विश्वास-प्रस्तुतिः
उन्मुच्य वेणुं मध्यमे शङ्कावन्त्यं वेणोश्छिद्रं प्रतिमुच्योपर्युपरि लेखासमरं दक्षिणा वेणुं निधायान्त्ये छिद्रे शङ्कुं निहत्य तस्मिन्मध्यमं वेणोश्छिद्रं प्रतिमुच्य लेखान्तयोरितरे प्रतिष्ठाप्य छिद्रयोः शङ्कू निहन्ति ॥ ९.१ ॥
English
The bamboo rod is taken off and one end of it is fixed to the middle (of the east-west line) with a pole; it is then placed towards the south so as to pass over the point of intersections of the two circles and a pole is fixed in the hole at the other extremity. The bamboo rod is fixed to this (last) pole by its middle hole and laid (east-west) touching the outer edges of the two circles; two poles are fixed through the two extreme holes.
मूलम्
उन्मुच्य वेणुं मध्यमे शङ्कावन्त्यं वेणोश्छिद्रं प्रतिमुच्योपर्युपरि लेखासमरं दक्षिणा वेणुं निधायान्त्ये छिद्रे शङ्कुं निहत्य तस्मिन्मध्यमं वेणोश्छिद्रं प्रतिमुच्य लेखान्तयोरितरे प्रतिष्ठाप्य छिद्रयोः शङ्कू निहन्ति ॥ ९.१ ॥
टीका
दक्षिणे शङ्कौ अन्यतरं वेणोश्छिद्रं प्रतिमुच्योपर्युपरिलेखासम्भेदं दक्षिणाग्रं वेणुं निधाय अन्त्ये छिद्रे शङ्कुं निहत्य तमिन् श्ङ्ककककौ
मध्यमं वेणोश्छिद्रं प्रतिमुच्य लेखान्तरयोरन्तर छिद्रेप्रतिष्ठाप्य छिद्रयोर्लेखान्तयोरेव शङ्कू निहन्ति ।
विश्वास-प्रस्तुतिः
स पुरुषश्चतुरश्रः ॥ ९.१ ॥
English
This is a square of (side equal to) one purușa.
मूलम्
स पुरुषश्चतुरश्रः ॥ ९.१ ॥
टीका
स चतुरश्रः पुरुषः ॥
विश्वास-प्रस्तुतिः
एवं पुरदक्षिणं चतुर आत्मनि पुरुषानवमिमीते ॥ ९.२ ॥
English
Going about in this way, four squares each of one (sq.) purușa in the body (ātman) are measured out.
मूलम्
एवं पुरदक्षिणं चतुर आत्मनि पुरुषानवमिमीते ॥ ९.२ ॥
टीका
एवं चत्वारि पुरुषक्षेत्राणि आत्मनि यथा भवन्ति तथा प्रदक्षिणं मिनुयात् ।
विश्वास-प्रस्तुतिः
पुरुषं दक्षिणे पक्षे । पुरुषं पुच्छे पुरुषमुत्तरे ॥ ९.२ ॥
English
One (sq) purușa (is then measured out) for each of the southern wing, the tail and the northern wing.
मूलम्
पुरुषं दक्षिणे पक्षे । पुरुषं पुच्छे पुरुषमुत्तरे ॥ ९.२ ॥
टीका
दक्षिणे पक्षे दक्षिणे पार्श्वे । मध्यमेषु त्रिषु वेणुं प्रतिमुच्य अपराभ्यामित्यादि पूर्ववच्चतुरश्रः पुरुषः । एवमुत्तरपक्षे उत्तरपार्श्वे, मध्यमेष्वेव त्रिषु प्रतिमुच्य उत्तरम् । पुच्छे तु पाश्वात्यमधयमशङ्कौ मध्यमं वेणोच्छिद्रं प्रतिमुच्य तिर्यग्वेणुं निधाय छिद्रयोःशङ्कू निहत्योन्मुच्योत्तराभ्यां प्रसव्यं परिलिखेत् । दक्षिणस्मादुन्मुच्योत्तरस्मिन् पुरुषमात्रे शङ्कौ प्रतिमुच्यान्त्यच्छिद्रशङ्कुप्रभृति प्रदक्षिणं परिलिखेत् । उन्मुच्य वेणुं मध्यमे प्रतिमुच्य उपर्युपरि लेखासम्भेदं पश्चाद्वेणुं निधाय अन्त्य इत्यादि समानं तत्पुच्छम् ।
विश्वास-प्रस्तुतिः
अरत्निना दक्षिणतो दक्षिणमित्युक्तम् ॥ ९.२ ॥
English
As stated, the southern wing is to be increased towards south by one aratni and so on.
