१२

क्रत्वर्थेनोपादीयमानामामेकविधादीनां पक्षपुच्छत्वं प्रतिपादितम् । तथा तेषामुपधानविधिः कथं भवतीत्युच्यते

English - comment

FIRE-ALTARS OF AREAS ONE-FOLD AND UPWARDS, AND FIRE- ALTARS IN THE FORM OF ISOSCELES TRIANGLE, RHOMBUS AND CHARIOT WHEEL

विश्वास-प्रस्तुतिः

एकविधप्रभृतीनां करणीनां द्वादशेन त्रयोदशेनेतीष्टकाः कारयेत् ॥ १२.१ ॥

English

For one-fold etc. (upto the six-fold fire-altar), square bricks of side equal to one-twelfth and one-thirteenth of the side (of the fire-altar) are to be made as also their quarters.

मूलम्

एकविधप्रभृतीनां करणीनां द्वादशेन त्रयोदशेनेतीष्टकाः कारयेत् ॥ १२.१ ॥

टीका

करणानां द्वादशेन त्रयोदशेन कृतैःसमचतुरश्रैः इष्टकाः कारयेत् । सर्वतो द्वादशेनैकं करणं सर्वतस्त्रयोदशेन द्वितीयम् ।

विश्वास-प्रस्तुतिः

पादेष्टकाश्च व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ १२.१ ॥

English

(With the two layers) alternating with each other as many layers as desired are to be constructed.

English - comment

12.1. The side of an one-fold fire-altar of area 1 sq.pu. is 120 aṅg; that of a six-fold fire-altar is 293 aṅg 31 tilas. Baudhāyana (Bśl. 5.8-5.15) has discussed the question of fire-altars smaller than \(7\frac{1}{2}\) sq. pu.. Here it is maintained that no fire-altar smaller than the seven-fold should be used, although some teachers uphold the legitimacy of fire-altars from \(1\frac{1}{2}\) to \(6\frac{1}{2}\) sq. pu. Such smaller fire-altars may be constructed but then only in the form of praugas, rathacakras etc.

मूलम्

पादेष्टकाश्च व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ १२.१ ॥

टीका

पादेष्टकाश्च द्वादशीवधास्त्रयोदशविधाश्वार्धेष्टकाश्चेति शुल्बान्तरम् । अस्माकमपि प्रौगेर्ऽधेष्टकाः कार्याः । एकविधादिष्वपि यदि प्रथमप्रस्तारो द्वादशभिः द्वितीयस्त्रयोदशभिरित्यस्मिन्पाक्षेर्ऽधेष्टकाः कार्याः । इतरथा सङ्धया न पूर्यत एव ।

तत्र श्लोकाः

द्विविधे मानिका रज्जुःसप्तत्या च शतेन च ।

अङ्गुलीनां मिता सा स्यादूनाग्नेर्दशमिस्तिलैः ॥

त्रिविधे मानिका रज्जुरष्टोत्तरशतद्वयम् ।

षड्भिरेव तिलैरूना गणकैः परिकल्पिता ॥

विधस्पापि चतुर्थस्य मानिका रज्जुरुच्यते ।

मिता शतद्वयेनाथ चत्वारिंशाधिकेन च ॥

विधस्य पञ्चमस्येयमष्टषष्टिःशतद्वयी ।

एकादशतिलैर्युक्तां मानिकां गणका विदुः ॥

चतुर्भिश्च नवत्या च शताभ्यां च मिता भवेत् ।

त्रिभिरेव तिलैरूना षढ्विधस्य विधानिका ॥

उपधानेऽभितः पादास्तिस्रो रीत्योऽथ द्वादश्यः । ततः पञ्च त्रयोदश्यः । तत एका त्रयोदशी । पादरीतिः तत एका त्रयोदशी ततस्तिस्रोऽभितः पादा रीत्यां द्वादश्यः । द्वितीयस्यां एका चतुर्थी च तेभ्योऽन्योऽष्टमी । एष प्रस्तारः । अपरस्मिन् प्रस्तारे द्वे रीत्यौ त्रयोदश्येका त्रयोदशी पादा तत एकाभिहितपादा त्रयोदशी । ततश्चतस्रो द्वादश्यः । अथ मध्यमाःषडिष्टकाः चतुर्भेदाः, एष द्विशतः प्रत्तारः ॥

व्यत्यासमिति गतमेतत् ॥

विश्वास-प्रस्तुतिः

एकविधप्रभृतीनां प्रथमाहारेण द्वितीयेन तृतीयेनेति यो युज्येत । सर्वेषां यथा श्रुतिसङ्ख्या तथोर्ध्वप्रमाणम् ॥ १२.२ ॥

English

From one-fold etc. (upto the six-fold), bricks are used in the first, second and third construction; in all cases and also for higher constructions, their number is according to the prescription of the Śruti (that is, 1000 bricks for all constructions).

मूलम्

एकविधप्रभृतीनां प्रथमाहारेण द्वितीयेन तृतीयेनेति यो युज्येत । सर्वेषां यथा श्रुतिसङ्ख्या तथोर्ध्वप्रमाणम् ॥ १२.२ ॥

टीका

एकविधप्रभृतीनां षड्विधपर्यन्तानां सर्वेषां प्रथमाहारे द्वितीयाहारे च यथा सङ्ख्याः श्रूयन्ते । किमुक्तं भवति? यदि प्रथमाहारःसहस्रसङ्ख्या जानुदघ्नता च । अथ द्वितीय एते युक्ता एव । ते धर्माः सप्तार्धस्वरूपयुक्ता एवेति । तच्च वचनं सप्तार्धप्रकृतित्वज्ञापनार्थम् ॥

