English - comment
CONSTRUCTION OF A RECTILINEAR ŚYENACIT WITH SQUARE BRICKS
विश्वास-प्रस्तुतिः
चतुरश्राभिरग्निं चिनुत इति विज्ञायत । समचतुरश्रा अनुपपदत्वाच्छब्दस्य ॥ ११.१ ॥
English
According to tradition, the fire-altar is to be constructed with four sided (bricks); in the absence of anything mentioned in particular, a square is to be understood.
मूलम्
चतुरश्राभिरग्निं चिनुत इति विज्ञायत । समचतुरश्रा अनुपपदत्वाच्छब्दस्य ॥ ११.१ ॥
टीका
अस्याःश्रुलेरर्थस्तर्क्यते किं समानानां चतुरश्राणां चाविशेषग्रहणं आहोस्वित्समानामामेवेति? कुतः? विशेषाग्रहणात् । न कश्विद्विशेषः श्रूयते । तस्मादविशेषेणेति प्राप्ते उच्यते समचतुरश्रा एव ग्राह्याः । कुतः अनुपपदत्वाच्छब्दस्य । यत्रोपपदं न श्रूयते दीर्घो विषम इति वा तत्र समचतुरश्राणामेव मुख्यत्वात्मुख्येर्थे प्रथमं प्रत्ययो भवति॑ यतः प्रतीयते तस्यार्थो भवति । इतरत्र गौणः । तस्मात्सपचतुरश्राभिरेवोपा धातव्यः । नाध्यर्धाभिरिति स्थितम् ।
विश्वास-प्रस्तुतिः
पादमात्रयो भवन्ति अरत्निमात्रयो भवन्त्यूर्वस्थिमात्रयो भवन्त्यणूकमात्रयो भवन्तीति विज्ञायते ॥ ११.२ ॥
English
(The bricks should be) of the measure of pada, aratni, urvasthi and aṇuka; this is the tradition.
मूलम्
पादमात्रयो भवन्ति अरत्निमात्रयो भवन्त्यूर्वस्थिमात्रयो भवन्त्यणूकमात्रयो भवन्तीति विज्ञायते ॥ ११.२ ॥
टीका
चतस्र एताःश्रुतयः । तासासावयमेव व्याचष्टे
विश्वास-प्रस्तुतिः
चतुर्भागीयमणूकम् । पञ्चमभागीयारत्निः । तथोर्वस्थि ॥ ११.३ ॥
English
anūka is one-fourth (of a purușa), aratni one-fifth (of a purușa), and so is ūrvasthi (one-sixth of a purușa).
मूलम्
चतुर्भागीयमणूकम् । पञ्चमभागीयारत्निः । तथोर्वस्थि ॥ ११.३ ॥
टीका
अणूकशब्दः पुरुषचतुर्थस्य वाचसः । अरत्निः पञ्चमस्य । तथा तेनैव प्रकारेण ऊर्वस्थि षष्ठस्य । षड्भागीया इति शुल्बान्तरे ।
विश्वास-प्रस्तुतिः
पादेष्टका पादमात्री ॥ ११.३ ॥
English
The quarter bricks have the measure of a pāda;
मूलम्
पादेष्टका पादमात्री ॥ ११.३ ॥
विश्वास-प्रस्तुतिः
तत्र यथाकामी शब्दार्थस्य विशयित्वात् ॥ ११.४ ॥
English
there one is free to choose owing to the wide range of the meaning of the word (pada).
English - comment
11.1-11.4. In this chapter, another method of constructing a rectilinear syenacit is described, in which only square bricks are employed. These bricks are :
B1 -one-fourth (of a purușa), caturbhāgiyā, aṇuka —
B3 -one-sixth, ūrvasthi, ṣaḍbhāgiyā —
B4 -quarter of one-fourth, aṇukapādā, caturbhāgiyapādā —
B5 -quarter of one-fifth, pañcamabhāgiyapādā —
aņuka means one-fourth of a purușa, i.e. 30 añgulas; aratni has already been explained; urvasthi stands for one-sixth of a purușa, i.e. 20 añgulas (puruṣasya ṣaṣtḥo bhāga ūrvasthi- Karavinda). pāda is a quarter; by using it with bricks of size one-fourth, one-fifth etc. of a purușa, their quarter bricks are indicated.
मूलम्
तत्र यथाकामी शब्दार्थस्य विशयित्वात् ॥ ११.४ ॥
टीका
चतुर्भागीयः पाद इति संज्ञा विहिता शास्त्रान्तरे । पाद शब्देन प्रमाणचतुर्भागो गृह्यते क्षेत्रचतुर्भागश्च । पादः प्रमाणमस्याः पादमात्री । पादशब्दस्य संबन्धशब्दत्वात्पुरुषचतुर्भागोऽपि गृह्यते अणूकादिचतुर्भागश्च सन्निहितत्वात् । तेषां पादेष्टकाभिरित्युक्ते पुरुषचतुर्भागा अणूकादिचतुर्भागाश्च प्रतीयन्ते । कुतः? शब्दार्थस्य विष(श)यित्वात । वक्ष्यति च अणूकाः पञ्चदशभागीयानां स्थान इति । सङ्ख्यापूरणेऽणूकानां प्रवेशं दर्शयति । ऊर्वस्थयरत्नयोः एकार्थत्वं केचिदिच्छन्ति । ते पञ्चदशभागीयाभिःसङ्ख्यापूरणं कुर्वते । तेषां दर्शने प्रस्तारा न युज्यन्ते । सहस्रसङ्ख्या तु पूर्यते प्रतिप्रस्तारमिति वचनमनर्थकमापद्येत । ये प्रस्तारा ते द्विशता इति वजनानि न युज्यन्ते । तस्मात्पूर्वोक्त एवार्थो ग्रह्यः । सर्ववचनानामर्थवच्वाय ।
