१३

English

CONSTRUCTION OF FIRE-ALTARS IN THE FORM OF A CHARIOT WHEEL (RATHACAKRA) AND A TROUGH (DROṆA)

विश्वास-प्रस्तुतिः

तस्य करण्या द्वादशेनेष्टकाः कारयेत् ॥ १३.१ ॥

English

Bricks (for the construction of the chariot wheel fire-altar) are made with the twelfth part of the side (of the inscribed square).

मूलम्

तस्य करण्या द्वादशेनेष्टकाः कारयेत् ॥ १३.१ ॥

विश्वास-प्रस्तुतिः

तासां षट्प्रधावुपधाय शेषमष्टधा विभजेत् ॥ १३.२ ॥

English

6 of these (bricks) are placed in each circular segment and the remaining space (of the segment) is divided into 8 parts.

मूलम्

तासां षट्प्रधावुपधाय शेषमष्टधा विभजेत् ॥ १३.२ ॥

टीका

प्रधिकाश्वत्वारः । तेषु प्रधिकेनषु षडिष्टका द्वादशेन कारिताः उपधाय शेषं प्रधिकमष्टधा विभजेत् । अष्टभिरपदध्यात् । तासां करणं वक्ष्यामः त्रयस्त्रिंशदङ्गुलमष्टभिस्तिलैरूनमेकं, एकत्रिंशदङ्गुलं द्वादशभिस्तिलैरूनमेकं, अष्टाविंशत्यङ्गुलमेकं अष्टाविंशत्यङ्गुलं तिलाभ्यां सहैकं, एतैश्चतुर्भिः फलकैः एकं करणं॑ तस्य चतुर्थं फलकं तक्षेत् । यथा धनुराकारं भवति यथा शरमष्टादशतिलमात्रं भवति । तथा एकत्रिंशदङ्गुलं द्वादशभिक्तिलैरूनं, एकविंशत्यङ्गुलं एकादशभिक्तिलैरूनमेकं, अष्टात्रिंशदङ्गुलं त्रिभिस्तिलैःसहैकं, नवत्रिंशदङ्गुलं द्वादशतिलैः सहैकं, एतैश्चतुर्भिः द्वितीयं कररणम् । अस्य चतुर्थं पूर्ववत्तक्षेत् । शरप्रमाणं तिलाभ्यां सहैकं भवति तथा तक्षेत् । चत्वारिंशदह्गुलं दशभिस्तिलैरूनमेकं, त्रयस्त्रिशदङ्गुलं दशभिस्तिलैरूनमेकं, द्वात्रिंशदङ्गुलं तिलेन सहैकं, द्वात्रिंशदङ्गुलं द्वादशभिस्तिलैःसहैकं, अष्टाविंशत्यङ्गुलं एकादशभिस्तिलैःसहैकं, पञ्चचत्वारिंशदङ्गुलं चतुर्भिस्तिलैरूनमेकं, एतैश्चतुर्भिश्चतुर्थं करणम् । तस्य चतुर्थं तक्षेत् । पूर्ववच्च प्रमाणद्वयङ्गुलं त्रिभिस्तिलैरूनम् तत्र श्लोकौ भवतः

रज्जुः कृतान्यतः पाशा सप्ताशीतिशताङ्गुला ।

विमानं रथचक्रस्य करोत्योषा तु मण्डलम् ।

चतुरश्रकरणी रज्जुः चतुःषष्टिशतद्वयी ।

तिलैस्त्रयोदशैर्युक्ता रथचक्रे हविर्भुजि ॥

करविन्दीया व्याख्या

रथच ते

रथचक्रं मण्डलाकारं ब्रातृव्यवान् तैर्बाध्यमानः तान् जेतुम् ॥

यावा भवेत्.

अरत्निप्रादेशसहितस्य करणी द्वौ पुरुषावष्टाशीतिरह्गुलयः विष्कम्भार्धं एकर्विशतितिलाश्च । तस्य मध्ये यावत्सम्भवं चतुरश्रं विहृत्य विलिख्य ॥

तस्य येत्.

चतुरश्रस्य करणी द्वे शते चतुःषष्टिश्वाङ्गुलयः त्रयोदशतिलाश्च । तस्या द्वादशभागः सतिला द्वाविंशतिलङ्गुलयः । चतुर्भिः द्वादशभागीयानां करणी । तन्मध्ये चतुश्वत्वारिंशच्छतमिष्टचकाः तासां द्वादशभागीयानां षडिष्टका एकैकस्मिन् प्रधवुपधाय सम्पाद्य शेषं प्रधिशेषमष्टधा विभजेत् । तत्र पूर्वस्मिन् प्रधौ दक्षिणार्धे चत्तुरश्रकरणीसमीपे दक्षिणोत्तरास्तिस्रः द्वादशभागीयाः । उत्तरतो व्यवलिख्य शषें प्रध्यर्धं चतुर्धा विभजे देकैकस्मिन् भागे एकैकं करणं तिसृणां द्वादशभागीयानां पुरस्ताद्द्वौ भागौ । तस्मिन् दक्षिणतो द्वौ भागौ । एवं विभागे चतुर्णां विभागानां पश्चत्तिर्यङ्मानी त्रयस्त्रिंशदङ्गुलयः

