विश्वास-प्रस्तुतिः
अप्ययान् प्रति श्रोण्यंसानपच्छिन्द्यात् ॥ १६.१ ॥
English
The western and the eastern corners (of the body) are cut off (by lines) in the direction of the junctures (of the body with the tail and the head).
मूलम्
अप्ययान् प्रति श्रोण्यंसानपच्छिन्द्यात् ॥ १६.१ ॥
टीका
अप्ययशब्देन पक्षपुच्छशिरसां सन्धिरुक्तः । तान्प्रत्यपच्छि न्द्यात् श्रोण्यंसाच्यजेत् । शिरसोऽप्ययादारभ्य पक्षाप्ययं प्रति । एवं श्रोण्योरंसे च । एवं द्वे द्वे चतुर्भागीये निरस्ते भवतः । वक्ष्यति चत्वारिंशत्परिशिप्यन्त इति ॥
विश्वास-प्रस्तुतिः
एवमिव हि श्येनः ॥ १६.१ ॥
English
This is the (form) of the falcon.
English - comment
15.7-16.1. The body: A rectangle ABCD, of which AB equals 240 aṅg. and AD 180 aṅg., is formed (Fig. 15(b)). At each of the 4 corners an isosceles triangle of side equal to 60 aṅg. is formed and cut off from the rectangle by transverse lines EL, FG, etc. as shown. The length EF at the eastern and IJ at the western side equals 60 aṅg., GH on the southern and KL northern side equals 120 aṅg. The area of the figure EFGHIJKLE exactly equals 36,000 sq. aṅg. or \(2\frac{1}{2}\) sq. pu.
मूलम्
एवमिव हि श्येनः ॥ १६.१ ॥
टीका
प्रसिद्धः । वक्ष्यति च “यावदाम्नानसारूप्यम्” इति ।
विश्वास-प्रस्तुतिः
करणं पुरुषस्य पञ्चमायामं षष्ठव्यासं कारयेद्यथायोगनतं तत्प्रथमम् ॥ १६.२ ॥
English
Bricks are made with length equal to one-fifth purușa (24 aṅg) and breadth one-sixth purușa (20 aṅg.), the two sides being inclined (with each other) in such a way that these fit (with the shape of the wing). This is the first type.
मूलम्
करणं पुरुषस्य पञ्चमायामं षष्ठव्यासं कारयेद्यथायोगनतं तत्प्रथमम् ॥ १६.२ ॥
टीका
पुरुषपञ्चमायामं पुरुषषष्ठव्यासं अरत्निमात्री पार्श्वमानी षड्भागा तिर्यङ्भानी यथा युज्यते तथा नतः॑ नतशब्देन प्रजम्भनमुच्यते । तथा प्रजम्भयेत् । एकामक्ष्णयादीर्घां कुर्यात् । यथा युज्यत इति यथायोगः । तत्प्रथमं करणम् । प्रथममित्यस्य संज्ञा ।
विश्वास-प्रस्तुतिः
ते द्वे प्राची संहिते । तद्द्वितीयम् ॥ १६.३ ॥
English
Two of these (first type) bricks are joined along the east line (that is, the length). This is the second type.
मूलम्
ते द्वे प्राची संहिते । तद्द्वितीयम् ॥ १६.३ ॥
टीका
ते द्वे विपर्यस्ते उपसृत्य मध्यमफलके संसृष्टे यथा तिष्ठतः तथाविधं करणं द्वितीयम् ।
विश्वास-प्रस्तुतिः
प्रथमस्य षड्भागमष्टभागेन वर्धयेत् । यथायोगनतं तत्तृतीयम् ॥ १६.४ ॥
English
That side of the first type, which is one-sixth purușa long is extended by one-eighth of a purușa (15 aṅg), and (the extended part) is bent so as to fit (with the shape of the fire-altar). This is the third type.
