विश्वास-प्रस्तुतिः
समूह्यं चिन्वीत पशुकाम इति विज्ञायते ॥ १४.१ ॥
English
Those who desire beasts should construct the samūhya, according to tradition.
मूलम्
समूह्यं चिन्वीत पशुकाम इति विज्ञायते ॥ १४.१ ॥
विश्वास-प्रस्तुतिः
समूहन्नेवेष्टका उपदधाति ॥ १४.२ ॥
English
Bricks are to be placed all around the samūhya (fire-altar).
मूलम्
समूहन्नेवेष्टका उपदधाति ॥ १४.२ ॥
विश्वास-प्रस्तुतिः
दिक्षु चात्वाला भवन्ति । तेभ्यः पुरषिमभ्युदूहतीति विज्ञायते ॥ १४.३ ॥
English
The catvāla pits (in the ground) are to be placed in every direction. and levelled with clay with water (purîșa); this is the tradition.
मूलम्
दिक्षु चात्वाला भवन्ति । तेभ्यः पुरषिमभ्युदूहतीति विज्ञायते ॥ १४.३ ॥
टीका
समूह्यं इत्युपधानप्रकारविशेषो नाकृतिविशेषः । प्रकृतावेवायं विधिः नाकृतिविकारेषु । अग्निक्षेत्रस्य परित इष्टकाः स्थापयित्वा यथा समूहनं क्रियते तथोपदधाति सर्वत उपादायोपदधातीति यावत् । स एवोपधानविधिः “प्रतिदिशं चात्वाला भावन्ति बहिर्वेदि । तेभ्यश्वात्वालेभ्यः पुरीषं पांशूनभ्युदृहतीति” श्रुतिः ।
विश्वास-प्रस्तुतिः
परिचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते ॥ १४.४ ॥
English
Those who desire villages should construct the paricayya (fire-altar); this is the tradition.
मूलम्
परिचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते ॥ १४.४ ॥
टीका
अयमप्युपधानविधिः ॥
विश्वास-प्रस्तुतिः
मध्यमां स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति । स परियाय्यः ॥ १४.५ ॥
English
The paricayya is that (fire-altar) in which bricks are placed around the central svayamātṛṇṇā (brick).
मूलम्
मध्यमां स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति । स परियाय्यः ॥ १४.५ ॥
टीका
तृतीयस्यां चितौ स्वयमातृण्णामुपधाय इष्टकागणैः प्रदक्षिणं तां स्वयमातृण्णां परित उपदधाति । स परिचाय्यः ।
विश्वास-प्रस्तुतिः
उपचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते ॥ १४.६ ॥
English
According to tradition, the upacayya is to be constructed by those who desire villages.
मूलम्
उपचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते ॥ १४.६ ॥
विश्वास-प्रस्तुतिः
परिचाय्येनोक्तः ॥ १४.७ ॥
English
It is prepared in a manner opposite to that of the paricāyya (that is, the construction proceeds from outside to the centre).
मूलम्
परिचाय्येनोक्तः ॥ १४.७ ॥
टीका
पूर्ववत्परिचाय्येन व्यत्यासः ।
करविन्दीया व्याख्या
समू ते
समूहनमत्र गुणो नाकृतिविशेषः । तमेतमग्निं चिन्वीत पशुकामः । समूह्यशब्दस्य प्रवृत्तिनिमित्तमाह
समूह धाति
समूहन्निव उपधान इत्ति परितोऽग्निक्षेत्रमिष्टकाःस्थापयित्वा समूहन् सम्पादयन्निव यथायथा बाह्याभ्यन्तरा इष्टकाः उन्नता भवेयुः तथातथोपदध्यात् । अयमर्थः यथा सर्वमग्निक्षेत्रमन्तरत उन्नतं बहिर्निनतं भवति तथा पुरिषेण कृत्वा तत्रेष्टका उपधाय सपुरीषाबिः क्षेत्रपूरणं कुर्यादिति ॥
दिक्षुचा यते.
दिक्षु चतृसृष्वपि चात्वालाः । पुरीषाणां वाहुल्याच्चात्वालबाहुलयं दिक्ष्वेकैकं चात्वालं शम्यया विमाय काल एव प्रकृतिवदुत्तरवेदिषु यवयति । तेभ्यः
सर्वेभ्यः पुरीषाण्यादाय चितिमभ्यूहयेदिति । प्रकृतान्येव विमानकरणोपधानानि ॥
परिचत ते
परिचयनमत्र गुणः । क्षुत्यर्थं व्याचष्टे
मध्यमा य्यः.