एकतिलम् । तत्र दक्षिणभागस्य करणं त्रिभिः फलकैर्भवति । तत्र तिर्यङ्भान्युक्ता चतुर्णां समेति पार्श्वमान्येकैव । सा च षड्विन्तिरङ्गुलयः द्वादशतिलाश्च । द्वितीयं वक्तव्यं द्विचत्वारिंशदङ्गलयः सार्धपञ्चविंशतितिलाश्च । तद्विष्कम्भार्धप्रमा णया रज्ज्वा कर्कटेन वऽऽलिख्य तक्षयेत् । द्वितीयदक्षिणपार्श्वमानी सैव या दक्षिणस्योत्तरा । तिर्यङ्नानी चोक्ता । उत्तरपार्श्वमानी द्विचत्वारिंशदङ्गुलयः पञ्चविंशतितिलाश्च । मुखञ्चतुस्त्रिंशदङ्गुलयः दश तिलाश्च । तत्पूर्वं तक्षयेत् । तान्येव विपरीतान्युत्तरार्धे करणानि । एषैवोत्तरार्धे विभागकल्पना । तत्र सर्वषां सैव पश्चात्तिरश्वी । दक्षात्तिरश्वी । दक्षिणमुत्तरेषां दक्षिणं भवति । तान्येव तान्येव मुखानि । अत्र चतुर्थवत्पञ्चमम् । तृतीयवत्षष्ठम् । द्वितीयवत्सप्तमम् । प्रथमवदष्टमम् । एवं दक्षिणोत्तरपश्चिमप्रधिषु दक्षिणोत्तरपश्चिममुखान्येतानि करणानि भवन्ति ॥

सुन्दरराजीया व्याख्या

रथचक्र त्संभवेत्

विष्कम्भो मण्डलविधावेव प्रपञ्चितः । मध्ये शङ्कुं निहत्य पञ्चाशीतिशताङ्गुलेन चतुर्दशतिलयुक्तेन परिमण्डलं भ्रमयेत् । तस्य परिणाहस्तिलन्यूनं पञ्चषष्ठयधिकशतोत्तरसहस्राङ्गुलयः । तस्य मध्ये विष्कम्भार्धद्विकरण्या द्विषष्टिशतद्वयाङ्गुलया सप्ततिलसहितया समचतुरश्रमवदध्यात् । चतुरश्राद्बहिश्वत्वारः प्रधयः ॥

इति द्वादशः खण्डः

तस्य कारेयेत्

द्वाविंशत्यङ्गुलेन पञ्चतिलोनेन समचतुरश्रकरणम् । चतुरश्रमध्ये चतुश्वत्वारिंशच्छतमिष्टकाःशेरते ।

तासां विभजेत्.

प्रधिमध्ये षट्चतुरश्रा उपधाय तस्य प्रधेःशेषमष्टधा विभजेत् । उपहितानां षण्णां पार्श्वयोर्द्वेद्वे मुखे चतस्र उदीरिताः । तासां चत्वारि करणानि । त्रिकोणमाद्यम् । तस्य तिलत्रययुक्तं षड्विंशत्यङ्गुलमेकं तिर्यक्फलकम् । सार्धसप्ततिलहीनं त्रयस्त्रिंशदङ्गुलं द्वितीयम् । एकादशतिलयुक्तद्विचत्वारिंशदङ्गुलं तृती यम् । कर्णरूपं तद्धनुरिव तक्षेत् । यथा षट्तिलयुक्ताङ्गुलिःशरो भवति । द्वितीयस्य षड्विंशत्यङ्गुलं तिलत्रययुक्तं तिर्यक्फलकमेकम् । एकादशतिलयुक्तं द्विचत्वारिंशदङ्गुलमपरम् । सप्ततिलोनं त्रयस्त्रिंशदङ्गुलमेकं पार्श्वम् । षट्त्रिंशकं सविंशतितिलं पार्श्वान्तरम् । तद्धनुरिव तक्षेत् । यथा तिलत्रयोनाङ्गुलिःशरो भवति । तृतीयस्य सार्धविंशत्यङ्गुलमेकं तिर्यक्फलकम् । त्रिंशकं षोडशतिलहीनं द्वितीयम् । सप्ततिलोनं त्रयस्त्रिशकमेकं पार्श्वान्तरम्, तद्धनुरिव तक्षेत् । पञ्चविंशतितिलास्तस्य शरः । एतान्येव चत्वारि करणानि अन्यस्मिन् प्रध्यर्धे विपर्यासेन भवन्ति । एव मेव चत्वारः प्रधयः ॥

कपर्दिभाष्यम्

विश्वास-प्रस्तुतिः

उपधाने चतुरश्रस्यावान्तरदेशान् प्रति स्रक्तीः सम्पादयेत् । मध्यानीतरस्मिन् प्रस्तारे । व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ १३.३ ॥

English

In the placement (of the first layer), the corners of the square should lie in the intermediate directions and in the other layer in the centres of the segments (of the first layer). (With these two layers) alternating with each other, as many layers as desired are to be constructed.