मूलम्
प्रथमस्य षड्भागमष्टभागेन वर्धयेत् । यथायोगनतं तत्तृतीयम् ॥ १६.४ ॥
टीका
प्रथमस्य षड्बागकरणमष्टभागेव वर्धयेद्दीर्घं कुर्यात् । मात्रा? तमक्ष्णया छिन्द्यात् । छिन्ना यथा युज्यते नमनं तता योगः । यथा पक्षनमनेऽध्यर्घं युज्यते तथा नतं वक्रं तृतीयकरणम् ।
विश्वास-प्रस्तुतिः
चतुर्भागीयाध्यर्धा । तस्याश्चतुर्भागीयामात्रमक्ष्णया छिन्द्यात् । तच्चतुर्थम् ॥ १६.५ ॥
English
A (square) brick of side one-fourth of a purușa (30 aṅg) is lengthened by half; the (square) portion of side one-fourth purușa is diagonally cut off. This is the fourth type.
मूलम्
चतुर्भागीयाध्यर्धा । तस्याश्चतुर्भागीयामात्रमक्ष्णया छिन्द्यात् । तच्चतुर्थम् ॥ १६.५ ॥
टीका
चतुर्भागीयाध्यर्धं भूमावालिक्य चतुर्बागीयां न त्यजेत् । तथाभूतेष्टका येन करणेन कियते तच्चतुर्थं करणम् । षोडशीं चतुभिरिति वक्ष्यति । तदेतत्करणम् ॥
करविन्दीया व्याख्या
अप्य श्येनः
अप्ययशव्देनात्मनः पक्षुपच्छशिरसां सन्धिरुच्यते । शिरसोऽप्ययादारभ्य आपक्षाप्ययात्पुच्छाप्ययादारभ्य आपक्षा प्ययात् । एवमिवहीति गतम् ॥
कर प्रथमम्
पुरुषस्य पञ्चमं चतुर्विंशतिरङ्गुलय एकतः । अन्यतोविंशतिरङ्गुलयः प्रथमं करणम् । यथायोगनतं भवेत् उपधाने यथायुज्यते तथा कुर्यात् । नमनप्रकारश्वोपरि श्येने वक्ष्यते । प्रथमादयःशब्दा व्यवहारसौकर्याय ॥
तेद्वे यम्
प्रथमकरणे प्रागायते दक्षिणमेकमुत्तरमेकमिति संहिते चतुर्विंशत्यङ्गुले पार्श्वमान्यौ चत्वारिंशदङ्गुले तिर्यङ्नान्यौ । तयोरेकानमनविधिना मध्ये निर्णता एकपार्श्वे उन्नता । तद्द्वितीयं करणम् ।
प्रथमकरणस्य षड्भागो विंशत्यङ्गुलमष्टभागेन पञ्चदशाङ्गुलेन यथायोगनतेन वर्धयेत्॑ यथा षड्बागः पभानुरोधी वक्रःस्यादष्टमबाग आत्मानुरूप ऋजुर्भवेत्तत्तृतीयं करणम् ॥
चतुर्भा र्थं चतुर्भागीयाणूकाख्या । साध्यर्दा कार्या । तस्याश्चतुर्भागीयामात्रमक्ष्णयामात्रमक्ष्णया छिन्द्यात् । एतदृक्तं भवतिपञ्चचत्वारिंशदङ्गुलायामं त्रिंशदह्गुलव्यासं कृत्वा त्रिंशदङ्गुलमक्ष्णया छिन्द्यात् । एवमेका पार्श्वमानी । पञ्चचत्वारिंशदङ्गुलयः एका तिर्यङ्भानी त्रिंशदह्गुलयः एकाक्ष्णया स्थिता द्विचत्वारिंशदङ्गुलयः चतुर्दश तिलाः । एतच्चतुर्तं करणम् ॥
सुन्दरराजीया व्याख्या
अप्य छिन्द्यात्
