to be placed) at either side of the tail.
मूलम्
तिस्रस्तिस्रोऽर्धेष्टकाः पुच्छपार्श्वयोः ॥ २०.१० ॥
टीका
तिस्रस्तिस्रोर्ऽधेष्टकाः पुच्छपार्श्वयोर्बाह्यविशेषाः ॥
विश्वास-प्रस्तुतिः
अवशिष्टं षोडशीभिः प्रच्छादयेत् ॥ २०.११ ॥
English
The remaining space (of the fire-altar) is to be covered with one-sixteenth bricks;
मूलम्
अवशिष्टं षोडशीभिः प्रच्छादयेत् ॥ २०.११ ॥
टीका
अवशिष्टमग्निक्षेत्रं षोडशीभिः प्रच्छादयेत् ॥
विश्वास-प्रस्तुतिः
अन्त्या बाह्यविशेषा अन्यत्र पुच्छात् ॥ २०.११ ॥
English
at the (inclined) edges (of the fire-altar) the diagonal sides are to face outwards, elsewhere (their placement should be) as in the tail.
मूलम्
अन्त्या बाह्यविशेषा अन्यत्र पुच्छात् ॥ २०.११ ॥
टीका
गतमेतत् । पुच्छं वर्जयित्वा ।
करविन्दीया व्याख्या
बाह्य यात्
ते इत्येव । ते एव षोडश्यौ बाह्यविशेषाभ्यामन्याभ्यामर्धाभ्यां परिगृह्णीयात् । एते अर्धे शिरस्यनवकाशादात्मनि भवतः । एतदुक्तं भवति विशयषोडश्योः पुरस्ताद्विशयभूते बहिर्विशेषे द्वे अर्वे तथाऽत्मनि विशयषोडश्योर्दक्षिणत उत्तरतश्च वहिर्विशेषे अन्ये अर्धे इति ॥
आत्म ध्यात्
आत्मनः करण्य आत्मकरण्यः । तासां सन्धिषु श्रोण्यंसेषु षोडश्यः चतस्रः । सर्वत्र छान्दसो विभक्तिव्यत्ययः । आत्मनि पक्षाप्यययोःसमीपेषु बाह्यविशेषाश्चतस्रः षोडशीरुपदध्यात् । अन्त्या बाह्यविशेषा इति वक्ष्यमाणेऽपि बाह्यविशेषग्रहणं संख्यापूरणाय । पादानां चार्धानां च उपधानार्थं षोडशीनामुद्ध्वरणे प्रसक्ते आसाणुद्धरणं मा भूदित्येवमर्थम् ॥
चत योः
प्रतिपक्षं चतस्रोर्ऽधेष्टकाः बाह्यविशेषा इत्येव ॥
पक्षे दयेत्
पक्षयोरुदीच्यः पक्षेषटकाः सप्त रीतयः ॥
तिस्रर् श्वयोः
बाह्यविशेषा एव ॥
अव येत्
अवशिष्टमात्मनि त्रयस्त्रिंशत्षोडशीस्थानं पुच्छद्वादशषोडशीस्थानम् ॥
अन्त्य च्छात्
अन्त्याःसर्वा बाह्यविशेषा भवेयुः पुच्छादन्यत्र । पुच्छे त्वन्त्याःषोडश्योऽभ्यन्तरविशेषा एव ।
सुन्दरराजीया व्याख्या
बाह्य गृह्णीयात्
ते षोडश्यौ बाह्यविशेषाभ्यां द्वाभ्यामर्धेष्टकाभ्यां दक्षिणत उत्तरतश्वात्मनि परिगृह्णीयात् ॥
आत्म दध्यात्
अष्टाश्रेरात्मनोऽष्टौ करण्यः । तत्र दक्षिणोत्तरपार्श्वकरण्योः श्रोण्यंसकरणीभिः सह चत्वारः सन्धयः । तत्र श्रोणिसन्ध्योर्द्वे प्रत्यगग्रे षोडश्यौ । अंससन्ध्योर्द्वे प्रागग्रे । एवं चतस्रः षोडश्यः । ये तु चत्वारः पूर्वापर (कोट्योः) करण्योःसन्धयः तत्र पूर्वयोस्तावद्बाह्यविशेषाभ्यां परिगृह्णीयादित्यर्धेष्टके उक्ते । अपरयोरपि पूर्वसादृश्यार्थं भेदपरिहारार्थं चाध्यर्धे एवोपधेये ।
चतस्र योः
पक्षे दयेत्
एकैकं षट्पञ्चाशता ।
तिस्र योः
बाह्यविशेषाः ।
कपर्दिभाष्यम्
विश्वास-प्रस्तुतिः
यच्चतुरश्रं त्र्यश्रं वा संपद्येतार्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेत् ॥ २०.१२ ॥
English
20.12 If square or triangular areas arise (due to the removal of ṣoḍaśī bricks for completing the number 200), these are to be covered by half or quarter bricks.