करविन्दीया व्याख्या
अथ चतुर्थः पटलः
चतुर यते
चतुष्कोणाबिरिष्टकाभिरग्निं चिनुते । कीदृश्यो ग्राह्या इत्यत आह
सनच ब्दस्य
ता इष्टका अदीर्घविषमाः समचतुरश्रा ग्रह्याः । कुतः? अनुपपदत्वाच्छब्दस्य । न ह्यत्रोपपदं श्रूयते दीर्घाभिरिष्टकाबिर्विषमाभिर्वेति । अतः “समं स्यादश्रुतत्वादिति” न्यायेन समा एव स्युः । पूर्वस्मिन्नग्नौ दीर्घाश्च सन्ति । अतो विधिभेदाद्वा विकल्पः पूर्वेणाग्निना । नित्यश्वाकामश्रुतेः ।
अग्निकल्पस्यैव श्रवणं प्रदर्शनार्तम् । आसां श्रुत्यैव दर्शयन्नाह
पाद यते
एताश्रतस्रःश्रुतयः इष्टकानां प्रमाणं विदवति । सम्भवाच्च तासां समुच्चयः । पादमात्रयः पाद प्रमाणाः । पादशब्दस्वरणचतुर्थभागादौ वर्तते । इह चतुर्मागवाची । स चतुर्भागोऽणूकादीनां ग्राह्य इत्युत्तरसूत्रे प्रतिपादयिष्यते । पादप्रणाणाः पादमात्रयः । अरत्निः सकनिष्ठिकः करः । स च पुरुषस्य पञ्चमबागः । वक्ष्यति च पञ्चारत्निः पुरुवः चतुर्विंशत्यङ्गुलयोरत्निरिति । तत्प्रमाणा अरत्निमात्रयः । उर्वस्थि ऊर्वोरस्थि । अणूकं पृष्ठवंशः । ता ऊर्वस्थिजान्वास्थिनाम्प्तयोर्नाणूकस्येत्यत्र व्याख्यानात् । पुरुषस्यः ष्ठो भाग उर्वस्थि । चतुर्थो भागोऽणूकः । एतच्च उत्तरसूत्रे स्पष्टं वक्ष्यति । तत्प्रमाणा ऊर्वस्थिमात्रयः । अणूकामात्रयश्च ।
आ(ता)सोमवदिकपमाणवशेन संज्ञाविशेषविधानार्थमाह
चतुर्मि त्री
अणूकारत्नयूर्वस्थिशब्दैः तन्मात्रय इष्टका गृह्यन्ते । उपसंहारे पादमात्रीष्टकेति दर्शनात् । संज्ञासु स्त्रीलिह्गनिर्द्देशाच्च । किञ्चाणूकादिशब्दैरपीष्टकानां व्यवहारा दृश्यन्ते । “अणूकाः पञ्चदशभागीयानां स्थाने सन्ध्यन्तराले पञ्चमबागीयाःसपादाःता आत्मनि चतुर्दशभिः पादैर्यथायोगं पर्युपदध्यात्” इत्यादिषु अणूकमात्री चतुर्भागीया तत्संज्ञा भवतीत्यर्थः । पञ्चमभागीयारात्निः अरत्निमात्री पञ्चमभागीयाख्या । तथोर्वस्थि उर्वस्थिमात्री षड्बागीयाख्या । पादेष्टका पादमात्री । ननु कथमेतल्लभ्यते षड्भागीयोर्वस्थीति? तथेति प्रकारातिदेशात् । कथमतिदेशः? यथारत्निमात्रीसङ्ख्या सन्निकर्षेण स्वपूर्वोक्तारत्निमात्रीप्रमा(णे)णान्यूनानन्तरपरिमाणवचन संज्ञा स्यादिति तथोर्वस्थिमा६ अपि संख्या तत्सन्निकर्षेण स्वपूर्वोक्तारत्निमात्री प्रमाणान्यूनानन्तरपरिमाणवचनसंज्ञा स्यादिति । किञ्च षड्बागीयोर्वस्थीति वक्तव्य तथेत्ययमतिदेशः प्रकृतपुरुषावयवप्रमाणप्रकारसमाप्तिसूचनार्थः । तेनोर्वस्थयन्तानामेवावयवप्रमाणपरिमाणत्वं न पादमात्रीणामिति ज्ञायते । अतःस्ववाक्यसन्निहितत्वात्"उपधानेऽष्टावष्टौ पादेष्टकाः चतुर्भागीयानां पक्षाग्रयोर्निदध्यात् । सन्ध्यन्तराले पञ्चमभागीयाःसपादाःता आत्मनि चतुर्दशभिः पादैर्यथायोगं पर्युपदध्यात्” इति दर्शनाच्च । अणूकार्दानां पादा इह पादत्वेन गृह्यन्ते न चरणादयः । किञ्चश्वुतिदृष्टमपहायाणूकादीनां व्युत्क्रमेण पाठपौर्वापर्ये पूर्वस्य प्रमाणाधिक्यज्ञापनार्थः । तेनोर्वस्थिप्रमाणानामरत्निमात्रीभ्यो न्यूनप्रमाणत्वं पादमात्रीणामणूकारत्नचूर्वास्थिमात्रीभ्यो न्यूनप्रमाणत्वं च ज्ञापितं भवति । एतच्च सर्वमुक्तं भगवता बोधायनेन “समचतुरश्राभिरग्निं” चिनुत “इत्युपक्रम्य तस्येष्टकाः कारयेत् । पुरुषस्य चतुर्थेन पञ्चमेनः ष्ठेन दशेमन च” इतिवदता । अतोऽणूकादिपादा इह पादत्वेन गृह्यन्ते । ते च तेषामर्धेन ग्राह्याः । अर्धप्रमाणेन पादप्रमाणं विधीयत इति न्यायात् । अतः पञ्चदशाङ्गुलाणूकपादाः द्वादशाङ्गुलारत्निपादाः दशाङ्गुला ऊर्वास्थिपादाः । तेनेह षड्विधा इष्टकाः । तादृशैः करणैः कार्याः । नन्वणूकादिशब्दैरासां परिमाणज्ञाने व्यवहारे च सिद्धे किमर्थं महत्यः संज्ञाः क्रियन्ते? उच्यते श्रौतनामणूकादिशब्दानां पूरुषचतुर्भागादिमात्रपरिमाणपरत्वज्ञापनेन तस्य तस्य पुरुषस्य चतुर्भागादिपरिमाणैरिष्टकानिर्माणार्थम् । तथाहि लोके द्विविधाः पुरुषाः समाश्च विषमाश्च । तत्र समाःसामुद्रीयाशेषलक्षणोपेताः । कतिपयैर्विहीना विषमाः । समाःसामुद्रीयाशेषलक्षणोपेताः । कतिपयैर्विहीना विषमाः । समानामणूकादयः । तदपेक्षया नियतपरिमाणत्वान्मुख्यतया गृहीताः । इतरेषां तु गर्भाधानादिकालस्तितप्राकृतादृष्टादिवशेन न्यूनाधिकवक्राद्यनेक रूपाङ्गतयाणूकादिषु चतुर्भागादिनियमव्यभिचारात्तत्प्रमाणैरुत्पादितानामिष्टकानां उपधानकाले तत्संख्याकानां तासां तत्र तत्रोपधाने ताभिस्ताभिस्तद्देशपूरणं न्यूनाभिर्वा पूरणम् । भिन्नजातीयानां तत्रत्यानां तत्र तत्र सङ्घट्टनमित्येवमादयो महान्तो दोषास्तत्र सम्भीवष्यन्तीति । अतःश्रुतिगताणूकादिशब्दैस्तद्वैषम्यपरिहाराय पुरुषचतुर्मागादयो लक्ष्यन्त इत्यस्यार्थस्य प्रतिपादनायान्वर्था महत्यःसंज्ञाः कियन्ते । तेनायमर्थःसंपद्यते ऊर्ध्वबाहोः पुरुषस्य प्रमाणं गृहीत्वात्स्य चतुर्थेन पञ्चमेनः ष्ठेन वा तेषां अर्धेष्टकाः कारयेदिति । अत्र केचिद्वर्वश्थ्यरत्वयोरेकार्थतामिच्छीन्त । तेषां मतेऽग्निकल्पे तथोर्वस्ति शब्दस्यारत्निशब्दस्य वा पृथगुपादानं पुनरुपादानं श्रुतिदर्शनं च सूत्रकारस्य प्रमादकृतमेवावतिष्ठते ।
तत्र या यित्वात्
गतम् । अयमर्थः चतुर्भागादयः पुरुषचतुर्भागपरिमिताः स्युः । पुरुषकल्पनानुरूपाः स्युरिति चतुर्भागीयास्त्रिंशदङ्गुलाः पञ्चभागीयाश्चतुर्विंशत्यङ्गुलाः षड्भागीयाः विंशत्यङ्गुलाः । तासां पादास्तदर्थमिताः पञ्चदशद्वादशाङ्गुलाश्चेति ।
सुन्दरराजीया व्याख्या
अथ चतुर्थः पटलः
अथैतमेव चतुरश्वं प्रकारान्तरेणोपधातुमाह
चतुरश्राभि त्वाच्छब्दस्य
अनुपपदत्वं दीर्घादिभिरिति विशेषणाभावः ।
पादमात्रयो विज्ञायते
एषां पादादीनां प्रमाणमाह
चतुर्भागीयाणूकम्
पुरुषस्य चतुर्भागीया त्रिंशदङ्गुला अणूकमात्रीत्युच्यते ।
पञ्चमभागीयारात्निः
चतुर्विंशत्यङ्गुला ।
तथोर्वस्थि
तथा तेनैव मार्गेणोर्वस्थि ज्ञातव्यं, तच्च षढ्भागीयं विंशत्यङ्गुलम् । केचिदूर्वस्थीत्यपि पञ्चमभागीयामेवाहुः, तदयुक्तम् । “कुल्मिमात्रोऽरत्निप्रादेश ऊर्वस्थीति” भेदेन निर्देशात् । “इष्टकाः करोति प्रादेशमात्रयोऽरत्निमात्रय ऊर्वस्थिमात्र” इति प्रयोगकल्पे पृथग्वचनात्तदूर्वस्थीत्यादिवचनाच्च । व्यक्तोक्तत्वाच्च बोधायनेन “तस्येष्टकाः कारयेत्पुरुषस्य चतुर्थेन पञ्चमेन षष्ठेन दशमेन” इति ।
पादेष्टका पादमात्रि
पादश्वाविशेषादणूकादीनां च सर्वासां च भवति ।
तत्र यथाकामीशब्दार्थस्य विशयित्वात्
लोके पादशब्दश्चतुर्भागवचनः प्रसिद्धः । व्कचिदेकदेशमात्रे । “कृच्छ्पादः प्रकीर्तित” इति “ऋचं पादग्रहण” इति ऋक्षु च । वेदे त्वेकदेशमात्रे दृश्यते “त्रिपदा गायत्री पञ्चपदा पाङ्क्तिर्ः ,चपपदा शव्करी” इति । इह तदुभयं ग्राह्यम् । शब्दार्थस्योभयत्र वृत्तेः । अत्र च पादशब्दार्थनिरूपणं क्रियते एकविधाद्यर्थम् । अस्मिं स्त्वग्नौ चतुर्भागवचनेऽपि पादे न कश्विद्दोषः । ये तु षड्भागीयान्नेच्छन्ति तेषामेवोपयोगः, अणूकारत्निपादत्वेन दशाङ्गुलाष्टाङ्गुलानां ग्राह्यत्वात् ।
कपर्दिभाष्यम्
विश्वास-प्रस्तुतिः
उपधानेऽष्टावष्टौ पादेष्टकाश्चतुर्भागीयानां पक्षाग्रयोर्निदध्यात् । सन्ध्योश्च तद्वदात्मानं षडङ्गुलापेताः ॥ ११.५ ॥
English
In the placement (of bricks), 8 bricks of size quarter of the one-fourth (that is, 15 x 15 sq. ang.) are to be placed at each end of the two wings and 8 similar bricks at the (two) junctures (between the wing and the body) such that 6 angulas (of the bricks) lie within the body.
मूलम्
उपधानेऽष्टावष्टौ पादेष्टकाश्चतुर्भागीयानां पक्षाग्रयोर्निदध्यात् । सन्ध्योश्च तद्वदात्मानं षडङ्गुलापेताः ॥ ११.५ ॥
टीका
उपधानकाले अष्टावष्टौ चतुर्भागीयानां पादेष्टकाः पक्षाग्रयोरूपदधायात् । अष्टावष्टाविति विशयाः । अत्मानं षडङ्गुलमात्रमवेताः अवगता व्याप्ता इति यावत । नवाङ्गुलमात्रं पक्षयोः ।
विश्वास-प्रस्तुतिः
श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचिश्च ॥ ११.५ ॥
English
8 bricks (of the same type) are placed on the western corners (of the body, 4 on each, lined) towards east and 8 bricks on the eastern corner towards west.