पक्षपुच्छशिरोऽप्ययेभ्यः अन्योन्यं प्रत्यक्ष्णया परिच्छिन्द्यात् । एवमात्मनोर्ऽधपुरुषो निरस्तो भवति ।
एवमिव प्रथमम्
चतुर्विंशत्यङ्गुलम् । पार्श्वफलकम् । विंशत्यङ्गुलं तिर्यक्फलकम् । यथायोगनतं यथा युज्यते पक्षे तथा नतम् । तस्यैकाक्ष्णयारज्जुः पञ्चत्रिंशिका विंशतितिलयुक्ता । अपरा षड्विंशिका षट्तिलयुक्ता । एवं कृते पक्षायामस्य द्वादशभागः एकान्नविंशतिरह्गुलयः तिलौ च इष्टकाव्यासो भवति । तदेतत्प्रथमं करणम् । अरत्निप्रादेशरहितप्रकृतिके पक्षायामस्य त्रिंशदङ्गुलहानिः । तदनुगुणं चेष्टकानां नमनं भवति । तत्र कर्णौ एकविंशकैकान्नत्रिंशकौ तिलत्रययुक्तौ ।
तेद्वे द्वितीयम्
यथा षडश्री भवति तथा संहिते ।
प्रथ तृतीयम्
पञ्चदशाङ्गुलव्यासं अरत्नयायामं समकर्णं दीर्घचतुरश्रं प्रागायतं मूमौ लिखित्वा प्रथमेन प्रागायतेन युञ्जयात्तत्तृतीयम् । ऋज्ववस्थितमेव प्रथमापेक्षया नतमित्युच्यते यथायोगनतमिति ।
चतुर्भाग चतुर्थम्
एका पार्स्वमानी पञ्चदशाङ्गुला । अन्या पञ्चचत्वारिंशदङ्गुला । एका तिर्यङ्नानी त्रिंशदङ्गुला । अन्या द्विचत्वारिंशदङ्गुला सचतुर्दशतिला ।
कपर्दिभाष्यम्
विश्वास-प्रस्तुतिः
चतुर्बागीयार्धं पञ्चमम् ॥ १६.६ ॥
English
The fifth type of brick is half of the (square) brick of side one-fourth of a purusa.
मूलम्
चतुर्बागीयार्धं पञ्चमम् ॥ १६.६ ॥
टीका
एकतस्त्रिंशदङ्गुलमन्यतः पञ्चदशाङ्गुलं तत्पञ्चमम् ।
विश्वास-प्रस्तुतिः
तस्याक्ष्णया भेदः षष्ठम् ॥ १६.७ ॥
English
By dividing it (the fifth type) by the diagonal, the sixth type (is obtained).
मूलम्
तस्याक्ष्णया भेदः षष्ठम् ॥ १६.७ ॥
टीका
तस्य पञ्चमस्याक्ष्णया कर्णेन विभज्यत इति भेदःषष्ठम् ।
विश्वास-प्रस्तुतिः
पुरुषस्य पञ्चमभागं दशभागव्यासं प्रतीचीनमायच्छेत् । तस्य दक्षिणतोऽन्यमुत्तरतश्च । तावक्ष्णया दक्षिणाओअरयोः कोट्योरालिखेत् । तत्सप्तमम् ॥ १६.८ ॥
English
A rectangle of breadth one-tenth of a purușa (12 aṅg) and length one-fifth of a purușa (24 aṅg) in the direction from east to west is drawn. One each such rectangle is placed on its southern and its northern side. These two (latter, that is, the southern and the northern, rectangles) are cut off by diagonals passing through their south-west corners. This is the seventh type.
