०८

उक्तानि हविर्यज्ञानां विहरणनि । सौमिकानि च साग्निचित्यस्य क्रतोरग्निक्षेत्रमानमिष्टकानां करणानि उपधानवि धिश्च नोक्तः । तद्वक्तुकामः प्रस्तौति

English - comment

CHARACTERISTICS OF AGNI, GENERAL LAY-OUT AND CONSTRUCTION OF CATURAŚRAŚYENACIT, ENLARGEMENT OF UNITS, HEIGHT OF VEDIS AND BRICKS

विश्वास-प्रस्तुतिः

भवतीव खलु वा एष योऽग्निं चिनुते इति विज्ञायते । वयसां वा एष प्रतिमया चीयत इत्याकृतिचोदनात् । प्रत्यक्षविधानाद्वा ॥ ८.१ ॥

English

The tradition has it that he who constructs the fire-altar is certain to be (rich). It is constructed in the likeness of the birds, that is, after their shape, in pursuance of express direction (in the matter).

मूलम्

भवतीव खलु वा एष योऽग्निं चिनुते इति विज्ञायते । वयसां वा एष प्रतिमया चीयत इत्याकृतिचोदनात् । प्रत्यक्षविधानाद्वा ॥ ८.१ ॥

विश्वास-प्रस्तुतिः

यावदाम्नानेन वेणुना चतुरश्रे आत्मनि पुरुषानवमिमोते ॥ ८.२ ॥

English

With the help of a bamboo rod of length (equal to a purușa) as mentioned, 4 (square) purușas are measured out for the body (of the fire-altar)

मूलम्

यावदाम्नानेन वेणुना चतुरश्रे आत्मनि पुरुषानवमिमोते ॥ ८.२ ॥

टीका

प्रस्तावमात्रमनया श्रुत्या कियते न फलनिधानम् । विधिविभक्तेरभावात् । नित्योऽग्निरुत्तरवेदिवत् । “अग्निष्टोम उत्तरवेदिरुत्तरेषु क्रतुष्वग्निः” इति नित्यवचनात् । यदि प्रस्तावोऽनया श्रुत्या स्वीक्रियते गार्हपत्यचितेः पूर्वमेव प्रस्तावो न कर्तव्यः । सत्यमेतत् । इह प्रस्ताववचनस्येदं प्रयोजनं वक्ष्यमाणानि धमार्णि महाग्नेरेव यथा स्युरिति । कानि पुनस्तानि? जानुदघ्राजो महाग्नेवेति कात्यायनीये शुल्बे महाग्ननेरेवैते धर्मा इति स्पष्टमुक्तम् । किं चाश्चेहाग्निशब्देन निरुपपदेन चोदिता धर्मा यथा स्युरिति । यथा"तं वा एतं यजमान एव चिन्वीत" इति यजमानो महाग्नेरेव कर्ता न गार्हपत्यादेः । गार्हपत्यधिष्णयानामध्वर्युरेव कर्ता । पश्चाद्विधातव्यानां धिष्णियानां पूर्वं विधानस्यैतत्प्रयोजनम् । योऽग्नेश्वेता स भवत्येव । यद्यपि बहवो भ्रातृव्या इति क्रियतेऽनया श्रुत्या । वयसांपक्षिणां एषोऽग्निः प्रतिमया प्रकृत्या चेतव्य इति आकृतेःस्वरूपस्य विधानं क्रियते । स चोत्पततां छाययेत्यर्थ इति बोधायनेनोक्तम् । वैशब्दो निश्वये । असावप्याचार्यो वक्ष्यति “वक्रपुच्छो व्यस्तपक्ष” इति । तस्माच्छ्येनचिदेव प्रथमः । शुल्बान्तरे चोक्तं “श्येनचिदग्नीनां प्रथमोऽग्निः” इति । यदि श्येनो नित्यः कथं स्वर्गकाम इति ? यूपद्रव्यवत् । यथा खादिरं स्वर्गकामस्येति खादिरस्य नित्यत्वं काम्यत्वं च । प्रत्यक्षविधानाद्यावदाम्रायेन । वाशब्दः पक्षव्यावृत्तौ । तेन नैषापृतिचोदनापि श्येनः प्रकृतिः । कुतः? प्रत्यक्षविधानात् । प्रत्यक्षमेवात्र विधीयते । पक्षीभवतीत्यारभ्य पक्षपुच्छानामपि प्रमाणं विहितम् । तेन विरोधात् । नन्क्तमाकृतिचोदनेति, नैषा चोदना॑ नापि विधिः॑ विधिविभक्तेरभावात् । चीयत इति निर्दिश्यते॑ न चिनुयाच्चेतव्यमिति वा । विध्यन्तरशेषभूतत्वाच्च पश्यामो न विधायिकेति । “ब्रह्नवादिनो वदन्ति न्यङ्ङग्निश्वेतव्या ३ उत्ताना ३ इत्यारभ्य प्राचीनमुत्तानं पुरूषशीर्षमुपदधाति” इति पुरुषशिरसः उपधानं विधीयते । तस्य शेषभूतमिदं न विधायकम् । श्येनचिदग्नीनां प्रथम इति पिठकश्येनमधिकृत्यैतदुक्तं पुरुषमात्रपक्षपुच्छस्य समाख्या श्येन इति । तस्मादविरोधः । यावदाम्नानं तावदेव सारूप्यम् । पक्षपुच्छवत्तथा सारूप्यं गृहीत्वा वयःशब्दो वर्तते । तस्मात्पुरुषमात्रपक्षपुच्छवानग्निरिति तामेव प्रकृतिं निश्वित्य अन्ये आकृतिविशेषा वक्रपक्षादयः काम्या इति सिद्धम् । वक्ष्यति “काम्या गुणविकारा” इति । वेणुना चतुरश्र आत्मनि पुरुषानवमिमीतेअग्निकल्पे उक्तलक्षणेन वेणुना मिमीतेमिनोति स्थण्डुलार्धं क्षेत्रं वक्ष्यमाणेन मागैण सर्वतो द्विपुरुष आत्मा द्वाभ्यां चत्वारीति वचनाच्चतवारि च पुरुषक्षेत्राण्यात्मनि

विश्वास-प्रस्तुतिः

पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषमुत्तरे ॥ ८.२ ॥

English

and 1 (square) purușa is measured out for each of the southern wing, the northern wing and the tail.

मूलम्

पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषमुत्तरे ॥ ८.२ ॥

टीका

पुरुषमेकं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषमुत्तरेविवं त्रीणि चतुरश्राणि पुरुषप्रमाणानि, आत्मना सह सप्त पुरुषक्षेत्राणि ॥

विश्वास-प्रस्तुतिः

अरत्निना दक्षिणतो दक्षिणं पक्षं वर्धयति । एवमुत्तरत उत्तरम् ॥ ८.२ ॥

English

The southern wing is lengthened towards south by 1 aratni and likewise the northern wing towards north.

