English - comment
CONSTRUCTION OF A FIRE-ALTAR IN THE FORM OF A FALCON WITH CURVED WINGS AND EXTENDED TAIL-FIRST TYPE
We have already met with Baudhāyana’s construction of two types of fire-altars in the form of a falcon with curved wings and extended tail (1st. type, Bśl. 10.1- 10.20, 2nd. type, Bśl. 11.1-11.13). Āpastamba gives the construction of two other types, of which the first one is described in these three chapters, and the second one in chapters 18 to 20 to follow. We have thought it convenient to deal with these three chapters together because of the continuity and overlapping of the subject matter.
विश्वास-प्रस्तुतिः
श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते ॥ १५.१ ॥
English
Those who desire heaven should construct a fire-altar in the shape of a falcon; this is the tradition.
English - comment
15.1. In the falcon-shaped fire-altar, a head is to be provided, the tail should be spread out and each wing must be curved. According to rule 15.2, the curving of the wing is to be done by pushing the west side upwards and the east-side down- wards. Karavinda explains that what actually should be done is to raise upwards towards east the first half of the wing from its root at the body to the middle and to press downward towards west the second half from the middle to the end. (prathama pakṣārdham mūlādārabhya paścātprabhṛti prāgunnayet |.. dvayam pakṣārdham madhyā- dārabhya purastāt prabhṛti pratyagunnayet |). The method is further explained in rule 15.6.
मूलम्
श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते ॥ १५.१ ॥
विश्वास-प्रस्तुतिः
वक्रपक्षो व्यस्तपुच्छो भवति ॥ १५.२ ॥
English
This (fire-altar) has curved wings and extended tail.
मूलम्
वक्रपक्षो व्यस्तपुच्छो भवति ॥ १५.२ ॥
टीका
श्येन इव चेतव्यः श्यनचित्तदाकारं चिन्वीत । आकृत्याः फलमाकारसंपादनं स्वयमेव वक्ष्यति । अनृजुपक्षः व्यस्तपुच्छोऽसङ्कोचितपुच्छः ।
कथं वक्रता?
विश्वास-प्रस्तुतिः
पश्चात्प्राङुदूहति । पुरस्तात्प्रत्यङ्ङुदूहति । एवमिव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते ॥ १५.२ ॥
English
The west side (of first half of the wing) is pushed upwards towards east and the east side (of the wing from the middle to the end) is pushed downwards towards west. In this way the wings of birds are said to be bent at their middle (part).
मूलम्
पश्चात्प्राङुदूहति । पुरस्तात्प्रत्यङ्ङुदूहति । एवमिव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते ॥ १५.२ ॥
टीका
उन्नयति पुरस्तात्प्रत्यङ्ङुन्नयति । एवमेव वक्राः पक्षा यस्य स वक्रपक्षः । हिशब्दः प्रसिद्धौ । एवमिव एवमेव वयसामुत्पततां मध्ये पक्षनिर्णामो नमनं भवतीति श्रुतिः ॥
विश्वास-प्रस्तुतिः
यावानग्निः सारत्निप्रादेशः सप्तविधः संपद्यते । प्रादेशं चतुर्थमात्मनश्चतुर्भागीयाश्चाष्टौ । तासां तिस्रः शिर इतरत्पक्षयोर्विभजेत् ॥ १५.३ ॥
English
The (area of the) fire-altar is to be made seven-fold with (two) aratnis and (one) prādeśa. (Of the rectilinear syenacit), the prādeśa (portion of the tail) and the fourth part of the body (atman) together with 8 caturbhāgīyās (also from the body) (are to be taken out). Out of these (areas), three (caturbh-āgiyās) form the head (of the falcon) and the remaining (area) is to be distributed between the two wings.