तृतीयस्यां चितावाक्रमणादिस्वयमातृण्णान्तमुपधाय हिरण्येष्टकाभिर्गणैः प्रदक्षिणैः प्रदक्षिणं स्वयमातृण्णां परिचिनुयात् । प्राकृतानां स्थानानां वाधकं परिचयनम् । एष द्विशतः ।
उप क्तः
उपचयनमपि गुणः । उपचयनं समीते चयनम् । तान्येव विमानकरणोपधानानि । सर्वं परिचाय्यवत् । अयं भेदः आद्यस्य बहिरारभ्य स्वयमातृण्णासमीपे समाप्तिः । द्वितीयस्य स्वयमातृण्णासमीप आरभ्य वहिःसमाप्तिः ।
सुन्दरराजीया व्याख्या
अथ चतुर्दशः खण्डः
समू धाति
अग्ननिक्षेत्रं परित इष्टकाःस्थापयित्वा समूहनेकत्र राशीकूर्वन्निवोपदधाति ॥
दिक्षु चात्वाला स परिचाय्यः
स्वयमातृण्णामुपधायान्याःसर्वा इष्टकाःस्वयमातृण्णां परित उपदधाति । न तु प्राचीः प्रतीचीरित्यादयो विशेषाः । पूर्वःपूर्वो गणःसवयमातृण्णासमीपे । ततस्ततो बहिरुत्तरौत्तरः । अनयोःसमूह्यपरिचाय्ययोः प्रकृतिवदेव रूपं इष्टकाश्च विशेषावचनात् । अथवा समूहस्य परितःस्थित्वा समूहने क्रियमाणे मण्डलरूप इष्टकाचयो भवतीत्यर्थान्मण्डलरूपत्वमग्नेर्भवति । परिचाय्यस्यापि स्वयमातृण्णापरिचयनं मण्डलरूप एवाग्नावुपपद्यते इति अर्थादेव मण्डलरूपत्वम् । तथाच बोधायनः समूह्यपरिचाय्यौ पूर्वेण रथचक्रचिता व्याख्याताविति ।
उपचा क्रः
पूर्वस्यैवेदं शाकान्तरीयं संज्ञान्तरमित्यर्थः ।
कपर्दिभाष्टम्
विश्वास-प्रस्तुतिः
श्मशानचितं चिन्वीत यः कामयेत्पितृलोक ऋध्नुयामिति विज्ञायते ॥ १४.८ ॥
English
Those who desire prosperity in the abode of the Fathers should construct the fire-altar in the form of a pyre (śmaśānacit); this is the tradition.
मूलम्
श्मशानचितं चिन्वीत यः कामयेत्पितृलोक ऋध्नुयामिति विज्ञायते ॥ १४.८ ॥
टीका
पितृलोके ऋध्यासमिति यः कामयेत्स एवं चिनुयात् ।
विश्वास-प्रस्तुतिः
द्वयानि खलु श्ममशानानि चतुरश्राणि परिमण्डलानि च ॥ १४.९ ॥
English
The pyres are indeed of two types, e.g. the square-shaped and the circular.
मूलम्
द्वयानि खलु श्ममशानानि चतुरश्राणि परिमण्डलानि च ॥ १४.९ ॥
विश्वास-प्रस्तुतिः
तत्र यथाकामी शब्दार्थस्य विशयित्वात् ॥ १४.१० ॥
English
One can construct the fire-altar of any one of these (two) types as one may wish.
मूलम्
तत्र यथाकामी शब्दार्थस्य विशयित्वात् ॥ १४.१० ॥
विश्वास-प्रस्तुतिः
चतुरश्रं वा । यस्य गुणशास्त्रम् ॥ १४.११ ॥
English
Rather from considerations of quality a square (śmaśānacit) should be constructed.
मूलम्
चतुरश्रं वा । यस्य गुणशास्त्रम् ॥ १४.११ ॥
विश्वास-प्रस्तुतिः
स चतुरश्रः । त्सरुवर्जं द्रोणचितोक्तः ॥ १४.१२ ॥
English
In the square type, it should be like the trough without the handle, as already stated.
मूलम्
स चतुरश्रः । त्सरुवर्जं द्रोणचितोक्तः ॥ १४.१२ ॥
टीका
चतुरश्राकाराणि सन्ति श्मशानानि परिमण्डलाकाराणि च । तत्रेच्छातः प्रवृत्तिः शब्दस्योभयप्रवृत्तेः । यदि वर्तुलाकारः रथचक्रवत् । चतुरश्रं वेति गतमेतत् ॥ .॥ यस्य गुणशास्त्रं पितृलोकसम्बद्धं तच्चतुरश्रे श्मशाने न वर्तुले । खाला हि तत्र निक्षिप्यन्ते । येषु पैतृमेधिकक्रिया तेषां पितॄणां सम्वन्धः ऋध्या च । तस्माच्चतुरश्र एव चेतव्यः यदि चतुरश्रस्तदात्सरुवर्जं द्रोणचितोक्तः तत्सर्वं द्रोणचित्येव व्याख्यातम् ॥
विश्वास-प्रस्तुतिः
छन्दश्चितं चिन्वीत पशुकाम इति विज्ञायते ॥ १४.१३ ॥
English
According to tradition, those who desire beasts should construct the fire-altar with the meters (in place of bricks).