मूलम्
अरत्निना दक्षिणतो दक्षिणमित्युक्तम् ॥ ९.२ ॥
टीका
एवं विमितस्य दक्षिणपक्षस्य दक्षिणतः उत्तरस्योत्तरतः अरत्निना वर्धयेत्, पक्षयोस्तिर्यङ्भानी सारत्ननिपुरुषमात्रा पार्श्व मानी च पुरुषमात्रं, एवं पुच्छस्य पश्चादपि प्रादेशेन वितस्त्या वा वर्धयेत्, तत्तत्सुपार्श्वमानी स प्रादेशः पुरुषः, पुरुषमात्रे तिर्यङ्भानी ॥
विश्वास-प्रस्तुतिः
पृष्ठ्यातो वा पुरुषमात्रस्याक्ष्णया वेणुं निधाय पूर्वस्मिन्नितरम् । ताभ्यां दक्षिणं अंसं निर्हरेत् । विपर्यस्य श्रोणी ॥ ९.३ ॥
English
A bamboo rod equal to the diagonal of a square of side one purușa is placed across from (the western end of) the east-west line and another (rod of one purușa) is placed on the east side (from the eastern end). By them (that is, by their meeting point) the south-east corner is fixed. By reversing (the placement of the two rods), the south-west corner is fixed.
मूलम्
पृष्ठ्यातो वा पुरुषमात्रस्याक्ष्णया वेणुं निधाय पूर्वस्मिन्नितरम् । ताभ्यां दक्षिणं अंसं निर्हरेत् । विपर्यस्य श्रोणी ॥ ९.३ ॥
टीका
अपरस्मिन् शङ्कौ पुरुषमात्र प्रतिमुच्य दक्षिणां श्रोणिं उदगपसार्योत्तरामेव श्रोणिं विहरेत् ।
विश्वास-प्रस्तुतिः
पूर्ववदुत्तरमंसम् ॥ ९.३ ॥
English
Proceeding as before, the north-east corner is fixed.
मूलम्
पूर्ववदुत्तरमंसम् ॥ ९.३ ॥
टीका
गतमेतत् ।
करविन्दीया व्याख्या
अपरस्मादुन्मुच्य वेणुं मध्यमे शङ्कावन्यं वेणोश्छिद्रं प्रतिमुच्य उपर्युपरिलेखासमरं वेणुं निधाय । लेखासमरः लेखायाःसंपातः । तस्योपरिष्टात्सन्निकृष्टं निधायान्त्यछिद्रे शङ्कून्निहत्य तस्मिन्मध्यमं वेणोश्छिद्रं प्रतिमुच्य लेखान्तयोरितरे छिद्रे प्रतिष्ठाप्य छिद्रयोःशङ्कुं निरन्ति स चतुरश्रः पुरुषसंज्ञो भवति, एवं प्रदक्षिणं चतुरः पुरुषानात्मनि कुर्यात् । पश्चिमे शह्कावेवं वेणोश्छिद्रं प्रतिमुच्य पश्चादनुपृष्ठ्यं वेणुं निधाय पश्चिमयोरपि छिद्रयोरपि शङ्कुं निखाय पूर्ववद्द्वितीयं पुरुषं कुर्यादेवमुत्तरतोऽपि उत्तराप्रत्यगुत्तराप्राक्चालिख्य पुरुषद्वयं विमिमीते । अपरेण यूपावटतेशं सञ्चरमवशिष्य पृष्ठ्यायां शङ्कुं निहत्य तस्मिन् वेणोश्छिद्रं प्रतिमुच्य पृष्ठ्यायां वेणुं निपात्य छिद्रयोर्द्वै शङ्कू । पश्चिमे शङ्कौ वेणोः छिद्रं प्रतिमुच्य पृष्ठ्यायामेव पश्चान्ननिपात्य द्वौ शङ्कू । एवं पञ्च शङ्कवः । मध्यमपूर्वयोःशङ्व्कोः प्रतिमुच्य उल्लिख्य पूर्ववत्पुरुष द्वयं कुर्यात् । उदक्षिमत