मूलम्
यावानग्निः सारत्निप्रादेशः सप्तविधः संपद्यते । प्रादेशं चतुर्थमात्मनश्चतुर्भागीयाश्चाष्टौ । तासां तिस्रः शिर इतरत्पक्षयोर्विभजेत् ॥ १५.३ ॥
टीका
अरद्निना प्रादेशेन च विर्धितोऽग्निः प्राकृतो यावान् संपद्यते प्रादेश इति गृह्णीयादिति शेषः । सारत्निप्रादेशाग्नौ यत्प्रादेशं पुच्छे आत्मनि चतुर्तं पुरुषक्षेत्रं चतुर्भागीयाश्वाष्टौ शिष्टे पुरुषेऽष्टौ चतुर्भागीयाः क्षेत्रं च गृहीत्वा तासां चतुर्भागीयानां दिस्रश्चतुर्बागीयाःशिरसि निधातव्याः । इतरत्सर्वं पक्षयोर्विभज्य क्षिपेत् । षडङ्गुलमात्रं प्रादेशे । षष्टयङ्गुलं पुरुषे । चतुर्भागीयासु पञ्चसु पादोनं नवदशाङ्गुलम् । एतदेवैकैकस्मिन पक्षे क्षैपेत् ।
विश्वास-प्रस्तुतिः
पञ्चारत्निः पुरुषः । चतुररत्निः व्यायामः । चतुर्विंशत्यङ्गुलयोऽरत्निः । तदर्धं प्रादेश इति कॢप्तिः ॥ १५.४ ॥
English
5 aratnis make 1 purușa, 4 aratnis 1 vyāyāma, 24 añgulas 1 aratni and half (of 24 añgulas, that is, 12 añgulas) 1 prādeśa. That is the definition.
मूलम्
पञ्चारत्निः पुरुषः । चतुररत्निः व्यायामः । चतुर्विंशत्यङ्गुलयोऽरत्निः । तदर्धं प्रादेश इति कॢप्तिः ॥ १५.४ ॥
टीका
पञ्चेति एतत्पुरुषस्य प्रमाणम् । चतुरिति एतदरत्निप्रमाणम् । कॢप्तिः एवं कल्पना । इतिशब्दः प्रकारे । अनेनन मार्गेण कल्पयेदित्यर्थः । त्रिंशदङ्गुलं चतुर्भागीयम् ।
करविन्दीया व्याख्या
श्येन ते
श्येनः पक्षिविशेषः । तदाकारमग्निं चिन्वीत स्वर्गकामः । वयसां वा एष प्रतिमया चीयत इति वयोमात्रसदृशः प्राकृतोऽग्निः । अयं तु श्येनसदृशः । कीदृशः श्येन इत्याह
वक्र ते.
वक्रौ अनृजू पक्षौ यस्य स वक्रपक्षः । व्यस्तं विस्तीर्णं पुच्छं यस्य मूलादारभ्य उपर्युपरि विस्तीर्णं सः । पश्चात्प्राङुदूतीति उदूहनमुन्नयनं प्रथमपक्षार्धं मूलादारब्य पश्चात्प्रभृति प्रागुन्नयेत् । पुरस्तात्प्रत्यङ्ङुदूहति । द्वयं पक्षार्धं मध्यादारब्य पुरस्तात्प्रभृति प्रत्यगुन्नयेत् । एवमिवहीति निपादसमुदायः प्रसिद्धौ । वयसां मध्ये श्येनानां पक्षयोर्मध्ये । निर्णामः निर्णमनं निर्गत्य प्रह्वीभावः । विज्ञायते श्रूयते दृश्यत्वा । पक्षनिर्णाम इति वचनसामर्थ्यात्पक्षयोर्मध्ये निर्णामः दृश्यते पक्षिणां दृश्यते इति ॥
यावान जेत्.
प्राकृतमग्निमात्मपक्षपुच्छशिरःसु विभजेत् । कान् विबागानित्याह पुच्छात्प्रादेशक्षेत्रमात्मनश्वतुष्पुरुषादेकपुरुषक्षेत्रम (ष्टौ) ष्टादशचतुर्भागीयाः यावति क्षेत्रे उपधीयन्ते तावच्चात्मक्षेत्रं संगृह्य तासां चतुर्बागीयानां तिस्रो(ग्नेः)ग्रे शिरः कुर्यात् । अवशिष्टपञ्च दश(विंशति)चतुर्बागीयाः पुरुषः प्रादेशश्वप्राकृतयोः अध्यरत्निपुरुषयोः पक्षयोर्विभजेत् क्षिपेदित्यर्थः । एवं सत्यर्धदशमा अरत्नयश्चतुर्भागोनाङ्गुलिश्वैकैकः पक्षः । अर्धतृतीयपुरुष आत्मा । पुरुषमात्रं पुच्छम् । तिस्रश्चतुर्भगीयाःशिरः ॥
पञ्चार कॢप्तिः.