करविन्दीया व्याख्या

व्यत्या र्षेत्

गतम् । विकृतिषु पुनर्व्यत्यासे वचनं किमर्थम्? उच्यते प्रकृतौ चितीनां प्रस्ताराणां च वैषम्यात्किमयं व्यत्यासः प्रस्तारधर्मः चितिधर्म इति कस्यचित्सन्देहःस्यात् । विकृतौ तु द्विप्रस्ताराश्वितय इति प्रस्तारयोर्वैषम्येमायं व्यत्यासः कस्य धर्म इति सन्देहे यावन्तः प्रस्तारास्तावतो व्यत्यस्य चिनुयात्भेदाभावाय । व्यत्यासस्य प्रस्तारधर्मताप्रतिपादनाय पुनर्वचनं व्यत्यासस्य ।

एकवि माणम्

एकविधप्रभृतिषड्विधपर्यन्तानां प्रथमाहारः प्रथमप्रयोगः यो युज्येत भृशं युक्तो भवति । यथाश्रुतिसङ्ख्या श्रुत्युक्तेन प्रकारेण सङ्ख्या सहस्रादिः यथा भृशं युज्यते तथोर्ध्वप्रमाणं जानुदघ्नादि च योयुज्येतेति च सम्बन्धः । एकविधप्रभृतिषड्विधपर्यन्तानां सर्वेषां प्रथमाहारेण द्वितीयाहारेण तृतीयाहारेण “साहस्रं चिन्वीत प्रथमं चिन्वानः” इत्याद्याः श्रूयमाणाः साहस्रादिसङ्ख्याजानुदघ्नादिपरिमाणाश्वैतेषु सम्पाद्यतयोपदिश्यन्ते । एतेन एकविधस्य

प्रकृतित्वे द्विविधादीनां तत्प्रकृतित्वे च साहस्रादिसङ्ख्याजानुदघ्नादि परिमाणत्वं सिद्धं भवति । एकविधादयोऽपि नित्या एव अकामसम्बन्धात् । प्रकृतयो विकृतयश्च नित्या उक्ताः । इतानीं काम्याः प्रौगादय उच्यन्ते ।

विश्वास-प्रस्तुतिः

काम्या गुणविकाराः गुणशास्त्रत्वात् ॥ १२.३ ॥

English

The kāmya (fire-altars) are (endowed with) different merits and (are prescribed for the fulfilment of special desires) according to the science of merits (guṇaśāstra).

English - comment

12.3. The kāmyas (desires) are different forms of the seven-fold fire-altar. Guņas (qualities) are six in number (Karavinda). For guṇavikāra see Āśr. 14.1, 1.

मूलम्

काम्या गुणविकाराः गुणशास्त्रत्वात् ॥ १२.३ ॥

टीका

नित्यस्य सप्तविधाग्नेर्विकाराः प्रौगाद्याकृतिविशेषेण गुणेन विकृताः । कुतः? गुणशास्त्रत्वात् । गुणं शास्ति विदधातीति गुणशास्त्रम् । “प्रौगचितं चिन्वीत” इति वक्ष्यमाणं वाक्यं प्रौगस्याग्नेश्वयनमनूद्य तत्र भातृव्यापनोदनफलार्थं प्रौगाद्याकृतिविशेषं गुणं विधत्ते । तस्मात्काम्याः प्रौगादयः । गोदोहनादिवन्नित्यस्याग्नेर्गुणविकाराः न नित्याः नैव प्रकृतय इति ।

सुन्दरराजीया व्याख्या

(व्यत्या र्षेत्)