उपान्त्ययोः छिद्रं प्रतिमुच्य उल्लिख्य दक्षिणपक्षे पुरुषं उत्तरत उपान्त्ययोः प्रतिमुच्य उत्तरपक्षे पुरुषण्टपुच्छे तु पश्चिमे शङ्कौ वेणोर्मध्यमछिद्रं प्रतिमुच्य दक्षिणोत्तरं वेणुं निधाय छिद्रयोःशङ्कुं निहत्य तयोश्छिद्रं प्रतिमुच्य पश्चिमोत्तरं पश्चिमदक्षिणं चालिख्य पुरुषं कुर्यात् । एवं कृत्वा आरत्ननिना दक्षिणतो दक्षिणं पक्षं प्रवर्धयति । उत्तरमपि पक्षमुत्तरतोऽरत्निनैव प्रादेशेन वितस्त्या वा पश्चात्पुच्छं प्रवर्धयति ॥
पृष्ठ्या मसं वा शब्दो विकल्पार्थः । एवमिह वेणुमानम् । द्वौ तावद्वेणू भवतः । तयोरकेः पुरुषमात्रः । अन्यः पुरुषमात्रस्याक्ष्णया रज्जुसमः । ताभ्यां विमानमपरेण युपावटदेशं सञ्चरमवशिष्यते । पृष्ठ्यायां शङ्कुः । ततः पश्चात्तावन्मात्रे शङ्कुः । मध्यमशङ्कावक्ष्णयामात्रं वेणुं प्रतिमुच्य पूर्वस्मिन् पुरुषमात्रं प्रति मुच्य ताभ्यां दक्षिणमंसं निर्हरेत् । पुरुषमात्रं पूर्वस्मादुन्मुच्यापरस्मिन् प्रतिस्मिन् प्रतिमुच्योत्तरमंसं दाक्षणोत्तरपश्चिममध्यमशङ्कूनां पार्श्वद्वयेष्वर्द्धपुरुषमात्रेषु शङ्कुं निहत्य पुक्षपुच्छपुरुषानप्येवमेव कुर्यात् ॥
उन्मुच्य निहन्ति
समरः सङ्गमः पूर्वापरे छिद्रे लेखयोर्यत्र निपततस्तावेव लेखान्तौ ।
स वमिमीते
पृष्ठ्यायां पूर्वयोश्चतुरश्रयोः पाश्वात्यशङ्कुः अपरयोः पौरस्त्यः ।
पुरुषंपक्षे
दाक्षिणात्यानां पञ्चानां शङ्कूनां मध्यमेषु त्रिषु वेणुंप्रतिमुच्य अपराभ्यामित्यादि ।
पुरुषं पच्छे
पाश्वात्यानां त्रयाणां दक्षिणयोरन्त्ये छिद्रे प्रतिमुच्य मध्यमे छिद्रे शङ्कुं निहन्यात् । एवमुत्तरयोरेवं स्थितानां पञ्चानां मध्ये मध्यमेषु त्रिषु वेणुं प्रतिमुच्योत्तराभ्यामित्यादि द्रष्टव्यम् ।
पुरुषमुत्तरे
दक्षिणपक्षवत् ।
अरत्निना त्युक्तम्
वेणोः पञ्चमे लक्षणं कृत्वा तेन पक्षौ प्रवर्धयेत्, एवं दशमे लक्षणं कृत्वा । पुच्छं प्रकारान्तरमाह
पृष्ठ्यान्तो मंसं द्वावत्र वेणू उभ्यतश्छिदौ, पुरुषमात्रःसविशेषश्च । पृष्ठ्यायां पुरुषान्तरालान् त्रीन् शङ्कून्निहत्य मध्यमे सविशेषं प्रतिमुच्य पूर्वस्मिन्नितरं तयोरन्त्ये च्छिद्रे यत्र संपततःस दक्षिणांसः ।
विपर्यस्य पुरुषमात्रं पाश्वात्ये प्रतिमुच्य श्रोणी पूर्ववदुत्तरांसः । एवं पक्षपुच्छेष्वपि । सविशेषो वेणुःसप्ततिशतमङ्गुलयो दशतिलोनाः ।
कपर्दिभाष्यम्
विश्वास-प्रस्तुतिः
रज्ज्वा वा विमायोत्तरवेदिन्यायेन वेणुना विमिमीते ॥ ९.४ ॥
English
As in the case of the uttara vedi, it is measured out with the help of a cord or a bamboo rod.