“पञ्चारत्निरग्नौ पुरुषः । यावान् पुरुष ऊर्ध्वबाहुस्तावान भवतीति पुरुषप्रमाणविशेषविधेः । अन्यत्र चतुररद्निः । चतुर्विंशतिरङ्गुलयोऽरत्निः । तदर्धं प्रादेशः । स च द्वादशाह्गुलः । कॢप्तिः अचार्यस्य समयः ॥
सुन्दरराजीया व्याख्या
श्येन यते
तैत्तिरीयके काम्यप्रकरणे पठितोऽप्ययं श्येनचित्नित्य एव स्वर्गफलकत्वात्चतुरश्राग्निवत्तस्यापि स्वर्गफलकत्वम् । “सुवर्गाय वा एष लोकाय चीयते । यदग्निः” इति लिङ्गानि चात्र प्रागेव दर्शितानि ।
वक्र यते
श्रुत्यनतरनिदं श्येनचिद्वाक्यस्य शे,भूतम् । तत्र वक्रता पक्षमध्ये । व्यासः पुच्छाग्रे । पक्षयोर्वक्रीकरणप्रकारमपि श्रुतिरेवाह
पस्वात्प्राङूदूहति पक्षमध्ये । पुरस्तात्मत्युङ्ङुदूहति पक्षाग्राप्यययोः ।
एवमिव हि वयसां पक्षस्य मध्ये मध्यपक्षं निर्णामो वक्रता । मध्येपक्षनिर्णामः वयसामुत्पततां पक्षमध्ये निर्णाम एवमिव हि दृश्यत इत्यर्थः ।
यावा ते
सारत्निप्रोदशश्चतुरश्रोऽग्निर्यावान् सम्पद्यते तावानेवायं श्येनचिद्धवति । सारत्निप्रादेशग्रहणस्य प्रयोजनमुक्तमेव ।
तत्र
प्रादे ष्टौ
आदधीतेति शेषः पुच्छे पुरुषादधिकं प्रादेशमात्मनश्चतुर्थं पुरुषं चतुर्भागीयाश्वाष्टौ आत्मन एवादधीत । शिष्ट आत्मा । अर्धतृतीयः पुरुषः । पुच्छं पुरुषप्रमाण(मात्र)मेव ।
ता शिरः
तासां तिस्रश्चतुर्भागीयाः शिरः प्रकल्पयेत् ।
इतर जेत्.
पुच्छादात्मनश्वात्र शेषं द्वेधा विभज्य पक्षयोर्निदध्यात् । एकैकस्मिन् पक्षे प्रादेशार्धं षडङ्गुलं आत्मचतुर्थादर्धं षष्टिरह्गुलयः । पञ्चानां चतुर्भागीयानां मध्ये पुरुषायामे पक्षे न्यस्ते पादेना एकान्नत्रिंशतिरह्गुलयः प्राकृतः पक्षः । चतुश्वत्वारिंशदधिकशताङ्गुलयः । एभिः सहितः पादोनैकान्नत्रिंशच्छतद्वयाङ्गुलः सम्पद्यते । तदेतद्वक्ष्यति अर्धदशमा अरत्नय इत्यादि ।
पञ्चा कॢप्तिः ।
कपर्हिभाष्यम्
विश्वास-प्रस्तुतिः
अर्धदशमा अरत्नयोऽङ्गुलयश्च चतुर्भागोनाः पक्षायामः ॥ १५.५ ॥
English
The length of the wing is 9 aratnis and aṅgulas.
English
15.2-15.5. Areas of different parts of the falcon. A simple rectilinear syenacit, as we have already noticed (Bśl. chs. 8 and 9; Ãśl. chs. 10 and 11), consists of a square body of 240 × 240 sq. aṅg. (4 sq. pu.), two rectangular wings each of 144 × 120 sq. aṅg. ( \(1\frac{1}{2}\) sq. pu.) and a rectangular tail of 132 × 120 sq. aṅg. ( \(1\frac{1}{10}\) sq. pu.). Some areas are taken out from the tail and the body (ātman) of the rectilinear fyenacit to build up the head and extend the area of each wing in the following manner :
Area taken out of the tail-120 × 12 sq. aṅg. or \(\frac{1}{10}\) sq. pu.
Area taken out of the head- \((120 × 120 + 8 × 900)\) sq. aṅg. or \(1{1}{2}\) sq. pu. Caturbhāgiyā is the area of a square of side 30 aṅg., that is 900 sq. aṅg.