“सन्ध्यन्तराले पञ्चमभागीयाःसपादाः” इत्यस्यापरा व्याख्यापादशब्देन प्रस्तुता एवाणूकापादा गृह्यन्ते । प्रस्तुताश्च पादा अष्टसंख्या इति तथैवेह ग्राह्याः । तत्रैवमुपधानम् प्रथमे प्रस्तारे सन्ध्यन्तराले पार्श्वयोस्त्रिंशदङ्गुलं परिशिष्य मध्यमे पञ्चत्रिंशत्पञ्चमभागीयाः, परिशिष्टयोस्त्रिंशदङ्गुलयोः पश्चात्पुरस्ताच्च द्वेद्वे पञ्चदशाङ्गुले उदीच्यौ, मध्ये तस्रस्तिस्रोऽणूकाः, पञ्चमीभिः पूरयितुमशक्यत्वात्पुच्छस्य पार्श्वयोः पुरतःषट्षट्पञ्चदशाङ्गुलाः । पुच्छशेषे त्रयोदशाणूकाः, एवं कृते अष्टोनद्विशतं भवति । पुच्छमध्येऽणूकामेकामुद्धृत्य दशाङ्गुला नवोपदध्यात् । आत्मनि द्वितीये मध्ये वा मन्त्रोपधानसौकर्यार्थम् । एवं द्विशतः प्रस्तारः । अपरस्मिन् पुच्छवर्जं यथासूत्रमेवात्मनि प्राच्यो दश रीत्यः । तत्र दक्षिणस्यां मध्ये पञ्चमीं निधाय ततः प्राक्पश्चाच्च द्वेद्वे प्रादेशमायौ । एवमुत्तरस्यां पुच्छस्यापरार्धे पार्श्वयोर्मध्ये च तिस्रस्तिस्रःषड्भागीयाः प्राच्यः, पुच्छशेषे द्वादशाणूकाः । ये तु षड्भागीया नेच्छन्ति तेषामपि पुच्छवर्जमेवमेवोपधानम् । तत्र पुच्छे प्रादेशमुपधायेत्यस्य प्रादेशेष्टकामुपधायेत्येवं वर्णयन्ति । अन्यथा भेदप्रसङ्गात् । प्रादेशाश्चतुर्भागीयाभिःसह न शेरत इति सामर्थ्यात्पञ्चमभागीयानामाक्षेपः । तत्रैवमुपधानम् पुच्छस्यपूर्वार्धे पार्श्वयोश्चतस्रः पञ्चदशाह्गुलाः । मध्ये षडणूकाः । अपरार्धे पञ्चदश पञ्चम्यः । पुच्छाग्रे मध्यमा अभितो द्वे उद्धृत्याष्टौ प्रादेशेष्टका उपधेयाः । एवमष्टोनद्विशतं भवति । ततः पूर्ववदेकां चतुथीं पञ्चमीं वोद्धृत्य दशाङ्गुला वाष्टाङ्गुला वोपदध्यात् । द्विशतः प्रस्तारः । द्वितीये प्रस्तारे पुच्छे षोडशाणूकाः, आत्मन्युत्तरस्यां रीत्यां चतसृभ्यः पञ्चमीभ्यः प्राक्तिस्रोऽष्टाह्गुला उदीच्यः तत एका पञ्चमी । ततस्तिस्रोऽष्टाङ्गुलाः । ततस्तिस्रः पञ्चम्यः । दक्षिणारीतिः पूर्ववदेव । द्विशतः प्रस्तारः । एवं सारत्निप्रादेशस्योपधानमुक्तमाचार्येण । तद्रहितस्योच्यते पक्षाग्रयोस्तिस्रस्तिस्रोऽणूकाः । तासां पस्वात्पुरस्ताच्च द्वेद्वे पञ्चदशाङ्गुले । एवम्न्ययोरप्यात्मानं प्रदेशेनोपेताः पार्श्वयोः षट्षट्प्रादेशाः । पक्षशेषे पञ्चम्यः । सन्ध्यन्तराले चत्वारिंशत्पञ्चमभागीया आत्मशेषः पूर्वोक्तवदेव । पुच्छस्य पूर्वार्धे पार्श्वयोरष्टौ पञ्चदशाङ्गुलाः, पध्ये षडणूकाः । अपरार्धे षड्भागीयाभिरुदीच्यस्तिस्रो रीतयः । तासु पूर्वस्यां पार्श्वयोर्द्वेद्वे दशाङ्गुले । पुच्छस्य पूर्वार्धे षड्भागीया अष्टादश । अपरार्धे पृष्ठयामभितः पञ्चम्याकुद्धृत्य अष्टौ पादेष्टका उपदध्यात् । आत्मनि पूर्वरीतौ मध्ये पञ्चमीं निधायाभितश्चतस्रः पादेष्टका उपदध्यात् । एवं द्विशतः प्रस्तारः । अथात्रापि षड्भागीयामनिच्छतां पुच्छस्य पार्श्वयोः पुरतःषट्षट्पञ्चदशाङ्गुलाः । पुच्छशेषे त्रयोदशाणूकाः । पक्षाग्रयोश्चतस्रश्चतस्रोऽणूकाः । शेषं पूर्वोक्तवदेव । एवं कृते चतुरशीतिशतमिष्टका भवन्ति । तत्रात्मनि पृष्ठयान्ते चतुर्थ्यौ पञ्चम्यावुद्धृत्याष्टादशाङ्गुला अष्टाङ्गुला वोपदध्यात् । द्विशतः प्रस्तारः । अन्यस्मिन् प्रस्तारे पुच्छाप्यये पञ्चमभागीया इत्यादि यथासूत्रम् । आत्मनः पूर्वरीतिः पूर्वोक्तवत् । पुच्छस्य पूर्वार्धेऽष्टावणूकाः अपरार्धे पञ्चम्यावृद्धृत्याष्टङ्गुला उपदध्यात् । द्विशतः प्रस्तारः । एवमुपधानस्यानेकप्रकारा उक्ताः । तत्र युक्ततरः प्रकारो विद्वद्भिरादरणीयः । सर्वेष्वेव प्रकारेषु पुच्छाप्यये पक्षाप्यये वा अन्यतरत्र विशया इष्टका उपधीयन्त इत्यनुसन्धातव्यम् ॥

एकादशः खण्डः.

एकविधप्रभृतीनांत्पादेष्टकाश्व.

व्याधिकरणःष्ठयौ । एकविधप्रभृतीनां षड्विधपर्यन्तानां याः करण्यः तासां द्वादशेन त्रयोदशेनेति समचतुरश्रा इष्टकाः कारयेत्पादेष्टकाश्च ।

ताश्चतुर्बागीया नवम्यश्चेति द्विविधाः ।

तत्र श्लोकाः

अङ्गुल्यो विंशतिशतं करण्येकविधे भवेत् ।

द्विविधे सप्ततिशतं ज्ञेयं दशतिलोनितम् ॥

त्रिविधे द्वे शते चाष्टौ चाङ्गुल्यष्,ट्तिलोनिताः ।

चतुर्विधस्य करणी चत्वलारिंशच्छतद्वयम् ॥

अष्टषष्टिः पञ्चविधे सैकादशतिले शते ।

षड्विधे त्रिशताच्याज्याःषडङ्गुल्यस्तिलावपि ॥

एकविधस्य तावत्करण्या द्वादशेन दशाङ्गुलेनैकं करणम् । तदर्धेन पञ्चाङ्गुलेन द्वितीयं पादेष्टकारूपम् । तृतीयेन च सैकादशतिलेन त्र्यङ्गुलेन तृतीयम् । सा नवमीत्युच्यते । एवं त्रयोदशेन साष्टतिलेन नवाङ्गुलेनैकम् । तदर्धेन तत्पाद्याः । चतुरङ्गुला सैकविंशतितिला । तृतीयेन च नवमी त्र्यङ्गुला सतिलत्रया । एवं द्विविधादिषु द्रष्टव्यम् ।