मूलम्
रज्ज्वा वा विमायोत्तरवेदिन्यायेन वेणुना विमिमीते ॥ ९.४ ॥
टीका
रज्ज्वा वान्यतरया विमायोत्तरवेदिवद्वेणुना पश्चाद्विमिमीते अटृष्टार्थम् ।
विश्वास-प्रस्तुतिः
सपक्षपुच्छेषु विधाभ्यासेऽपचये च विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेत् ॥ ९.५ ॥
English
When the fire-altar having wings and tail is increased to higher folds or reduced, the saptamakaraṇī of the fold (vidha) is to be substituted by the puruşa and the area (of the fire-altar) drawn.
English - comment
9.1-9.5. Construction of square. Here two methods of drawing a square required for the construction of the body (ātmā) of caturaśraśyenacit are described. The first method is explained in Fig. 7.
A, B - holes at the end of a bamboo rod taken equal to the height of a sacrificer with uplifted arms;
C - another hole at the middle of AB; EF - the east-west line, AB ;
O - the pole corresponding to the hole C of AB ; FG, EH — arcs drawn by the end B when A is fixed once at E and then at F respectively;
P - the point of intersection of the arcs FG and EH ; K - the point reached by the hole B when A is fixed at O and AB is laid over OP;
G, H - points fixed by A and B when C is fixed at K. Hence EFGH is the required construction of the square.
The second method is explained in Fig. 8. FS- the bamboo rod which is qual to √/2 a (dvikarani of the square), where a equals one purușa;
ES - the bamboo rod of length one purușa is stretched along the east side ;
S - the common point denoting amsa, which is one of the corner points of the figure.
Similarly the śroṇi point K is fixed. EFKS is the required construction. Four such squares each of 1 sq. purușa form the body (ātmā) of the caturaśraśyenacit. How any increment to the area of more than 7 fold agni is to be effected has already been discussed in Bśl. 5.1-5.6.
मूलम्
सपक्षपुच्छेषु विधाभ्यासेऽपचये च विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेत् ॥ ९.५ ॥
टीका
विधाभ्यासेऽष्टविधप्रभृतयः । विधापचये एकविधादयः । तेष्वेकविधादिषु विधासप्तमकरणी येन वेणुना विमिमीते तदर्धाष्टमं भवति । स पुरुषस्थानीयः । एवं चतुरश्रं कृत्वा पूर्ववद्विभज्य विहरेत् । सपक्षपुच्छेष्विति वचनमेकविधानार्थम् । एतेष्वेकविधा दिषु श्येनादिषु क्रियमाणेषु यद्येकविधा तत्पञ्चदशधा विभज्य द्वौ भागौ समस्य चतुरश्रं कृत्वा तस्य मानेन वेणुना गृह्णीयात् । स पुरुषस्थानीयः । एवं सर्वत्र । यावद्विधं तत्क्षेत्रं समचतुरश्रं कृत्वा तस्य प्रमाणं गृह्णीयात्॑ यथा चत्वारि सहस्राण्यशीतितिलाः (४०८०) पुरुषः । तेषां वर्गःेका कोटिः षट्षष्टिर्नियुतानि चत्वार्ययुतानि षट्सहस्राणि चत्वारि शतानि (१६६४६४००) यद्यष्टविधः अष्टभिर्गुणयित्वा पूर्वार्धं संयोज्य पञ्चदशलब्धं द्विगुणीकृत्य मूलं गृह्णीयात् । स तस्य पुरुषो भवति । अपचये त्वर्धसंयोगो नास्ति । अरत्रिपादेशाभावात् । अन्यत्सर्वमुवचयेन तुल्यम् । अर्धतिलेन वा ऊनाधिके वा दोषो न भवति विशेषा दर्शनात् । तत्र श्लोकः