मूलम्

अरत्निना दक्षिणतो दक्षिणं पक्षं वर्धयति । एवमुत्तरत उत्तरम् ॥ ८.२ ॥

टीका

अरत्निप्रमाणेन दक्षिणतः दक्षिणं वक्षं वर्धयतिदीर्घङ्करोति । उत्तरतश्चोत्तरं पक्षम् ॥

विश्वास-प्रस्तुतिः

प्रादेशेन वितस्त्या वा पश्चात्पुच्छम् ॥ ८.२ ॥

English

The tail is lengthened towards west by 1 pradeśa or 1 vitasti.

मूलम्

प्रादेशेन वितस्त्या वा पश्चात्पुच्छम् ॥ ८.२ ॥

टीका

द्वादशाङ्गुलेन त्रयोदशाङ्गुलेन वा पश्चात्पुच्छं वर्धयेदिति शेषः । एवमर्धाष्टमानि षुरुषक्षेत्राणि भवन्ति ।

करविन्दीया व्याख्या

अग्न्याधेयप्रभृति सोमान्तानां केवलविहारा उक्ताः । इदानीं साग्निचित्येषु क्रतुषु विहारविशेषविधित्सयाग्नेश्वयनविधायिकां श्रुतिं पठति ॥

भवती यते

भवतिःसमृद्ध्यर्थे । इवखलुवैशब्दो निपातसमुदायो वाक्यालङ्कारादौ वर्तते । “रस इव खलुवै तत्योऽर्ग्नि चिनुतेअग्निं चयनेन संस्करोति स समृद्धो भवतीति विज्ञायते ॥ नन्.उ मन्त्रस्य विधेः स्तावकतयार्ऽथवादोऽयम् । चिनुत इति वर्तमाननिर्देशः । अतः कथमेषा अग्रिसंस्कारभूतस्य चयनस्य विधायिका श्रुतिः कल्प्यते । सत्यं, तैत्तिरीयके अस्या एव श्रुतेर्मुख्यत्वादप्राप्तार्थत्वेनानुवादत्वासंभवाच्चयनमात्रस्यैषा विधायिका श्रुतिः कल्प्यते । अकामसंबन्धान्नित्येति च । ननु चयनवद्भवत्यर्थोऽपि विधेयः । न विधेयः, कुत, चयनस्याग्निसंस्कारत्वेन तत्फलानुवादासंभवात् ॥

वयसांदना

वयांसिपक्षिणः श्येनादयः । प्रतिमा प्रतिकृतिःसादृश्यमाकृतिरूपं चोदयतीति चोदना विधीयका श्रुतिः । एषोऽग्निर्यथा श्येनाकृतिर्भवति तथा येतव्य इत्यर्थः । शुल्बान्तरे च श्येनचिदग्नीनां प्रथमोऽग्निरित्युक्तम् । वक्ष्यति च श्येनं प्रकृत्य वक्रपक्षो व्यस्तपुच्छो भवतीति । तस्माद्वकपक्षादिविशिष्टश्येनोऽग्निः प्रकृतित्वेन कार्यः । स नित्यः । यूपप्रकृतिभूतखादिरादिकत्स्वर्गकामस्यापि भविष्यति ।

प्रत्य नेन

वाशब्दः पक्षव्यावृत्तौ । नैतदस्ति वयसां वा एष प्रतिमया चायते इति एषा श्येनाद्याकृतिविशेषचोदनेति । कुतः, प्रत्यक्षविधानात् । यतः पक्षी भवतीत्यादिना वाक्येन व्यायाममात्रपक्षपुच्छवदाकृतिः प्रत्यक्षमेवाग्नेर्विधीयते । अतः वयसां वा एष प्रतिमया चीयत इति वयःसादृश्यमात्रमभिदधाति, नैषा श्यैनाकृतियोदना भवितुमर्हति । किञ्च चीयत इति वर्तमानार्थ निर्देशादस्य वाक्यस्य पुरुषशीर्षोपधानविधिवाक्यशेषत्वाच्च नैषा विधायिका ।

यच्चोक्तं शुल्बान्तरे “श्येनचिदग्निनां प्रथमोऽग्निरित्युक्तमिति” नायं दोषः । तत्र हि व्यायाममात्रपक्षपुच्छोऽग्निरित्यपि श्येन इत्युच्यते । तस्मादाम्नानेन वेदेन व्यायाममात्रपक्षपुच्छवत्ताया यावत्सादृश्यं विहितं तावदेव संपादयितव्यम् । तस्मात्पुरुषमात्रपक्षपुच्छवानग्निः प्रकृतिर्नित्यश्चेति स्थितम् । अस्या ग्नेःस्वरूपमाह ।

वेणुना च्छं वक्ष्यमाणप्रकारेण वेणुनाऽत्मनि चतुरः पुरुषानवमिमीते । अवमानमपि विमानमेव । इयति शक्ष्यामीति त्वा अवमाय यजन्त इति दर्शनात् । सर्वतो द्विपुरुष आत्मा ताभ्यां चत्वारि पुरुषक्षेत्राण्यात्मा भवति । एवं वक्षयोः पुच्छे च पुरुषसंमितानि त्रीणि । एवं सप्त पुरुषक्षेत्राणि अरत्निना दक्षिणतो दक्षिणं पक्षं प्रवर्धयति दक्षिणतो दीर्घं कुर्यात् । एवमुत्तरत उत्तरमपि पक्षमुत्तरतो दीर्घं कुर्यात् । प्रादेशेन नितस्त्या वा पश्चात्पुच्छम् । प्रादेशोङ्गुष्ठप्रदेशिनीभ्यां परिमितः वितस्तिरङ्गुष्ठकनिष्ठिकाभ्यां तयोरन्यतरेण पुच्छं प्रतीचीनं वर्धयेत् । एवमर्धाष्टमानि पुरुषक्षेत्राण्यग्नेः क्षेत्रं भवति ।

सुन्दरराजीया व्याख्या.