व्यत्यासंश्चिकीर्षेत्

तत्र प्रस्तारयोरनुक्तत्वात्द्वादशीत्रयोदशीनामेव सावयवानां प्रस्तारेषु व्यत्यासः । द्वादशीभिःसावयवभिरेकः प्रस्तारः त्रयोदशीभिरपर इति । संकालितोपधानं तु न भवत्यवचनातेतदतिदिष्टप्रौगचित्यसम्भवाच्च । तत्र प्रथमे प्रस्तारे अग्निमध्ये नवद्वादशीनां नवम्यश्चतुरश्रीकृताः । ताः परितःषष्टिः पाद्याः । ताः परितोऽष्टाविंशतिशतं द्वादश्यः । उत्तरांस एकामुद्धृत्य चतस्लः पाद्याः । द्विशतः प्रस्तारः । अपरस्मिन् त्रयोदशभिः प्रच्छादिते नवषष्टिशतमिष्टका भवन्ति । अग्निमध्यस्थमुद्धत्य चतस्रः पाद्याः । प्रतिकोणं चतस्रश्चतस्रः पाद्याः पृष्ठयायां पश्चात्पुरस्ताच्चैकैकामुद्धृत्य नवनव नवम्यः । द्विशतः प्रस्तारः ।

एकविध र्ध्वप्रमाणं एकविधादीनामपि सहस्रादिसंख्या । ऊर्ध्वप्रमाणं च जानुदघ्नादिसप्तविधादिपद्भवत्येव । क्षेत्रापचयेऽपि संख्योर्ध्वप्रमाणयोर्नापचय इत्यर्थः ॥

कपर्दिभाष्यम्

काम्या गुणविकाराः गुणशास्रत्वात् ॥ .३ ॥

काम्याः प्रौगादयः गुणेन विकृताः किमुक्तं भवति? गुणसिद्धिर्नाग्नेः । कुतः? गुणशास्रत्वात् । शास्तीति शास्रम् । गुणोऽत्र शिष्यते नाग्निः । तस्माद्गुणशास्त्रत्वात्गोदोहनादिव, द्गुणफलान्योतानि ॥

विश्वास-प्रस्तुतिः

प्रौगचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते ॥ १२.४ ॥

English

Those who have many foes should construct a (fire-altar in the form of an isosceles) triangle; this is the tradition.

मूलम्

प्रौगचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते ॥ १२.४ ॥

टीका

प्रौगः शकटपुर्वभागः । तदाकारं चिन्वीत भ्रातृव्यवान्यस्य बहवः भ्रातृव्याः स एवं चिन्वीत ।

विश्वास-प्रस्तुतिः

यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा पूर्वस्याः करण्या अर्धाच्छ्रोणीं प्रत्यालिखेत् । सा नित्या प्रौगम् ॥ १२.५ ॥

English

A square twice as large as the area of the (seven-fold) fire-altar with (two) aratnis and (one) prādeśa is laid; the mid-point of the eastern side (of the square) is joined to the two western corners (of the square, and the area lying outside these lines is cut off); this is the exact triangle (equal in area to the seven-fold fire-altars of 71⁄2 sq. puruṣa).

मूलम्

यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा पूर्वस्याः करण्या अर्धाच्छ्रोणीं प्रत्यालिखेत् । सा नित्या प्रौगम् ॥ १२.५ ॥

विश्वास-प्रस्तुतिः

कराणानि चयनमित्येकविधोक्तम् ॥ १२.६ ॥

English

Bricks are to be made as in the case of one-fold etc.

मूलम्

कराणानि चयनमित्येकविधोक्तम् ॥ १२.६ ॥

टीका

एतच्च वचनं सप्तार्धस्य प्रकृतित्वज्ञापनार्थम् । पञ्चदशभिरङ्गुलैर्नवभिश्च तिलैः अन्तरा चतुःपुरुषा रज्जुः द्विस्तावतीं करोति । तथा चतुरश्रं विहृत्य सूत्रोक्तेन मार्गेण श्रोणीं परिलिखेत् । करणानि च कारयेत् । द्वादशेन त्रयोदशेन सपादेन च प्रौगाकारः ॥

विश्वास-प्रस्तुतिः

प्रौगा इष्टकाः कारयेत् ॥ १२.६ ॥

English

fire-altars (that is, of side equal to one-twelfth and one-thirteenth of the side of the altar); these should have the shape of an isosceles triangle.

English - comment

12.4-12.6. The fire-altars in the form of isosceles triangles (prauga) are discussed in these sutras. The prauga has been likened to the fore part of a cart (śakaṭa-mukha). The method of transforming a square (or a rectangle) into an isosceles triangle has been discussed by Baudhayana (Bśl. 1.7). The construction of a fire-altar in the form of an isosceles triangle and the various types of bricks employed are fully discussed in Bśl. 14.1-14.8. Baudhāyana advises the use of rectangular bṛhatî bricks and their triangular halves and quarters by cutting the bṛhatis diagonally.

Āpastamba advises the use of isosceles triangular bricks of different sizes, as explained by his commentators. Since the isosceles triangle ABC formed out of the square EBCD is \(\frac{15}{2}\) sq. pu. we have (Fig. 13(a)):

\(BC= AF = \sqrt{15} pu = 120 \sqrt{15} aṅg = 464 aṅg 22 ti\) (approx.)