मूलम्
पुरुषस्य पञ्चमभागं दशभागव्यासं प्रतीचीनमायच्छेत् । तस्य दक्षिणतोऽन्यमुत्तरतश्च । तावक्ष्णया दक्षिणाओअरयोः कोट्योरालिखेत् । तत्सप्तमम् ॥ १६.८ ॥
टीका
अरत्निमात्रायामं प्रादेशव्यासं प्रतीचीनं प्रत्यगायतमायच्छेत् । भूमौ दक्षिणपार्श्वेऽन्यं तथाविधमुत्तरतश्वान्यं तथाविधम् ।
तावक्ष्णया कर्णेन दक्षिणावरयोः कोट्योरारभ्य स्रुच्यवदालिखेत् । तत्सप्तमम् ॥
विश्वास-प्रस्तुतिः
एवमन्यत् । उत्तरं तूत्तरस्याः कोट्यालिखेत्तदष्टमम् ॥ १६.९ ॥
English
Like-wise another type is formed in which the northern rectangle is cut off by the diagonal passing through the north (-western) corner (the cutting off of the southern rectangle being as before). This is the eighth type.
मूलम्
एवमन्यत् । उत्तरं तूत्तरस्याः कोट्यालिखेत्तदष्टमम् ॥ १६.९ ॥
टीका
एवमेव कृत्वोत्तरं चतुरश्रमुत्तरस्याः कोट्या आरभ्य दक्षिणां कोटिं प्रत्यालिखेत्स्रौववत्तदष्टमम् ।
विश्वास-प्रस्तुतिः
चतुर्भागीयाक्ष्णयोभयतो भेदो नवमम् ॥ १६.१० ॥
English
The ninth type is obtained by dividing by both diagonals a (square) brick of side one-fourth of a purușa.
English - comment
16.2-16.10. Types of Bricks. Nine types of bricks have been used in covering the alternate layers of this fire-altar. These are :
\(B_{1}\) - the first type,-a parallelogram abcd, of which ab = cd = 24 aṅg. and ad bc 20 aṅg. (Fig. 16). The sides are parallel to those of the paralle- logram ABEF or CDEF, so that this type can fit in the wings. Sundararāja gives the values of the longer diagonal ac as 35 aṅg. 20 ti and of bd as 26 aṅg. 6 ti. He also gives the breadth ed between the longer sides as 19 aṅg. 2 ti, which is \(\frac{1}{12}\) of \(228\frac{1}{4}\) aṅg. (the length of the wing).
\(B_{2}\) the second type, obtained by joining 2 B1s along the longer side such that the brick is bent at the middle (madhye nirṇatā ekapārsve unnatā- Karavinda) and suitable for use in the wing at the bending (17.5).
\(B_{3}\) - the third type, obtained by joining the parallelogram abcd (B1) with the rectangle aefb along ab; ae = 15 aṅg. This is so designed that it can be used at the junction between the wing and the body, abcd lying within the wing and aefb in the body (17.5).
\(B_{4}\) — the fourth type, obtained by first making the square abcd of side equal to 30 aṅg. extending it by half defc, and then cutting off the square by the diagonal bd; defbd is the brick, used in several places. de 15 aṅg., bf = 45 aṅg. ; and bd \(30\sqrt{2}\) aṅg.
\(B_{5}\) - the fifth type is a rectangle, 30 aṅg. by 15 aṅg.; caturbhāgiyārdha.
\(B_{6}\) - the sixth type is derived from \(B_{5}\) by dividing it diagonally.
\(B_{7}\) - the seventh type, gbfdg, is made by constructing three equal rectangles, so that ad = de = ag= 12 aṅg. and ab=ef=gh = 24 aṅg. and cutting the outer rectangles by the diagonals df and gb. The direction. of the diagonal is determined by dakṣiṇāvarayoḥ koṭyorālikhet. the eighth type ahfda, is done in the same way as the seventh, with the difference that the northern rectangle is cut off by ah, as determined by uttaram tuttarasyāḥ koṭyā etc.
\(B_{8}\) — the ninth type, an isosceles triangle of base 30 aṅg. and side \(30\sqrt {2}\) aṅg, is obtained by dividing the square abcd (ab = 30 aṅg.) diagonally.