वेदेर्विमानं सौमिक्याः क्रमैर्द्विद्वादशाङ्गुलैः ।

आदित्रिसप्तसु द्वित्रिचन्द्रद्वियुगभूमिषु ॥ .१ ॥

भूत्रिभूद्विशरैकेषु शङ्कवो दश पञ्च च ।

सषट्तिलारत्निषष्ठोनाष्टात्रिंशदरत्निका ॥ .२ ॥

विमानरज्जुश्विह्नं स्यात्तस्याःसप्तदशस्वथ ।

पाशौ कार्यौ तयोर्मध्ये प्रक्तमा द्वादश स्मृताः ॥ .३ ॥

षट्त्रिंशिका वा रज्जुःस्याद्विमाने व्द्यष्टलक्षणा ।

श्रोणी पञ्चदशस्वाद्ये सदोऽनन्तरतुर्ययोः ॥ .४ ॥

दशस्वष्टसु तत्कोणास्तृतीयेऽरत्निमात्रकाः ।

धिष्ण्याः प्रादेशान्तराला आग्नीध्रं तु तुरीयके ॥ .५ ॥

रुद्रेषु सप्तदशसु शङ्कू पादोनितेष्विह ।

कार्यौ हि पञ्चमेर्ऽकेषु मार्जालाग्नीध्रधिष्णियौ ॥ .६ ॥

सप्तमे प्राग्वदाग्नीध्रे धानं सार्धचतुष्टये ।

उत्करो दशमे शङ्कौ मनुषूत्तरतः क्रमे ॥ .७ ॥

ऊवथ्यगोहखननस्थानमेकादशे पुनः ।

हविर्धानं प्राग्वदत्र पाशयोर्व्यत्यतोऽधिकः ॥ .८ ॥

षोडशस्वर्धहीनेषु शामित्रो द्वादशे भवेत् ।

शङ्क्वोरुत्तरवेदिःस्याद्द्वयोःसार्ध उपान्त्ययोः ॥ .९ ॥

अन्तिमे द्वादशस्वंसौ चात्वालोंऽसादुदक्क्रमे ।

पशुबन्धोऽस्तु चात्वालःसोमेऽपीत्यवधार्यते ॥ .१० ॥

मानान्तरमनुक्त्वैव व्याख्यात इति कीर्तनात् ।

शम्यामात्रस्तु सर्वत्र व्यक्तं बोधायनोऽब्रवीत् ॥ .११ ॥

अन्यथाग्नौ विरोधःस्यान्मानं चान्यन्न विद्याते ।

उत्तरेंऽसे महावेद्यामास्तावः परिकीर्तितः ॥ .१२ ॥

दक्षिणे तु हविर्धाने पश्चात्तीन् प्रक्रमांस्त्यजेत् ।

पादोनद्वितयं पार्श्वेऽरत्नौ तूपरवाःस्मृताः ॥ .१३ ॥

अर्धप्रादेशतस्तेषां भ्रमणं कोणशङ्कुषु ।

अग्रेणोपरवांस्त्यक्त्वा पादोनप्रक्रमत्रयम् ॥ .१४ ॥

शम्यामात्रश्वतुःस्रक्तिः खरश्लिष्टस्तु सञ्चरः ।

औदुम्बरसदोमध्ये पृष्ठ्या दक्षिणतः क्रमे ॥ .१५ ॥

भवतीव चोदना

प्रतिमया वयसां उत्पततां छायया । तथा च बोधायनः

“वयसामुत्पततां छाययेत्यर्थःऽ

इति । अनेन श्येनचितिर्नित्योति ज्ञायते । मन्त्रवर्णाश्च भवन्ति, “सुपर्णोऽसि गरुत्मान्” इत्यादीनि । लिङ्गानि च पुच्छाच्छि रोऽधिकृषति शिरसि पक्षयोरित्यादीनि । न हि चतुरश्रे शिरोस्त ।

प्रत्य द्वा

पक्षीभवति व्याममात्रौ पक्षौ च पुच्छं च भवतीत्यादि प्रत्यक्षविधानाद्वा आकृतिः प्रत्येतव्या । अनेन चतुरश्रोऽग्निर्वि धीयते । स च सर्वाग्नीनां प्रकृतिरिति । तमेव तावदाह

याव त्तरे

यावदाम्नानेन यथासन्नातेन पुरुषमात्रेण वक्ष्यमाणेन पञ्चारत्निना । एवं केवलसप्तविधाग्नेर्मानमुक्तं, पक्षान्तरमाह

अरत्निना च्छं वितस्तिर्द्वादशाङ्गुला । यथोक्तं कात्यायनेन

(१२०)

“पञ्चारत्ननिर्दशवितस्तिर्विंशतिशताङ्गुलयः पुरुषःऽ

इति । वितस्तिर्द्विदशाङ्गुलेत्येव नैघण्टुकाः । प्रादेशेनेत्यस्य व्याख्यानं वितस्त्येति । प्रादेशशब्दार्थस्य विशयिस्वात्वितस्तिरेवात्र प्रादशेशब्देन ग्राह्या, नतु प्रसारिते अङ्गुष्ठप्रदेशिन्यावित्यर्थः । अथवा वाजसनेयके “वितस्त्या पुच्छं” इति श्रुतत्वा द्वितस्तिशब्दस्यैव प्रसिद्धतरेण प्रादेशशब्देनन व्याख्यानम् । वाशब्दो वाक्यार्थेऽवसंबध्यते । तेन सर्वमिदं विकल्प्यते । तथाहि पुच्छवृद्धेस्तावद्वैकल्पिकत्वमवगतम्, तैत्तिरीयके प्रवृद्धेरनुक्तत्वात् । व्यनक्ति च कात्यायनस्तथा “अरत्निना पक्षौ द्राघीयागंसौ भवतः” इत्युक्त्वा इति द्राघीयस्त्वमुक्त्वा “व्याममात्रौ पक्षौ च पुच्छं च भवति” इति पुरुषमात्रस्यैव निगमनात् । रुपष्ट

यति चैतद्बोधायनः

पुरुषमात्रैण वेणुना सपक्षपुच्छमरत्निना वा पक्षौ द्राघीयागंसौ भवतः ।

इति । केचित्तु वितस्तिं त्रयोदशांङ्गुलां मन्वाना द्वादशाङ्गुलेन प्रादेशेन विकल्पयन्तः पक्षपुच्छानामरत्नन्यादिप्रवृद्धिं नित्यामाहुः । तेषामष्टविधप्रभृतीनां यदन्यत्सप्तधा विभज्य विधासप्तमकरणीमित्यादि न संगच्छते । तत्त्योदशाङ्गुलवितस्त्यभ्युपगमे पुच्छे विंशतिशताङ्गुलमात्रं क्षेत्रमुपधातुं न शक्यते ।

तत्र कश्विदाह पुरीषेण पूर्यतामिति, तत्सूत्रकारो न सहते । यदाह “अर्धान्तरत्वात्पुरीषस्य” इति “यत्पच्यमानानां प्रतिह्रसेत” इति च । किञ्च पुरीषेण चेत्सर्वस्य न्यूनस्य पूर्तिः॑ किमिति महता ग्रन्थेन इष्टकाप्रमाणार्धमधुना प्रयत्यते । तस्मान्न किञ्चि देतत्र्रयोदशाङ्गुला वितस्तिरिति । अन्ये मन्यन्ते द्वादशाङ्गुल योरेव वितस्तिप्रादेशयोः आमिक्षापयस्ययोरिव बिधिभेदाच्छब्दभेदः । तयोश्च परस्परं विकल्प इति । तेषामपि पूर्वोक्तासंगतिः स्पष्टैव । ब्राह्नणविरोधश्च । तैत्तिरीयके हि पुच्छस्य प्रवृद्धिः पाक्षिकत्वेनापि नोक्ता । तस्मादरत्ननिप्रादेशानां पाक्षिकत्वमेव ज्यायो मन्यामहे । किञ्च यदेवेष्टकानामष्टाङ्गुलानां पञ्चमं करणं तदप्यस्मिन्नर्धे लिङ्गं कथम्? तत्र हि प्रथमतृतीयकरणाभ्यामेव उपधाने शक्ये अन्यानि त्रीणि करणानि भेदपरिहारार्थानि । तत्र पञ्चमेन विनाप्युपधानं सुकरम् । सरत्न्यादिप्रवृद्धौ नित्यायां तत्प्रकारश्च दर्शितो भगवता बोधायनेन