मूलम्
श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचिश्च ॥ ११.५ ॥
टीका
श्रोण्यंसयोस्वतस्रश्चतस्रः । ताः पादाः । प्रचीःश्रोण्योः । अंसयोः प्तीचीः । एवं चतुर्भागीयपादा अष्टाचत्वारिंशत् ।
विश्वास-प्रस्तुतिः
सन्ध्यन्तराले पञ्चभागीयाः सपादाः ॥ ११.६ ॥
English
In the space (of the body) between the two junctures (with the wings), bricks of size one-fifth (of a puruṣa) and their quarters (are placed).
मूलम्
सन्ध्यन्तराले पञ्चभागीयाः सपादाः ॥ ११.६ ॥
टीका
पक्षसन्ध्योरन्तराले पञ्चमभागीयाः पादसहिताः । मध्ये पादाः । दश प्रतीचिः । तासां दक्षिणतः पठ्चविंशतिः पञ्चमभागीयाः । उत्तरतो विंशतिः ।
एवं सन्ध्यन्तराले पञ्चपञ्चाशदिष्टकाः उपधेयाः ।
विश्वास-प्रस्तुतिः
पुच्छे प्रादेशमुपधाय सर्वमग्निं चतुर्भागीयाभिः प्रच्छादयेत् ॥ ११.७ ॥
English
After placing bricks of size equal to 1 prādeśa in the tail, the whole of the (remaining space of the) fire-altar is to be covered with one-fourth bricks.
मूलम्
पुच्छे प्रादेशमुपधाय सर्वमग्निं चतुर्भागीयाभिः प्रच्छादयेत् ॥ ११.७ ॥
टीका
प्रादेशशब्देन किं क्षेत्रमभिधीयते? पुच्छे यत्प्रादेशमिति? अथवा इष्टकाः प्रादेशेन कारिताः? यदि क्षेत्रमभिधीयेत प्रादेशपङ्क्तिरेवोपधातव्या स्यात् । तथा सति भिद्येताग्निः । इतरस्मिन्पक्षे यथा न भिद्यते तथा प्रादेशेष्टका भवेयुः । प्रादेशमिति जातावेकवचनम् । प्रादेशेष्टकाभिःसहाणूका न शेरते । शेरते तु पञ्चभागीयास्ताभिःसह । अतश्चतस्रश्चतस्रः श्रोण्योः पादेष्टकास्त्रयोदश पञ्चमभागीयाः । पूर्वार्धेऽष्टावणूकाः । एवमेकोनत्रिंशत्पुच्छे । अपरे पुनरेवं वर्णयन्ति यस्य वितस्तया वर्धनं कृतं तत्रापि चतुरश्रश्रुतिसामर्थ्यात्प्रादेश एवेष्टकाभिर्व्याप्यत इति । एवमर्थं प्रादेशग्रहणमिति । तस्मिन्नपि पक्षे उक्त उपधानक्रमः । सर्वमिति द्वात्रिंशत् । अष्टाविंशतिरात्मन्युक्ताः । पुच्छपूर्वार्धेऽष्टौ ॥
विश्वास-प्रस्तुतिः
पादेष्टकाभिः संख्यां पूरयेत् ॥ ११.८ ॥
English
The number (of 200 bricks) is to be completed with quarter bricks.
English - comment
11.5-11.8. The plan of placing bricks in the first layer is shown in Fig. 11. The number of bricks used in different parts of the fire-altar, as per explanations of the commentators, are shown in Table 3.
Fig. 11. Arrangement of square bricks in the first layer of a caturasra syenacit; bricks in the tail in (a) due to Kapardisvāmī, in (b) due to Karavinda and in (c) due to Sundararāja.
The direction for the placement of 8
leaving a rectangular strip which can be fitted by 10
To complete the number 200, Sundararāja’s arrangement shows a deficit of 11 bricks. From the western half of the tail 2
मूलम्
पादेष्टकाभिः संख्यां पूरयेत् ॥ ११.८ ॥
टीका
पञ्चदशभागीयाभिःसंख्यां पूरयेत् । आत्मनि द्वितीयायां रीत्यां मध्यमां चतुर्भागीयां मध्यमे द्विशतः प्रस्तारः ॥
करविन्दीया व्याख्या
उपधा ध्यात्
उपधानकाले पञ्चदशाङ्गुला अष्टावष्टौ पक्षाग्रयोर्निदध्यात् । पक्षात्मसन्धयोश्च तद्वदात्मनि षडङ्गुलावेताः । पक्षात्मसन्ध्योश्वाष्टावष्टौ । ताःषडङ्गुलाःश्येनात्मनि प्रविष्टाःश्रोण्यंसेषु च । चकारेण तद्वदित्याकृष्य सामर्थ्याद्विशयाभावः । श्रोण्यंसेषुचतस्रश्चतस्रः । विशेषमाह अष्टावष्टौ प्राचीः प्रतीचीश्च । श्रोण्योः प्राचीः अंसयोः प्रतीचीः । ननु अष्टावष्टाविति वीप्सया प्राप्तानां स्थानचतुष्टयनिर्द्देशे प्रतिस्थानमष्टावष्टौ कथं न स्युः? उच्यते “अष्टौ प्राचीः प्रतिस्थानमष्टावष्टौ कथं न स्युः? उच्यते “अष्टौ प्राचीः प्रतिचीश्वेति” वचनसामर्थ्यात्प्राचीनां प्रतीचीनां चाष्टत्वमवगम्यते न प्रत्येकं चतस्र एवेति । श्रोण्योःप्राच्यौ रीत्यावंसयोःप्रतीच्यौ । ता एता अष्टाचत्वारिंशत्चतुर्भागीयाः पादाःसन्ध्यन्तराले पञ्चमभागीयाःसपादाः पक्षसन्ध्योर्मध्ये आत्मनि पञ्चमबागीयाःसपादाः सामर्थ्यात्स्वपादैःसहिता निदध्यात् । अत्र दक्षिणभागे विशयानामुत्तरतः पञ्चविंशतिः पञ्चमभागीयाः । उत्तरभागे विशयानां दक्षिणतो विंशतिः पञ्चमभागीयाः । मध्ये दश प्रदेशाः । एवमेताःसन्ध्यन्तराले पञ्चपञ्चाशदिष्टकाः ॥