English - comment
20.5-20.12. Placement of bricks in the second layer. In the second layer, 2 \(B_{1}s\) are placed at the tip of the head with their diagonal sides facing outwards. West of them 2 \(B_{1}s\) are placed, partly covering the head and the body, but with their diagonal sides. facing inwards. There are two ways of doing it, as shown in Fig. 22(a) and (b). The space between the two diagonals is filled by 2 \(B_{2}s\) on each side of the 2 \(B_{1}s\) at the juncture, 1 \(B_{2}\) being placed with its diagonal side facing outwards. Thereafter, \(B_{1}\) bricks are to be placed at the corners of the body. Bürk, in his Fig. 63^a, placed 6 such bricks,-2 in the eastern and 4 in the western corners. All commentators have interpreted rule 20.7 as the placement of 4 \(B_{1}s\), one in each of the 4 corners (śroṇyaṁseṣu catasraḥ ṣoḍaśyo vāhyaviśeṣāḥ pratyantaviśeṣaḥ Kapardi. tāsām sandhiṣu… ..sodasyaḥ catasraḥ-Karavinda.) The placing of 2 \(B_{2}s\),-one on either side of the western corners, to maintain the symmetry with the eastern corners, has also been suggested. The rules then direct the placement of 4 \(B_{2}s\) at the end of each wing, 6 \(B_{2}s\) at both sides of the tail (3 on each) and \(B_{4}s\) in the wings turned towards north 20.8, 20.9). From the geometry of the wing, it is clear that the parallelogram spaces in either wing can be divided exactly into 56 (7 × 8) small parallelograms for containing 56 \(B_{4}s\). Bürk’s Fig. 63 shows 64 (8 × 8) which is incorrect. About 56 \(B_{4}s\), Kapardi says: ṣatpañcāśadviparyasya kāritāḥ; about 7 rows south north, in the wings, Karavinda’s statement is : pakṣayorudicyaḥ pakṣeṣṭakāḥ sapta ritayaḥ |
Rule 20.10 directs that the remaining space in the body and the tail is to be covered by B1s. Now, after covering the body with 4 B1s and 4 B2s and part of 2 \(B_{1}s\) at the juncture with the head (total area covered is equivalent of 7 ṣoḍaśi bricks), a space equivalent of 33 șoḍaśi bricks remains to be filled up; in the tail, the space yet to be covered is clearly that of 12 ṣoḍaśis. Hence, Karavinda’s comment– avaśiṣṭamātmani trayastrimśat ṣoḍaśŝisthānam pucchadvādaśa ṣoḍaśisthānam. With 18 bricks placed in the head, body and tail, 120 in the two wings and 45 sodasi-spaces, the total number comes to 183. Then the geometry of the remaining space in the body is such that only 30 B1s can be accommodated and the remaining three soḍaśi spaces (30x30 sq. aṅg.) can be covered by 4 \(B_{2}s\) and 4 \(B_{3}s\) (20.11). In that way, Kapardi arrived at 188 bricks, still short of 12 (evaṁ dvādaśonaṁ śatadvayam |) The arrangement of 188 bricks is shown in Fig. 22(a).
