१०

English - comment

CONSTRUCTION OF A RECTILINEAR ŚYENACIT

विश्वास-प्रस्तुतिः

उपधानेऽध्यर्धा दश पुरस्तात्प्रतीचीरात्मन्युपदधाति । दश पश्चात्प्राचीः ॥ १०.१ ॥

English

In the placement (of bricks), 10 bricks longer by half (that is, 36 ang×24 ang) and turned towards west are placed on the east side of the body (ātman); 10 (of them) turned towards east on the west side (of the body);

मूलम्

उपधानेऽध्यर्धा दश पुरस्तात्प्रतीचीरात्मन्युपदधाति । दश पश्चात्प्राचीः ॥ १०.१ ॥

टीका

आत्मनि पुरस्ताद्भागे षट्त्रिंशदङ्गुलायामेन कारिताद्यार्धाः प्रतीचीः प्रत्यगायताः दशोपदधाति । आत्प्रन्येव पश्चाद्भागे ता एवेष्टकाः तत्संख्याकाः प्राचीः प्रागायताः ।

विश्वास-प्रस्तुतिः

पञ्चपञ्च पक्षाग्रयोः । पक्षाप्यययोश्च विशयास्तासामर्धेष्टकामात्राणि पक्षयोर्भवन्ति ॥ १०.१ ॥

English

5 (of them) at each end of the two wings; 5 (of them) at both junctions of the wings (with the body) such that half of the bricks (that is, the added half 12 ang of the adhyardhā) lie in the wings;

मूलम्

पञ्चपञ्च पक्षाग्रयोः । पक्षाप्यययोश्च विशयास्तासामर्धेष्टकामात्राणि पक्षयोर्भवन्ति ॥ १०.१ ॥

टीका

पञ्चपञ्च पक्षाग्रयोर्दक्षिणायताः उदगायताश्च । विशयाश्च पञ्च चोदगायताः दक्षिणायताश्च । इष्टकाशब्देन पञ्चभागीया एव गृह्यान्ते नाध्यर्दा “विपरीता अप्यया” इति लिङ्गात् ।

विश्वास-प्रस्तुतिः

पञ्चपञ्च पुच्छपार्श्वयोर्दक्षिणा उदीचीश्च ॥ १०.१ ॥

English

and 5 bricks turned towards north and south on both sides of the tail.

मूलम्

पञ्चपञ्च पुच्छपार्श्वयोर्दक्षिणा उदीचीश्च ॥ १०.१ ॥

टीका

पञ्चपञ्चध्यर्धा दक्षिणायता उदगायताश्च यथा समीपे प्रदेशमात्रमवशिष्यते तथोपधेयाः ।

करविन्दीया व्याख्या

उप चीः

उपधानकालो द्वतीयकरणोत्पन्ना इष्टकाः आत्मनि पूर्वान्ते दशोपदध्यात् । प्रतीचीः प्रत्यगायाताः उदीचीरिति । ता एव एश पश्चात्प्राचीः आत्मनि पश्चिमान्ते प्रागायाताः ता एव ।

पञ्च याः

ता एव प्राच्यौ रीत्यौ । पक्षाप्यययोश्च विशयाः । पक्षाप्ययः पक्षमूलं विविधमात्मनि पक्षे च शेरत इति विशयाः ।

तासां कियदात्मनि कियत्पक्ष इत्याह

तासांन्ति

तासां विशयानामर्धेष्टकामात्राणि पक्षयोर्मवन्ति । आत्मानमरत्निना प्रदेशेन पक्षमित्यर्थः । प्राच्यौ रीत्यौ ॥

पञ्च चीश्च

पुच्छपार्श्वयोः पञ्चपञ्च उत्तरा दक्षिणामुखाः दक्षिणा उत्तरामुखाः प्राच्यौ रीत्यौ! उत्तरसूत्रे भेदामावाय पुच्छाग्रप्रादेशस्यापृथग्ग्रीतिता प्रतिपादयिष्यते । अत एता अग्रप्रभृत्युपधेयाः ॥

सुन्दरराजीया व्याख्या

प्रतीचीः प्रत्यगायताः । उदीचोरिति आत्मन्येव

एता उदगायताः, अन्यथा पञ्चानामसंभवात् ।

पक्षे आत्मनि च शेरत इति विशयाः ।

अरत्निमात्रा ह्यात्मनि ।

प्रादेशं पुरस्तादवशिष्य ।

कपर्दिभाष्यम्

विश्वास-प्रस्तुतिः

पुच्छे प्रादेशमुपधाय सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ १०.२ ॥

English

After placing bricks of side equal to 1 prādeŝa in the tail, all the (remaining) space of the fire-altar is to be covered with bricks of side equal to one-fifth (of a puruṣa).

मूलम्

पुच्छे प्रादेशमुपधाय सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ १०.२ ॥

विश्वास-प्रस्तुतिः

पञ्चदशभागीयाभिः सङ्ख्यां पूरयेत् ॥ १०.३ ॥

English

The number (of 200 bricks) is to be completed with bricks of side equal to one-fifteenth (of a purusa).

English - comment

10.1-10.3. The method of arranging bricks of size one-fifth of a purușa and those derived from them in a rectilinear syenacit is described in this chapter. The first three sūtras indicate the procedure for the first layer. The bricks to be used and already described in 9.6 are:

B1 —one-fifth (of a purusa), pañcamabhāgiya, pañcamī- \(24 \times{24} ang^2\)

B2 — one-fifth with half, adhyardha-pañcamī — \(36\times {24} “\)

B3 — half of one-fifth, ardha of pañcamī — \(24\times{12} “\)

B4 — quarter of one-fifth, prādeśa " — \(12\times{12} “\)

B5 — one-fifteenth, pañcadaśabhāgiyā, one-ninth of pañcamī - \(8 \times {8} “\)

Fig. 9(a) Arrangement of bricks in the first layer of a caturaśraśyenacit, in which northern wing is not fully drawn, numbers indicating suffixes used after brick-types;

(b) alternative arrangement in the tail in which the prãdeśakṣetra is shown nearest to the body.