पुच्छे येत्
गतमेतत् । पूर्वाग्नौ पुच्छाग्रप्रदेशे पृथग्रीतित्वे भेदप्रसङ्गेन तत्परिहारायायं यत्नः । अत्र तु मूलप्रदेशरय पृथग्रीतित्वे उपरितनप्रस्तारे वक्ष्यमाणविशयपञ्चमभागीयाविधेर्भेदः प्रसज्येतेति गम्यते । स चापि परिहार्य एव । ततश्चतुर्भागीयाभिरात्मशेषं पक्षशेषं च प्रच्छाद्य पुच्छे तु पूर्वार्धेऽष्टौ चतुर्भागीया उपधाय पश्चार्धे भेदाभावाय पञ्चदश पञ्चमबागीया उपदध्यात् । उक्तं चाभियुक्तैः
अवाधः कॢप्तदेशानां स्तारे स्तारे च पूरणम् ।
भेदभावोऽपि चाग्नीनामाचार्याणां परायणाम् ॥
इति । चतुर्भागीयाशब्दो बाहुयाभिप्रायः । प्रच्छादने प्रच्छादन शब्दस्यापि पूर्वोक्तमेव प्रयोजनम् । अत्र प्रादेशपृथग्रीतित्वे भेदप्रसङ्गात्सर्वाग्नेः प्रच्छादनर्य विहितत्वाच्चतुर्भागीयानां चासम्भवादुक्तानामसम्भवे भेदाभावाय च तत्रतत्रोक्तानामसम्भवे तत्रत्याभिःसम्भवन्तीभिरन्याभिः प्रच्छादनं कार्यमिति पूर्वमेवोक्तम् । तत्र दक्षिणे पक्षे पादानां मध्ये षोडशचतुर्भागीयाः । उत्तरे च ताः षोडश । आत्मनि सन्ध्योरन्तरालरच पुरतः पुरतः पादानां मध्ये चतूर्दश । ताः पश्चिमतश्वपादानां मध्ये चतुर्दश । अष्टौ पुच्छरय पूर्वार्धे । अपरार्धे पञ्चदश पञ्चमभागीयाः । सन्ध्यन्तराले पञ्चचत्वारिंशत्पञ्चमभागीयाः तत्र षष्टिरणूकाः । षष्टिः पञ्चमभागीयाः । अष्टाचत्वारिंशदणूकापादाः दश पञ्चमबागीयाः पादाः । ता एताःषडशीतिशतम् ।
अत्र चतुर्दशसंख्या सम्पाद्या । तत्सम्पादनमाह
पादे येत्
गतम् । आत्ममध्ये पञ्चम्यां रीत्यां उपान्त्यां चतुर्भागीयामुद्ध्रृत्य नव षड्भागीयान् पादानुपदध्यात् । पुच्छश्रोण्योरेकैकां पञ्चमभागीयामुद्धृत्य
चतुरस्तत्पादानुपदध्यात् । एवं द्विशतः प्रस्तारः । आत्मनि प्राच्यो रीतयः । पक्षयोर्दक्षिणोत्तरयोः पुच्छे चोदीच्यो रीतयः ॥
सुन्दरराजीया व्याख्या
उपाधानेऽष्टावष्टौ दध्यात्
चतुर्भागीयानां पादेष्टकाः पञ्चदशाह्गुलाः ॥
सन्ध्योश्ववेताः
सन्ध्योः पक्षाप्यययोः तद्वत्पक्षाग्रवदष्टावष्टौ ॥
ताश्वात्मानं षडङ्गुलेन प्राप्ताः, नवाङ्गुलेन पक्षौ ॥
शोण्यंसेषु चीश्च
एकैकत्र चतस्रश्चतस्रः, एवं षोडश प्राचीः प्रतीचीरिति पादाः अष्टावित्यत्र वीप्सार्थो द्रष्टव्यः । अथवा अनेन सूत्रेण श्रोण्यंसेष्वष्टावेव विधीयन्ते, “अन्या अष्टौ पादेष्टकाभिःसंख्यां पूरेयत्” इत्यनेन । सर्वथा तावत्षोडशैवोपधेयाः ।
सन्ध्यन्तराले पादाः
पक्षाप्यययोरन्तराले पञ्चमबागीयाः पञ्चचत्वारिंशत् । आसां मध्ये दश प्रादेशमात्रयः । पादशब्देन च सन्निहितत्वात्पञ्चमबागीयानां पादा उच्यन्ते । तासां पादेष्टकानां दक्षिणतो विंशतिः पञ्चमभागीयाः, उत्तरतः पञ्चविंशतिः, विपरीता वा ॥
पुच्छेप्रादेशमुपधाय
पुच्छाग्रे यत्प्रवृद्धं प्रादेशक्षेत्रं तदुपदध्यात्सामर्थयाद्दशभिः प्रादेशैः ॥
सर्वमग्निं दयेत्
एवं प्रच्छादिते एकोननवतिशतं (१८९ ) इष्टका भवन्ति ।
पादेष्ट येत्
पुच्छस्यापरार्धे पार्श्वेयोश्चतस्रश्चतस्रः पञ्चदशाङ्गुलाः । एवं कृते पञ्चोनद्विशतं भवति । ततः पुच्छस्य पूर्वार्धे पार्श्वेयोर्मध्ये तिस्रस्तिस्रःषड्भागीयाः प्रचीरुपदध्यात् । एवं द्विशतः प्रस्तारः ॥
कपर्दिभाष्यम्
विश्वास-प्रस्तुतिः
अपरस्मिन् प्रस्तारे पुच्छाप्यये पञ्चमभागीया विशयाः ॥ ११.९ ॥
English
In the other layer, one-fifth bricks are placed in the middle of the juncture of the tail (with the body).
मूलम्
अपरस्मिन् प्रस्तारे पुच्छाप्यये पञ्चमभागीया विशयाः ॥ ११.९ ॥
टीका
द्वितीये प्रस्तारे पुच्छाप्यये पुच्छात्मसन्धौ विशया उभयस्थाः पञ्चमभागीया उपधेयाः ।
विश्वास-प्रस्तुतिः
ता आत्मनि चतुर्दशभिः पादैर्यथायोगं पर्युपदध्यात् ॥ ११.९ ॥
English
14 bricks of size quarter of them (of one-fifth, that is, 12 x 12 sq. aṅg.) are placed around in the body as they fit.