आकाशवस्वम्बरवेद (४०८०) वर्ग
मिष्टप्रवृद्धं तिथिभिर्विभक्तम् ।
लब्धस्य वृद्धस्य यमेन मूलं वृद्धौ क्षये तत्पुरुषस्य मानम् ॥
सदा भवेत्सापचयेच वृद्धौ …… ॥
इति ।
नन्वेकविधादयः श्येनादयो वक्रपक्षपुच्छाः कर्तव्या इति प्रतिपादितम् । तस्मात्किं महता प्रयत्नेन हेतूनां दर्शनेन? सत्यमेतत्! कर्तव्या एकविधादय इति कृत्वा व्कचित्तेषु यद्येकविधादयः कर्तव्याः तदा क्रत्वर्थकतयोपादीयन्ते । तदा श्येनादय आकृतिविकाराः पुरुषात्मकाः सन्तः तद्विकृत्याधिशयेरन् । यथा पुरुषमात्रतां विकृत्य पक्षपुच्छानां सप्तार्धविधे श्येनादयः प्रवर्तन्ते एवं पुरुषं विकृत्य एकविधादिषु निविशेरन् । तत्र यदा सपक्षपुच्छत्वमेकविधादीनां तदायं विधिरिति अष्टविधप्रभृतीनामपि मार्गान्तरेण विधानाददोषः । सपक्षपुच्छोष्विति विधानात् । प्रौगादिष्वेकविधादयो न सन्ति । अष्टविधादयश्चेति केचित् । वक्ष्यति च “यावानाग्निःसारत्निप्रादेश” इति । अपरे पुनरेकविधादिषु न सन्ति नापचयेष्विति वर्णयन्ति । सारत्रिप्रादेश इति वचनात् ॥
करविन्दीया व्याख्या
(रज्ज्वा मिमीते)
अथवा एकरज्ज्वादीनामन्यतमया रज्वाग्निं विमाय पश्चाददृष्टार्थं वेणुना विमिमीते । उत्तरवेदिन्यायेन यथोत्तरवेदिर्युगेनयजमानस्य वा पदैर्विमाय शम्यया परिमिमीते अदृष्टार्थं॑ एवमत्रापि रज्ज्वा विमाय वेणुना मानमदृष्टार्थं स्यात्, तथोत्तरवेदिविकारत्वादग्नेः रज्ज्वा विमाय वेणुना शम्यया चादृष्टार्थं विमानं भवेदिति ॥
सपक्ष रेत्
सपक्षपुच्छेषु प्रौगादिव्यतिरिक्तेष्वग्निष्वभ्यासेऽष्टविधादावपचये चैकविधादौ चैकविधादौ विधाविधानं करणीनामुच्यते विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेत् । यावत्योऽग्नेर्विधाःसन्ति तासां सप्तमं या करोति सा विधा सप्तमकरणी तां पुरुषस्थानीयां कृत्वा तयाऽत्मपक्षपुच्छानि विहरेदिति । अयमर्थः यद्येकविधोऽग्निः ॑ तमेकविधं पञ्चदशधा विभज्य द्वौ भागौ समस्य समचतुरश्रं कृत्वा तस्य प्रमाणं पुरुषक्थाने कृत्वा अनेनात्मपक्षपुच्छानि विहरेदिति । एवमेव द्विविधादिषु कुर्यात् । चत्वारि सहस्राण्यशीतिश्च तिलाः पुरुषः । तेषां वर्ग एका कोटिः षट्प्रयुतानि षण्णियुतानि चत्वार्ययुतानि षट्सस्राणि चत्वारि शतानि (१६६४६४००) यद्यष्टविधं पुरुषवर्गमष्टभिर्गुणित्वा पूर्वराश्यर्घेन च संयोज्य तत्पञ्चदशभिर्विभज्य लब्धं द्विगुणीकृत्य मूले गृहीते स तस्य पुरुषो भवति । अपचये त्वरत्निप्रादेशानामभावात्नार्धसंयोगः ॥ इतरदुपचयवत्. । नन्वेकविधप्रभृतीनां न प्रक्षपुच्छानि भवन्तीत्युक्तं सत्यमुक्तम् । तद्व्यायाममात्ररूपत्वेन एकविधादौ न घटत इत्येवमर्थमिदमिति तत्रैव व्याख्यातम् । एकविधप्रकृतित्वप्रतिपादनाय च । तस्मान्नात्यन्तनिषेधः, एकविधप्रभृतीनामपि पक्षपुच्छानि भवन्त्येव ॥
अत्र श्लोकमुदाहरन्ति
आकाशवस्वम्बरवेदवर्ग
मिष्टप्रवृद्धं तिथिमिर्विभक्तम् ।
तस्य प्रवृद्धस्य यमेन मूलं सम्भावयेत्सापचये च वृद्धौ ॥
इति
सुन्दरराजीया व्याख्या
रज्ज्वा मिमीते
आस्मिन् पक्षे शम्यामानवददृष्टार्थं वेणुमानम् । अथाष्टविधादीनामेकविधादीनां च विहरणमाह ॥