The arrangement of bricks is shown in Fig. 9 The adhyardă-pañcami (B2) bricks at each juncture of the wing with the body are placed such that 24 angulas lie within the body and 12 angulas in the wing, as explained by the commentators (ātmānama- ratninā prādesena pakṣamityarthaḥ-Karavinda). In the tail, the \(B_{2}\) bricks on each side may start from the upper end at the junction with the body, leaving 12 aṅgulas (prādeśakṣetra) at the end, as it appears from Sundararāja, or from the western end of the tail leaving the prādeśakṣetra adjacent to the body, as is preferred by Karavinda. Both Sundararāja and Karavinda place \(2 B_{4}\) bricks at each end of the prādeśakṣetra and \(4 B_{3} s\) in the middle (Fig. 9(a)). Kapardi places \(2 B_{3}s\) in the middle flanked on each side by \(3 B_{4} s\) (Fig. 9(b)). In the former arrangement, the number of bricks total 166, and in the latter 168, as detailed in Table I.

Table 1. Bricks in different parts of the citi-first layer; figures within parenthesis are according to Kapardi.

For 166 bricks, the deficit is 34. Sundararāja proposes to replace 4 \(B_{1} s\) from the middle of the body by \(36 B_{5} s\) and again 2 \(B_{1} s\) from the end of the tail by \(4 B_{3}\).

मूलम्

पञ्चदशभागीयाभिः सङ्ख्यां पूरयेत् ॥ १०.३ ॥

टीका

पुच्छे प्रादेशमुपधाय आत्मसमीपे यदवशिष्टं तत्प्रादेशमत्रार्धेष्टकाद्वयं मध्ये अभितः प्रादेशाः षट् । षट्सु वितस्त्या च विर्धनमुक्तं कथं प्रादेशमात्रमुपधायेति? उच्यते यद्यपि वितस्त्या वर्धनमुक्तं, तथापि करणान्तरस्य विधानात्प्रादेशक्षेत्रमेवेष्टकाभिश्वेतव्यमिति यदङ्गुलिमात्रं परिगृहीतं तत्पुरषिणे पूरयितव्यम् । अमुमेवार्तं प्रदर्शयितुं प्रादेशमुपधायेत्युक्तम् । सर्वमग्निमिति पञ्चाशदध्यर्धः सूत्रोक्ताः पूच्छेर्ऽधेष्टकाद्वयं प्रच्छादयेत् । दशेत्तरं शतं पञ्चमभागीयः शेरते । पूर्वाभिःसहाष्टषष्टयधिकं शतम् । पञ्चदशेति एकस्मिन्पञ्चमभागीयाक्षेत्रे नव पञ्चदशभागीयाःशेरते । चतस्रः पञ्चमबागीया नवधा विभज्य यत्र व्कापि पञ्चदशभागीयाः क्षेप्तव्याः तत्रापि मन्त्रेपधानसौकर्यार्थं प्रादेश उच्यते । आत्मनि द्वितीयरीत्यां मध्ये द्वयमपहायाष्टादश । अष्टम्यां च रीत्यां अष्टादश । एवं द्विशतः प्रस्तारः ॥

करविन्दीया व्याख्या

पुच्छे दयेत्

पुच्छे यत्पुरुषाधिकं प्रादेशक्षेत्रं तदुपधाय सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् । अयमाशयः आत्मपत्पुच्छे च पुरस्तात्प्रभृति पञ्चमबागीयाभिः प्रच्छाद्यमानेऽग्रे प्रादेशमविशिष्यते । अस्मिन् योगाभिरिष्टकाभिरुपहिते पुच्छे च बहवो भेदा भवन्तीति मत्वा आचार्यः तत्परिहारायाग्रमारभ्य पुच्छे प्रादेशोपधानपूर्वकं प्रच्छादयेदिति । यद्वा प्रादेशं पुच्छे उपधाय पुच्छे संयोज्य यथा प्रादेशं पुच्छात्पृथग्ग्रीति न भवति तथा कृत्वेत्यर्थः । यद्वा प्रादेशं पुच्छ उपधाय पुच्छे निधाय स्थापयित्वा, “तासां षट्टप्रधा उपधायोति” वत् । यद्वाग्रगतं प्रादेशं पुच्छमूले निदध्यात् । भेदं विपर्यस्ये तरत उपदध्यादिति । तदयमर्थः यावता वचनव्यक्तिः सर्वथा भेदाभावाय पुच्छाग्रं पुच्छात्पृथग्रीतिं न कुर्यातिति तात्पर्यार्थ इति । सर्वेषु पक्षेषु अतिरिक्तं प्रादेशं पुच्छपूलेऽनुपहितमवशिष्यते । तदभितः प्रादेशाभिरर्धेष्टकाभिरुपदधयात् । किञ्च उपरितनप्रस्तारे “यथा प्रथमे प्रस्तारे पक्षौ तथा पुच्छमिति” वचनात्पुच्छमूलेऽतिदेशप्राप्तानामध्यर्धानां वैपरीत्यं वक्ष्यति “विपरीता अप्यया” इति । तच्चैवमुपधाने समञ्जजसं स्यात् । इतरथा विरुद्धार्थमनर्तं च स्यात् । तस्मात्