मूलम्
छन्दश्चितं चिन्वीत पशुकाम इति विज्ञायते ॥ १४.१३ ॥
टीका
छन्दोभिरेव यत्रेष्टकास्वीयन्ते तं छन्दस्विवं पशुकामश्विनुयादित्यस्याः श्रुतेरर्थं श्रुतिद्वयेन व्याचष्टे
विश्वास-प्रस्तुतिः
सर्वैश्छन्दोबिश्चिनुयादित्येकम् । प्राकृतैरित्यपरम् ॥ १४.१४ ॥
English
According to one opinion, the entire (sacrificial ceremony) should be performed by means of meters, according to another, by the usual sacrificial fires.
मूलम्
सर्वैश्छन्दोबिश्चिनुयादित्येकम् । प्राकृतैरित्यपरम् ॥ १४.१४ ॥
टीका
चतुर्दशः खण्डः
सर्वैश्छन्दोभिर्दाशतयिभिश्वेतव्य इत्येका श्रुतिः । प्राकृतैः प्रकृतौ यानि छन्दांसि अग्रिर्मूर्धेत्यादीनि तैरेवेत्यपरा श्रुतिः ॥
इत्यापस्तम्बसूत्रविवरणे शुल्बाख्यप्रश्ने कपर्दिस्वामिभाष्ये
चतुर्थः पटलः
करविन्दीया व्याख्या
श्मशा ते
श्मशानमिव चिन्वीत पितृलोके वृद्धिं कामयमानः ।
द्वयानि यित्वात्
गतम् । अग्नयायतनप्रकाररूपाणि द्वयान्यपि श्मशानानि लोके दृश्यन्ते चतुरश्राणि परिमण्डलानि च ।
चतुरशः श्रः
प्रकृतित्वाच्चतुरश्रमेव चिन्वीत न मण्डलमिति समास उक्तः । श्मशानानि द्रोणचितेतिवत्कर्तव्यानि । त्सरुं वर्जयेदन्यत्सर्वं द्रोणवत्विमानानि । द्वादशबागीया अध्यर्धाः अर्धाः पादाश्च द्वादशभागीयाःसप्तविंशतिरङ्गुलयः त्रयोदशतिलाश्च । अध्यर्धा एकतस्तादृशाः अन्यत एकचत्वारिंशदङ्गुलयः त्रयश्च तिलाः अर्धाः पादाः एकतो द्वादशभागीयासदृशाः अन्यतस्तदर्धाः । पादा एकतो द्वादशभागीयासदृशाः अन्यतो नवाङ्गुलयः साधिकाश्वत्वारस्तिलाश्च । उपधाने प्रथमप्रस्तारे पुरस्तात्पश्चाच्चाध्यर्धाः चतुरश्राभैः प्रच्छादनम् । पादाभिरर्धाभिश्च संख्यापूरणम् । द्वितीये दक्षिणत उत्तरतश्वाध्यर्धाभिश्चतुरश्राभिः प्रच्छादनादि पूर्ववत् ॥
छन्द ते
छन्तोभिः ऋग्भिश्वीयते इति च्छन्दश्वितेतावानेव विशेषः । अन्यत्सर्वं प्रकृतिरेव ॥
सर्वै कम्
सवैर्न्दशतयीगतैश्छन्तोभिश्विनुयात् । तानि सहस्रधा विभज्य तेषामेकैकेन भागेनैकैकामिष्टकामुपदध्यात् । यजुषां स्थाने छन्दांसि भवेयुः । तत्र यावत्यः यजुष्मत्यः इष्टकाः तावत्यश्छन्दांसि विभज्य तेषामेकैकेन विभागेनैकैकामिष्टकां यजुष्मतीरूपदध्यात् । लौकम्पृणास्तु पूर्ववदेवन । अथवा दशतयीगतैःसर्वैश्छन्दोभिर्गायत्रीभीस्त्रिष्टुब्भिर्जगतीभिरनुष्टुब्भिर्वृहतीभिरुष्णिग्भिः पङ्क्तिभिरक्षरपङ्क्तिभिर्विषुरुपाभिस्त्रेधा विभक्ताभिरतिच्छन्दोभिस्त्रिधा विभक्तैसर्वाभिर्द्द्विपदाभिश्च पुरस्तादारम्य याज्ञसेनीभिरुपदध्यात् ॥