सपक्ष रेत्
सपक्षपुच्छा अग्नयः चतुरश्रश्येनकङ्कचिदलजचितश्च । तत्राष्टविधादिषु विधानामभ्यासः । एकविधादिष्वपचयः । विधानां (एकीभूतानां) समस्तानां सप्तमस्य करणी विधासप्तमकरणी । चीयमानस्याग्नेर्योंऽशः तस्य करणी पुरुषस्थानीया । सा चाष्टविधप्रभृतीनामित्यत्रैव प्रदर्शिता । अत्रापि सारात्निप्रादेशपक्षे विधार्धाष्टमकरणीमिति द्रष्टव्यम् । अपचयवचनं श्येनचिदाद्यर्थम् । चतुरश्राणामेकविधादीनामपक्षपुच्छत्वात् । पूर्वत्र पुरुषावेशनमुक्तं, इदानीं तस्य विहरणमुच्यते इत्यतो न पुनरुक्तिः । यद्वा पूर्वसूत्रमष्टविधादिविषयं चतुरश्रविषयं च । डदमेकविधादीनां श्येनादीनां च साधारणमित्यस्ति विशेषः । इदं चानेन ज्ञायते श्येनचिदादयो गुणविकाराःसप्तविधादिवदेकविधादिष्वपि भवन्ति । शखान्तरीयत्वं च तस्य पूर्वमेवोक्तम् । अत एव तस्य पक्षस्य यत्नसाध्यत्वात्तत्रैवोपधान प्रकारो वक्ष्यते “यावानग्निःसारत्निप्रादेशः” इत्यादि ।
कपर्दिभाष्यम्
विश्वास-प्रस्तुतिः
करणानाष्टकानां पुरुषस्य पञ्चमेन कारयेत् ॥ ९.६ ॥
English
Of the bricks, the side (of the first type) should measure one-fifth of a purușa ;
मूलम्
करणानाष्टकानां पुरुषस्य पञ्चमेन कारयेत् ॥ ९.६ ॥
टीका
इष्टकानां करणानि वक्ष्याम इति शेषः । पुरुषस्य पञ्चमेन अरत्निना कारयेत् ।
विश्वास-प्रस्तुतिः
तासामेवैकतोऽध्यर्धास्तद्द्वितीयम् । पुरुषस्य पञ्चमो भाग एकतः प्रादेश एकतः तत्तृतीयम् ॥ ९.६ ॥
English
the second type has one of its sides longer by half; the third type is one-fifth of a purușa long and one prādeśa broad;
मूलम्
तासामेवैकतोऽध्यर्धास्तद्द्वितीयम् । पुरुषस्य पञ्चमो भाग एकतः प्रादेश एकतः तत्तृतीयम् ॥ ९.६ ॥
टीका
तासामेवेष्टकानां (कतिपया) एकतोऽध्यर्धा अर्धेनाधिकास्तासां करणं तृतीयं त्रिप्रादेशा पार्श्वमानी अरत्निमात्रा तिर्यङ्भानी द्वितीयस्य करणस्य । अरत्निः पार्श्वमानी । प्रादेशस्तिर्यङ्भानी तत्तृतीयकरणम् ।
विश्वास-प्रस्तुतिः
सर्वतः प्रादेशस्तच्चतुर्थम् । समचतुरश्राः पञ्चदशभागीयास्तत्पञ्चमम् ॥ ९.६ ॥
English
bricks with each side equal to one prādeśa form the fourth type; square bricks of side equal to one-fifteenth (of a purușa) constitute the fifth type.
English - comment
9.6. Bricks of caturaśraśyenacit. Five kinds of bricks used for the caturaśraśyenacit are described as follows:
pañcami, square bricks of side one-fifth of a purusa, 24 ang. × 24 ang. ; adhyardha, rectangular brick, 36 ang. x 24 ang. ; ardhyā, a rectangular half of pañcami, 24 ang. × 12 ang. ; caturbhāgiyā, a square brick one fourth of pañcami, 12 ang. × 12 ang. pañcadaśabhāgiyā, a square brick of side one-fifteenth of a purușa 8 ang. × 8 ang. The heights of bricks in most cases are the same with the exception of the nāka- sada and pañcacoḍā bricks, which have the height of the normal bricks used for altar construction. The pañcacoḍā and nākasada bricks are usually used at the top (vide Bśl. 5.7-7.3).