पुच्छे प्रादेशमुपधायेत्यस्य भागस्यायमेवार्थो ग्राह्यः । ननु कथं सर्वस्याग्नेः पञ्चदशभागीयाभिः प्रच्छादनम्? उच्यते अत्रोपहितानामिष्टकानामबाधेन सर्वस्मिन्नग्नौ पञ्चमभागीयाभिः प्रच्छाद्यामाने तदेकदेशे तासामसम्भवे सत्याख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणी नहि वचनशतेनाप्यशङ्कनीयार्थःशक्यो विधातुमिति चतुरश्राभिः प्रच्छादयितुमशक्यत्वात्प्रथमप्रतीतसर्वशब्दानुरोधेन जघन्यः पञ्चमभागीयाशब्दो बाहुल्याभिप्रायो वर्णनीयः । तेन तत्तत्सहकारिणीभिरत्रत्याभिः सम्भवन्तीभिरपि प्रच्छादनं कार्यमित्येवमर्थं प्रादेशानामत्र प्राप्तिः । एष न्यायस्तत्राङ्गीकरणीयः । तत्रत्याभिरनुरक्ताभिरपि प्रच्छादने किं वार्ऽधेष्टकाः करणेनोत्पन्नाः न कुत्रचिद्विनियुक्ताः । तासामुपदेशबलादेव अत्र संख्यापूरणे प्रच्छादने च यथायोगं विनियोगः कार्यः । किञ्च यच्चतुरश्रं त्रयश्रि वा सम्पद्येतार्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेदिति परिभाषां वक्ष्यति । तथा वात्र समुपधानं स्यात् । अत्रात्मनि सन्ध्यन्तराले चत्वारिंशत्पञ्चमभागीयास्तासां पुरस्ताद्दश पश्चाच्च दश । पक्षयोर्विंशतिः पुच्छे दश । ता एता दशोत्तरशतं पञ्चमभागीयाः, पञ्चाशदर्धाश्चतस्रोर्ऽधाः द्वौ प्रादेशाविति षट्षष्ठिः शतं चेष्टकाः । “साहस्रं चिन्वीत प्रथमं चिन्वान” इत्यादिभिर्वाक्यैः प्रत्यग्नीष्टकानां साहस्रादयःसंख्या विधास्यन्ते । ताश्च प्रतिचिति प्रतिप्रस्तारं च भिद्यान्त इति च तत्रैव प्रतिपादयिष्यते । सा सहस्रसंख्या कथमत्र सम्पाद्येत्याह ॥

पञ्च रयेत्

पञ्चदशभागीयाभिरष्टाङ्गुलाभिःसंख्या पूरयेत् । का संख्यात्र पूर्यते? किं समुदायगता? उत प्रस्तारगता अविशेषात्? न समुदायगता आनन्तर्यात्, प्रतिप्रस्तारं शतद्वयनियमाच्च, प्रस्तारगतैव संख्या तत्र पूर्यते, अस्य वचनस्य सामर्थ्यादवसीयते संख्यापूरणं उपधानाय प्रच्छादिकासु कासांचिदुद्धरणं प्रचालनं वा यथायोगं न्याय्यमिति । अत्र प्रस्तारशतद्वयसम्पत्तये चतुस्त्रिंशत्संख्यासम्पाद्या । सा च प्रच्छादितासु काश्विदुद्धृत्य योग्नेष्टकोपधानेन भवति । तत्रैकस्मिन् पञ्चमभागीयाक्षेत्रे नव पञ्चदशभागीयाःशेरत इति । तत्रतत्रोपधाने देशानियमे तदुद्धरणेन तासामुपधाने कार्ये मन्त्रोपधानसौकर्याय उद्धरणोपधानदेशनियम उच्यते । तत्रास्मनि प्राच्यो दश रीतयः, तत्र मध्यमरीत्योः द्वितीये उद्धृत्य तत्र अष्टादश पञ्चदशभागीया आवपेत् । तयोरेव रीत्योरुपान्ते उद्धृत्याष्टादश आवपेत् । पुच्छे चतस्नः प्राच्यो रीत्यः, तत्र मध्यमयोरन्त उद्धृत्य चतस्रोर्ऽधेष्टका उदीचीरुपदध्यात् । एवं द्विशतः प्रस्तारः पूर्यते । अत्रैके पुच्छाग्रे दश प्रादेशानुपधाय पञ्चमभागीयाभिः प्रच्छादयन्ति, तेषां च विपरीतवचनानर्थक्यप्रसङ्गो मैदप्रसङ्गश्च भवतीति तथा नोपधेयाः । किञ्च यदि पुच्छाग्रे प्रादेशानामुपधानमपीष्टमभविष्यत्तर्हि पादेष्टकाश्चतुर्मागीयानां पक्षाग्रयोः पञ्चदश पुच्छाग्र इति च स्पष्टतरं पुच्छाग्र इत्येवावक्ष्यत् । न चैवमुक्तम् । तस्मादुक्तविध एवोपधानक्रम इति स्थितम् ॥