The area of the head, which is built out of 3 caturbhāgīyās, is 2700 sq. aṅg. or \(\frac{3}{10}\) sq. pu.
The area of the tail, after the prādeśa portion is taken out, is 14400 sq. aṅg. or 1 sq. pu.
The area of the body, after \(1\frac{1}{2}\) sq. pu. are taken out, is \(2\frac{1}{2}\) sq. pu. or 36,000 sq. aṅg. Since the area taken out of the tail and the body less that used for making the head is added to the wings, the area of each wing is determined as follows :
The total area added = \((120 \times{12} + 120 \times {120} + 5 \times {900})\) sq. aṅg.
=20,340 sq. aṅg. or \(\frac{113}{80}\) sq. pu.
The area added to each wing = 10,170 sq. aṅg.
The area of each extended wing = \((120 × 144 + 120 × 843)\) sq. aṅg. \(120 \times 228\frac{3}{4}\) sq. aṅg.
The area of two extended wings = \(2\times {120} \times 228\frac{3}{4}\) sq. aṅg. or \(\frac{61}{10}\) sq. pu.
The rules direct to increase the length of the rectangular wing without changing its breadth of 1 purușa or 120 aṅg. The new length of the extended rectangular wing is clearly \(228\frac{3}{4}\) aṅg. or \(9\frac{1}{2}\) aratnis plus \(\frac{3}{4}\) aṅg., according to the definition of the units given in rule 15.4. This new length of the wing is stated in rule 15.5. Note that the total area, after distribution, of the fire-altar, remains \(7\frac{1}{2}\) sq. pu. \((= \frac{3}{16} + 1 + \frac{5}{2} + \frac{61}{16})\) .
Shapes of different parts of the falcon. The constructions of the different parts of the falcon are given in rules 15.6-15.9 and 16.1.
मूलम्
अर्धदशमा अरत्नयोऽङ्गुलयश्च चतुर्भागोनाः पक्षायामः ॥ १५.५ ॥
टीका
प्रादेशदशमा अरत्नयोऽङ्गुलयश्च चतुर्भागोनाः पक्षायामः पक्षयोरायमः । प्राकृताः षडरत्नयः अर्धपुरुषे प्रादेशसहितारत्निद्वयमष्टादशाह्गुलाश्चतुर्भागोनाश्च प्रादेशे षड्ङ्गुलाः । ता अष्टादशभिःसहारत्निः सर्वं सम्भूयार्धदशमा अरत्नयोऽह्गुलास्व चतुर्भागोनाः । एष पक्षयोरायामः ।
विश्वास-प्रस्तुतिः
द्विपुरुषां रज्जुमुभयतःपाशां करोति । मध्ये लक्षणम् । पक्षस्यापरयोः कोट्योरन्तौ नियम्य लक्षणेन प्राचीनमायच्छेदेवं पुरस्तात् । स निर्णामः ॥ १५.६ ॥
English
A tie is made at either end of a cord 2 purușas long and a mark given at the middle (of the cord). Having fastened the ties at the two western corners of the (southern) wing, the cord is stretched towards east by the mark; the same is done on the eastern side (of the wing). This makes the bending (of the wing).
English - comment
15.6. The wing. For the construction of the wing, a rectangle ABCD is taken, such that AB equals 120 aṅg. and AD 2283 aṅg. (Fig. 15(a)). Upon BC and AD, the triangles BFC and AED are constructed. BF, CF, AE, DE each equals 120 aṅg. AEDCFB is the new shape of the wing in which the bending (nirņāma) takes place at E and F.
Fig. 15. Different parts of the falcon with curved wings and extended tail :
(a) wing, (b) body, (c) tail, and (d) head.
मूलम्
द्विपुरुषां रज्जुमुभयतःपाशां करोति । मध्ये लक्षणम् । पक्षस्यापरयोः कोट्योरन्तौ नियम्य लक्षणेन प्राचीनमायच्छेदेवं पुरस्तात् । स निर्णामः ॥ १५.६ ॥
विश्वास-प्रस्तुतिः
एतेनोत्तरः पक्षो व्याख्यातः ॥ १५.७ ॥
English
Thereby is explained (the bending of) the northern wing.