The deficit of 12 bricks can be met by replacing 12 \(B_{1}s\) by \(B_{2}s\) and \(B_{3}s\), as indicated in 20.11. The role of aṇukās, 30 × 30 sq. aṅg., in parallelogram form is not properly understood, for the same objective can be achieved by half bricks \((B_{2}\)).
Fig. 22(a). Arrangement of bricks in the second layer, following Kapardi, and showing the deficit of 12 bricks. (North wing not shown).
Fig. 22(b). Arrangement of bricks in the second layer, following Karavinda, showing the placement in the head, body and tail only.
However, a complete scheme explaining how 200 bricks can be laid in the second layer has been given by Karavinda. There is no change in the arrangement of bricks in the two wings, totalling 120. Accordingly, the placement of bricks in the head, the body and the tail only is shown in Fig. 22(b). The head and its juncture with the body are covered, as in Fig. 22(a), by 4 \(B_{1}s\) and 2 \(B_{2}s\); at the juncture the dispositions of 2 \(B_{1}s\) and 2 \(B_{2}s\) are reversed: śirasi prāṅmukhe bāhyaviśeṣe dve ṣoḍaśyau upadadhyāt | tayoḥ paścāt prāňmukhe bāhyaviśeṣe visaye dve ardhe | tayoḥ pascattadviseṣaśliṣṭaviseṣe dve so dasyau viśaye ātmani / The bricks at the visaya are flanked on either side by 1 B2 as before, forming a line AB.
The body west of the line AB is divided into six rows in the east-west direction : tataḥ paścāt ātmani pracyaṣṣaḍritayaḥ | Beginning from the south, the first row contains 8 bricks,–1 B1 at each of the eastern and the western corners and 6 Bs in between. The second row has 2 B1s at the western corner end, then 1 \(B_{1}\), 6 \(B_{2}s\), again 1 \(B_{1}\) and 2 \(B_{1}s\), of which the one at the eastern corner has already been mentioned. There are thus 12 bricks (dvādaśeṣṭakā eṣā |) In the third layer, starting from west of the juncture line AB upto the line of juncture CD in the tail, there are 8 \(B_{1}s\), of which 4 are turned eastwards and 4 westwards: tṛtiyasyam rityām siro’pyayaṣoḍaśyāḥ paścă- dārabhya āpucchāpyayamaṣṭau ṣoḍaśya upadheyāḥ | tāsām catasraḥ prācyaścatasraḥ praticyaḥ| The arrangements in the 4th, 5th and 6th rows are the same as those in the 3rd, 2nd and 1st respectively.
Table 8. Bricks in different parts of the citi-second layer (after Karavinda).
In the tail, 3 \(B_{2}s\) are placed on either side as before. In the second row, south- north, the remaining space is covered by 2 \(B_{1}s\) in the middle and 2 \(B_{2}s\) on either side, and in the last row at the end by 6 \(B_{1}s\) as in Fig. 22(a). The total number of bricks and their types, as per Karavinda’s description, are given in Table 8.