English - comment

13.1-13.3. As mentioned in the previous chapter, these three rules are in continuation of sūtras 12.9 and 12.10, dealing with the construction of a rathacakracit. This type has been fully discussed in connection with Baudhāyana’s rules describing such a fire-altar (Bśl. 16-16.5).

मूलम्

उपधाने चतुरश्रस्यावान्तरदेशान् प्रति स्रक्तीः सम्पादयेत् । मध्यानीतरस्मिन् प्रस्तारे । व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ १३.३ ॥

टीका

गतमेतत् । एष एव प्रस्तारो मण्डले श्मशाने द्रोणे च ।

विश्वास-प्रस्तुतिः

द्रोणचितं चिन्वीतान्नकाम इति विज्ञायते ॥ १३.४ ॥

English

According to tradition, those who desired food should construct a fire-altar in the form of a trough.

मूलम्

द्रोणचितं चिन्वीतान्नकाम इति विज्ञायते ॥ १३.४ ॥

टीका

अन्नकामस्य द्रोणचिदिति श्रुतिः ।

विश्वास-प्रस्तुतिः

द्वयानि तु खलु द्रोणानि, चतुरश्राणि परिमण्डलानि च ॥ १३.५ ॥

English

The troughs are indeed of two types, e.g. the square-shaped and the circular.

मूलम्

द्वयानि तु खलु द्रोणानि, चतुरश्राणि परिमण्डलानि च ॥ १३.५ ॥

विश्वास-प्रस्तुतिः

तत्र यथाकामी शब्दार्थस्य विशयित्वात् ॥ १३.६ ॥

English

One can construct the fire-altar of any one of these (two) types as one may wish.

English - comment

13.4-13.16. Of the two types of fire-altars in the form of a trough (droṇa), the square type in which both the body and the handle are squares is here described. The circular type is not discussed. Baudhayana, as we have noticed, discussed both the types, square-type in rules Bśl. 17.1-17.12, and the circular type in Bśl. 18.1-18.11.

In Āpastamba’s droṇaciti, the relative areas of the handle and the body of the trough are different from those prescribed by Baudhayana. The area of the seven- fold fire-altar being 108000 sq. ang., the handle measures 10800 sq. ang. and the body 97200 sq. ang. The area of the square body is 9 times that of the square handle and therefore the side of the handle is one-third of the side of the body. The sides are :

The side of the body = 311 ang. 26.18 ti 312 ang-8 ti approx. as given by Karavinda and Sundararāja.

The side of the handle = 103 ang. 31.28 ti.

The bricks are formed by the twelfth part of the side of the body, and out of such dvādaśi square bricks, adhyardha (one side longer by half), quarter bricks etc. are formed, of which specifications are as follows:

\(B_{1}\) - one-twelfth or dvādaśabhāgiyā square brick side-25 aṅg. 33 ti = 26 ang.—1 ti;

\(B_{2}\) - adhyardha of one-twelfth -38 ang. 33 ti × 25 ang. 33 ti;

\(B_{3}\) - quarter of one-twelfth ;

\(B_{4}\) - quarter of adhyardha.

\(B_{3}\) and \(B_{4}\) are used to make the total number of bricks in a layer equal to 200. Sundararāja mentions one-ninth bricks.

The arrangement of bricks in the first and the second layers, for which the directions in the sūtras are quite clear, are shown in Fig. 14(a) and (b). In the first layer, 24 \(B_{2}\) bricks are placed,—12 on the eastern side, 4 each on the two western

Fig. 14. Fire-altar in the form of a trough: (a) first layer, (b) second layer.

sides of the body and 4 at the western end of the handle. The remaining space can just accommodate 124 \(B_{1}\) bricks. The total number of bricks comes to 148. In the second layer, the rule prescribes the use of 32 \(B_{2}s\),-24 in the body and 8 in the handle; the remaining space can be filled with 112 \(B_{1} s\), making the total number 144. The deficit in either layer is made up by replacing the required number of \(B_{1} s\) and \(B_{2} s\) by quarter bricks.

मूलम्

तत्र यथाकामी शब्दार्थस्य विशयित्वात् ॥ १३.६ ॥

टीका

द्रोणशब्दो जलाधारस्य वर्तुलाकारस्य वाचकः । दारुमयस्य सत्सरुकस्य चतुरश्रस्य च । तत्रैकतरो गृह्यत इत्युच्यते । यथाकामी चतुरश्रं परिमण्डलं वा । अगृह्यमाणत्वाद्विशेषस्य चतुरश्रं परिमण्डलं वा चिनुयात् । उभयशब्दप्रवृतेः ॥

विश्वास-प्रस्तुतिः

चतुरश्रं वा यस्य गुणशास्त्रम् ॥ १३.७ ॥

English

Rather from considerations of quality

मूलम्

चतुरश्रं वा यस्य गुणशास्त्रम् ॥ १३.७ ॥

विश्वास-प्रस्तुतिः

स चतुरश्रः ॥ १३.८ ॥

English

a square (droṇacit) should be constructed.