\(AB = 300 \sqrt{3} = 519 aṅg 21 ti. (= 4pu.39 aṅg 21 ti, karavinda)\)

Fig. 13 (a). An isosceles triangle from a square. (b) dvādaśī bricks and their sub- divisions. (c) trayodaśī bricks and their subdivisions. The one-twelfth brick, abc, for the first layer has each of its two equal sides one- twelfth of AB or AC and the base one-twelfth of BC The half bricks are obtained by dividing abc vertically by af, and the quarter bricks by joining the mid- points g, h, f of the three sides (Fig. 13(b)). Sundararaja prescribes the use of one- ninth bricks by trisecting the three sides of the one-twelfth brick and joining them, as shown in Fig. 13 (c). For the second layer, one-thirteenth and their sub- divisions are used. The dimensions are:

\(B_{1}\) - one-twelfth (dvādaśi) isosceles triangular: side — 43 aṅg 10 ti, base 38 aṅg 25 ti (Karavinda) ;

\(B_{2}\) - half of one-twelfth-43 aṅg 10 ti; 38 aṅg 25 ti; 19 aṅg \(12\frac{1}{2}\) ti.;

\(B’_{1}\) - one-thirteenth (trayodaśi) isosceles triangular: side-39 aṅg 33 ti (= 40 aṅg-1 ti); base-35 aṅg 25 ti. ;

\(B’_{2}\) - half of one-thirteenth-39 aṅg 33 ti; 35 aṅg. 25 ti; 17 aṅg 29 ti. All these values agree with Karavinda’s. Dimensions of quarter and one-ninth bricks are not given.

If for the first layer, the two sides and the base are divided into 12 equal parts and the dividing points joined parallel to the sides and the base, the whole area will be divided into 144 isosceles triangles, each to be fitted exactly by the one-twelfth brick. The number 144 can be computed by permutation because, starting with one triangle at the apex it increases to 23 at the 12th layer with a common difference 2. For the second layer, where the sides are to be divided into 13 equal parts, there are likewise 169 triangles, each to be exactly fitted by one-thirteenth brick. Thus Sundararaja says: prathame prastare catuścatvārimśacchatena dvādasibhirudicyo dvadasa ritayaḥ |…aparasmin prastāre trayodaśibhiḥ navaṣaṣṭiśatena trayodaśa ritayaḥ | To complete the number of 200 bricks, in the first layer, 16 one-twelfth bricks in the middle four rows are replaced by 64 quarter bricks, and the apical brick is replaced by 9 one- ninth bricks, thus making up the deficit of 56 bricks. In the second layer, in place of 7 one-thirteenth bricks, 20 quarter and 18 one-ninth bricks are added to make good the deficit of 31 bricks.

मूलम्

प्रौगा इष्टकाः कारयेत् ॥ १२.६ ॥

टीका

चतुःपुरुषारत्निना च पञ्चदशभिरङ्गुलैस्तिलैरेकविंशत्या परिमिता रज्जुरीषामात्री भवति वाक्षयोः प्रमाणम् । तस्या द्वादशेन च त्रयोदशेन च करणानि च कारयेत् । द्वादश्या प्रथमे प्रस्तारे प्रौगमुख्यः । चतुःषष्टिः पादेष्टकाः चतस्रश्चतस्रःश्रोण्योः । एवं चतुर्विंशोत्तरं शतम् । चतस्रोर्ऽधेष्टकाःश्रोण्योरेव ।

अन्यस्मिन् प्रस्तारे त्रयोदश्यः श्रोण्योः पादाश्वत्वारिंशत्द्वावर्धौ अष्टपञ्चाशदधिकशतं त्रयोदश्यः । प्रस्तारो द्विशतः । एवं व्यत्यासं चिनुयात् । तत्र श्लोकाः

एकोनविंशत्यरत्निभिरङ्गुलीभिःसहाष्टभिः ।

तिलानां पञ्चविंशत्या मिता पश्चाद्विमानिका ॥

एकविंशत्यरत्निभिरङ्गुलीनां त्रिपञ्चकैः ।

तिलानामेकविंशत्या मिता त्वेका विमानिका ॥

कुर्वन्ति प्रौगमग्निमेतास्तिस्रःसमीकृताः ।

आसामेव यथासूत्रं करणानि प्रकल्पयेत् ॥

करविन्दीया व्याख्या

प्रौगंयते

प्रौगः शकटस्य पूर्वभागः । तदाकृतिमग्निं चिन्वीत । भ्रादृव्यवान्भ्रातृव्यैश्रात्रुभिर्बाध्यमानः । तेन भ्रातृव्यान् प्रणुदत एव ॥

यावान उगम्.

यावानरत्निप्रादेशाभ्यां सहितःसप्तविधः तावद्द्विगुणां समचतुरश्रां भूमिं कृत्वा तस्य चतुरश्रस्य पूर्वस्याः करण्या मध्यादारभ्य श्रोणी प्रत्यक्ष्णया लिखेत् । सप्तार्धविधस्य द्विस्तावती भूमिः पञ्चदशपुरुषाः । तस्याः करणी त्रयःपुरुषाश्चतुरधिकशताङ्गुलयः पञ्चविंशतितिलाश्च । तयापरेण यूपावटदेशं सञ्चरमवशिष्यानुप्रष्ट्यं समचतुरश्रं विहृत्य पूर्वस्याः करण्या अर्धाच्छोणी प्रत्यालिखेत् । सा भूमिःसप्तविधपरिमितप्रौगाकृतिर्भवति ॥