मूलम्
चतुर्भागीयाक्ष्णयोभयतो भेदो नवमम् ॥ १६.१० ॥
टीका
अक्ष्णया उभयतः कर्णेन भेदनं खण्डनं तस्याश्चतुर्भागीयायास्तथाविधं नवमं करणम् । पादमात्रं पादेष्टका त्रिभिरिति ॥
विश्वास-प्रस्तुतिः
उपधाने षष्टिःषष्टिः पक्षयोः प्रथमा उदीचीर्निरुपदध्यात् ॥ १६.११ ॥
English
In the placement (of bricks in the first layer) 60 bricks of the first type turned towards north, are placed in each wing.
मूलम्
उपधाने षष्टिःषष्टिः पक्षयोः प्रथमा उदीचीर्निरुपदध्यात् ॥ १६.११ ॥
विश्वास-प्रस्तुतिः
पुच्छपार्श्वयोरष्टावष्टौ षठ्ययस्तिस्रोऽग्रे तत एकान् ततस्तिस्रः तत एका ॥ १६.१२ ॥
English
Along each side of the tail, 8 bricks of the sixth type are placed (in this way); three of them at the end (of the tail) and one above them and again three and one (above them).
मूलम्
पुच्छपार्श्वयोरष्टावष्टौ षठ्ययस्तिस्रोऽग्रे तत एकान् ततस्तिस्रः तत एका ॥ १६.१२ ॥
विश्वास-प्रस्तुतिः
पुच्छाप्यये चतुर्थ्यौ विशये । तयोस्तु पश्चात्पञ्चम्यावनीकसंहिते ॥ १६.१२ ॥
English
At the juncture of the tail (with the body), 2 bricks of the fourth type partly covering both (the tail and the body) are placed. West of them (are placed) 2 bricks of the fifth class touching each other edge to edge.
मूलम्
पुच्छाप्यये चतुर्थ्यौ विशये । तयोस्तु पश्चात्पञ्चम्यावनीकसंहिते ॥ १६.१२ ॥
English - comment
उपधानकाले एकस्मिन् पक्षे षष्टिः प्रथमा उदीचीरुदगायता निदध्यात् उपदध्यात्त्रिंशत्र्रिंशद्विपर्यस्य कारिताः । एवमुत्तरपक्षेऽपि । पुच्छस्य पार्श्वयोरुभयोःषष्टयः अष्टावेकस्मिन् पार्श्वेऽपरस्मिंश्वाष्टौ । कथमित्याह पुच्छाग्रे तिस्रः तासां पुरस्तादेकाम् । एवमुत्तरस्मिन् पार्श्वे विपर्यस्य कारिताः । पुच्छे चात्मनि च स्थिते तिर्यक् तयोश्चेति तयोः पश्चात्पुच्छे अनीकसंहिते मुखसहिन्ते मेषयूथवत् ।
षोडशः खण्डः
करविन्दीया व्याख्या
चतु मम्
त्रिंशदङ्गुलायामं पञ्चदशव्यासं यत्तत्पञ्चमं करणम् ॥
तस्या षष्ठम्
पञ्चमस्याक्ष्णया भेदं कृत्वा षष्ठं करणं भवति सा पादेष्टका । तस्यैकत्रिंशदङ्गुलमन्यत्पञ्चदशाङ्गुलमन्यदक्ष्णया एकोनविंशतितिलाधिकं त्रयस्त्रिंशदङ्गुलम् । एतत्षष्ठं करणम् ॥
पुरुष मम्