मूलम्

स चतुरश्रः ॥ १३.८ ॥

विश्वास-प्रस्तुतिः

पश्चात्त्सरुर्भवत्यनुरूपत्वायेति विज्ञायते ॥ १३.९ ॥

English

According to tradition, the handle (of the trough) should lie on (its) western side.

मूलम्

पश्चात्त्सरुर्भवत्यनुरूपत्वायेति विज्ञायते ॥ १३.९ ॥

टीका

वाशब्दः पक्षव्यावृत्तौ । न विकल्पार्थः । नैष मण्डलाकारश्वेतव्यः॑ चतुरश्र एव चेतव्यः । यस्य गुणशास्त्रं “द्रोणे वा अन्नं भ्रियते” इति । तच्चतुरश्रे युज्यते न वर्तुलाकारद्रोणे । अतो गुणसम्बन्धाच्चतुरश्र एव निश्वीयेत । तस्माच्चतुरश्र एव चेतव्यः । पश्चात्पुच्छस्थानेत्सरुर्भवति अनुरुपत्व श्रुतेः, तथाकारसंपादनाय ।

करविन्दीया व्याख्या

उपधार् षेत्.

गतम्.

द्रोण ते.

अन्नाधारं पात्रं द्रोणमित्युच्यते । तदाकारं चिन्वीत अन्नकामः ।

द्वयानि च.

तुशब्दो भेदे । न प्रौगादिवदेकप्रकाराणि द्रोणानि किन्तु द्विप्रकाराणि चतुश्राणि परिमण्डलानि च । खलुशब्दः प्रसिद्धौ ॥

या त्वात्

गतम्.

उभयत्र द्रोणशब्दप्रयोगादुभयप्रकारौ ग्राह्यौ ॥

चतुर श्रः

चतुरश्राण्येव ग्राह्याणि । कुतः? यस्येदं गुणशास्त्रं स चतुरश्रः, प्राकृतं चतुरश्रं अग्निमनूद्यान्नकामाय द्रोणाकारं विधीयते । अत इदमपि चतुरश्रमेव ग्राह्यमित्यर्थः ॥

पश्चा ते.

आत्मनः पश्चात्पुच्छस्थानेत्सरुर्भवति । त्सरुर्मुष्टिः । प्राङ्भुखावस्थितस्थ पुरुषस्य पश्चात्स्थितः द्रोणोऽपि पश्चान्मुष्टिर्भविष्यति । एवमिहापीत्यर्थः ॥

सुन्दरराजीया व्याख्या उपाधाने चतुरश्रं वा.

तत्र हेतुमाह

यस्य स चतुरश्रः.

गुणप्रापकःसमचतुरश्रः । यस्य अग्नेः ।

पश्चास्तरु विज्ञायते ।

पश्चात्सरुर्यस्य स तथोक्तः । असमासो वा । त्सरुश्बद उभयलिङ्गः । “त्सरुः पुमान” इति नैघण्टुकः प्रमादः ।

“दशमंत्सरु” इति निर्देशात् । अनुरूपत्वं द्रोणानुरूप्यम् ।

एतच्च मण्डलचतुरश्रयोःसमानम् । तथाह भारद्वाजः

द्रोणिचितं चिन्वीतान्नकामश्चतुरश्रं परिमण्डलं वा पश्चात्सरुर्भवति । इति । स्पष्टमेवाह कात्यायनः

“दशमभागो वृत्तः पश्चात्पुरस्ताद्वा पण्डलेऽप्येवमेव” इति ।

कपर्दिभाष्यम्

विश्वास-प्रस्तुतिः

सर्वस्या भूमेर्दशमं त्सरुस्तस्य पुच्छेन निर्हार उक्तः ॥ १३.१० ॥

English

The area of the handle is one-tenth of the total area (of the fire-altar). This being placed in the form of the tail (separate from the body), the area (of the square body) is found by the difference (of two squares) as already stated.

मूलम्

सर्वस्या भूमेर्दशमं त्सरुस्तस्य पुच्छेन निर्हार उक्तः ॥ १३.१० ॥

विश्वास-प्रस्तुतिः

तस्य करण्या द्वादशेनेष्टकाः कारयेत् । अध्यर्धाः पादेष्टकाश्च ॥ १३.११ ॥

English

The (square) bricks are to be made with the twelfth part of the side (of the square body). Bricks longer by half (adhyardhā) and quarter bricks are also made.