English - comment
15.7-16.1. The body: A rectangle ABCD, of which AB equals 240 aṅg. and AD 180 aṅg., is formed (Fig. 15(b)). At each of the 4 corners an isosceles triangle of side equal to 60 aṅg. is formed and cut off from the rectangle by transverse lines EL, FG, etc. as shown. The length EF at the eastern and IJ at the western side equals 60 aṅg., GH on the southern and KL northern side equals 120 aṅg. The area of the figure EFGHIJKLE exactly equals 36,000 sq. aṅg. or \(2\frac{1}{2}\) sq. pu.
मूलम्
एतेनोत्तरः पक्षो व्याख्यातः ॥ १५.७ ॥
टीका
द्विपुरुषप्रमाणां रज्जुमुभयतः पाशां कृत्वा मध्ये लक्षणं॑ कुर्यादिति शेषः । अनेनैव मार्गेणोत्तरस्यापि पक्षस्य नमनं व्याख्यातम् । एषा पक्षयोर्वक्रता ॥ .७ ॥
विश्वास-प्रस्तुतिः
आत्मा द्विपुरुषायामोऽध्यर्धपुरुषव्यासः ॥ १५.८ ॥
English
The body is 2 purușas long and 11⁄2 purușas broad.
English - comment
15.8. The tail. The rectangle ABCD, of which AB equals 120 aṅg. and AD 60 aṅg. is flanked on its southern and northern sides by two rectangles DEFC and AGHB which are cut off by the diagonals DF and AH respectively, leading to the figure ADFHA which is the shape of the tail (Fig. 15(c)). AD equals 60 aṅg. and HF 180 aṅg.
मूलम्
आत्मा द्विपुरुषायामोऽध्यर्धपुरुषव्यासः ॥ १५.८ ॥
विश्वास-प्रस्तुतिः
पुच्छेऽर्धपुरुषव्यासं पुरुषं प्रतीचीनमायच्छेत् । तस्य दक्षिणतोऽन्यमुत्तरतश्च ॥ १५.९ ॥
English
At the place of the tail, a rectangle puruşa broad and 1 purușa long towards west is constructed; a similar rectangle is constructed on its southern and northern side.
मूलम्
पुच्छेऽर्धपुरुषव्यासं पुरुषं प्रतीचीनमायच्छेत् । तस्य दक्षिणतोऽन्यमुत्तरतश्च ॥ १५.९ ॥
टीका
द्विप्जरुषायाम आत्मा अध्धर्धपुरुषव्यासः । एवं दीर्घचतुरश्रं विहृत्य पुच्छस्थानेर्ऽधपुरुषा तिर्यङ्भानी पुरुषप्रमाणा पार्श्वमानी भवति यथा तथा यच्छेत् कुर्यादित्यर्थः । तस्य चतुरश्रस्य दक्षिणपार्श्वेऽन्यं तादृग्विधं चतुरश्रमुत्तरतश्वान्यम् । एवं त्रीणि चतुरश्राणि अर्धपुरुषव्यासानि ।
विश्वास-प्रस्तुतिः
तावक्ष्णया व्यवलिखेत् । यथार्धपुरुषोऽप्यये स्यात् ॥ १५.९ ॥
English
These (latter, i.e. the southern and the northern) two (rectangles) are diagonally cut off such that the length (of the tail) at its juncture (with the body) is purușa.
English - comment
15.9. The head. A square ABCD of which each side equals 60 aṅg. is constructed (Fig. 15(d)). From the mid-point E of AD, EF and EG are drawn to the mid-points F and G of DC and AB respectively. EFCBGE is the shape of the head. Note that either side of the wing AB, CD will join exactly with either the south side GH or the north side KL. Similarly, the base of the head BC will fit in exactly with the eastern side EF of the body and the eastern side AD of the tail with the
Fig. 16. Nine types of bricks for the falcon-shaped fire-altar.
western side JI of the body. These junction lines are the apyayas. The four corners of the body are thus cut by lines EL, FG, HI, and JK joining the extremities of the apyayas, as proposed in the rule 16.1.
मूलम्
तावक्ष्णया व्यवलिखेत् । यथार्धपुरुषोऽप्यये स्यात् ॥ १५.९ ॥
विश्वास-प्रस्तुतिः
शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्तावति दक्षिणयोर्निपातयेत् ॥ १५.१० ॥
English
At the place of the head, a square of side purușa is drawn; the mid-point of its eastern side is joined to the mid-points of the southern and the northern sides (and the parts lying outside these lines are cut off).