मूलम्
सर्वतः प्रादेशस्तच्चतुर्थम् । समचतुरश्राः पञ्चदशभागीयास्तत्पञ्चमम् ॥ ९.६ ॥
टीका
अष्टाङ्गुलेन कारिकास्तत्पञ्चमं करणम् । समचतुरश्रा इति किमर्थमिह सङ्गुहणम्? यस्मिन्नग्नौ समचतुरश्रा एवेष्टकाः तत्राप्यासां प्रवेशो यथा स्यादित्येवमर्थम् । वक्ष्यति च “अणूकाः पञ्चदशभागीयानां स्थान” इति । अणूकपञ्चदशभागीययोरेकविषयत्वम् ।
करविन्दीया व्याख्या
(करणानि कारयेत्)
इदानीमिष्टकानां करणान्युच्यन्ते पारिभाषिकः पुरुषः पञ्चारत्निः । तस्य पञ्चमेनारत्निना । पञ्चमेनोति जातावेकवचनम् । पञ्चमैरित्यर्थः । कारयेत्कुशलैः । तैररत्निभिश्चतुर्भिः प्रथमं करणम्
तासा तीयम्
तासां पञ्चमकृतानामेवेष्टकानां या एकतः एकस्मिन् भागेऽध्यर्थारत्नयायामाः तासां करणं चत्तद्द्वितीयं कारयेत् । तासामेवेति सर्वत्र संबध्यते ॥
पुरु तीयम्
यासामेकस्मिन् पार्श्वे चतुर्विंशत्यङ्गुलयः एकतो द्वादशाङ्गुलयस्तासां यत्करणं तत्तृतीयम् ।
सर्वर् थम्
यासां सर्वतः प्रादेशः प्रमाणं तासां यत्करणं तच्चतिर्थम् । सर्वतो ग्रहणं प्रादेशग्रहणेन व्कचिद्घुहणं सूचयति ।
सम ञ्चमम्
पुरुषस्य पञ्चदशभागोऽष्टाङ्गुलयः । तेन परिमिताः पञ्चदशभागीया इष्टकाः ईटृशाःसमचतुरश्राः, तासां यत्करणं तत्पञ्चमम् । समचतुरश्रग्रहणादेव पञ्चदशभागीयानां कार्येणूकादयः प्राप्ताः । तत्र प्रागुदक्पश्चिमेषु चतुरश्रत्वनियमो नास्तीति ज्ञायते । द्वितीयादिव्यवहारः किमर्थः? अदृर्ष्टार्थमेव । तथोपधानादिषु दर्शनात् ।
सुन्दरराजीया व्याख्या
अथैवं विमितस्याग्नेरिष्टकाकरणान्याह
करणानि कारयेत्
एकमिदं करणं अरत्निमात्रं समचतुरश्रम् ।
तासा तीयं षट्त्रिंशिका पार्श्वमानी, तिर्यङ्भानी चतुविंशिकैव ।
पुरुष्य तीयं एवमर्धेष्टकाः ।
(सर्वतःत्पञ्चम्)
अष्टाङ्गुलाः ।
कपर्दिभाष्यम्
विश्वास-प्रस्तुतिः
ऊर्व्ध्वप्रमाणमिष्टकानां जानोः जानोः पञ्चमेन कारयेत् ॥ ९.७ ॥
English
The height of the brick is to be made a fifth of the jānu
मूलम्
ऊर्व्ध्वप्रमाणमिष्टकानां जानोः जानोः पञ्चमेन कारयेत् ॥ ९.७ ॥
टीका
इत्सेधप्रमाणमिष्टकानां जानुप्रमाणपञ्चमम् । द्वात्रिंशदङ्गुलं जानुः । तस्य पञ्चमभागेन त्रयोदशतिलाधिकषडङ्गुलेन कारयेत् । महाग्नेरिष्टकानामेवैतन्महाग्नेः करणानि विधाय विधानात् ।
विश्वास-प्रस्तुतिः
अर्धेन नाकसदां पञ्चचूडानां च ॥ ९.७ ॥
English
and that of the nākasat and pañcacoḍā half of that measure.
मूलम्
अर्धेन नाकसदां पञ्चचूडानां च ॥ ९.७ ॥
टीका
जानुपञ्चमार्धेन नाकसदां पञ्चचूडानां चोत्सेधं सप्ततिलाधिकाङ्गुलत्रयोत्सेधेन कारयेत् ॥
विश्वास-प्रस्तुतिः
यत्पच्यमानानां प्रतिह्रसीत पुरीषेण तत्सम्पूरयेदनियतपरिमाणत्वात्पुरीषस्य ॥ ९.८ ॥
English
What is lost by burning (and drying) is to be made good by loose earth because of the flexibility of its quality.