मूलम्
यच्चतुरश्रं त्र्यश्रं वा संपद्येतार्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेत् ॥ २०.१२ ॥
टीका
सर्वत्र षोडश्य एव शेरते । यदि तथा क्षिप्येरन् भिद्येत सर्वत्र । अतो भेदपरिहाराय यत्ने क्रियमाणे त्रिकोणं चतुरश्रं वा प्रकारद्वयं सम्पद्यते । पूर्वस्मिन् प्रस्तारे चतरश्रं सम्पद्यते त्रिकोणं च । इह त्रिकोणमेव । तत्र अर्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेतुपदध्यात् । पुच्छाप्यये चतस्रः षोडश्यो विशयाः । प्राच्यौ द्वे प्रतीच्यौ द्वे । तासां पश्चात्दश षोडश्यः । तिर्यक्पुच्छेऽपि । विशयामानभितो द्वावर्धौ द्वावात्मि । तासां पुरस्ताच्चतस्रः षोडश्यः प्राच्यश्चतुर्थ्यः प्रत्यर्पिताः । तासां पुरस्ताद्विपर्यस्ताः षडुत्तरे पार्श्वे । तासां पुरस्ताच्चतस्रोर्ऽधेष्टकाः । तासां पुरस्ताच्चतस्रः षोडश्यः प्रतीच्यस्ताभिः प्रत्यर्पिताः । तासां पुरस्ताद्द्वे षोडश्यौ नानाग्रे प्राच्यौ । तयोर्मध्ये द्वावर्धौ । आत्मन्यर्धपादेष्टकामात्री । आत्मनि द्वावर्धौ विशयावभितः । अर्धषोडश्यौ सहितौ । एवं द्वादशोनं शतद्वयम् । इह केचिद्दीर्घायुषःसूत्रमेतदनादृत्य स्वमनीषिकया करणान्तरमुत्पाद्य संख्यापूरणमेव कुर्वन्ति । किं नाम तेषामशक्यम्? वयं तु सूत्रकारमतानुसारेणोक्तं गृह्णीमः ।
करविन्दीया व्याख्या
एवं क्षेत्रपूरणं कृत्वा प्रकृतितः प्राप्तं संख्यापूरणं एवं कर्तव्यमित्याह
यच्च दयेत्
एवं षोडशीभिः प्रच्छाद्यमाने सङ्ख्यापूरणाय कासुचिदुद्धृतासु च यत्क्षेत्रं चतुरश्रं त्र्यश्रि वा सम्भवेत्तत्क्षेत्रमर्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेत् ताभिःसंख्यां पूरयेदित्यर्थः ननु प्रच्छादयेदिति वचनेन सङ्ख्यापूरणं कथम्? उच्यते । तत्तदग्नौ प्रच्छादनविध्यनन्तरं सङ्ख्यां पूरयोदिति विधानात् । इह च षोडशीभिः प्रच्छादिते सङ्ख्याया असमाप्तेस्तत्पूरणापेक्षया द्वितीयप्रच्छादनवचनं सङ्ख्यापूरणार्थमेवेति गम्यते । किञ्च द्विविधः प्राकृतोऽग्ननिः समचतुरश्रमात्रेष्टका असमचतु॑ रश्रमात्रेष्टकाश्च । प्रथमे चतुरश्राग्नौ पञ्चदशभागीयाभिरर्धेष्टका । भिश्च सङ्ख्या पूरिता । द्वितीये पादेष्टकाणूकाषड्बागीयाभिश्च पूरिता । तदिहापे पादा अर्धा अणूकाश्च विहि । तासासन्ति । तस्मात्पादेष्टकाभिरर्धेष्टकाभिश्च सङ्ख्चा पूरिताद्वितीये षोडशीभिश्च यथा योगं सङ्ख्यापूरणं युक्तमिति गम्यते । किञ्च सङ्ख्यापूरणस्य न्याय्यत्वे सति अत्रोपदिष्टेष्टकाभ्योऽन्याभिःसङ्ख्यापूरणस्याशक्यत्वात्पादाभिरर्धाभिश्च सुकरत्वात्ताभिरेव सङ्ख्यापूरणं युक्ततरम् । अतः प्रच्छादितासु काश्चिदुद्धृत्य पादार्धषोडशीभैर्यथायोगं यावत्सङ्ख्यमुपधेया इति ॥
सुन्दरराजीया व्याख्या
अव दयेत्