“उरधाने पूर्वापरयोः पक्षपार्श्वयोः” ।

इत्यादि । अन्यश्च प्रकारः आत्मनि पुरस्तात्दशार्धेष्टकाः । उदगायताः पञ्चदश । पक्षाग्रर्योर्मध्ये तिस्रस्तिस्रः प्राच्यः । पुच्छापार्श्वयोः पञ्चपञ्च । पुच्छाग्रकोणयोर्द्वे प्रादेशमात्र्यौ । ताभ्यामध्यर्धेऽष्टके उदीच्यौ । पक्षाग्रकोणेष्वेकैका अध्यर्धा उदगायता । अप्ययोश्च पञ्चपञ्च यथासूत्रम् । पुच्छाग्रमध्ये द्वे प्राच्यौ । शेषे पञ्चम्यः । एष द्विशतः प्रस्तारः । अपरस्मिंस्तु पक्षपार्श्वयोःषट्षडर्धेष्टका उदीच्यः । आत्मनि दक्षिणत उत्तरतश्च षट्षट्प्राच्यः । श्रोण्यंसेषु द्वेद्वे अध्यर्धे उदीच्यौ । पुच्छाप्यये पञ्च प्रागायताः आत्मानमरत्ननिनोपेताः । शेषे पञ्चम्यः । पुच्छाग्रेषु मध्यमामुद्धृत्य द्वे अर्धेऽष्टके उदीच्यौ । एष द्विशतः प्रस्तारः । एवं चतुर्भिः करणैरुपधाने सिद्धे यत्पञ्चमं करणं तदरत्ननिप्रादेशाभावेऽपि भेदपरिहारेण द्विशतपूरणार्थम् । निरूपणीयं चैतत्सर्वं सूरिभिरित्युपरम्यते ॥

कपर्दिक्षाष्यम्

विश्वास-प्रस्तुतिः

एकविधः प्रथमोऽग्निर्द्विविधो द्वितीयस्त्रिविधस्तृतीयः त एवमेवोद्यन्त्यैकशतविधात् ॥ ८.३ ॥

English

The first agni is one-fold (11⁄2 sq. purușa); the second two-fold (21 sq. purușa); the third three-fold (31⁄2 sq. purușa) and so on; in this way one continues upto hundred-and-one-fold agni (1011 sq. purușa).

मूलम्

एकविधः प्रथमोऽग्निर्द्विविधो द्वितीयस्त्रिविधस्तृतीयः त एवमेवोद्यन्त्यैकशतविधात् ॥ ८.३ ॥

टीका

एकः पुरुषो यस्मिन्निति एकविधः, एकपुरुषादेकोत्तरं चिन्वीतेति प्रथमातिक्रमे कारणाभावादिति प्रथम एकपुरुषविधा इष्टका अस्मिन्विधीयन्ते इति अग्निक्षेत्रम् । “आतश्वोपसर्गे” इर्यङ् । एका चासौ विधा लोचनीयम् । उद्यन्ति गच्छन्ति आ एकशत विधात् । अभिविधावाङ् ।

विश्वास-प्रस्तुतिः

तदु ह वै सप्तविधमेव चिन्वीत । सप्तविधो वाव प्राकृतोऽग्निः । तत ऊर्ध्वमेकोत्तरानिति विज्ञायते ॥ ८.४ ॥

English

But indeed the seven-fold (agni) only is to be constructed (first); (for) the seven-fold is the proper fire-altar. Thereafter, higher altars (are obtained) by increasing the area by one (sq. purusa) successively; this is the tradition.

मूलम्

तदु ह वै सप्तविधमेव चिन्वीत । सप्तविधो वाव प्राकृतोऽग्निः । तत ऊर्ध्वमेकोत्तरानिति विज्ञायते ॥ ८.४ ॥

टीका

निपातसमूहः पक्षव्यावृत्तौ । एकविधादयो न चेतव्या इति । वावेत्यवधारणे । सप्तविध एव प्राकृतोऽग्निः प्रकृतिरित्यर्थः । स्वार्थ एव तद्धित । सप्तविधादूर्ध्वं एकोत्तरानिति वाजसने यिनां श्रुतिः । सप्तार्थ एव प्रथमः प्रकृतिश्च पुरुषमात्रेणेत्यारभ्य सप्तार्धस्य विधानादुपधानविधौ दक्षिणे पक्षे उपदधातीति श्रूयते । तत ऊर्ध्वमेकोत्तरानिति एकपुरुषाधिकाः परमिति, द्वितीये प्रयोगे अर्धनवमं, तृतीयेर्ऽधदशममित्येवं द्रष्टव्यम् ।

करविन्दीया व्याख्या

एकविधः प्र तिविज्ञायते

सप्तविधस्य प्रकृतित्वमाशङ्क्य तेनैव प्रकृतित्वं प्रतिपादयितुमाह विधीयते मीयत इति विधा अग्ननिविमानं, पुरुषमात्रेण वेणुना पुरुषक्षेत्राणि एकैकशोऽत्र मीयन्त इति विधाशब्दः पुरुषक्षेत्रवाची । एका विधा यस्याग्नेः स एकविधः । प्रथमातिक्रमे कारणाभावात्प्रथम एकविधःस एव प्रकृतिः, इतरे विकृतयः, ते चाग्नय एवमेकपुरुषवृद्ध्या उद्यन्ति अधिका भवन्ति वर्धन्त इत्यर्थः । आ एकशतविधात् । आङ्गाभिविधौ । कथं विधाशब्दस्य विमा नपर्यायत्वं, उच्यते विदधाति करोतीत्यर्थः । करणीव्यापारेषु विमानेषु करोतिः तत्रतत्रद्दश्यते । अतो विधाविमा नयोः पर्यायत्वम् । तस्मादेकविधः प्रथमः । स एकविधः प्रकृतिश्च । द्विविधादयस्तद्विकारा इति । तदुहवै सप्तविधमेव चिन्वीत तदुहवा इति निपातसमुदायः पक्षव्यावृत्तौ । नैतदस्त्येकविधः प्रथम इति । किं? तस्मिन् सप्तविधमेव प्रथमं चिन्वीतेति । कुतः? सप्तविधो वाव प्राकृतोऽग्निः । वाव इत्यवधारणे । “एष वाव सर्वतो राजा” इत्यादौ दर्शनात् । प्रकृतिरेव प्राकृतः स्वार्थे तद्धितः, तस्मात्सप्तविध एव प्रकृतिभूतोऽग्निः । तस्मात्सप्तविध एव प्रथमं चेतव्यः, नैकविधः तस्मिन्नेव पक्षपुच्छाद्यङ्गानामुपदेशादित्यभिप्रायः । सप्तविध इत्यर्धाष्टम एवोच्यते । यावानग्निःसारत्निप्रादेशःसप्तविधःसंपद्यत इति वक्ष्यमाणत्वात् । तत ऊर्ध्वं ततःसप्तविधादूर्ध्वमेकोत्तरानेकेनाधिकानग्नींश्विन्वीतेति श्रुतिः । अग्निर्बलोक्तं वाजसनेयकमिति । तस्माद्द्वितीयाद्याहारेषु

सप्तविधमेव चिन्वीतेत्येतदशमः इत्येवमेकोत्तरविधत्वं एकशतविधात्द्रष्टव्यम् ।

सुन्दरराजीया व्याख्या.