प्राकृ नाम्
प्राकृतैः अग्निकाण्डगतैः अग्निर्मूर्धेत्यनुवाकस्थैर्गायत्रयादिभिः न दशतयीभिरित्यपरम् । नास्मात्परं विभज्यत इति सिद्धान्तितम् । अत्र श्लोकाः
एकैकवृद्धा एकैकधा ह्यग्नयः क्रमश एकशतम् ।
पटले तृतिय उदितास्तेषां भेदाश्चतुर्तादौ ॥
प्रकृतिस्त्ववह्णीनामेकविधा वाथ सप्तविधाः ।
एकविधप्रकृतित्वे तदा षण्णां न पक्षपुच्छानि ॥
सप्तविधप्रकृतित्वे भवति च तेषां सपक्षपुच्छत्वम् ।
सप्तविधप्रभृतीनां सैव भवेत्प्रकृतिरेकशतविधात् ॥
करणीनां द्वादशांशैः तैरुक्तांशयुतायुतैः ।
पृथगुत्पन्नरूपाभिरिष्टकाभिस्त्रिधोपधेः ॥
त्रैधमेकविधादीनां चातुर्विध्यं सपक्षतः ।
एवं प्रौगयुग्मस्य त्रैधं नान्यदपक्षतः ॥
द्वौ चतुरश्रौ प्रौगौ रथचक्रद्रोणचित्समूह्यश्च ।
पर्युपपूर्वौ चान्त्यौ श्मशानचिच्छन्दश्वितिश्येनौ ।
कङ्चिदलजौ सप्तविधाः पञ्चर्पूववद्दशदहनाः ॥
प्रौगचिदुभयप्रौगो रथचक्रो द्रोणचिछ्श्मशानाग्निः ।
एते त्वपक्षपुच्छाः कूर्मचिदाद्याः परोक्ताश्च ।
अन्ये सपक्षपुच्छा अग्नय उक्ताः प्रवक्ष्यमणाश्च ॥
श्येनप्रमुखाननलान् व्याख्यास्ये पटलयोरिहोत्तरयोः ॥
इति करविन्दस्वामि कृतायां शुल्बप्रदीपिकायां चतुर्थः षटलः
सुन्दरराजीया व्याख्या
(श्मश यते) (द्वया त्वात्) (चतु) क्तः ।
अत्र चतुरश्रत्वे त्रीणि शतान्यष्टाविंशतिश्वाङ्गुलाः एकविन्तितिलाश्च करणी । तस्या द्वादशेन सप्तविंशत्यङ्गुलेन त्रयोदशतिलयुक्तेन द्वादशभागीयाः । तदर्धेन पाद्याः तृतीयेन च नवम्यः । अधार्श्च पूर्ववत् । उपाधानेऽध्यर्धा द्वादशपुरस्तात्प्रतीच्यः ।
पस्वाद्द्वादश प्राच्यः । शेषं द्रोणतेव । तत्र सर्वाभावात्षोडशेष्टका हीयन्ते । अतोऽग्निमध्ये द्वे उद्धृत्याष्टादशनवम्यो निधेयाः । द्विशतः प्रस्तारः । एवमेवापरः ।
प्राच्युदीच्योस्तु विपर्यासः । मण्डले श्मशानीचद्रथचक्रचिता व्याख्यातः
छन्दःयते
छन्दोभिश्वीयतिति छन्दश्वित् । छान्दसः करण उपपदे व्किप् । अन्यत्र कर्मण्यग्नयाख्यायामिति ।
सर्वैः परं तत्र सर्वैर्गायत्रयादिभि श्चतुरुत्तरैः अतिधृति पर्यन्तैः चतुर्दशभिरुत्कृतिपर्यन्तैर्वैकविंशत्या त्रिवृत्ककुभादिविशेषयुक्तैर्दाशतयीभ्य आहृतैश्छन्तौबिः सर्वा इष्टकाश्विनुयादित्येकं मतम् । प्राकृतैरग्निर्मूर्धेत्यनुवाकाधीतैर्याज्ञसेन्यर्थैः पुनः पुनरभ्यस्तैरित्यपरं मतम् । अस्याग्रेः प्रकृतिवदेव रूपम् । केचितु वयसां वा एष प्रतिमयेत्यस्यापि नित्यत्वाद्वयस आकारमपीच्छन्ति । यथाह वोधायनः तस्य रूपं श्येनाकृतिर्भवतीति ॥
इति श्रीमत्सुन्दहहाजकृतायां शुल्बप्रदीपिकायां चतुर्थः पटलः