सुन्दरराजीया व्याख्या

पुच्छादवशिष्टं प्रादेशक्षेत्रं यामिरिष्टकाभिर्मेदपरिहारेणोपधातुं शक्यते ताभिरुपदध्यात् । तत्र पार्श्वयोर्द्वे प्रादेशमात्रयौ मध्ये चतस्रोर्ऽधेष्टका उदगायताः । एतदेव प्रादेशकरणस्य प्रयोजनम् । अतः प्रादेशाभावेन कियते । शिष्टाग्नौ पञ्चमभागीयाभिः प्रच्छादिते षट्षष्टिशतमिष्टका भवन्ति । अरत्निप्रादेशरहिते पञ्चाशच्छतं इष्टका भवन्ति । तत्र आत्मन्युदीच्ये नव रीतयः । तत्र आत्मनि मध्यमायां मध्यमाश्चतस्र उद्धृत्य चतुःपञ्चाशन्निधेयाः । उभयत्रापि पुच्छाग्रे द्वे पञ्चम्यावुद्धृत्य चतस्रोर्ऽधेष्टका उपधेया उदगायताः । एवं द्विशतः प्रस्तारः ॥

कपर्दिबाष्टम्

विश्वास-प्रस्तुतिः

अपरस्मिन् प्रस्तारेऽध्यर्धा दश दक्षिणत उदीचीरात्मन्युपदधाति । दशोत्तरतो दक्षिणाः ॥ १०.४ ॥

English

In the other layer, 10 bricks longer by half and turned towards north are placed on the south side of the body and 10 (of them) turned towards south on the north side (of the body).

मूलम्

अपरस्मिन् प्रस्तारेऽध्यर्धा दश दक्षिणत उदीचीरात्मन्युपदधाति । दशोत्तरतो दक्षिणाः ॥ १०.४ ॥

टीका

आत्मनि दक्षिणत उतीचीरुदगायताः दशाध्यर्धाः उपदधाति आत्मन्येवोत्तरतः दशध्यर्धाः दक्षिणायताः ।

विश्वास-प्रस्तुतिः

यथा प्रथमे प्रस्तारे पक्षौ तथा पुच्छम् । यथा पुच्छं तथा पक्षौ विपरीता अप्यये ॥ १०.४ ॥

English

(The placement of bricks) in the tail will be the same as in the wings for the first layer and that in the wings the same as in the tail (for the first layer). In the junction (between the tail and the body), (the placement of bricks should be) in the reverse order.

मूलम्

यथा प्रथमे प्रस्तारे पक्षौ तथा पुच्छम् । यथा पुच्छं तथा पक्षौ विपरीता अप्यये ॥ १०.४ ॥

टीका

पुच्छाग्रे पश्चादध्यर्धाः प्रागायताः । दक्षिणे पक्षे पश्चात्पञ्च प्रागायताः पुरस्ताच्च्पञ्च । षट्प्रत्यगायताः । उत्तरपक्षे चैवं प्रागायताः

प्रत्यगायताश्च । पुच्छाप्ययेऽध्यर्धाः पञ्च प्रागायताः प्रत्यगायताश्च । पुच्छाप्ययेऽध्यर्थाः पञ्च प्रागायताः । तासामर्धेष्टकामात्रा आत्मनि भवन्ति । एवं विपरीता अप्यये । तासां पुरस्तात्पञ्चार्धेष्टका उदीच्यः ।

विश्वास-प्रस्तुतिः

सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ १०.५ ॥

English

The whole (of the remaining) space of the fire-altar is to be covered with bricks of side equal to one-fifth (of a purușa).

मूलम्

सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ १०.५ ॥

विश्वास-प्रस्तुतिः

पञ्चदशभागीयाबिः सङ्ख्यां पूरयेत् ॥ १०.६ ॥

English

The number (of 200 bricks) is to be completed with bricks of side equal to one-fifteenth (of a purușa).

मूलम्

पञ्चदशभागीयाबिः सङ्ख्यां पूरयेत् ॥ १०.६ ॥

टीका

गतमेतत् । पूर्ववद्द्विशतः प्रस्तारः ।

करविन्दीया व्याख्या

अपर णाः

द्वितीये प्रस्तारेऽध्यर्धा आत्मनो दक्षिणे भागे दशोपदध्यादुत्तरे दश ॥

यथाप्र क्षौ

प्रथमप्रस्तारे यथा पक्षावुपहितौ तथा पुच्छे । यथा पुच्छमुपहितं तथा पक्षयोः । एतदुक्तं भवति पुच्छाग्रे पुच्छाग्रसन्धौ पञ्च पञ्चाध्यर्धा उपधेयाः । पक्षयोस्तु पार्श्वयोः अध्यर्धा उपधेयाः, तत्र विशेषमाह

विपरीता प्यये

पुच्छाप्यये पक्षाप्ययवदतिदेशप्राप्तानामध्यर्धानां आत्मनि अरत्नि मात्रत्वं पुच्छेर्ऽधेष्टकामात्रत्वं च प्राप्तोतीत्यत आह । अत्र विपरीता भवेयुरर्धेष्टका मात्राण्यात्मनि भवेयुररद्ननिमात्राणि पुच्छ इत्यर्थः । अस्य च भेदाभावः प्रयोजनमिति पूर्वस्मिन्नेव प्रस्तार उक्तम् ।

सर्वम येत्

अत्र पुरस्तात्प्रभृत्यात्मनि प्रच्छाद्यमाने पुच्छाप्ययविशयानां पुरतः पुरुषमात्रे प्रादेशोऽवशिष्यते । तत्र पञ्चमभागीयानामसम्भवात्भेदाभावाय पञ्चार्धेष्टका उदीच्य उपधेयाः, तासामुपधाने हेतुरुक्तः । अत्रात्मन्यध्यर्धानां मध्ये पञ्चषष्टिः पञ्चम

करविन्दीया व्याख्या

भागीयाः पञ्च चार्धाः, पक्षयोर्द्वादश द्वादश पञ्चमभागीयाः, पुच्छे पञ्चदश ता एताः चतुरुत्तरशतं पञ्चमबागीयाः, पञ्चचार्धाः, चतुःपञ्चाघदध्यर्धाः । ता एताः त्रिषष्टिः शतं च, अत्र सप्तत्रिंशत्संख्या सम्पाद्या ॥