मूलम्

तस्य करण्या द्वादशेनेष्टकाः कारयेत् । अध्यर्धाः पादेष्टकाश्च ॥ १३.११ ॥

टीका

द्वादशचतुर्भागीयाक्षेत्रं सारत्निप्रादेशस्य दशमोंऽशः । षष्ठयङ्गुलप्रमाणं तिर्यङ्भानी तस्य द्विकरणी पार्श्वमानी । तस्या क्ष्णया रज्ज्वा कृते चतुरश्रे द्वादशचतुर्भागीया क्षेत्रं भवति । यच्सरोः प्रमाणम् । तयैव त्रिगुणीकृतया द्रोणः ।

तस्य पुच्छेन निर्हार उक्तः पुच्छेनैव मानमार्गो व्याख्यातः । तस्य करण्या द्वादशेष्टकाः कारयोत्तस्येति द्रोणः परामृश्यते नत्सरुः स च त्रिकोण समदेशेन चतुर्भागीयेनेत्यर्थः । अध्यर्धाः पादेष्टेकाश्च अत्र विप्रतिपन्ना याज्ञिकाः अक्ष्णया पादमिच्छन्ति केचित् । केचिद्दीर्घपदपादमर्धेष्टकाः कर्तव्याः ताभिर्विना संख्यापूरणस्याशक्यत्वात् । व्क्तमुक्तं शुल्बान्तरे “अर्धेष्टकास्वेति । इहापि चकारादर्धेष्टकाश्चेति । करणानि च ष्ट्त्रिंशदङ्गुलं तिलोनमेकं करणञ्च॑ एकतोऽध्यर्धं द्वितीयं॑ प्रथमकरणमुभयतोऽभ्णया चतुर्धा दीर्घं,” तेन पादानां तृतीयं करणं, तृतीयेनैव करणेन दीर्घेण वार्ऽधेष्टकानां करणं चतुर्थम् ।

विश्वास-प्रस्तुतिः

उपधानेऽध्यर्धाः पुरस्तात्प्रतीचीरात्मन्युपदधाति । त्सर्वर्गे श्रोण्योश्च प्राचीः ॥ १३.१२ ॥

English

In the placement (of the bricks in the first layer), the bricks longer by half are arranged on the eastern side of the body, turned towards west, at the (west) end of the handle and at the two western corners (of the body).

मूलम्

उपधानेऽध्यर्धाः पुरस्तात्प्रतीचीरात्मन्युपदधाति । त्सर्वर्गे श्रोण्योश्च प्राचीः ॥ १३.१२ ॥

विश्वास-प्रस्तुतिः

सर्वमग्निं चतुरश्राभिः प्रच्छादयेत् ॥ १३.१३ ॥

English

The remaining space of the fire-altar is covered with square bricks.

मूलम्

सर्वमग्निं चतुरश्राभिः प्रच्छादयेत् ॥ १३.१३ ॥

विश्वास-प्रस्तुतिः

पादेष्टकाभिः सङ्ख्यां पूरयेत् ॥ १३.१४ ॥

English

The number (of 200 bricks) is to be completed with quarter bricks.

मूलम्

पादेष्टकाभिः सङ्ख्यां पूरयेत् ॥ १३.१४ ॥

विश्वास-प्रस्तुतिः

अपरस्मिन् प्रस्तारेऽध्यर्धा दक्षिणत उदीचीरात्मन्युपदधात्युत्तरतश्च दक्षिणास्त्सरुपार्श्वयोर्दक्षिणा उतीचीश्च ॥ १३.१५ ॥

English

In the other layer, the bricks longer by half are placed along the southern side of the body, turned towards north and along the northern side, turned towards south; the same is done along the southern and the northern side of the handle.

मूलम्

अपरस्मिन् प्रस्तारेऽध्यर्धा दक्षिणत उदीचीरात्मन्युपदधात्युत्तरतश्च दक्षिणास्त्सरुपार्श्वयोर्दक्षिणा उतीचीश्च ॥ १३.१५ ॥

विश्वास-प्रस्तुतिः

सर्वमग्निं चतुरश्राभिः प्रच्छादयेत् ॥ १३.१६ ॥

English

The remaining space of the fire-altar is covered with square bricks.

मूलम्

सर्वमग्निं चतुरश्राभिः प्रच्छादयेत् ॥ १३.१६ ॥

विश्वास-प्रस्तुतिः

पादेष्टकाक्षिः सङ्क्यां पूरयेत् ॥ १३.१७ ॥

English

The number (of 200 bricks) is to be completed with quarter bricks.

मूलम्

पादेष्टकाक्षिः सङ्क्यां पूरयेत् ॥ १३.१७ ॥

विश्वास-प्रस्तुतिः

व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ १३.१८ ॥

English

(With these two layers) alternating with each other, as many layers as desired are to be constructed.