कर येत्

अत्र करणी करणीनां द्वादशत्रयोदशकृतानि । ताभिश्च यनं प्रस्तारव्यत्यास इत्येवमाद्येकविधवत्ग्राह्यमित्यर्थः । विशेषस्तु प्रौगा इष्टकाः कारयेत् । करणानि प्रौगाकृतीनि भवेयुः । ता द्वादशत्रयोदशभागीयाः पादा अर्धाश्च प्रौगाकृतीनि भवेयुः । ता द्वादशत्रयोदशभागीयाः पादा अर्धाश्च प्रौगाकारा ग्राह्याः । चत्वारः पुरुषा एकोनचत्वारिंशदङ्गुलयः एकविंशतितिलाश्च प्रौगस्यैषा मात्रा । सा प्रौगस्य पार्श्वमानी । तस्याः द्वादशेन त्रयोदशेन च करणानि कारयेत् । पादा अर्धाश्च द्वादश भागीयानामष्टत्रिंशदह्गुलयः पञ्चविंशतितिलाश्च । एषामात्री तन्मुखम् । पार्श्वमान्यौ त्रिचत्वारिंशदङ्गुलयः दशतिलाश्च । अर्घेष्टकानामेकापार्श्वमानी । सैव अन्या अष्टत्रिंशदङ्गुलयः पञ्चविंशतितिलाश्च । एकोनविंशतिरङ्गुलयोर्ऽधत्रयोदशतिलाश्च मुखम् । पादेष्टकानामेकोनविंशतिरङ्गुलयः द्वाविंशतितिलाश्च । अथ त्रयोदशभागीयानां तासां पञ्चत्रिंशदङ्गुलयः पञ्चविंशतितिलाश्चैकं मुखम् । पार्श्वमान्यौ तिलोनचत्वारिंशदङ्गुलयः । अर्धेष्टकानामपि सैवैका पार्श्वमानी । अन्याः पञ्चत्रिंशदङ्गुलयः पञ्चविंशतितिलाश्च । सप्तदशाह्गुलयः एकोनत्रिंशत्तिलाश्च तिलार्धाश्वैकं मुखम् । पादेष्टकानां सप्तदशाङ्गुलय एकोनत्रिंशत्तिलाश्वैकं मुखम् । पार्श्वमान्यौ विंशतिरङ्गुलयोर्ऽधतिलोनाः । उपधाने प्रथमप्रस्तारे प्रौगमुखे चतुःषष्टिः पादेष्टका उपदध्यात् । श्रोण्योश्चतस्रश्चतुर्विंशोत्तरं शतं द्वादश्यः चतस्रोर्ऽधेष्टकाः । एष द्विशतः प्रस्तारः । अपरस्मिन् श्रोण्योर्विंशतिविशतिस्त्रयोदशपादाः द्वावर्धावष्टपञ्चाशदधिकशतं त्रयोदश्यः । एष द्विशतः प्रस्तारः । व्यत्यासश्च कार्यः ॥

सुन्दरराजीया व्याख्या

काम्याःगुणशास्रत्वात्

काम्याः छन्दश्वित्प्रभृतयोऽग्नयो नित्यस्य चतुरश्रस्य गुणविकारा, तस्यैवाग्नेणमात्रेण विकृतत्वात्गुणफलं स्वफलं च साधयन्ति । यथा अग्निष्टोमस्य गुणविकारा उक्थ्यादयः ।

प्रौगचितंविज्ञायते

प्रौगं शकटस्य मुखं त्रिकोणं, तद्वच्चीयत इति प्रौगचित् । “कर्मण्यग्नयाख्यायाम्” इति व्किप् ।

तस्याग्नेर्मानमाह

यावान लिखेत्

सारत्निप्रादेशस्य सप्तविधस्य करणी त्रीणि शतान्यष्टाविंशतिश्वाङ्गुलयोर्ऽधद्वादशतिलाः । तस्या द्विकरणी पादोनपञ्चषष्टिचतुःशताङ्गुलयः द्विस्तावत्याः पञ्चदशपुरुषायाश्चतुरश्रीकृताया भूमेः करणी । प्रणगस्य पार्श्वमानी चत्वारः पुरुष एकोनचत्वारिंशदङ्गुलय एकविंशतितिलाश्च । यावानग्निरित्येव सिद्धे सारत्निप्रादेशग्रहणं तस्य पक्षस्य शाखान्तरीय त्वेन यत्नसाध्यत्वातेकविधादिष्वेकशतपर्यन्तेषु केवलेषु कारत्निप्रदेशेषु च यथाकामं गुणविकारा भवन्त्येवेति पूर्वमेव प्रतिपादितम् । तत्र पक्षपुच्छरहितानां प्रौगचिदादीनां खाकाशश्रुतिवेदैकामित्यादिना आनीतस्य पुरुषस्य विंशतिशततमो भागोऽङ्गुलिः कल्प्या । तस्याश्वतुस्त्रिंशो भागस्तिलः ।

सा प्रौगं नित्या प्रकृत्येव । सा भूमिरेवं कृते प्रौगं भवति ।

करणानि थोक्तं करणं द्वादशेन त्रयोदशेनेत्यादिना ।

प्रौगाःरयेत्

द्वादश्याः पार्श्वे त्रिचत्वारिंशदङ्गुले सपाददशीतलयुक्ते नवतिलोनं नवत्रिंशदङ्गुलमपरम् । तेषामर्धैः पाद्याः । तृतीयैर्नवम्यः । त्रयोदश्यास्तु चत्वारिंशदङ्गुले तिलोने पार्श्वे त्रिपादोनषाट्त्रिंशदङ्गुलमपरम् । एतेषामर्धैः पाद्याः । तृतीयैश्च नवम्यः । उपादाने प्रथमे प्रस्तारे चतुश्वत्वारिंशच्छतेन द्वादशीभिरुदीच्यो द्वादश रीतयः । मध्यमरीतिचतुष्टये मध्यो षोडशोद्धृत्य चतुःषष्टिः पाद्याः । प्रौगमुख्यामुद्धृत्य नव नवम्यः । द्विशतः प्रस्तारः । अपरस्मिन् प्रस्तारे त्रयोदशीबिः नवषष्टिशतेन त्रयोदश रीतयः । तासु दशम्यां सप्तेष्टका उद्धृत्य विंशतिः पाद्याः । अष्टादशनवम्यश्च निधेयाः । एवं द्विशतः ।

कपर्दिभाष्यम्

विश्वास-प्रस्तुतिः

उभययः प्रौगं चिन्वीत यः कामयेत प्रजातान् भ्रातृव्यान्नुदेय प्रतिजनिष्यमाणानिति विज्ञायते ॥ १२.७ ॥

English

According to tradition, those who wish to destroy existing and future enemies should construct a fire-altar in the form of a rhombus (made of two isosceles triangles, ubhayata prauga).