पञ्च येत्

अत्र पक्षयोरात्मनि पुच्छे चतस्रः पञ्चमभागीया उद्धृत्य ष्ट्त्रिंशतं पञ्चदशभागीया उपदध्यात् । अत्मनि पूर्वस्यां रीत्यां मध्ये पञ्चोद्धत्य दशार्धेष्टका उदीचीरुपदध्यादेवं द्विशतः प्रस्तारः ॥

सुन्दरराजीया व्याख्या

अपरस्मिनतथापुच्छम्

अत्राप्यययोः पञ्चपञ्चाध्यर्धाः । पार्श्वेषु पञ्चपञ्चाध्यर्धाः, अरत्ननिवृद्धौ षट्षडिति द्रष्टव्यम् । पुच्छाप्यये या उपधीयन्ते तासामर्धेष्टकामात्राण्यात्मनि भवन्ति । पुच्छेऽरत्निमात्राणि । एतच्च प्रादेशवृद्धौ । इतरथा अर्धेष्टकामात्राण्येव पुच्छे ।

सर्वमग्निंपूरयेत्

पूर्ववदात्मनि मध्ये चतस्रःषड्वोद्धृत्य एकैकस्य स्थाने नवनवाष्टाङ्गुलाः । सारत्निप्रादेशपक्षे पुच्छाप्ययस्थाभ्यः प्राक्पञ्चार्धेष्टका उदगायता उपधेयाः । आत्मनि पूर्वरीत्यां मध्यमाः पञ्चोद्धृत्य दशार्धेष्टका उदगायता उपदध्यात् । एवं द्विशतः । अरत्निप्रादशाभावे तु चतु पञ्चाशता पञ्चतशभागीयाभिः द्वयूनं द्विशतं भवति । पुच्छपार्श्वयोरेवैकैकां पञ्चमीमपोह्य चतस्रोर्ऽधेष्टकाः प्रागायताः । एवं द्विशतः ।

कपर्दिभाष्यम्


विश्वास-प्रस्तुतिः

व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ १०.६ ॥

English

(With the two layers) alternating with each other as many layers as desired are to be constructed.

English - comment

10:4-10.6. In describing the arrangement of bricks in the second layer in these sūtras, care is taken that the edges of bricks in the two layers do not meet. This is achieved by placing 10 B2 bricks turned towards north or south along the southern and the northern side of the body and interchanging the arrangement of bricks between the tail and the wing. Thus B, bricks placed at the juncture between the wing and the body in the first layer are now placed at that between the tail and the body, with 1 aratni or 24 angulas lying within the tail and 12 angulas within the body. (tāsāmardheṣṭakāmātrāṇyātmani bhavanti/pucche’ratnimātrāņi/Sundararāja.). Since 12 angulas of these bricks project into the body, these are covered, according to the commentators, by 5 Bgs to enable the filling up of the remaining space with B1s. In the first layer, 5 \(B_{2} s\) lined each side of the tail. This arrangement is to be followed in the case of the wings for the second layer with the modification that on each side of the wing the number of \(B_{2} s\) should now be 6 because of the extension of the wing by one aratni. The different types of bricks arranged in the above manner total 163, as mentioned by Karavinda and in Fig. 10 and Table 2.

Fig. 10. Arrangement of bricks in the second layer of a caturaśra ŝyenacit.

Table 2. Bricks in different parts of the citi, second layer.

Now, 37 bricks are still required to make the number 200. According to Kara- vinda, 4 B1s, one each from the body, the wings and the tail, are replaced by 36 B¿s; 5 B1s in the middle of the easternmost row in the body are replaced by 10 B ̧s. (atra pakṣayorātmani pucche catasraḥ pañcamabhāgiyā uddhṛtya ṣaṭṭrimśatam pañcadaśabhāgīyā upadadhyāt|ātmani pūrvasyām rītyām madhye pañcoddhṛtya daśārdheṣṭakā udīcīrupada- dhyādevam dviśataḥ prastāraḥ|) The first and the second layers are then repeated alternately up to as many layers as desired.

मूलम्

व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ १०.६ ॥

टीका

गतमेतत् ।

विश्वास-प्रस्तुतिः

पञ्च चितयो भवन्ति । पञ्चभिः पुरीषैरभ्यूहतीति पुरीषान्ता चितिरर्थान्तरत्वात्पुरीषस्य ॥ १०.७ ॥

English

There are five layers; these are covered with five (layers of) loose earth, ending up with a layer of earth; (this is done) for various purposes (served by) loose earth.

मूलम्

पञ्च चितयो भवन्ति । पञ्चभिः पुरीषैरभ्यूहतीति पुरीषान्ता चितिरर्थान्तरत्वात्पुरीषस्य ॥ १०.७ ॥

टीका

इष्टकासन्धानार्थं पुरीषम् । तस्मात्तदन्ता चितिः । तदर्थत्वात्तद्घरेण गृह्यते ।

विश्वास-प्रस्तुतिः

जानुदघ्नीं साहस्रं चिन्वीत प्रथमं चिन्वानः ॥ १०.८ ॥

English

The construction of the fire-altar for the first time should be with 1000 bricks upto (the height of) the knee;

मूलम्

जानुदघ्नीं साहस्रं चिन्वीत प्रथमं चिन्वानः ॥ १०.८ ॥

टीका

यः प्रथमं चिनोति स जानुदघ्नीं चिनुयात्सहस्रसङ्ख्यायुतं च । महाग्निमेवाधिकृत्य विधानान्न शालामुखीयधिष्णीयानां सहस्रसङ्ख्यायामन्तर्भावः । नापि जानुदघ्नीता ॥

विश्वास-प्रस्तुतिः

नाभिदघ्नीं द्विषाहस्रं द्वितीयमास्यदघ्नीं त्रिषाहस्रं तृतीयमुत्तरमुत्तरं ज्यायाम्सम् ॥ १०.८ ॥

English

for the second time with 2000 bricks upto (the height of) the navel; for the third time with 3000 bricks upto (a height of) the mouth; and so on upto higher and higher heights.