मूलम्
ता आत्मनि चतुर्दशभिः पादैर्यथायोगं पर्युपदध्यात् ॥ ११.९ ॥
टीका
तासानेव पादेष्टकाभिः विशयासंसृष्टाभिः चतुर्दशभिरुपदध्यात् । आत्मनि यथा युज्यन्ते । इह षड्भागीयानां करणमुक्तम् । उपधानं नोक्तं यथा पूर्वत्रार्धेष्टकानां पुरस्ताच्चोपधेयाः पुच्छस्य पूर्वार्धे पार्श्वयोस्तिस्रस्तिस्रः षड्भागीयाः मध्ये चतस्रः । शिष्टे द्वादश चतुर्भागीयाः ।
विश्वास-प्रस्तुतिः
सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ ११.१० ॥
English
The whole of the (remaining) fire-altar is to be covered with one-fifth bricks.
मूलम्
सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ ११.१० ॥
विश्वास-प्रस्तुतिः
पादेष्टकाक्षिः सङ्ख्यां पूरयेत् ॥ ११.११ ॥
English
The number (of 200 bricks) is to be completed with quarter bricks.
मूलम्
पादेष्टकाक्षिः सङ्ख्यां पूरयेत् ॥ ११.११ ॥
टीका
इह पादेष्टकाशब्देन पुरुषस्य पूरयितव्यस्य चतुर्भागकारिका अणूका गृह्यन्ते । पञ्चमभागीयाश्च कृता उपधेया इत्युच्यन्ते । द्वादश चतुर्भागीया आत्मनि । प्रथमा रीतिः पञ्चमभागीयानाम् । द्वितीया रीतिश्चतुर्भागीयानाम् । षष्ठी प्रादेशानाम् । नवमी चतुर्भागीयानाम् । शिष्टे पञ्चमभागीयाः । एष प्रस्तारो द्विशतः । अत्र केचन याज्ञिकाः अनुपाशितगुरवः आचार्याभिप्रायमजानन्तः ऊनाद्दूय(ह्य)धिकप्रस्तारं कुर्वन्ति । अस्य तु सूत्रकारस्य प्रतिप्रस्तारं पूरयेदिति वदतस्तदनभिप्रेतमेव । यद्येवमभिमतमभविष्यत्सर्वत्र प्रतिप्रस्तारं संख्यां पूरयेदिति नावक्ष्यत् । उक्तं च॑ तस्माद्द्विशतः प्रस्तारः
कर्तव्यः ।
तत्र श्लोकः
अष्टौ श्रोण्यंसयोश्च स्युः पादाः सूत्रकृतेरिताः ।
तासां मध्ये चतुर्थ्यःस्युः चतुर्दश चतुर्दश ॥
सन्ध्यन्तराले पञ्चम्याः पादैश्च दश्भिःसह ।
तासां मध्ये दश प्रोक्ताः प्राच्यस्युःशुल्बकर्मणि ॥
अष्टौ पुच्छस्य पूर्वार्धे चतुर्थ्यःशिष्ट एव तु ।
द्वितीया नवमी चैव चत्तुर्थी नाम वात्मनि ॥
उदीच्य एव नित्यं स्युर्मध्याः पञ्चमपादकैः ।
कृताभिश्चतुरश्राभिरणूकोविर …. त्निभिः ॥
अस्या एव सपादाभिः प्रस्तारो द्विशतः कृतः ॥
इति ॥
करविन्दीया व्याख्या
अपर याः
द्वितीये प्रस्तारे पुच्छाप्यये एवं पञ्चपञ्चमभागीया उपधेयाः । अविशेषादात्मपुच्छयोःसमं प्रविष्टाः ॥
ता आ ध्यात्
ता विशयाश्चतुर्दशभिः पादैः प्रकृतत्वात्पञ्चमभागीयानां यथा योगं परितःसर्वतः उपदध्यात् । विशयानां पुरस्ताद्दश ।
सर्व येत्
पक्षयोस्त्रिंशत्त्रिंशच्पञ्चमभागीयाः पुरस्तात्प्रभृत्यात्मनि प्रच्छाद्यमाने उदगायताः पञ्चमभागीयानां नव रीतयः । चतुर्दशीयानां पादानां दक्षिणतो द्वे पञ्चमभागीये उत्तरतश्च द्वे । पुच्छे तु यथोक्ताभिः प्रच्छाद्यामाने बहुभेदप्रसङ्गात्षड्भागीया उत्पन्ना अपि न युक्ता इति षड्भागीयास्तिस्रस्तिस्रो विशयानां पश्चात्पुच्छपार्श्वयोः प्रतीचीरुपदधाति ““तासां पार्श्वे द्वेद्वे चतुर्भागीये प्रतीच्यौ उपधाय तासां मध्ये तिस्रः षड्भागीयाः प्रतीचीरुपदध्थात् । अपरार्धे चाष्टावणूकेष्टका उपदध्यात् । एवमात्मनि विशयाभिः सह एकोनशतं पञ्चमभागीयाश्चतुर्दशप्रादेशाः पक्षयोस्त्रिंशत्तिंशत्पञ्चमभागीयाः पुच्छे द्वादश चतुर्भागीया नव षड्भागीयाः । ता एताः षडूनं द्विशतम् । तत्र षट्संख्या सम्पाद्याऽऽ
पादे येत्
अत्र नवपञ्चमभागीयारीतीनां मध्यस्थामेकां पञ्चमभागीयारीतिमुद्धृत्य मध्ये विंशतिप्रादेशेष्टका उदीचीरुपदध्यात् । अत्र चतुःसंख्यातिरिच्यते । अतिरेके अधिकप्रमाणोपधानेन संख्यापूरणस्यान्याय्यत्वादणूकाः पञ्चमभागीयानां स्थान इति परिभाषयाणूकोपधानेन संख्यापूरणस्य न्याय्यत्वाच्च । ततः प्रादेशरोत्या पूर्वरीतिः यथा संश्लिष्टा भवति तथा कृत्वा पूर्वान्तरीतिमुद्धृत्य तत्राष्टावणूका उपदध्यात् । एवं प्रादेशरीत्याः परितस्तिस्रो रीतीः प्रच्याव्य द्वितीयां रीतिमुद्ध्त्याष्टावणूका उपदध्यात् । एवं द्विशतः प्रस्तारः । अत्र केचित प्रथमे प्रस्तारे पुच्छाग्रे दशप्रादेशानुपधाय पादेष्टकाश्वानादृत्य पञ्चदशभागीयाभिःसंख्यां पूरयन्ति । भेदमपि सहन्ते । प्रथमेऽपि प्रथमेऽपि प्रस्तारे सन्ध्यन्तरालेऽणूकास्तत्पादाश्वोपदधाति । तथोपधाने प्रयोजनं मृग्यम् । केचितु प्रच्छादनकाले संख्यापूरकाणां स्थानमवशिष्य प्रच्छाद्य संख्यापूरका उपदधति । तत्र तु सूत्राञ्जस्यमस्ति वा नवेति चिन्त्यम् ॥ तत्र्.अ श्लोकाः ।