एकविधःविधात्

विधीयत इति विधा पुरुषमात्रं क्षेत्रम् । प्रथमाहारे एकविधः । एवं द्विविधादि । एकशततम आहारे एकशतपुरुषः ।

तदुहवै विज्ञायते

पक्षान्तरमाह प्रकृतिरेव प्राकृतः प्रज्ञाद्यण् । सप्तविधादूर्ध्वमेकोत्तरानेकशतविधात् । सर्वत्रारद्निप्रादेशानां न वृद्धिः, विधानामेव वृद्धिवचनात् । “एकविंशे पुरुषाभ्यासो नारत्ननिप्रादे शानाम्” इति लिङ्गाच्च । व्यक्तोक्तमेतद्बोधायनेन “अर्धाष्टमाः पुरुषाः प्रथमोऽग्निः अर्धनवमा द्वितीयोर्ऽधदशमास्तृतीयः” इत्यादि । यस्त्वेकविधादिक्रमेणाहरते तस्य सप्तविधादिष्वप्यर त्निप्रादेशानामभावः, एकोत्तरत्वाविरोधात्सारत्निप्रादेशे सप्तविध आहृते उत्तरेऽपि नारत्निप्रादेशाः ।

कपर्दिक्षाष्यम्

वाजसनेयिकमिति अग्निविकल्पविधानात्विकल्पं सप्तार्धमपि द्वितीये विहारे चिन्वीतेत्येतदपि लभ्यते ।

विश्वास-प्रस्तुतिः

एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति । सप्तविधवाक्यशेषत्वाच्छ्रुतिविप्रतिषेधाच्च ॥ ८.५ ॥

English

The one-fold and the following (fire-altars up to the six-fold) do not have wings and tails, but the seven-fold does (have them) according to the injunctions of the Śruti.

English - comment

8.1-8.5. The characteristics of agni have been discussed under Bŝl. 5.7-7.3. The general lay-out of the caturaśraśyenacit is given in Ãśl. 8.2; the ātmā that is, the body of fire-altar measures four sq. purușas, either wing and tail is each of one sq. purușa, together with an increment of 24 ang. in length for the wings and 12 ang. for the tail. This has already been discussed in Bśl. 8.10. For the construction of a fire-altar of 81 or more sq. purusas, Āpastamba has followed the same rule as given by Baudhāyana (vide Bśl. 5.1-5.6) for proportionate increment of square purușas from the agni of \(7\frac{1}{2}\) sq. purusas.

मूलम्

एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति । सप्तविधवाक्यशेषत्वाच्छ्रुतिविप्रतिषेधाच्च ॥ ८.५ ॥

टीका

इतश्च पश्यामः सप्तार्धविध एव चेतव्य इति । यस्मादेकविधप्रभृतीनां षड्विधपर्यन्तानां न पक्षपुच्छानि भवन्ति । किमुक्तं भवति? यतः पक्षपुच्छानि न भवन्ति तेषु न शेरत इत्यर्थः । कुत इत्याह सप्तेति । सप्तविधमग्निं प्रकुत्य विधीयन्त इत्यर्थः । रथन्तरं दक्षिणे पक्षे उपदधाति बृहदुत्तरपक्ष इत्येवमादयो न वियुज्यन्ते । तस्मान्न चेतव्या एकविधादयः । सप्तविध एव चेतव्यः । तेष्वेव पक्षपुच्छानि किमिति न क्रियेरन्नित्यत आह श्रुतीति । विरोधो विप्रतिषेधः । यद्येकविधस्यपक्षपुच्छात्मनां विभागः क्रियते॑ पक्षपुच्छत्मनां व्यायाममात्रता हीयते । अथैष दोषो न भवेदिति व्यायाममात्रता पक्षपुच्छात्मनां गृह्येत॑ तदैकविधत्वं हीयेत । तस्माद्विरोधः । अतश्च विरो धान्न कर्तव्या एकविधादयः षड्विधपर्यन्ताः । कथमष्टविधादयो मातव्या इत्यत आह

विश्वास-प्रस्तुतिः

अष्टविधप्रभृतीनां यदन्यत्सप्तभ्यस्तत्सप्तधा विभज्य प्रतिपुरुषमावेशयेत् ॥ ८.६ ॥

English

In the case of eight-fold and higher order fire altars, their differences in area from the seven-fold should be divided in seven and half equal parts and each part added to each purușa (of the original seven-fold altar).

मूलम्

अष्टविधप्रभृतीनां यदन्यत्सप्तभ्यस्तत्सप्तधा विभज्य प्रतिपुरुषमावेशयेत् ॥ ८.६ ॥

टीका

अष्टविधप्रभृतीनां एकशतविधपर्यन्तानां यदन्यत्सप्तभ्यः सप्तार्धेभ्यः तत्सप्तधा सप्तार्धधा यदन्यत्सप्तार्धेभ्यः प्रक्षेप्तव्यमासीत्तत्सप्तार्धधा विभज्य सप्तार्धेभ्य इति कुत एतल्लभ्यते? सप्तविध इत्युक्तेर्ऽधाष्टम एव गृह्यते । अरत्निप्रादेशानां तदन्तर्गतत्वात् । वक्ष्यति सप्तविध इति । अष्टविध एकः प्रक्षेप्तव्यः नवविधे द्वौ । दशविधे त्रय इत्येवं द्रष्टव्यमेकशतविधात्पुरुषात् । पुरुषं सप्तार्धधा विभक्तं कृत्वा प्रतिपुरुषमेको भागः क्षेप्तव्यः । सप्तास्वर्धपञ्चारत्निप्रादेशेषु पुरुषे त्रिंशत्पञ्चदशभागीयाः । अर्ध पुरुषे पञ्चदश । एवमेकस्मिन्पुरुषक्षेत्रे द्वे शते पञ्चविंशतिश्च पञ्चदशभागीयाःशेरते । अष्टविधे ताः प्रक्षेप्तव्याः । एकस्मिन्पुरुषक्षेत्रे त्रिंशत्पञ्चदशभागीयाः । तासु प्राक्षिप्तासु पञ्चपञ्चाशदधिकशतद्वयमापद्यते । षोडशानां वर्गं षट्पञ्चाशदधिकम् । तच्चतुरश्राच्चतुरश्रमित्यनेन न्यायेन एकस्मिन्पञ्चदशभागयिक्षेत्रेऽपनीते या रज्जुः सा पुरुषस्थानीया । तस्याः पञ्चमो भागोऽरत्निस्थानीयः । तेन मानेन कृते सर्वपुरुषक्षेत्रं लिप्तं भवति । एवं नवविधादिषु द्रष्टव्यम् ।

विश्वास-प्रस्तुतिः

आकृतिविकारस्याश्रुतत्वात् ॥ ८.६ ॥

English

This is because the deformation (of the fire-altar) is disallowed in the Śruti.