मूलम्

व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ १३.१८ ॥

टीका

इति त्रयोदशः खण्डः

उपाधाने यथासूत्रमध्यर्धा उपधाय पूर्वार्धे सप्तदशेष्टका अक्ष्णया छिन्द्यात्द्वावर्धौ । यदि दीर्घाश्वेत्पादा उत्तरस्यां रीत्यां नेवष्टकाः छिन्द्यात्यथा प्राचीः प्रपादाः यथा दक्षिणस्यामष्टौ तथैव प्राचीरेकाद्विधा । तत्र तथैव पूर्णः प्रस्तारः । अपरस्मिन्प्रस्तारे पश्चादात्मन्यष्टादशेष्टकाः करणे छिन्द्यात् । द्वे द्वे इष्टके द्विधाकरणेनैव । यदि दीर्घाः पादाः पूर्वस्यां रीत्यां नवेष्टका भिन्द्यात् । यथा वा उदीच्याःश्रोण्या द्वे द्वेत्सरोः पश्चादेवाग्रतः पाशमध्येर्ऽधाः पादाश्वोदीच्यः । एवं प्रस्तारो द्विशतः । तत्र श्लोका भवन्ति

मितास्त्रिभिस्तिलैरूना चतुर्भिश्च शतेन च ।

द्रोणस्यैषात्सरोर्मात्रा तस्य त्रिगुणुतैव सा ॥

पादा अर्धाश्च भेदास्युः करणानि विभावसौ ।

द्रोणाख्ये तु स्मशाने च चतुरश्रे हविर्भुजि ॥

प्रस्तारे प्रथमे पादा यत्र स्युस्तत्र नोत्तरे ।

द्वावर्धौ प्रथमस्तारे चतस्र स्तूत्तरे स्तरे ॥

निधाय चोत्तरे स्तारे अध्यर्धत्वविपूर्वके ।

अध्यर्धा यत्र तत्र स्युः पादा दीर्घा यदि त्वथ ॥

प्राच्यस्युः प्रथमे स्तारे उदीच्यस्तूत्तरे स्तरे ।

अभितः पादमध्यर्धा रीतयसप्त चोत्तरे ॥ इत्.इ ॥

करविन्दीया व्याख्या

सर्व क्तः

सर्वस्याग्निक्षेत्रस्य दशमौशःत्सरुः । छान्दसोनपुंसकलिंङ्गनिर्देशः । सारत्निप्रदेशस्य दशमोभागो द्वादशभागीयाक्षेत्रम् । तस्यत्सरोर्निर्हारः समुदायात्पृथक्करणं पुच्छेन पुच्छप्रदेशेन भवेत् । स उक्तो निर्हारः चतुरश्राच्चतुरश्रं निजिहीर्षन्निति । चतुरश्रस्यात्मनः करणी शतत्रयमेकादशाङ्गुलयः षड्विंशतितिलाश्च । त्सरोस्तुत्र्यधिकं शतमङ्कुलयः एकत्रिंशत्तिलाश्च ॥

करण्यः का तस्य क श्च

तस्यद्रोणस्य करणी दशकी षड्विंशतिरह्गुलयः तिलोनाः । द्वादशभीगीयानां करणी एकतःषड्विंशतिरङ्गुलयः तिलोनाः अन्यत्रैकोनचत्वारिंशदङ्गुलयः अध्यर्धतिलोनाः द्वितीयं करणं पादेष्टका द्वादशभागीयानामेव । चकारादर्धेष्टकाश्च । ताभिर्विनासङ्ख्यापूरणाशक्तेः उक्तञ्च शुल्बान्तरे पादेष्टका अर्धेष्टकाश्चेति प्रथमकरणमक्ष्णया भिन्द्यात् ॥

सापादेष्टका अथवा द्वादशभागा पार्श्वमानिका । तत्तुरीयम् । तिर्यक्मानिका पादेष्टका ॥

उपधाने प्राचीः

आत्मनि पूर्वभागे द्वादशेष्टकाः प्रतीचीरुपदधाति । त्सर्वर्गे चतस्रः । श्रोण्योः प्रत्येकञ्चतस्रः । एवं चतुर्विंशति रध्यर्धाः ॥

सर्व येत्

शिष्टमग्निक्षेत्रं द्वादशभागीयाभिः प्रच्छादयेत्पुच्छे चतुरिष्टके द्वे रीत्यौ द्वयोः पुरस्तार्पुच्छाप्य य विशयरूपैकाः चतुरिष्टकाश्च । तस्याः पुरस्ताद्दिश्येका । अत्मनि द्वादशेष्टकाः उदीच्योनवरीतयः । एकविंशति शतं चतुरश्राः । चतुर्विंशतिरध्यर्धाः । उत्तरस्मिन्पार्श्व नवचतुरश्रा उधृत्य षट्त्रिंशतं दीर्घाः पादाः प्रतीचीरुपदध्यात् । दक्षिणस्मिन् पार्श्वेच नवोद्धृत्यष्ट्त्रिंशतंपादाः । षूर्वस्यां दिशि द्वाधशभागीयानामुपान्त्ये उद्धृत्यद्वेद्द्वे चार्दे उपदध्यात् । अक्ष्णयापादाश्वेत्पूर्वार्धेऽष्टादशचतुरश्रा उधृत्यद्विसप्ततिपादाः द्वे इष्टके उद्धृत्य द्वे द्वे चार्धे । द्विशतः एष प्रस्तारः ॥