चतुर्विंशत्यङ्गुलायामं तदर्धविस्तारं चतुरश्रं कृत्वा तस्य दक्षिणत उत्तरतश्च तादृशे चतुरश्रे । एवं त्रीणि चतुरश्राणि कृत्वा दक्षिणोत्तरचतुरश्रे दक्षिणापरकोटी प्रत्यालिखेत् । एवं पार्श्वमान्यौ षड्विंशत्यङ्गुले अष्टाविंशतितिलाधिके । तिर्यङ्भान्यौ चतुविंशत्यङ्गुले । एतत्सप्तमं करणम् ॥
एवम ष्टमम्
सप्तमवत्र्रीणि चतुरश्राणि कृत्वा दक्षिणं दक्षिणापरकोटिं प्रत्यालिखेदुत्तरमुत्तरापरकोटिं प्रति । एवमपि ते एव पार्श्वमान्यौ पूर्वं पार्श्वं द्वादशाङ्गुलं पश्चिमं तु षट्त्रिंशदङ्गुलम् । यदेव तदष्टमं करणम् ॥
चतुर्भ मम्
चतुर्भागीयाया उभयतो भेदोऽक्ष्णयाभवेत् । इयमपि पादेष्टका । पार्श्वमान्यौ अक्ष्णया एकविंशत्यङ्गुले सप्ततिलसहिते तिर्यगेकं त्रिंशदङ्गुलम् । एवं नवमं करणम् ।
अथोपधानमुच्यते
उप ध्यात्
उपधानकाले दक्षिणे पक्षे षष्टिः प्रथमा उदीचीर्निदध्यात् । उत्तरे च षष्टिम् । छान्दसो विभक्तिव्यत्ययः ।
पुच्छ ष्ठयाः
षष्ठकरणोत्पन्ना अष्टावष्टौ पुच्छपार्श्वयोः ।
उपधानप्रकारमाह
तिस्रो काम्
पुच्छपार्श्वयोरित्येव । तिस्रोऽग्रे पुच्छस्य दक्षिणश्रोण्यामेका प्राची बाह्यविशेषा । तस्या उत्तरतो द्वे नानाग्रे विशेषसहिते । तयोः पुरस्तादेका बाह्यविशेषा
प्रागग्रा । तस्याः पुरस्तात्पूर्ववत्तिस्रः । तासां पुरस्तात्पूर्ववदेका । एवमुदक्पार्श्वेऽपि ॥
पुच्छा ये
पुच्छात्मसन्धौ द्वे चतुर्थ्यौ विशये । अविशेषादात्मनि पुच्छं च समे ॥
तयो हिते
तयोश्च पशावत्द्वे पञ्चम्यावर्थेष्टके । अनीकं मुखम् । तेन संहिते मेषयुद्धवत् ॥
षोडशः खण्डः
सुन्दरराजीया व्याख्या
चतु पञ्चमम्
त्रिंशदङ्गुलायामं पञ्चदशाह्गुलव्यासम् । समकर्णं दीर्घचतुरश्रम् ।
तस्या षष्ठम्
पुरुष मम्
यथा पुरस्तात्प्रादेशस्तिर्यङ्भानी पश्चात्तु प्रादेशत्रयम् । सप्तमाष्टमयोरुभयोरपि पार्श्वफलकानि सप्तविंशकानि षट्तिलोनानि ।
चतु मम्
चतुर्भागीयामुभयतोऽक्ष्णयाभिन्नायां चत्वारो नवमा भवन्ति त्रिकोणाः । तेषामेकं करणं नवमम् । तस्यैकं फलकं त्रिंशदङ्गुलम् । अन्ये एकविशके सप्ततिले ।
उप ध्यात्
प्रथमाः प्रथमकरणकृताः । एवं षष्टय इत्यादिषु उदीचीरुदगायताः ॥
पुच्छ षष्टयः
प्रागायता एताः । आसामुपधानप्रकारमाह
तिस्र काः
तिसृणां द्वे प्रागग्रे । एका प्रत्यगग्रा ।
पुच्छा ये
उदगग्रा दक्षिणाग्रा च । ते आत्मानं पुच्छं च पञ्चदशाङ्गुलावेते ।
तयो हिते
अनीकसंहिते मुखसंहिते । उदगायते ।
षोडशः खण्डः
कपर्दिभाष्यम्