मूलम्

आकृतिविकारस्याश्रुतत्वात् ॥ ८.६ ॥

विश्वास-प्रस्तुतिः

पुरुषमात्रेण विमिमीते” वेणुना विमिमीते, इति विज्ञायते ॥ ८.७ ॥

English

According to tradition, (the term) to be measured with a puruşa means ’to be measured with a bamboo rod'.

मूलम्

पुरुषमात्रेण विमिमीते” वेणुना विमिमीते, इति विज्ञायते ॥ ८.७ ॥

टीका

यदि पुरुषक्षेत्रमेकत्र क्षिप्यते, विक्रियेताकृतिः । न विद्यते श्रुतिर्यस्याःसा अश्रुतिः । आकृतिविकारस्य श्रुतेरभावातित्यर्थः । पुरुषमात्रेणेति द्रव्यमपेक्षते । वेणुनेति च मात्रामपेक्षते । तयोर्नष्टाश्वदग्धरथवत्संबन्धः । पुरुषमात्रेण वेणुना मिनोति ।

विश्वास-प्रस्तुतिः

यावान् यजमान ऊर्ध्वबाहुस्तावदन्तराले वेणोश्छिद्रे करोति मध्ये तृतीयम् ॥ ८.८ ॥

English

Two holes are made (at the ends of) a bamboo rod at a distance equal to the height of the sacrificer with uplifted hands, and a third hole is made at the middle.

मूलम्

यावान् यजमान ऊर्ध्वबाहुस्तावदन्तराले वेणोश्छिद्रे करोति मध्ये तृतीयम् ॥ ८.८ ॥

टीका

यजमानग्रहणादध्वर्युप्रमाणो वेणुर्न गृह्यते । छिद्रयोरन्तरालं यजमानमात्रं यथा भवति तथा छिद्रे करोति । तयोर्मध्ये वेणोश्छिद्रमेकं करोतीति शेषः ।

विश्वास-प्रस्तुतिः

अपरेण यूपावटदेशमनुपृष्ठ्यं वेणुं निधाय छिद्रेषु शङ्कून्निहत्योन्मुच्यापराभ्यां दक्षिणाप्राक्परिलिखेदान्तात् ॥ ८.९ ॥

English

Having placed the bamboo rod along the east-west line, poles are fixed in the holes from the western extremity; two poles from the western side are then taken off, and a circle is drawn (about the pole in the eastern extremity) with the other end (from the west) towards south-east.

मूलम्

अपरेण यूपावटदेशमनुपृष्ठ्यं वेणुं निधाय छिद्रेषु शङ्कून्निहत्योन्मुच्यापराभ्यां दक्षिणाप्राक्परिलिखेदान्तात् ॥ ८.९ ॥

टीका

सञ्चरस्य पश्चादनुपृष्ठ्यं पृष्ठ्या यथा तथा वेणुं निधाय त्रिषु छिद्रेषु शङ्कुं निहत्य अपराभ्यां शङ्कुभ्यामुन्मुच्य दक्षिणाप्राक्सव्यं परिलिखेदान्तातग्निक्षेत्रात् ।

विश्वास-प्रस्तुतिः

उन्मुच्य पूर्वस्मादपरस्मिन् प्रतिमुच्य दक्षिणा प्रत्यक्परिलिखेदान्तात् ॥ ८.१० ॥

English

The pole is then removed from (the hole in) the eastern extremity and fixed at the western extremity, and a circle is drawn (about the pole in the western extremity) with the other end (from the east) towards south-west.

मूलम्

उन्मुच्य पूर्वस्मादपरस्मिन् प्रतिमुच्य दक्षिणा प्रत्यक्परिलिखेदान्तात् ॥ ८.१० ॥

टीका

पुर्वस्माच्छङ्कोः प्रतिमुच्यापरस्मिन् प्रतिमुच्य दक्षिणाप्रत्यक्परिलिखेदान्तात् ।

अष्टमः खण्डः

करविन्दीया व्याख्या

सप्तविधोऽग्निः प्रकृतिः,. अन्येऽग्नयो विकृतय इत्युक्तम्, तत्रैकविधादीनां षण्णां विशेषमाह

एकविधादीनांभवन्ति

न भवेयुः । कुतः? सप्तविधवाक्यशेषुत्वाच्छुतिविप्रतिषेधाच्च । पक्षीभवतीत्यादिपुच्छविधायकवाक्यस्य सप्तविधप्रकरणपाठात्तच्छेषत्वावगतेः । किञ्चैकविधे पक्षादिविभागकरणे व्यायाममात्रताहानिः व्यायाममात्रपक्षादिकरणैकविधताहानिरिति व्यायाममात्रपक्षपुच्छैकविधत्वविधायकयोः श्रुत्योर्विरोधान्नैकविधादीनां पक्षादयो भवेयुः । तेषां करणोपधानादीनि एकविधप्रभृतीनामित्यत्र वक्ष्यति । ननु सपक्षपुच्छेषु विधाभ्यासेऽपचये च विसप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेदित्यष्टविधाद्युपचयमते एकविधादौ अपचयेऽपिसप्तधा विभागं दर्शयति । तत्पक्षपुच्छविभागार्थम् । इतरथा अपचयविषयेऽपचयस्यद्दष्टार्थत्वप्रसङ्गात् । तेनैकविधानामपि भवतीति गम्यते । तत्कथं तेषां तानि न भवन्तीति । उच्यते एकविधः प्रथमोऽग्निः, तदुहवै सप्तविधमेव चिन्वीतेत्येवमाद्योर्वि रुद्धार्थाभिधायिन्योःश्रुत्योःसमुच्छयाभावाद्विकल्प एवावकल्पते । तस्मादेकविधो वा प्रथमः सप्तविधो वा प्रथमः । तत्र यदैकविधः प्रथमः प्रकृतिश्व॑ तदा द्वितीयाद्यहारेषु एकोत्तरा एव द्विविधादयः प्रयोक्तव्याः । प्रकृतिभूतैकविधे पक्षपुच्छा नामनाम्नानादेकविधादीनां षण्णां पक्षपुच्छानि न भवन्ति । सप्तविधे तु विद्यन्त एव । एवमष्टविधादीनां तद्विकारत्वात्तेषु च विद्यन्त एव । यदा सप्तविधः प्रकृतिः, इतरे तद्विकराराः तदैकविधादयोऽप्यष्टविधवत्सपक्षपुच्छा एव भवेयुः, एवं विधापचयोक्तः सप्तविधविभागोऽर्थवान् भविष्यति, तत्रातिरात्रवद्विकृतेरपि कदाचित्प्रथमतोऽनुष्ठानं एकविधस्य लभ्यत एव । अस्मिन्नपि पक्षे एकोत्तरनियमोऽस्त्येव । यदैकविधः प्रकृति । प्रथममाहारः, तदासावपक्षपुच्छाः । द्वितीयादिष्वाहारेषु द्विविधादयो यावत्सप्तविधमपक्षपुच्छा एव । सप्तविधादयःसपक्षपुच्छा एव । यदैकविधो विकृतिः प्रथमाहारः, तदासौ सपक्षपुच्छः । द्विती यादिष्वाहारेषु द्विविधादयःसर्वे सपक्षपुच्छा एव । यदा सप्तविधः प्रकृतिर्वा विकृतिर्वा प्रथमः, तदा तत ऊर्ध्वमष्टविधादयःसप्तविधा एव । तस्मादेकविधादीनां षण्णामपक्षपुच्छत्वं सपक्षपुव्छत्वमुभयमप्यस्त्येवेति सर्वमुपपन्नम् । अष्टविधादिष्वेकोत्तरेषु कथमतिरिक्तस्य विभाग इत्यत आह