अपरस्मिन् उदीचीश्च

आस्मनि दक्षिणतोद्वादश । तथैवोत्तरतः । पुच्छपार्श्वयोश्चतस्रश्चतस्रः । प्राच्योरीतयः द्वात्रिंशत् ॥

सर्व येत्

पुच्छे चतस्रश्चतुरश्रा आत्मनि द्वादशेष्टकाः प्राच्योनवरीतयः । ताद्वादशशतम् । पश्चादात्मनि । दशचतुरश्रा उद्धृत्य द्वात्रिंशतमक्ष्णयापादा उपदध्यात् । चतस्रश्वार्वाः दीर्घाश्वेत्पादाः पूर्वस्यां रीत्यां नवेष्टका उद्धृत्य षटत्रिंशतं पादा उतीच्य उपदध्यात् । पश्चादात्मन्यष्टादश चतुरश्राः नवपादा उतीचीरुपधाय तासां पुरस्तादभितो द्विपादाः सप्तार्धाः उपधायतासां पुरस्तादष्टादशार्दा उपधायतासां पुरस्तान्नवपादा उपदध्यात् । द्विशत एषप्रस्तारः ।

सुन्दरराजीया व्याख्या

सर्वस्या उक्तः

पुच्छमिवात्मनो वहिर्भूतं पश्चान्मिनुयादित्यर्थः त६ चतुरश्रद्रोणचित्द्वाधशत्रिशताङ्गुलेनाष्ठतिलोनेन समचतुरश्रः तस्य पश्चान्मध्यदेशे करणीतृतीयेनत्सरुसमचतुरश्रम् ।

तस्य करण्य कारयेत्

आत्मकरण्या द्वादशेन षड्विंशत्यङ्गुलेनैकतिलोनेन समचतुरश्राः ।

अध्यर्धाः पादेष्टकाश्च तृतीयेन च नवम्यः पूर्ववत् ।

उपादाने दधाति

द्वादशीभिरुदीची रीतिः ॥

त्सर्वर्ग्रे प्राचीः

त्सर्वर्ग्रे चतस्रोऽध्यर्धाः, श्रोण्यश्च चतस्रश्चतस्रः । एवं द्वादश ।

सर्वमग्निं प्रच्छादयेत्

द्वाधशीभिरेवं प्रच्छादितेऽष्टाचत्वारिंशच्छतं भवति ।

पादेष्टकाभिः पूरयेत्

आत्मनि प्राच्यो द्वादशरीतयः । तत्र ददिणस्यां पश्चाद्द्वयं हित्वा पूर्वास्तिस्रो नवम्य उदीच्यः । ततो द्वादश पाद्याः । ततस्तिस्रो नवम्यः । ततः प्राकपाद्या द्वादश । ततस्तिस्रो नवम्यः उदीच्यः । ततः प्राग्द्वादश्यध्यर्धे । एवमेव द्वादशीरीतिः । एवं द्विशतः प्रस्तारः ॥

अपरस्मिन् उचीचीश्च

द्वादश द्वादश । दक्षिणेति द्वितीयावहुवचनस्वीकारः । त्सरुपार्श्वयोर्दक्षिणा उदीचीश्चतस्रश्चतस्रः ।

सर्वमग्निं प्रच्छादयेत्

चतुश्वत्वारिंशच्छतं भवति ॥

पादेष्टकाभि" पूरयेत्

आत्मन्युदीच्यो द्वादश रीतयः । अत्रापरस्यां दक्षिणाध्यर्धाया उदक्तिस्रो नवम्यः प्राच्यः । ततोऽष्टौ पाद्याः । ततस्तिस्रो नवम्यः । ततो द्वादशी ततस्तिस्रो नवम्यः । ततोऽष्टौ पाद्याः ततस्तिस्रो नवम्यः । ततोद्वादशी । ततस्तिस्रो नवम्यः । ततोऽध्यर्धा । एवं पूर्वा रीतिः । द्विशतः प्रस्तारः ।