मूलम्
यत्पच्यमानानां प्रतिह्रसीत पुरीषेण तत्सम्पूरयेदनियतपरिमाणत्वात्पुरीषस्य ॥ ९.८ ॥
टीका
पच्यमानानामिष्टकानामुत्सेधतश्च परिमाणतश्च प्रतिह्रासो भवेत्तत्पुरीषेण पूरयेत् । कुत इत्याह अनियतपरिमाणत्वात्पुरीषस्य नियतपरिमाणा इष्टकाः अनियतपरिमाणं पुरीषम् । इयदेतत्पुरीषं प्रक्षेप्तव्यमिति नियमाभावात्तेनैव पूरचितव्यम् ।
नवमः खण्डः
करविन्दीया व्याख्या
ऊर्ध्व येत्
सर्वासामिष्टकानामूर्थ्वाप्रमाणमुत्सेधं जानुपञ्चमेन कारयेत् । अङ्गुल्यधिकारे द्वात्रिंशज्जानुरिति बोधायनः । तस्य पञ्चमं षडङ्गुलयः अर्धचतुरदशास्तिलाश्च । तेन संमितमिष्टकानामूर्ध्वप्रमाणं भवति । जानुदघ्नं चिन्वीत प्रथमं चिन्वानः, पञ्च चितयो भवन्तीति श्रुत्योःसमावेशादूर्ध्वप्रमाणे समं स्यादश्रुतत्वादिति जानुपञ्चमा इष्टका भवेयुः । जानुद्विगुणा नाभिः । जानुत्रिगुणमास्यम् । जानुदघ्ने सहस्रा इष्टकाः नाभिदघ्ने द्विसाहस्रा द्विप्रस्ताराश्च । आस्यदघ्ने त्रिषाहस्राः त्रिप्रस्ताराश्च । तत्र सर्वत्र विशेषाश्रवणात्जानुपञ्चममेवोर्ध्वप्रमाणमिष्टकानाम् । इष्टकानां कारयेदिति इहानुवर्तमाने पुनरपि तयोर्ग्रहणं गार्हपत्यधिष्णयेष्टकानामपि जानुपञ्चमत्वाय ।
अर्धेन षस्य
अर्धेन पञ्चचार्धेनन कारयेदित्येव । नाकसदश्वूडोपधानमन्त्रविशेषाः । तैरुपधेयाः । पञ्चपढ्चेष्टका जानुपञ्व्रमस्योर्धेन कार्याः उत्तरा “नाकसद्भय उपदधाति” । इत्येकस्मिन् प्रस्तारे तासामुत्तराधरभावदर्शनात् । इष्टकाभिरकेव जानुदघ्नादिसाम्पादनात्, पुरीषोपधानीमष्टका समीकरणार्थे चितेर्वृद्धयर्थं च ।
यत्पच्य षस्य
करणपरिकॢप्तानां इष्टकानां पाकवशात्प्रतिह्रासः क्षय उपजायते । तत्पुरीषेण पूरयेत्, अनेन्ष्टका न दुष्यन्ति अवर्जनीयत्वात्, तस्य “मित्रैतां पचेति” लिङ्गात्, वातातपाभ्यामपि शोषणं पाक एव । अत एव पाकवशाद्धीनमिष्टकायामविस्तारोभयमुपधानकाले पुरीषेण पूरयेत् । कुतः? अनियतपरिमाणत्वात्पुरीषस्य । न ह्येतावत्पुरीषं प्रक्षेपणीयमिति नियमः । तस्मात्पाकवशाद्धीनस्य पुरीषेण पूरणमेव । जलार्द्रा मृत्पुरीषम् । तेनेष्टकानां ह्रासं पूरयेत् ।
सुन्दरराजीया व्याख्या
ऊर्ध्व कारयेत्
“त्रिंशदङ्गुलं जानुः, इत्याग्निवेश्यः । तस्य पञ्चमं षडङ्गुलम्, “षडङ्गुलोत्सेधा, इत्येव कात्यायनः ।
अर्धेन च
त्रयङ्गुलेन ।
यत्पच्य षस्य
शुष्यमाणानां सर्वेषामेतदुपल्क्षणम् । “यच्छोषपाकाभ्यां प्रतिह्रसेत” इत्येव बोधायनः ॥
नवमः खण्डः
कपर्दिक्षाष्यम्