मूलम्

नाभिदघ्नीं द्विषाहस्रं द्वितीयमास्यदघ्नीं त्रिषाहस्रं तृतीयमुत्तरमुत्तरं ज्यायाम्सम् ॥ १०.८ ॥

टीका

नाभिप्रमाणमुत्सेधतः द्विषाह्स्रं द्वितीयं चिन्वानः । आस्यप्रमाणं तृतीयं चिन्वानः । त्रिषाहस्रं तृतीयमुत्तरमुत्तरं ज्यायाम्सम् ॥

नाभिप्रमाणमुत्सेधतः द्विषाह्स्रं द्वलितीयं चिन्वानः । आस्यप्रमाणं तृतीयं चिन्वानः । त्रिषाहस्रं च ग्रीवदघ्नमित्यस्मदीया श्रुतिः ।

विश्वास-प्रस्तुतिः

महान्तं बृहन्तमपरिमितं स्वर्गकामश्चिन्वीतेति विज्ञायते ॥ १०.८ ॥

English

Those who desire heaven should construct by increasing the height measure with innumerable bricks; this is the tradition.

मूलम्

महान्तं बृहन्तमपरिमितं स्वर्गकामश्चिन्वीतेति विज्ञायते ॥ १०.८ ॥

टीका

उत्तरमुत्तरमाहारमाहरेत् । ज्यायान् विधाभ्यासेन । महानुत्सेधतः । बृहत्परिमाणतः । अपरिमितं सहस्रादिभ्यः । “स्वर्गकाम” इति वचनादाग्निकल्पे “वाजिसनेयिकमिति” पचनाच्च विकल्पः ।

करविमन्दीया व्याख्या

व्यत्या र्षेत्

गतम् ।

ननु व्यत्यासे नाम यस्मिन् प्रस्तारे यत्र यादृशानामुपधानं कृतं तदनन्तरे प्रस्तारे तत्रान्याटृशानामुपधानं तादृशानामेवान्यतो दीर्घाणाम् । नच भेदाभावः प्रयोजनम्॑ स चेहाचार्यप्रवृच्यैव सिद्धः, तत्किमर्थमिदमुच्यते व्यत्यासं चिनुयादिति? उच्यते अन्यप्रस्तारद्वये सूत्रकारस्य व्यत्यासोपधानविधेरुपर्युपरि प्रस्तारेष्वनियमाशङ्का मन्दधियां न भवेदिति व्यत्यासवचनम् । किञ्च मन्त्रोपधानोत्तरमपि प्रामादिक भेददर्शने तत्परिजिहीर्षया लोकवदुपहितानामेव प्रचालनादिप्राप्तौ ““स इन्द्र इष्टकामावृहत् । ते वा कीर्यन्तेति"दोषदर्शनादयालनाय शुल्बोपधानसमय एव शुल्बकुशलैर्नियतदेशानामभाधेन भेदाभागवः परिहरणीय इत्येवमर्थं व्यत्यासवचनम् ।

पञ्च षस्य

जलाद्रा पृत् पुरीषम् । अभ्यूहनमुपलेपः । उपधायापेधाय तां तां चितिं जलार्द्रया मृदोपलिम्पेत् । द्वाभ्यां वाक्याभ्यामेका चितिः पुरीषोपधानपर्यन्ता ज्ञेया । न केवलेत्यर्थः । अर्थान्तरत्वात्पुरीषस्य, अर्थः प्रयोजनम् । अन्तरा भेदः । प्रयोजनान्यत्वादित्यर्थः । चितीनामन्यत्प्रयोजनं पुरीषाणां चान्यत् । चितीनां प्रयोजनभूतात्जानुदघ्नवदुत्सेधकरणादन्यत्प्रयोजनं पुरीषस्य । तच्चेष्टकानां शोषपाकागलह्रासपूरणं परस्परसं श्लेषश्च । अत एव चानियतपरिमाणं पुरीषम् । नच एतावद्भिः पुरीषैर्ह्रासपरिहारः परस्परसंश्लेषश्च भवतीति प्रमाणमस्ति । तस्मादनियतप्रमाणं पुरीषम् । अत उक्तं पुरीषान्ता चितिरिति । तथाच श्रूयते “पुरीषेणाभ्यूहति । तस्मान्मांसेनास्थि च्छन्नमिति” । अयमर्थः यथा शरीरावयवभूतान्यस्थीनि मांसैश्छन्नान्येव शरीरकार्ये प्रभवन्ति । एवमवयवभूतेष्टकाः सर्वतः पुरीषैश्छन्ना एवाग्निकार्ये प्रभवन्ति । तस्मादभ्यूहनपर्यन्ता चितिः । किञ्चयदि पुरीषोपदानं स्वार्थं तदा जानुदघ्नाद्यतिरिक्तप्रमाणताग्नेः स्यात् । अतः उक्तमेव प्रयोजनम् । अनेन “दश सम्पद्यन्ते द्वादश सम्पद्यन्त” इति चार्थवाददर्शनेन चितिपुरीषयोर्मिन्नार्थताशङ्का माभूदिति एकार्थता प्रतिपदिता ।