व्यत्यासं चिकीर्षेत्

अथ परिमण्डलस्य द्रोणचितेः प्रकारो वक्ष्यते ।

षट्सप्ततिशता ङ्गुलश्त्रयस्तिलोनो वेणुरुभयताश्छिद्रः । मध्येशङ्कुं निहत्य तस्मिन् वेणोश्छिद्रं प्रतिमुच्य छिद्रान्तरेण परिमण्लं परिलिखेत् । मध्यशङ्कोः पश्चादष्टषष्टिशताङ्गुले सतिलद्वये शङ्कुः । तस्य पश्चात्सरुः । समचरश्रं तिलद्वयोनचतुःशताङ्गुलं कुर्यात् । मण्डलमध्यशङ्कोः पश्चाच्चतुःशताङ्गुले तिलत्रयोने शङ्कं निहत्य तस्मिन् वेणोछिद्रं प्रतिमुच्यान्येन च्छिद्रेणत्सरुणो दक्षिणापरकोणादारभ्य उत्तरापरकोणादालिखेत्, यथात्सर्वग्रं प्रध्याकारं भवति । मण्डलभ्रमणेत्सरुपुर्वान्तेर्ऽधे यावद्ध्रियते तावत्पश्चादागच्छति । ततो मण्जलमध्ये पूर्ववच्चतुरश्रं नवचत्वारिंशद्द्विशताङ्गुलमष्टतिलोनमवदध्यात् । तस्य करण्या द्वादशेनेष्टकाः एकविंशत्यङ्गुला नवीतलोनाः चतुरश्रमध्ये चतुश्वत्वारिंशच्छतमिष्टकाःशेरते । ततो दीर्घमेकं करणम् । तस्य तिलोनषड्विंशत्यह्गुला तिलश्वी । चतुस्त्रिंशकं द्वाविंशतितिलं पार्श्वम् । ताः प्रधिमूलमध्ये चतस्रश्चतस्रो निधेयाः पूर्वापरयोः प्रागायता दक्षिणोत्तरयोरुदगायताः । प्रधिशेषेषु सप्तसप्तेष्टकाः । चतसृणां मुखेषु तिस्रः । पार्श्वयोर्द्वेद्वे इति तासां चत्वरि करणानि । त्रिकोणमाद्यं, तस्य षट्तिलोनमष्टाविंशत्यङ्गुलमेकं फलकम् । षट्त्रिंशकं सप्ततिलोनं द्वितीयम् । त्र्यंशोनितं षट्चत्वारिंशदङ्गुलं तृतीयं कर्णरूपं, तद्धनुरिव तक्षेत्, यथाध्यर्धाङ्गुलिःशरो भवेत् । द्विदीयस्य षट्तिलोनमष्टाविंशकमेकं तिल्यक्फलकम् । त्र्यंशोनचतुश्वत्वारिंशदङ्गुलमन्यत् । सप्ततिलं षट्त्रिंशकमेकं पार्श्वम् । साष्टादशतिलं नवत्रिंशकं पार्श्वान्तरम् । तद्धनुरिव तक्षेत्, यथा स चतुस्तिलाङ्गुलिःशरः । तृतीयस्य सतिलं नवकमेकं तिर्यक्फलकमेकम् । सतिलं षोडशाह्गुलमन्यत् । द्वादशतिलोनं पञ्चत्रिंशदङ्गुलमेकं पार्श्वं द्वादशतिलयुक्तं पञ्चत्रिंशकं पार्श्वान्तरम्, तद्धनुरिव तक्षेत् । त्रिंशत्तिलाःशरः । चतुर्थस्य सतिले षोडशिके तिरश्वयौ पार्श्वे च दशतिलोनेपञ्चत्रिंशके । एफं पार्श्वं धनुरिव तक्षेत् । एकान्नत्रिंशत्तिलाःशरः । एषा इष्टका प्रधिमध्ये स्थाप्या, अभितस्तिस्रस्तिस्रः पूर्वोक्ताः क्रमोत्क्रमेण । एवं मण्डलक्षेत्रे अष्टाशीतिशतमिष्टका भवन्ति ।

ततोऽपरप्रधेर्मध्यास्तिस्र उद्धृत्यत्सर्वग्रे निदध्यात् । त्सरुशेषे द्वादश दीर्घेष्टकाः । द्विशतः प्रस्तारः । एवमेवापरः प्रस्तारः । चतुरश्रस्रक्तयस्तु महादिक्षु भवन्ति । त्सरुणस्त्वन्ये द्वे करणे । तत्रैकस्य तिलोने षड्विंशत्यङ्गुले तिल्यक्फलके । चत्वारिंशदङ्गुले त्र्यंशे पार्श्वै । एकाक्ष्णयारझ्जुस्त्रिचत्वारिंशदङ्गुला षट्तिलयुक्ता । अन्या त्वेकपञ्चाशदह्गुला सदशतिला । एकं पार्श्वफलकं धनुरिव तक्षेत् । स चतुस्तिलाङ्गुलिःशरः । अन्यदपि पार्श्वमेवमेव । अन्तश्वापं तु भवति यथैवमिष्टकारूपं, एता इष्टकाःत्सरुपार्श्वयोश्चतस्रश्चतस्र उदगायताः । अथान्यत्तिलोनषड्विंशकं समचतुरश्रं तस्यैकं तिल्यक्फलं धनुरिव तक्षेत्यथा षोडशतिलाःशरो भवति । एवमेवान्यत्तिर्यक्फलकं. अन्तश्वावीं तु भवति । यथैवमिष्टकाःत्सरुमध्ये एताश्चतस्रः प्रस्तारो द्विशतः ।

व्यत्यसं चिनुयाद्यवतः प्रस्तारांश्वितीषोन्त् ॥

इति त्रयोदशः खण्डः

कपर्दिक्षाष्यम्