मूलम्

उभययः प्रौगं चिन्वीत यः कामयेत प्रजातान् भ्रातृव्यान्नुदेय प्रतिजनिष्यमाणानिति विज्ञायते ॥ १२.७ ॥

टीका

उभयतःशकटमेव चिन्वीत यः कामयेतोत्पन्नानुत्पत्स्यमानांश्च शत्रून् बाधेयेति ।

विश्वास-प्रस्तुतिः

यथा विमुखे शकटे ॥ १२.८ ॥

English

This (rhombus) looks like two inverted (fore parts) of a cart (joined together).

English - comment

12.7-12.8. For the construction of a rhombus or two isosceles triangles on either side of the common base, Baudhyāyana’s rules, Bśl. 2.8 may be referred to. The seven- fold fire-altar in the form of a rhombus, with the types of bricks to be used, has been discussed by Baudhāyana (Bśl. 15.1-15.6). In the case of the rhombus fire-altar, the bricks are to be made as in the case of the praugaciti, and these should be in the form of a rhombus, as Karavinda explains (karaṇāni cayanavidhiśca praugavat | viseṣaḥtūbhayataḥ praugāḥ iṣṭakāḥ|)

मूलम्

यथा विमुखे शकटे ॥ १२.८ ॥

विश्वास-प्रस्तुतिः

तावदेव तीर्घं चतुरश्रं विहृत्य पूर्वापरयोः करण्योरर्धात्तावति दक्षिणोत्तरयोर्निपातयेत् । सा नित्योभभयतः प्रौगम् ॥ १२.९ ॥

English

As in the case (of the isosceles triangle), a rectangle (twice the area of 7 sq. purușa) is constructed and the mid-points of the eastern and western sides are joined to the mid-points of the southern and northern sides (of the rectangle, and the area lying outside these lines is cut off); this is the exact rhombus.

मूलम्

तावदेव तीर्घं चतुरश्रं विहृत्य पूर्वापरयोः करण्योरर्धात्तावति दक्षिणोत्तरयोर्निपातयेत् । सा नित्योभभयतः प्रौगम् ॥ १२.९ ॥

विश्वास-प्रस्तुतिः

प्रौगचितोक्तीः (क्तं) । उभयतः प्रौगा इष्टकाः कारयेत् ॥ १२.१० ॥

English

(Bricks for this fire-altars are to be made in the same manner) as described in the case of the isosceles fire-altars.

English - comment

12.9-12.10. These two sūtras and the first three (13.1-13.3) of the next chapter deal with the construction of the fire-altar in the form of a chariot wheel. Apastamba refers to the same type of rathacakraciti, as discussed in detail by Baudhāyana (Bśl. 16.1-16.5) and explained in the notes concerning these sūtras.

मूलम्

प्रौगचितोक्तीः (क्तं) । उभयतः प्रौगा इष्टकाः कारयेत् ॥ १२.१० ॥

टीका

तावदेव सप्ताधेस्य द्विगुणम् । इह तु दीर्घचतुरश्रस्य द्विगुणायामप्रमाणविस्तारः । पुरुषद्वयेन त्रिबिररद्निभिः षोडशभिरङ्गुलैः सार्धैकविंशत्या तिलैः मिता तिर्यङ्मानीमध्ये च शङ्कून्निहत्य शङ्कुषु रज्ज्वा वेष्टयित्वा बाह्यतस्त्यजेत् । सप्तषशष्ठिशतत्रयमङ्गुलीनां चतुर्दशभिस्तिलैःसार्धयीषाप्रामाण्यम् । आसां द्वादशेन करणानि कारयेत् । प्रौगचितोभयतः प्रौगेष्टकाः कारयेत् । उभयतः प्रौघाकाराः इष्टकाः पादाश्वोभयतः प्रौघीभूताः । चयनविधिरुक्तः प्रौगे । तत्र श्लोकः

त्रिसप्तकैस्तिलैर्युक्तां साष्टाविंशशतत्रयीम् ।

प्रौगस्योत्तरस्याग्नेः तिर्यङ्भानीं विदुर्बुधाः ॥

तिर्यग्द्विगुणितायामे चतुरश्रे हविर्भुजः ।

शङ्गून्निहत्य मध्येषु करणेषु चतुर्ष्वपि ॥

रज्जुं शह्गुषु संयोज्य श्रोण्योरंसान् परित्यजेत् ।

शिष्टं सप्तार्धमेव स्याच्छकटे विमुखे यथा ॥

चतुर्दशतिलैर्युक्तं सप्तषष्टिशतत्रयम् ।

प्रौघस्योत्तरस्यैतदीषामात्रं प्रकल्पितम् ॥

ईषाद्वादशभागेन तथा भागोत्तरेण च्च ।

उभ्यतः प्रौगीभूताः सपादाः कारयेदिह ॥

करविन्दीया व्याख्या

उभ ते

उभयतः प्रौगं उभयतः शकटमुखम् । प्रजातान् शत्रून प्रणुदेयं जनिष्यमाणांश्च प्रणुदेयं यथा न जायन्ते तथा करवाणीत्यर्थः ।

