English - comment
CONSTRUCTION OF SADAS, UPARAVAS, GARHAPATYA, DHIṢṆYA AND ĀGNIDHRĪYA
विश्वास-प्रस्तुतिः
नवारत्नि तिर्यक्सप्तविंशतिरुदगायतमिति सदसो विज्ञायते ॥ ७.१ ॥
English
According to tradition, the sadas (shed) is 9 aratnis wide and 27 aratnis long in the south-north direction;
मूलम्
नवारत्नि तिर्यक्सप्तविंशतिरुदगायतमिति सदसो विज्ञायते ॥ ७.१ ॥
विश्वास-प्रस्तुतिः
अष्ठादशेत्येकेषां ॥ ७.२ ॥
English
according to some, its length is 18 aratnis.
English - comment
7.1-7.2. Sada and uparava. For the construction of rectangular sada altar of length 27 aratnis and breadth 9 aratnis, the method of one-cord (ekarajjuvidhi) for a = 27 has been used, with the help of the following relation:
The sada is also a rectangle of length 18 aratnis and breadth 10 prakramas (Bśl. 4.1 ff) where relation,
मूलम्
अष्ठादशेत्येकेषां ॥ ७.२ ॥
विश्वास-प्रस्तुतिः
तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धपञ्चमैः श्रोण्यंसान्निर्हरेत् ॥ ७.३ ॥
English
This (is to be constructed) by the method of one cord already mentioned. Having stretched the cord by the mark at 15, the western and the eastern corners are to be fixed by 41⁄2 (aratnis).
मूलम्
तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धपञ्चमैः श्रोण्यंसान्निर्हरेत् ॥ ७.३ ॥
टीका
नवारत्निः प्राची तिर्यङ्भानी, सप्तविंशतिरुदीची पार्श्वमानी । एवं मन्तव्यमिति सदसःश्रुतिः । पदेन प्रक्रमेण वा मातव्यम् । करणमुक्तम् । प्रथमनिहताच्छङ्कोर्दक्षिणतः प्रक्रमे शङ्कुं निहत्य तस्मिन् पाशं प्रतिमुच्य तस्य पुरस्तादर्धाष्टमे पृष्ठयायां दक्षिमतः प्रक्मशङ्गुः । तत्सदसो मध्यमौदुम्बरीस्थानम् । प्रथमनिहताच्छङ्कोः पृष्टयायामेव पुरस्तादर्धाष्टमे शङ्कुं निहत्य तस्मिन् पाशं प्रतिमुच्योपर्युपरि शङ्कुमुदगपसार्यार्धचतुर्दशे नवसु वा शङ्कुं निहन्यात् । पृष्ठयायां यःशङ्कुः तस्मिन् प्रतिमुच्योपर्युपर्यौदुम्बरीस्थानीयं दक्षिणापसार्यार्धपञ्चदशे दशसु वा शङ्कुं निहन्यात् । सदस आयामः । तःसिन्नायामे तदर्धमभ्यस्य यथासूत्रं विरहेत् । सप्तविंशतावर्धचतुर्दशमभ्यस्य दक्षिणस्मादंसादेकादशसु पदेषु निहञ्जनमर्धपञ्चमे लक्षणं श्रोण्यं सादर्धमष्टादशसु वा नव प्रक्षिप्यार्धाष्टमे निरञ्जनमर्धपञ्चमलक्षणं श्रोण्यंसार्धमायामयोरन्तौ नियम्य निरञ्जनम् । तेन पश्चादपसार्यार्धपञ्चमे शङ्कुः । पुरस्तादपसार्यार्धपञ्चमे शङ्कुः । ते श्रोणी । सदसः विपर्यस्यांसौ । प्राग्वंशमानं हविर्थानम् । आग्नीध्रमानं चानेनाचार्येण नोक्तम्. अतःशुल्बान्तरोक्तं ग्राह्यं वैकृतत्वात् । सदसः पुरस्तात्तिषु प्रक्रमेषु दशप्रक्रमविस्तारं द्वादशायामं हविर्धानं मिनुयात् । एकरज्ज्वा पञ्चशङ्कुना त्रिशङ्कुना वा हविर्धानस्य पाश्वात्यमध्यमशङ्कौ पाशं प्रतिमुच्योदगपसार्य द्वादशप्रकमे शङ्कुः । तदाग्रीध्रायतनम् । तया रज्ज्वा दक्षिणापसार्य द्वादशसु मार्जालीयम् । पृष्ठयायां सदसः पौरस्त्यशङ्कौ पाशं प्रतिमुच्योदगपसार्य पादोनैकादशसु शङ्कुं निहत्य तस्माच्चोत्तरतः षट्सु शङ्कुः । ताभ्यां च पुरस्तात्षट्सु प्रकमेषु शङ्कुं निहन्यात् । एवं पञ्चशङ्कुना वा समचतुरश्रं मिनुयात् । अष्टप्रकमविस्तारं द्वादशायामं प्राग्वंशं मिनुयात् । द्वादशविस्तारं षोडशायाममित्यन्ये ।
करनिन्दीया याख्या.