यच्चतुरश्रं त्रयश्रि वेति पाद्यार्धाभिः सङ्ख्यापूरणं, तत्रर्(ध्यार्) धाभिः पूरणपक्षे आत्मनि प्राच्यः षड्रीतयः । तत्र दक्षिणोत्तरयोर्मध्ये षट्षडर्(ध्यार्)धाः । द्वितीयस्यां पश्चात्पुरस्ताच्च द्वे अर्धे उक्ते । तयोः समीपे द्वे षोडश्यौ प्रागायते । तयोर्मध्येऽष्टावर्धेष्टकाः । एवमेव पञ्चमी रीतिः । प्रागायताभिः द्वादशभिः षोडशीभिर्मध्यरीती द्वे । पुच्छाप्यये द्वे षोडश्यौ । प्रत्यगग्रपुच्छं पञ्चदशाङ्गुलेन पूर्वाच्चतस्रः षोडश्यः उदगायताः । पुच्छाग्रे दक्षिणतोर्ऽधेष्टका पूर्वमुक्ता । तस्या उदक्षोडश्युदगग्रा तस्या उदग्द्वे अर्धे ततो द्वे षोडश्यौ ततो द्वे अर्(ध्येर्)धे ततः षोडशी । ततोर्(ध्यार्)धा पूर्वमुक्ता । एवं द्विशतः प्रस्तारः । पाद्याभिः पूरणपक्षे आत्मनि दक्षिणपार्श्वे द्वादशार्ध्या उद्धृत्य वा अष्टौ चतस्रः षोडश्यो निधेयाः । एवमुत्तरपार्श्वेऽपि । अस्मिन्नपि प्रस्तारे प्रकारान्तरमाह
अन्त्य च्छात्
अत्रापि वाशब्दोऽध्याहार्यः । यथा पूर्वस्मिन् प्रस्तारे अन्त्या बाह्यविशेषा इति षोडश्यो विहिताः तथात्रापि श्रोण्यंसेषु द्वे द्वे षोडश्यौ प्रागग्रे प्रत्यगग्रे चेत्यष्टौ निधेयाः । एतदप्यशक्यत्वात्पक्षयोर्न भवति । अस्मिन् पक्षे शिरोऽप्यये अर्धेनोपधेये । पुच्छाप्ययेऽप्यर्धे द्वे उपधेये । पार्श्वस्थाश्चतस्रो रीतयोर्धेऽष्टकाभिःपूरणीयाः । मध्यमरीत्योः षोडशषोडश्यः पुच्छाग्रमध्ये षट्षोडश्यः । ततः पूर्वस्यां मध्ये द्वे षोडश्यौ । शेषेर्ऽध्याः । ततः पूर्वस्यां मध्ये द्वे प्राच्यौ षोडश्यौ । शेषं पूर्ववदेव । एष द्विशतः । पाद्याभिः पूरणपक्षेऽपि पूर्ववत्सर्वत्राविशेषात्पादायाभिः सम्भवेऽपि विपरीतविशेषा उपधेयाः । केचित्तु अन्त्या बाह्यविशेषा इति पूर्वमुक्तम् । तयोरेव प्रस्तारयोः शेषमाहुः । तदनुपपन्नं, अन्त्यानां षोडशीनां अनियतविशेषाणामभावात् । उभयस्मिन् प्रस्तारे प्राहुः अन्त्या इति न केवलं षोडश्य एव गृह्यन्ते । अपितु याः काश्वान्त्या उपधेयाः ताश्च बाह्यविशेषाः कार्या इति । तेषां शिरसि द्वे षोडश्यौ बाह्यविशेषे बाह्यविशेषाभ्यां परिगृह्णीयात् । आत्मकरणीनां सन्धिषु षोडश्यो बाह्यविशेषा इति बाह्यविशेष शब्दकं अनर्थकं स्यात् । अन्यत्र शिरसोऽन्यत्र पुच्छादिति च विरुध्येते । शिरसि पाद्यानां पुच्छपार्श्वयोरर्ध्यार्(धा)नां च बाह्यविशेषाणामेवेष्टत्वात् ॥
यच्चतु येत्
प्रस्तारद्वयसाधारणमिदम् । षोडशीभिः पूरयितुमशक्योपि यावद्द्विशतपूर्ति अर्धाः पाद्या उपधेयाः । तत्रार्ध्यारहिताभिः पाद्याभिः सङ्ख्यां पूरयितुमशक्यत्वात् । तस्मादर्ध्याभिः संमिश्राभिर्वा पाद्याभिः पूरणम् । तत्प्रकारश्च पूर्वमेकोक्तः ॥
कपर्दिभाष्यम्
विश्वास-प्रस्तुतिः
अणूकाः पञ्चदशभागीयानां स्थाने ॥ २०.१३ ॥
English
Aņukās in the place of pañcadaśabhāgījās (are to be placed).