जानु यते

अत्र “जानुदघ्नं चिन्वीत प्रथमं चिन्वान” इत्याद्या उत्सेधविधायिका स्तिस्रःश्रुतयः । तथा “सहस्रं चिन्वीते” त्याद्या अग्नेरिष्टकासङ्ख्याविधायिकास्तिस्रःश्रुतयः । जानुदघ्नं जानुप्रमाणं, नाभिदघ्नं नाभिप्रमाणं आस्यदघ्नमास्यप्रमाणम् । साहस्रं सहस्रसङ्ख्या परिमितम् ।

द्विषाहस्रं द्वाभ्यां सहस्राभ्यां परिमितम् । त्रिषशाहस्रं त्रिभिःसहस्रैः परिमितम् । उत्सेधविधयः तत्सम्पादनापेक्षाः । सङ्ख्याविधयः तदाश्रयापेक्षाः । तेषां यथाक्रमं नष्टाश्वदग्धरथवत्परस्परापेक्षया मेलनेन पठिताः । ज्यायांसमुत्कृष्टैर्मर्दनादिकल्पैः उत्कृष्टैश्च संसर्जनीयैः॑ महान्तमुत्सेधतः॑ बृहन्तं परिमाणतः॑ अपरिमितं सङ्ख्यात उक्तम् । संख्यादिकमपरिमितं परिमितात्परिमाणात्भूयः प्रमाणे साहस्रं शास्त्रं प्रमाणमिति कात्यायनः । स्वर्गकामस्य तु विशेषतः । अकामस्य तु नित्य एव । स्वर्गकामस्ये त्युक्तेः अग्निकल्पे “वाजसनेयिकमिति” वचनाच्च द्विषाहस्रादीनां विकल्पः । ग्रीवदघ्नमिति तैत्तिरीयके श्रूयते । उभयमप्येकार्थमेव । इष्टकोत्सेधकरणान्तराविधानात् । “समानं हिशिरोग्रीवमिति” ब्राह्नणदर्शनाच्च । (किञ्च ग्रीवास्ययोः पर्यायत्वदर्शनाच्च) । किञ्च ग्रीवास्ययोः पर्याय्त्वं लोके च दृश्यते दशास्यो दशग्रीव इति । तस्माच्छुत्योरेकार्थता ।

सुन्दरराजीया व्याख्या

व्यत्यासंपुरीषस्य

इष्टकाःस्थण्डिलार्थाः, तत्सन्धानार्थं पुरीषम् । अतो भिन्नप्रयोजनत्वात्सख्यान्तरं नावगाहते ।

जानुदघ्नींज्यायांसं साहस्रं सहस्रपरिमाणम् । द्विषाहस्रं त्रिषाहस्रमिति “पूर्वपदादिति” षत्वम् । उत्तरमुत्तरं चतुर्थप्रभृति ।

अत्र ब्राह्नणं प्रमाणत्वेनाह

महान्तंविज्ञायते

महान्तं विधाभ्यासेन । अपरिमितं बृहन्तं ऊर्वप्रमाणेन । अत्र बोधायनः ऊर्ध्वप्रमाणाभ्यासं जानोः पञ्चमस्य चतुर्विंशेनैके समामनन्ति ।

कपर्दिभाष्यम्

विश्वास-प्रस्तुतिः

द्विषाहस्रे द्विप्रस्ताराश्चितयो भवन्ति । त्रिषाहस्र त्रिप्रस्ताराश्चतुर्थप्रभृतिष्वाहारेषु नित्यमिष्टकापरिमाणम् ॥ १०.९ ॥

English

In the case of (fire-altars employing) 2000 bricks, the piles will be two layered; in the case of 3000 bricks, three layered; in the case of 4000 and larger number of bricks, the number of bricks (for the layer) remains the same (as that for the 3000).

मूलम्

द्विषाहस्रे द्विप्रस्ताराश्चितयो भवन्ति । त्रिषाहस्र त्रिप्रस्ताराश्चतुर्थप्रभृतिष्वाहारेषु नित्यमिष्टकापरिमाणम् ॥ १०.९ ॥

विश्वास-प्रस्तुतिः

विज्ञायते च ःन ज्यायांसं चित्वा कनीयांसं चिन्वीतेति” ॥ १०.१० ॥

English

According to tradition, a smaller fire-altar should not be laid after a larger one has been constructed.

English - comment

10.7-10.10. These sūtras do not call for much explanation. purișa is loose earth moistened with water,-jalādrā mṛt puriṣam (Karavinda) and is applied for purposes of bonding, for filling up crevices etc.

मूलम्

विज्ञायते च ःन ज्यायांसं चित्वा कनीयांसं चिन्वीतेति” ॥ १०.१० ॥

टीका

निगदव्याख्यातमेतत् । चतुर्थोति इष्टकापरिमाणमिह त्रिषाहस्रमित्युच्यते । त्रिषाहस्रमेव नियतम् । नोच्येत अनीकवदावृत्तिःस्यात् । अन्यस्याविधानात् । अमुमेवार्थं दर्शयितुं श्रुतिं दर्शयति विज्ञायत इति । ज्यायांसं द्विषाहस्रं त्रिषाहस्रं वा चित्वा कनीयांसं साहस्रं न चिनुयादिति प्रतिषेधः । तथार्ऽधाष्टममर्धनवमं वा चित्वा एकविधाप्तार्घविधपर्यन्ता न चेतव्याः ।

इत्यापस्तम्बसूत्र विवरणे कपर्दिस्वामिभाष्ये

शुल्बाख्यप्रश्ने तृतीयः पटलः.