श्रुतिपदं व्याचष्टे

यथावि तोक्ताः

विमुखे नानामुखघे शकटे यथा पृष्ठै संहिते तिष्ठेते तादृगाकारमुभयत्र प्रौगं तथा चिन्वीतेत्यर्थः । तावदेव पूर्वोक्तं सारत्निप्रादेशश्च सप्तविधस्य द्वियुणं दीर्घं चतुरश्रं विहृत्य तिर्यङ्नानीपार्श्वमानीनां मध्ये शङ्कुं निहत्य पूर्वस्माच्छङ्कोः दक्षिणं शङ्कुं प्रत्यक्ष्णया लिशेद्दक्षिणतः पश्चिमं पश्चिमतः उत्तरमुत्तरतः पूर्वं, एवं लिशेदुभयतः प्रौगाकृतिक्षेत्रं भवति । विस्तारद्विगुणायामं दीर्घं पञ्चपुरुषाः सप्तदशाङ्गुलास्वायामः, द्वौ पुरुषावष्टषष्टिरङ्गुलय एकविंशतितिलाश्च तिर्यङ्भानी दीर्घचतुरश्रस्य ॥

उभय येत्

करणानि चयनविधिश्च प्रौगवत् । विशेषस्तूभयतः प्रौगाः इष्टकाः । त्रयः पुरुषाःसप्त चाङ्गुलयः सप्तदश तिलाश्च एषां प्रमाणम् । अस्य द्वादशो भागस्त्रिंशदङ्गुलयः पञ्चविंशतितिलाश्च । त्रयोदशो भागोऽष्टाविंशतिरङ्गुलयः त्रिभागोना नव तिलाश्च । शतद्वयं अष्टाविंशतिरङ्गुलयः एकविंशतितिलाश्वोभयतः प्रौगस्य तिर्यङ्भानी । तस्या द्वादशभागेन त्रयोदशभागेन परिमितं करणं यथा भवति तथा भवेत्करणम् । अर्धेष्टका द्वादशभागीयाभिस्त्रयोदशभागीयाभिस्व आयामतस्तुल्याः विस्तारतस्तदर्धविस्ताराः । पादेष्टका आयामतो विस्तारतश्वार्धाः । प्रथमे प्रस्तारे याःपादा उपहिताः ते द्वितीये तदन्यत्रोपधेयाः । द्वादशभागीयापक्षे चतस्रोर्ऽदेष्टकाः त्रयोदशभागीयापक्षे द्वे ॥

सुन्दरराजीया व्याख्या

उभयतःशकटे

विमुखे विपर्यस्तमुखे प्राक्पश्चान्मुखे यथा शकटभागे तादृगेषोऽग्निर्भवति ।

ताव येत्

द्विस्तावदग्निक्षेत्रविस्तारद्विगुणायामं दीर्घचतुरश्रं विहरेत् । त्रीणि शतान्यष्टाविंशतिश्वाङ्गुलयो द्वाविंशतितिलाश्च तिर्यङ्भानी । द्विगुणा पार्श्वमानी । एवं विहृत्य पूर्वापरयोः करण्योर्मध्यात्दक्षिणोत्तरयोर्णध्ये निपादयेत् । बहिष्पन्द्यमपच्छिन्द्यात् ।

सुतोक्तः

एकविधोक्त इष्टकादिः ।

उभ रयेत्

द्वादश्याश्वत्वारि फलकानि त्रिंशदङ्गुलानि सैकविंशतितिलानि । एकाक्ष्णया सप्तविंशत्यङ्गुला त्रयोदशतिलयुक्ता । द्विगुणान्या । एषामर्धैः पाद्यास्तृतीयैर्नवम्यः । त्रयोदश्याश्वत्वारि फलकानि सपाद्ष्टाविंशत्यङ्गुलानि, इत्येकः कर्णरज्जुः । एक विधवदेवोपधांनम् । रीतयस्तु कोणादिमुखाः । द्वितीयप्रस्तारे मध्ये विंशतिः पाद्याः, अष्टादश नवम्यः । ता अपि मध्यस्थपादानां पश्चात्पुरक्ताच्च विधेयाः ॥

कपर्दिभाष्यम्

विश्वास-प्रस्तुतिः

रथचक्रचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते ॥ १२.११ ॥

English

According to tradition, a fire-altar in the form of a chariot wheel is to be constructed (when it is desired) to destroy enemies.

मूलम्

रथचक्रचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते ॥ १२.११ ॥

विश्वास-प्रस्तुतिः

यावानग्निः सारत्निप्रादेशस्तावतीं भूमिं परिमण्डलां कृत्वा तस्मिंश्चतुरश्रमवदध्याद्यावत्सम्भवेत् ॥ १२.१२ ॥

English

A circle of area equal to that of the (seven-fold) fire-altar with (two) aratnis and (one) prādeśa is made and the largest possible square is inscribed in it.

मूलम्

यावानग्निः सारत्निप्रादेशस्तावतीं भूमिं परिमण्डलां कृत्वा तस्मिंश्चतुरश्रमवदध्याद्यावत्सम्भवेत् ॥ १२.१२ ॥

टीका

शुल्बान्तरे रथचक्रद्वयमुक्तम्॑ अनेनाचार्येणैकमेवोक्तम्॑ तस्मात्तदेवोच्यते । यावानग्निःसारत्निप्रादेशो द्विस्तावतीं भूमिं परिमण्डलां कृत्वा उभयतः प्रौगस्य या तिर्यङ्भानी तया चतुरश्रं करणं कृत्वा तेनेष्टकाः कारयेत् । ताश्चतुरश्रे चतुश्वत्वा रिंशदधिकशतमुपधाय तासां चतुरश्रमवदध्याद्यावत्सम्भवेत् ।

इति द्वादशः खण्डः