मूलम्
अणूकाः पञ्चदशभागीयानां स्थाने ॥ २०.१३ ॥
विश्वास-प्रस्तुतिः
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ २०.१४ ॥
English
(With these two layers) alternating with each other as many layers as desired are to be constructed.
मूलम्
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ २०.१४ ॥
टीका
स्थानशब्दः प्रयोगवाची । अणूकाश्चतुर्भागीयाः सङ्ख्यापूरणे चोदिताः पञ्चदशभागीयाश्च सङ्घयापूरणे चोदिता इती यावत् । अस्मिन् प्रस्तारे सङ्ख्या न पूरिता सूत्रकारेण । तत्र ताभिःसङ्ख्या पूरयितव्या यदि ताभिः पूर्यते । अस्मिन्नगौ तावता न शक्यते अणूकाभिःसङ्ख्या पूरणम् । शक्यते तु प्रकृतौ । तस्मात्प्रकृत्यर्थौ योगः । तत्र शक्यते द्वितीये प्रस्तारे ताभिः पूरयितुम् । तत्र द्विशतपूरणमवश्यं कर्तव्यम् । प्रतिप्रस्तारं पूरयेदिति वचनात् । इह तु सहस्रसंख्यैव पूरयितव्या इत्युक्तं पूर्वस्मिन् पटले । तस्मात्प्रकृतो योगः । तत्र श्लोकाः
पक्षेष्टकानां करणं विपर्यस्यार्धविष्यते ।
पक्षाग्रीयास्तथैवार्धं विपर्यस्यैव कारयेत् ॥
विपर्यश्चैव कर्तव्याःषोडश्यः षोडशीद्वयम् ।
साहस्रेऽथ द्विषाहस्रे पञ्चषष्टिं विदुर्बुधाः ॥
उपधाने यथासूत्रं यथा वात्मनि पक्षयोः ।
पुच्छे शिरसि शिष्टे च षोडशीनां विदुर्बुधाः ॥
षट्प्राच्यः षट्प्रीच्यश्च आत्मनि द्वादश क्षिपेत् ।
शीर्ष्णि द्वयं क्षिपेत्तिर्यगुक्ता एव चतुर्दश ॥
शिष्टं रीतिद्वयं पुच्छे तथा चात्मन्यपि द्वयम् ।
षोडशार्धेष्टकास्तास्तु क्षिपेच्च त्रिषु रीतिषु ॥
एकैकमुत्तरे पार्श्वे तिस्रस्तिस्रस्तु दक्षिणे ।
शिष्टे तिर्यग्दशैव स्यादष्टोत्तरशतद्वयम् ॥
पुच्छाप्यये तु विशयाश्चतस्रःषोडशीः क्षिपेत् ।
षोडश्यावप्यये प्राच्यौ ते चाग्रे शिरसि क्षिपेत् ॥
मध्ये तयोश्च द्वावर्धौ चतस्रो विशयाः क्षिपेत् ।
आत्मनःशेषे द्वावर्धौ षोडश्यौ शिरसि क्षिपेत् ॥
अन्यत्सर्ंव यथासूत्रं द्वादशोनं शतद्वयम् ।
आत्मनो दक्षिणे पार्श्वे चतस्रो दक्षिणायताः ॥
द्वितीये चोत्तरे पार्श्वे षड्द्वे श्रोण्यंसयोरपि ।
शिरसश्वाप्यये चैका शिरस्यपि च दक्षिणा ॥