अष्टवि येत

अस्यार्थः अष्टविधादिष्वर्धाष्टमेभ्यो यदन्यदधिकमागन्तु तत्सप्तधा सप्तार्धधा विभज्य प्रतिपुरुषं पुरुषे षुरुषे भागमेकैकमावेशयेत् । अर्धमर्धे यावानग्निःसारत्निप्रादेशःसप्तविध इति लिङ्गाल्, कुतः? आकृतिविकारस्याश्रुतत्वात् श्रुतेरभावात्प्रमाणाभावादित्यर्थः । तत्रैकस्मिन् पुरुषक्षेत्रे पञ्चविंशतिर्द्वे शते च पञ्चदश भागीयाःशेरते, आसां त्रिंशत्र्रिंशत्पञ्चदशभागीयाः पुरुषेपुरुषे प्रक्षेप्तव्याः । अर्धे पञ्चदश, अयमर्थः प्रक्षेप्तव्यं पञ्चदशधा विभज्य तस्य द्विभाग हितं, पुरुषं यं करोति आकृतेरविकारत्वाय सा तस्य पुरुषस्य करणी ग्रह्या । तावान्वेणुर्भवतीत्यर्थः ।

इदानीं विमानमुच्यते

पुरु यते

श्रुतिद्वयमिदम् । अत्र्रेका श्रुतिर्द्रव्यापेक्षणी, अन्या परिमाणापेक्षणी । तयोः नष्टाश्वादग्धरथवत्संप्रयोगः । पुरुषमात्रेण वेणुनेत्यर्थः । यावान् यत्परिमाणो यजमान ऊर्ध्वभूतबाहुः तत्परिमाणं यथा छिद्रयोरन्तरालं भवति तथा वेणुछिद्रे कुर्यात् । पञ्चारत्निः पुरुष इति वक्ष्यति । स चैतद्धेतुकः । यूपावटस्य पश्चात्सञ्चरमवशिष्यानुपृष्ठ्यं पृष्ठ्यायां वेणुं निधाय छिद्रेषु शङ्कुं निहत्यापराभ्यां शङ्कुभ्यां वेणुमुन्मुच्यापरस्मिन् छिद्रे कीलं प्रतिक्षिप्य पूर्वस्मिन् शङ्कौ प्रतिमुच्य तेनैवापरशङ्कुमूलादारम्य दक्षिणाप्रागान्तात्परिलिखेत् । अन्तस्तस्याः स्तस्या दिशोऽन्तः वेणुनाऽरब्धा रेखा यावद्दिगन्तराभिमुखी भवति तावत्परिलि खेदित्यर्थः ।

उन्मुच्य पूर्वस्माच्छङ्कोरपरस्मिन् शङ्कौ प्रतिमुच्य दक्षिणा प्रत्यक्पूर्ववत्परिलिखेत् ।

सुन्दरराजीया व्याख्या.

एकविध च्च

श्रुतिविप्रतिषेधो व्याममात्रौ पक्षौ च पुच्छं च भवतीति । चतुरश्रविषयं चैतत् । श्येनचिदादयस्तु सपक्षपुच्छा एव भवन्ति, तदाकृतेरेव विधेयत्वात् ।

अष्टविध येत्

यदधिकं सप्तभ्यः पुरुषक्षेत्राङ्गुलयश्च चतुर्दशसहस्राणि चत्वारि शतानि १४४०० । ताःसप्तभ्योऽधिकैः पुरुषैर्हत्वा सप्तभिर्विभज्य लब्धं पुरुषक्षेत्राङ्गुलिषु संयोजयेत् । तास्तत्र पुरुषक्षेत्राङ्गुलयो ज्ञेयाः । यथा अष्टविधे पुरुक्षेत्राङ्गुलयः चतुर्दश सहस्राणि चत्वारि शतानि च सप्तभ्योऽधिकेनैकेन पुरुषेण हत्वा सप्तभिर्विभज्य लब्धं द्वे सहस्रे सप्तपञ्चाशच्चाङ्गुलयः पञ्चतिलयुक्ताः । एताः पुरुषाङ्गुलिषु संयोजयेत् । तास्तत्र पुरुषक्षेत्राङ्गुलयः षोडशसहस्राणि चत्वारि शतानि सप्तपञ्चाशच्चाङ्गुलयः पञ्चतिलाधिकाः १६४५७ ति ५. अस्य मूलं अष्टाविंशतिशतमङ्गुलयः, दशतिलादिकाः १२८ ति १०. । एतत्पुरुषस्थानीयस्य वेणोः प्रमाणमिति हेतोः वक्ष्यते । “विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेदिति” । एवं नवविधे पुरुषाङ्गुलीः १४४०० द्वाभ्यां हत्वा सप्तभिर्विभज्य लब्धं चत्वरि सहस्राणि शतं चतुर्दशाङ्गुलयः दशतिलाधिकाः । तद्युक्ताः पुरुषाङ्गुलयः अष्टादशा सहस्राणि पञ्च शतानि चतुर्दश दशतिलाधिकाः १८५१४ ति १० तस्य मूलं षट्त्रिंशच्छतमङ्गुलयो द्वौ तिलौ १३६ ति २. एवं नवविधे पुरुषप्रमाणम् । एवमेव दशाविधादिषु द्रष्टव्यम् ।