ऊर्वर्स्थिशब्दसंयुक्ता श्रुतिर्मुख्यात्र या कृता । आचार्येणैव सूत्राणां षड्भागीया कृते तु सा । आक्यातमर्थं चाचार्यैस्तथोर्वस्थीति सूत्रितम् । षड्भागीयापदं तद्द्वदप्यन्यैःसूत्र्रितं परैः । हिरण्यकेशिनां शुल्बे तथोर्वस्थीति सूत्रितम् । व्याख्यातारोऽपि तत्रैतत्षड्भीगायापरं विदुः । बोधायनश्च भगवान् समे तु चतुरश्रके । तुर्यपञ्चमषष्ठैश्च सपादैः करणं व्यधात् । उर्वस्थिनामधेयानामुपदेशबलादिह । प्रच्छादितानामाभिस्तद्बाधःसूत्रकृतेष्टते । अरत्नयोऽप्यणूकाश्च छादने स्युर्विपर्ययात् । पूर्वस्मिन्नपरस्मिंश्च प्रस्तारे संभवो न हि । न पञ्चदशभागीया श्रूयते त्र द्वितीयके । श्रूयन्ते तास्तु पूर्वाग्नौ न तत्पूर्वो द्वितीयकः । प्रकृतित्वाद्द्वयोरग्नयोः नित्यत्वाच्च द्वयोरपि । अतस्तासं द्वितीयेऽग्नौ कथं प्राप्तिर्विमृश्यताम् । किन्तु तासां तु यत्कार्यं तत्राणूकास्तु बोधिताः । प्रथमाग्नेरतोऽन्यत्र तत्स्थाने स्युरणूकिकाः ।
ये त्वत्र पञ्चदशभागीयाभिःसंख्यापूरणं कुर्वन्ति ते किमुपदेशतो वा प्राप्तं मन्वते? अतिदेशतो वा? उभयथापि न युज्यते । द्वयोः प्रकृतित्वात्प्रकृतिविकाराभावाच्च । नन्वणूकाः पञ्चदशभागीयानां स्थान इति वचनसामर्थ्यात्तासां प्राप्तिर्भविष्यति ॥ इत्.इ चेन्न॑ पञ्चदशभागीयानां स्थान इति वचनं तत्कार्ये संख्यापूरणोऽण्कानां प्रापकम् । न तु संख्यापूरणमात्रे तासामप्यु पधायकम् । तस्माच्चिन्त्यमिदम् । सथमर्थमिदमाचार्येणोक्तं? उच्यते उपधीयमानानामिष्टकानां संख्यायाःस्थाने । न च प्रस्तारै संख्यासम्पत्तौ यदिष्टकाभेदादवयवभेदःस्यात्स मर्षणीय इति मन्यमानेनोक्तम् । तदेतद्द्वितीयश्येने प्रतिपादयिष्यते । केचित्तु याज्ञिका न्यूनाधिकप्रस्तारमग्नौ कुर्वन्ति समुदाये संख्यासम्पत्तिं मन्यमानाः । तदयुक्तम् । पञ्चदशप्रभृतिभिः प्रस्तारेः सहस्रादि संख्यायां सम्पाद्यमानायां विशेषाश्रवणे “समं स्यादश्रुतत्वात्” इति प्रस्ताराणां द्विशतत्वस्यैव न्याय्यत्वात् । रथचक्राग्नौ तस्य करण्या द्वादशेनेत्यादिना द्विशतानामेवोत्पादनाच्च । ननु यत्र यत्र प्रस्तारे पूरयेदिति वचनान्तरमस्ति तत्र प्रस्तारे संख्यापूरणमस्तु । तद्यत्र नास्ति तत्र समुदायसंख्या पूरणसंख्या इतरथा पूरणवचनस्यानर्थक्यप्रसङ्गात् । उच्यते न तत्रानर्थक्यप्रसङ्गः । कथं? तत्र हि न्यायप्राप्तं संख्यापूरणं तत्साधनत्वेन पञ्चदशभागीयानां विधानात् । यदि सर्वे प्रस्तारा द्विशताः किमर्थमेष द्विशत प्रस्तार इत्युच्यते? सिद्धे सत्यारम्भमात्रोद्देशेन सर्वेषां प्रस्ताराणां द्विशतत्वसम्पादनार्थम् । यथैकविधप्रस्तारो द्विशतः एवमन्येऽपि सर्वे प्रस्तारा द्विशतसंख्याः कार्याः । पूरणवचना भावेऽपीति न्यायप्राप्तमेवार्थं अनुवादेन द्रढयितुमयं यत्नः । तस्मात्सर्वे प्रस्तारा द्विशताः कार्या इति न न्यूनाधिका इति सिद्धं सर्वप्रस्ताराणां द्विशतत्वम् । प्रकृतिभूतःसप्तविध उक्तः । इदानीं नित्या विकृतय उच्यन्ते एकविधेति । एकविधादीनां षड्विधपर्यन्तानां षण्णामग्नीनां तस्यतस्याग्नेः करणीनां द्वादशभागेन त्रयोदशभागेन च इष्टकाः कारयेत् । अत्रैकविधस्य करणी शतं विंशतिः (१२०) अङ्गुलयः । द्विविधस्य एकोनसप्ततिशतं अङ्गुलयः चतुविंशतितिलाश्च । (१६९ २ । ३ ४ । ४) त्रिविधस्य द्वे शते सप्त ङ्गुलयः एकोनत्रिंशत्तिलाश्च (२०७ २ । ३ ९ । ४) चतुर्विधस्य द्वे शते चत्वारिंशच्चाङ्गुलयः (२४०) पञ्चविधस्य द्वे शते षष्ठिरङ्गुलयः एकादश तिलाश्च (२६० १ । ३ १ । ४) षड्विधस्य द्वे शते त्रिनवतिरङ्गुलयः एकत्रिंशत्तिलाश्च (२९३ ३ । ३ १ । ४) । एतासां करणीनां सर्वतो द्वादशेनैकं करणम् । सर्वतस्त्रयोदशेनैकं करणम् । तयोः पादेष्टकानां करणं चकारादर्धेष्टकानामपि षड्विधं