एता निधेयाःषोडश्यो विपर्यस्तास्तरे द्वये ।
करनिन्दीया व्याख्या
अणू ने
परिभाषेयम् । पञ्चदशभागीयाः प्रथमचतुरश्रे उक्ताः । तासां स्थाने कार्यसंख्यापूरणे अणूका भवेयुः । तस्याः परिभाषाया अत्रोपदेशः कथम्? इहोपदिष्टाः षोडश्योऽपि क्षेत्रसाम्यादणूकाशब्देन ग्राह्या भवेयुः इत्येवमर्थम् । तेन अणूकाभिश्चतुरश्रेऽग्नौ संख्यापूरणम् । इह तु षोडशीभिश्वोति सिद्धम् । केचिद्यच्चतुरश्रं त्र्यश्रि वा सम्पद्यते इत्येतदपि परिभाषामिच्छन्ति । तेन तत्रतत्राग्नौ तदपेक्ष्या ताभिरपि संख्यापूरणं मन्यन्ते । अत्र पुनः प्रच्छादयेदिति वचनं प्रच्छादनेऽपि चैता यथा भवेयुरित्येवमर्थम् । तेन तत्रतत्राग्नौ सति सम्भवे सत्यां चापेक्षायां ताभिःसहौभिरपि प्रच्छादनं स्यात् ।
उपधानक्रमः द्वितीयचित्यां शिरसि प्राङ्भुखे बाह्यविशेषे द्वे षोडश्यौ उपदध्यात् । तयोः पश्चात्प्राङ्भुखे बाह्यविशेषे विशये द्वे अर्धे । तयोः पश्चात्तद्विशेषश्लिष्टविशेषे द्वे षोडश्यौ विशये आत्मनि । तयोर्दक्षिणस्या दक्षिणतो बाह्यविशेषमेकमर्धम् । उत्तरस्या उत्तरतश्च बाह्यविशेषमेकमर्धम् । तयोर्दक्षिणत उत्तरतश्च बाह्यविशेषेणैकैकमर्धम् । ततः पश्चादात्मनि प्राच्यःषड्रीतयः । तत्र दक्षिणस्यां रीत्यां पुरस्तात्बाह्यविशेषा प्रागग्रैका षोड्शी । पस्वाच्च बाह्यविशेषा प्रत्यगग्रैका । तयोर्मध्ये षडर्धेष्टकाः । तासां तिस्रः प्रतीच्यस्तिस्र उदीच्यः । द्वितीयस्यां रीत्यां पश्चात्बाह्यविशेषेण दक्षिणामुखे द्वे अर्धे । तत्पुरस्तादर्धविशेषयुक्तविशेषात्प्रत्यङ्भुखैका षोडशी । तस्या । पुरस्तात्षडर्धाः । तासां तिस्रस्तिस्रः प्राच्य प्रतीच्यश्च । तत्पुरस्तातुत्तरतो विशेषा प्रागग्रैका षोडशी । तत्पुरस्तात्तद्विशेषश्लिष्टविशेषमेकमर्धम् । तत्पुरस्तात्पूर्वोपहितमर्धमस्त्येवेति द्वादशेष्टका एषा । तृतीयस्यां रीत्यां शिरोऽप्ययषोडश्याः पश्चादारभ्य आपुच्छाप्ययमष्टौ षोडश्य उपधेयाः । तासां चतस्रः प्राच्यश्चतस्रः प्रतीच्यः । एवमेवोत्तरास्तिस्रो रीतयः । तत्र तृतीयावच्चतुर्थी । द्वितीयावत्पञ्चमी । प्रथमावत्षष्ठी । तत्र तिसृणां दक्षिणरीतीनां दक्षिणं पार्श्वमुत्तररीतीनामुत्तरं पार्श्वम् । दक्षिणानामुत्तराणं च दक्षिणा पार्श्वरीतिद्वयगता । अत्र प्रतीच्यो मुकुलात्मकाः । तत्प्रतीपमुकाः प्राच्यः । एवं शोभां वितन्वते । पुच्छे मध्यमरीत्यन्तयोर्विशयषोडस्योर्दाक्षिणत उत्तरतश्च द्वे अर्धे बाह्यविशेषे । ततः पश्चान्मध्ये द्वे षोडश्यौ । ते अभित(स्तितस्र)स्तिस्रोऽर्धेष्टका इत्यष्टेष्टकाः । ततः पुच्छाग्रे षड्भिः षोडशीभिरभितोर्ऽधाभिरष्टेष्टकाः । पक्षाग्रयोश्चतस्रश्चतस्रोर्ऽधेष्टकाः । पक्षद्वये पक्षेष्टकाःसप्त रीतयः । ता द्वादशशतमिष्टकाः । पादेष्टकाभिश्च पूरणपक्षे एता एव रीतयः । तत्र विशेषः पुच्छगतोपान्तरीत्यां बाह्यास्वतस्रोर्ऽधेष्टका द्विधा कुर्यात् । आत्मनि प्रथमद्वितीयपञ्चमषष्ठेषु तन्मध्यगतार्धेषु पश्चिमतो द्वे द्वे अर्धे । अवशिष्टान्येष्वर्धस्थानेषु षोडशीयुग्मान्युपदध्यात् । द्वितीयापञ्चम्योश्वार्धा द्विधा भिद्यात् । ननु भेदो वर्जनीय इति तत्रतत्राग्नौ यत्नेन परिहृतः । स इदानीं पुच्छे प्रादुर्बुभूषति? नैतत्सारम् । नियतलोकानामिष्टकानामसंबाधेन समुदिताभिरिष्टकाबिःसङ्ख्यायां पूरितायां यदीष्टकैकदेशे भेद उपजायते स भेदो मर्षणीय एव, अवर्जनीयत्वादेकदेशभेदस्य । अत एव भेदवर्जनं स्वकण्ठेनोक्तमाचार्येण द्विशत एष इति ॥
व्यात्यार् षेत्
गतम् ॥
सुन्दरराजीया व्याख्या
अणू अने
प्रकृतौ चतुरश्राग्नौ पञ्चदशभागीयानां कार्यं भेदपरिहारेण संख्यापूरणम् । इह तु तत्कार्ये अणूका उपधेयाः । तत्र समचतुरश्राणामणूकानामुपधाने द्विशतः कर्तुं न शक्यते । तस्मादणूकक्षेत्राणां ग्रहणम् । तत्रापि षोडश्यो न गृह्यन्ते । अवशिष्टं षोडशीभिरित्येव सिद्धत्वात्भेदसम्भवाच्च । तस्माद (न्या ) णूकक्षेत्रादि (द्वि) प्रकारा इष्टकाः कर्तव्याः । दर्शिते च तासां करणे (पूर्वमेव) । आचार्येण तु करणे नोपदिष्टे । अन्त्या बाह्यविशेषा इत्यस्मिन् पक्षे अणूकानामनुपयोगात् । उक्तश्वोपधानप्रकारः । अणूकाभिर्विनैव तस्मिन् पक्षे प्रथम एव प्रस्तारे अणूकानामुपयोगः कर्तव्यः ॥
कपर्दिभाष्यम्