अन्यः प्रकारः यावन्तोऽग्नेः पुरुषाः तत्संख्यया पुरुषाङ्गुलीर्हत्वा सप्तभिर्विभज्य लब्धं पुरुषाङ्गुलयः पूर्वोक्ता एव षोडशसहस्राणि चत्वारि शतानि सप्तपञ्चाशच्च पञ्चतिलाधिकाः १६४५७ ति ५. । एवं नवविधादिषु । एकस्मिंश्वाङ्गुलिक्षेत्रे तिलाःषटपञ्चाशत्शतं सहस्रं च ११५६ । एवमरत्निप्रादेशरहितानां सपक्षपुच्छाग्नोनां पुरुषवेणुश्च । अत्र चतुरश्राग्नेः प्रस्तावादेकविधाग्नीनां चतुरश्राणां अपक्षपुच्छत्वादष्टविधप्रभृतीनामित्युक्तम् । यदा तु श्येनचिदादिविधेःसाधारणत्वात्"वयसां वा एष प्रतिमया चीयते” इत्याकृतिवविधानाच्च श्येनाद्याकारत्वेन सपक्षपुच्छमकविधादीनाम् । तदा यन्नयूनं सप्तभ्यस्तत्सप्तधा वियज्य प्रतिपुरुषं जह्यादिति द्रष्टव्यम् । तत्र व्यक्त एव विमागप्रकारः । तथा सति एकविधश्येनचिति द्वे सहस्रे सप्तपञ्चाशच्च पञ्चतिलयुक्ताः पुरुषाङ्गुलयः २०५७ ति ५ । तन्मूलं पञ्चचत्वारिंशदङ्गुलयो द्वादश तिलाश्च । पुरुषद्विविधे तु पुरुषांङ्गुलयश्वत्वारि सहस्राणि शतं चतुर्दश च त्रिंशत्तिलसंयुक्ताः । पुरुषवेणुस्तु चतुस्तिलाधिकाश्वतुःषष्टिरङ्गुलयः । एवं त्रिविधादिषु द्रष्टव्यम् । यो यत्राग्नौ पुरुपस्थानीयः तत्र तस्य विंशतितमो भागो विहरणे इष्टकानां चाङ्गुलिः कल्प्या । तिलाश्च तस्याश्वतुस्त्रिंशाः । तत्र श्लोकाः

व्योमाकाशाब्धिवेदैकादभीष्टैः पुरुषैर्हतात् ।

हरेत सप्तभिर्भागं तन्मूलं पुरुषो भवेत् ॥ .१ ॥

चतुरश्रश्येनचितोः प्रादेशारत्निहीनयोः ।

तत्रतत्राङ्गुलिः कल्प्या तत्र विंशशतांशतः । ॥ .२ ॥

सारत्निप्रादेशे तु बोधायनेनोक्तो विभागः

“यदन्यत्प्रकृतेस्तत्पञ्चदशभागान् कृत्वा विधायां विधायां द्वौद्वौ भागौ समस्येत्, ताभिरर्धाष्टमाभिरग्निं चिनुयात्” ॥

इत्यादि । तत्र प्रकारः अर्धाष्टमेभ्योऽधिकैः पुरुषैः पुरुषाङ्गुलीश्वदुर्हशसहस्राणि चत्वारि च शतानि हत्वा पञ्चदशभिर्विभज्य लब्धं द्विगुणीकृत्य पुरुषांङ्गुलीषु संयोजयेत् । तास्तत्र पुरुषाङ्गुलयः । यथा अर्धनवमे पुरुषेषु पुरुषाङ्गुलीरेकेन हत्वा पञ्चदशभिर्विभज्य लब्धं नव शतानि षष्टिश्वाङ्गुलयः, ता द्विगुणाः पुरुषाङ्गुलीषु संयोज्य दृष्टाः पुरुषाङ्गुल्यः षोडशसहस्राणि त्रीणि शतानि विंशतिश्च १६३२०. तन्मूलं तत्र पुरुषप्रमाणं पादोनाष्टविंशतिशतमङ्गुलयः । एवमर्धदशपुरुषे अष्टादश सहस्राणि द्वे शते चत्वारिंशच्च पुरुषक्षेत्राङ्गुलयः । पुरुषवेणुश्च पञ्चत्रिंशच्छताङ्गुलयः तिलद्वयाधिका इत्यादि द्रष्टव्यम् । ये त्वपक्षपुच्छाः प्रौगचिदादयः तेष्वरत्निप्रादेशैर्युक्तेषु वियुक्तेषु चैवमेव पुरुषमानीय तस्य विंशतिशततमभागमङ्गुलिं प्रकल्प्य विहरणमिष्टकाश्च । यथा प्रौगचिति १४४००. एकविधे एकं सहस्रं चतुश्वत्वारिंशच्छताङ्गुलयः षट्तिलोनाः पुरुषः, तस्य विंशतिशततमो भागः तत्राङ्गुलिरित्यादि । तत्र श्लोकौ

खाकाशश्रुतिवेदैकात्षुरुषैर्द्विगुणैर्हतात् ।

हरेत तिथिभिर्भागं तन्मूलं पुरुषो भवेत् ॥ .१ ॥

चतुरश्रश्येनचितोः प्रादेशारत्नियुक्तयोः ।

प्रौगादिषु चैवं स्यात्पुरुषाङ्गुलक्ल्टप्तये ॥ .२ ॥

ये त्वरत्निप्रादेशवृद्धिं नित्यामाहुः तेषामेतत्सूत्रे बोधायनेनोक्तेर्ऽथे क्लेशेन योजयितव्यं स्यात् सप्तभ्यःसार्धसप्तभ्य इति, एवं सप्तविधा अर्धाष्टमविधेति, एवमुत्तरत्र विधासप्तमकरणीमिति । अत्राधिकानां पुरुषाणां प्रतिपुरुषमावेशनमुक्तम् । तत्र हेतुमाह

आकृति त्वात्

प्रकृत्या अन्याकृतेर्विकारस्य श्रुत्यभावात् । यदि त्वधिकाः पुरुषाः कचिदेवैकस्मिन् प्रदेशे आत्मनि पक्षे वा निधीयेरन् । प्रकृतिर्ह्यग्न्याकृतिर्विक्रियते ।

पुरुष यते

पुरुषमात्रेण यावान् पुरुष ऊर्ध्वबाहुस्तावता वेणुनाग्निं विमिमीत इति श्रुतिद्वयस्यार्थः ।

यावानतीयम्

बाह्यच्छिद्राभ्भां बहिःसससौकर्यार्थमुपाह्रियते छिद्रयोश्च बाह्यार्थे ।

अपरेण दान्तात्

अपरेण यूपावटदेशं सञ्चरमवशिष्यैव वेणुनिधानम् । आन्तादर्वाक्चक्षुर्निमिताच्चतुरश्रपूर्वान्तादुन्मुच्य पूर्वस्मादपरस्मिन् प्रतिमुच्य दक्षिणा प्रत्यक्परिलिखेदान्तात् ।

अष्टमः खण्डः.

कपर्दिभाष्यम्