नवविधं वा करणम् । उपधानमुच्यते अभितः पादास्तिस्रो रीत्यो द्वादश्यः । ततः पञ्चरीत्यस्त्रयोदश्यः । तत एका त्रयोदशीपादाः । तत एका त्रयोदश्यः । ततस्तिस्रोऽभितः पादा द्वादश्यः इति त्रयोदश रीत्यः । तत्र द्वितीयायां रीत्यां द्वादश्यां चतुर्थीमष्टमीं चेष्टकामुद्धृत्य द्वेद्वेर्ऽधेष्टके उपदध्यात् । तत्रैव चोपान्त्ये उद्धृत्य चतस्रोर्ऽधेष्टकाः । द्विशत एव प्रस्तारः । द्वितीये प्रस्तारे द्वे रीत्यौ त्रयोदश्यः । तत एका ६ ओदशीपादा । तत एकाभितः पादा त्रयोदश्यः । ततश्चतस्रो रीत्यो द्वादश्यः । तत एकाभितः पादा द्वादश्यः । ततस्तिस्रो रीत्यस्त्रयोदश्यः इति त्रयोदश रीत्यः । अत्र मध्यमायां वा षडुद्धृत्य पादा उपदध्यात् । प्रस्तारो द्विशतः । अथवा प्रथमप्रस्तारे द्वादशभिः द्वितीयस्त्रयोदशभिस्तथोच्यते । कृत्स्नद्वादशी पक्षे दीर्घा पादेष्टका अर्धेष्टकाश्च तत्रतत्र प्रथमप्रस्तारे प्राच्यःसप्तदश रीतयः । ताःसर्वा द्वादशेष्टकाः । तासां सर्वासां दक्षिणा अर्धेष्टकाभिः । तत एका पादाभिस्ततस्तिस्रो द्वादशीभिस्तत एका पादाभिस्तत एकार्धाभिः । तत एका पादाभिस्ततस्तिस्रो द्वादशीभिः । अन्त्यार्धाभिरेवं सप्तदश रीतयः । तत्र षञ्चमीषष्ठीसप्तमीनां रीतीनामन्त्यास्तिस्र उद्धृत्य एकां द्वादशीमुपदध्यात् । अथैकादशी द्वादशी त्रयोदशीनामन्त्याः तिस्र उद्धृत्य एकादशीमुपदध्यात् । एवं द्विशतः । यद्द्वितीयं त्रयोदशभिरुदीच्यो रीतयश्चतुर्दश तासां प्रथमार्धाभिर्द्वादशीत्रयोदशीभिरन्त्यार्धाभिः ताश्चतुर्दश रीतयः । एवं द्वादश शतमिष्टकाः । तत्र पूर्वार्धे त्रयोदशीः षडुद्धृत्य चतुर्विंशतिं पादा उपदध्यात् । एवं द्विशतः । यदि सर्वे प्रस्तारा द्वादशीभिः तदा पूर्वोक्तप्रकारेण प्रथमं प्रस्तारमुपधाय द्वितीयप्रस्तारत एव रीतीरुदीचीरुपदध्यात् । एष द्विशतः । यदि सर्वे त्रयोदशीभिः, तदा द्वितीयप्रस्तारोक्ता रीतिः प्रथमे प्रस्तारे प्राचीरुपधाय पश्चार्धे त्रयोदशीरुद्धृत्य पादा उपधायापरस्मिन् प्रस्तारे ता उदीचीरुपदध्यात् । एष द्विशतः । यद्येकत्र त्रयोदशान्यतो द्वादश तदा प्रागायता इष्टका उदीच्यः त्रयोदश रीतयः । ताःषट्पञ्चाशच्छतं च पूर्वस्यां रीत्यां पञ्चम्यां चाष्टावष्टावुद्धृत्याष्टाविंशतिं पादाः द्वे द्वे चार्धे । एवं द्विशतम् । द्वितीये प्रस्तारे ता एव प्राच्यो रीतयः । यत्र दक्षिणतः उत्तरतश्वाष्टावष्टावुद्धृत्य पूर्ववत्पादा अर्धाश्वोपदध्यादेवं द्विशतः । एवमेव प्रौगादिष्वपि करणानि द्वादशभागीयाभिस्त्रयोदशभागीयाभिर्वा यथायोगमुपधाय पादेष्टकाभिरर्धेष्टकाभिश्च संख्यां पूरयेत् । अलमतिप्रसङ्गेन ॥
सुन्दरराजीया व्याख्या
उभयत्र प्रादेशमात्रमविशेषात् । ततः पुरस्ताद्दश प्रादेशाः पार्श्वयोर्द्वैद्वौ ।
सर्वमग्निंपूरयेत्
आत्मनि विशयाभिःसह उदीच्यो दश रीतयः, तासां द्वितीयां नवमीं चतुर्थीभिरुपदधायात्, षष्ठीं प्रादेशैः । आत्मशेषे पक्षयोश्च पञ्चमभागीयाः । पुच्छस्यापरार्धे पार्श्वयोर्मध्यतो नव षड्भागीयाः प्राच्यः । पुच्छशेषे द्वादशाणूकाः । एवं द्विशतः प्रस्तारः ।
विश्वास-प्रस्तुतिः
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ ११.११ ॥
English
(With the two layers) alternating with each other as many layers as desired are to be constructed.
English
11.9-11.11. In the arrangement of bricks in the second layer, 5
Fig. 12. Arrangement of square bricks in the second layer; total number of 200 bricks is shown after adjustments.
The remaining space is filled with 12
Table 4. Bricks in different parts of the citi, second layer
In this way 194 bricks are accounted for. To complete the number of 200 bricks, the following adjustments are proposed by the commentators. There are 10 rows, south-north, in the body, including bricks at the juncture. 10
मूलम्
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ ११.११ ॥
टीका
गतमेतत् ।
एकादशः खण्डः.
कपर्दिभाष्यम्