मूलम्
शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्तावति दक्षिणयोर्निपातयेत् ॥ १५.१० ॥
टीका
इति पञ्चदशः खण्डः
तौ चतुरश्रौ यौ पार्श्वस्थौ । तावक्ष्णया कर्णेन आलिखेत्॑ यथाप्यये आत्मपुच्छसन्धौ अर्धपुरुषमात्रं कृतं पूर्वस्य भवति । प्राच्यमिव दक्षिणं प्राच्यमिवोत्तरम् । एवं कृतेऽप्ययेर्ऽधपुरुषमात्रं भवति । शिरःस्थानेर्ऽधषुरुषप्रमाणेन चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धादारब्य तावत्येवार्धे मध्ये निपातयेत् आलिखेत् । तिस्रः परिशिष्यन्त इत्युपरितने वक्ष्यति । अत्रापि तिस्रः शिरसीत्युक्तम् ।
पञ्चदशः खण्डः.
करविन्दीया व्याख्या
अर्धद यामः
अपरेण यूपावटदेशं संचरमवशिष्येत्यादि विमाय पक्षाप्ययेषु शङ्कुं निहत्य दक्षिणोत्तरया रज्ज्वा नवारत्नीन् प्रादेशमङ्गुलं चतुर्भागोनां चायामं कृत्वा पक्षाग्रेषु शङ्कुं निहन्यात् । एवमेकादशभिरङ्गुलीभिः प्रादेशेन च पुरुषो हीयते । तत्रार्धाष्टमाभिरङ्गुलीभिरेका चतुर्भागीया भवति । तदर्धेनार्धद्विपुरुषायामां रज्जुमुभयतः पाशां कृत्वा मध्ये लक्षणं कृत्वा पक्षस्यापरकोटिशङ्क्वोः प्रतिमुच्य लक्षणेन प्राचीमपसार्य शङ्कुं निहन्यात् । एवं तस्यैव पूर्वयोः कोट्योः प्रतिमुच्य लक्षणेन प्रतीचीमपसार्य तत्र शङ्कुः । एवं कृते पश्चिमपार्श्वमान्याः पुरस्तात्पक्ष्मध्ये चतुर्विंशत्यङ्गुले सार्धसप्ततिले लक्षणं निपतति पुरतश्वैवम् । स निर्णामः निर्णमनं पक्षस्य । अर्धदशमा इत्यादि स निर्णाम इत्यन्तेनोत्तरमपि पक्षं कुर्यात् ॥
आत्मद्वि व्यासः
आत्मानं प्राक्त्वेन द्विपुरुषायाममुदक्त्वेनाध्यर्धपुरुषमनुपृष्ठयं मिनुयात् ॥
पुच्छे येस्यात्
पुच्छे पुरुषायामानि तदर्धविस्ताराणि प्रत्यगायतानि त्रीणि चतुरश्राणि दक्षिणोत्तराणि विहृत्य दक्षिणं चतुरश्रं दक्षिणापरकोटिं प्रत्यक्ष्णयालिखेत् । एवमुत्तरापरकोटिं प्रति । एवं कृते पुच्छमूलेर्ऽधपुरुषविस्तारमग्रेऽध्यर्धपुरुषविस्तारं पुरुषमात्रायामं चतुरश्रं भवति ॥
शिरः येत्
आत्मनः पूर्वकरणीमध्ये पुच्छवदर्धायामविस्तारं चतुरश्रं कृत्वा तत्पूर्वकरणीमध्याद्दक्षिणोत्तरकरण्योर्मध्ये रेखां निपातयेत रेखयोर्बहिस्त्यजेत् ॥
पञ्चदशः खण्डः.
सुन्दरराजीया व्याख्या
अर्धद यामः
व्यासः पुरुषमात्र एव । अथ तस्य निर्णामः
द्विपुर् णामः
कोटयोरग्राप्यययोरेवं पुरस्तात्पूर्वयोः कोटयोरन्तौ नियम्य यत्पश्चादपच्छिद्यते तत्पुरस्तादागच्छति ।
एतेन ख्यातः आत्मा व्यासः
एवमेवात्मनि त्रयः पुरुषाः स्थिताः ।
पुच्छे येत्
आत्मनः पुरस्ताच्छिरः ।
इति पञ्चदशः खण्डः
कपर्दिभाष्यम्