करविन्दीया व्याख्या

उत्सेधाधिक्यं च प्रस्तारानेकत्वे न भवतीत्याह

द्विषा स्ताराः

द्विषाहस्रेऽग्नौ द्विप्रस्ताराः तूष्णीं पुरीषाभ्यूहनम् । " तासु पुरीषमभ्यूहतीतिऽगपॢ नाक्ष अन्ये च चितिधर्माः ।

चतु माणम्

आहरेषु प्रयोगेषु । चतुर्थपब्रभृतिषु प्रयोगेष्वनन्तरोक्तं त्रिषाहस्रं नित्यं॑ न न्यूनादिकमित्यर्थः । नन्वनन्तरार्थादेव त्रिषाहस्रं चतुर्थप्रभृतिषु नित्यं भविष्यति किमर्थमिदमुच्यते? उच्यतेयदीतं नोच्यते, तर्हि अनीकवदावृत्तिः प्रसज्येत । यद्वा द्वितीयतृतीयनिमित्ता विवृद्धिरिति चतुर्थादिषु साहस्रमेव वा प्रसज्येत् । अत इदमुच्यते “नित्यमिष्टकापरिमाणमिति” । अमुमेवार्थं श्रुत्या प्रथयति

विज्ञा ते

ज्यायांसमधिकप्रमाणं कनियांसमल्पप्रमाणम् । द्विषाहस्रं त्रिषाहस्रं वा कृत्वा न साहस्रं चिन्वीत । तत्र्रिषाहस्रमेव चिन्वीत ॥ तत्र्.अ श्लोकाः

यदत्र पुच्छे प्रादेशमुपधायेति सूत्रितम् ।

तदभेदाय पुच्छाग्रे पृथग्ग्रीतिनिषेधकम् ॥

अग्रस्य रीतिभेदे स्युर्बह्वयः पुच्छे भिदा यतः ।

अतः पुच्छादनारम्भः पुच्छाग्रप्रभृतिर्भवेत् ॥

तथोपधाने तन्मूले यत्क्षेत्रमतिरिच्यते ।

चतुर्भिरर्धैः प्रादेशसहितैश्छादयेत्ततः ॥

अप्यये विपरीतोक्तिरेवमर्थवती भवेत् ।

प्रादेशमात्रा नाग्रे स्युस्तथा बहुभिदा यतः ॥

छादने विनियुक्तानां सामर्थ्यें नास्ति यत्र तु ।

तत्रान्याभिःसमर्थाबिस्तत्रत्याबिश्छदिर्भवेत् ॥

प्रच्छादयेति वचनं सर्वाग्निविषयं यतः ।

अतः पञ्चमभागीया पाणिबाहुळ्यहेतुका ॥

व्यत्यासेनोपधानस्य व्यत्यासवचनस्य च ।

पुनःक्रिया तत्र तत्र भेदाभावैकहेतुका ॥

व्यत्यासे लोकतःसिद्धे तत्रासौ यतते यतः ।

तेनेष्टका मा६ हेदोऽप्यमृष्य इति गम्यते ॥

संख्यामात्रमनूद्येह पूरणं विदधाति यत् ।

तेन मन्यामहे साम्यं सर्वप्रस्तारगोचरम् ॥

न्यूने तु पूरयेदुक्तैः साम्यस्यायतनीस्थतेः ।

अतिरेके क्रमाभावात्प्रस्ताराःसर्वतःसमाः ॥

इति करविन्दस्वामिकृतायां शुल्बदीपिकायां तृतीयः पटलः

सुन्दरराजीया व्याख्या

द्विषाहस्रे त्रिप्रस्ताराः

प्रतिप्रस्तारं संधानार्तं पुरीषं भवति । चित्यन्ते मन्त्रतः ।

चतुर्थप्रभृति परिमाणम्

नित्यमुत्तरं त्रिषाहस्रमेव

विज्ञायते चिन्वीतेति

सरेवत्राग्निषु दक्षिणोत्तरे पार्श्वे सदृशे एवोपधेये । तथा पाश्वात्यपौरस्त्ये । यदेवमाह “अद्यर्धा दश पुरस्ताद्दश पश्चातष्टावष्टौ पादेष्टकाः पक्षाग्रयोस्वतस्रश्वलतस्रः पक्षाग्रीयाः, इत्यादि । तदाह बोधायनः “पशुधर्मा ह वा अग्निर्यथा वै पशोर्दक्षिणेषमस्थ्नं यद्दक्षिणं तदुत्तरेषामुत्तरम्, इत्यादि । एतच्च सति संभवे॑ यदाह “द्वितीयचतुर्थयोस्वान्यतरतः प्रतिसंहितामेकैकां त्रिंशत्षष्टयः, एकं पञ्चमीम्” इति च । द्विशता एव सर्वे प्रस्ताराः. प्रतिप्रस्तारं संख्यापूरणवचनात्रथचक्रे द्विशतयोरेव प्रस्तारयोर्वचनातेष द्विशतः प्रस्तार इति श्येनचिति वचनाच्च । अतश्वोडा नाकसदश्वैकीकृत्य संख्येयाः । बोधायनस्त्वाह “पञ्चम्यां वा चितौ संख्यापूर्तिर्द्विशताः प्रस्ताराः । पञ्चचोडाभिर्नाकसदःसमानसंख्याः प्रतीयात्” इति ॥

दशमः खण्डः

इति सुन्दरराजीये आपस्तम्बशुल्बसूत्रव्याख्याने

शुल्बप्रदीपे तृतीयः पटलः

कपर्दिभाष्यम्