(नवार एकेषां)
तिर्यङ्नाना नवारत्निः प्राग्भवति उदक्सप्तविंशतिरायतम् । अष्टादशायतमित्येकेषां शाखिनाम् ।
(तदेक निर्हरेत्)
पदविमितायां वेद्यां सदोहविर्धानयोरपि पदेनैव मानमित्युक्तं, प्रक्रममाने त्वरत्निविमानमेव, हविर्धानस्यापरिमितं वति कर्मोपदेश उक्तः, अपरिमितं सप्तविंशतेः परं सदोविमानमुच्यते, महावेदेः पश्चात्तिरश्वयाः पृष्ठयाया दक्षिणतो दशपदेष्वारभ्य यावत्पुरस्तात्तिरश्वयाः तावतीं लेशामालिखेत्, रज्जुं वा पातयेत्, एवं पृष्टयाया उत्तरतोऽपि अष्टासु पदेषु पश्चिमान्तादारभ्य तयोरेव लेखयोः पूर्वपश्चिमेषु दक्षिणत आरभ्य यावदुत्तरं उदीचीं लेशामालिखेत्, सा सदसः पृष्ठया भवति । अष्टादशिकायां नवोपसमस्यार्धपञ्चमेष्वर्धाष्टमेषु लक्षणं कृत्वा पृष्ठ्यान्तयोरित्यादिना विहृत्यार्धपञ्चमेषु शङ्कुं न्निहन्यात्तत्सदो भवति ॥ हविर्धानाग्नीध्रप्राग्वंशप्रमाणानीहाचार्येणानुपदिष्टान्यपि शुल्बान्तरोपदिष्टानि ग्राह्याणि । हविर्धानं दशायामं, दशवि स्तारमाग्नीध्र, षडायामविस्तारमर्धमन्तर्वेद्यर्धं बहिर्वेदिर्भवति । प्राग्वंशःषोडशायामो द्वादशविस्तारः । द्वादशायामो नवविस्तारो वा । प्रथमनिहतात्शङ्कोः पुरस्तात्पञ्चदशसु शभ्कुः, तत्पुरस्तात्नवायामविस्तारं हविर्धानं दशपदं वा तद्द्विशङ्कुप्रभुतीनामन्यतमे न कुर्यात् ॥
सुन्दहहाजीया व्याख्या.
(नवार एकेषां)
उदगायतमित्येव । नवारत्निरेव प्राची । तत्र विंशतिचतुविंशत्यङ्गुलप्रक्रमेण अष्टाशारत्निः । उत्तरेषु क्रतुषु सप्तविंशत्य रात्निः । देशस्तु प्रयोगकल्प एवोक्तः, “अपरस्माद्वे द्यंसात्” इत्यादिना ।
(तदेक निर्हरेत्)
उदीचीपृष्ठ्या ।
कपर्दिक्षाष्याम्.
विश्वास-प्रस्तुतिः
प्रादेशमुखाः प्रादेशान्तराला भवन्तीत्युपरवाणां विज्ञायते । अरत्निमात्रं चतुरश्रं विहृत्य स्रक्तिषु शङ्कून्निहत्यार्धप्रादेशेन तं तं परिलिखेच्छ्रुतिसामर्थ्यात् ॥ ७.४ ॥
English
According to tradition, the uparavas are each 1 prādeśa long, separated from one another by 1 prādeśa. A square of side equal to 1 aratni is made, poles are fixed at the (four) corners, and a circle of radius equal to half prādeśa is drawn (with each pole at the corner as centre) as per tradition.
मूलम्
प्रादेशमुखाः प्रादेशान्तराला भवन्तीत्युपरवाणां विज्ञायते । अरत्निमात्रं चतुरश्रं विहृत्य स्रक्तिषु शङ्कून्निहत्यार्धप्रादेशेन तं तं परिलिखेच्छ्रुतिसामर्थ्यात् ॥ ७.४ ॥
टीका
उपरवमानमपि निगदव्याख्यातम् । अरत्नीति गतार्थम् ।
करविन्दीया व्याख्या.
(प्रदेश विज्ञायते)
अभिषवकाले ग्रावभिरेषामुपरि र(य)वन्त इत्युपरवाः । उपराःग्रावविशेषाः, तेन तद्वन्त इति वा उपरवा अवटविशेषाः ।
(अरत्नि मर्थ्यात्)
दक्षिणस्य हविर्धानस्य दक्षिमस्यां श्रोण्यां द्विशङ्क्वादीनामन्यतमेनारत्निप्रमाणं चतुरश्रं विहृत्य कोणेषु शङ्कून्निहत्यार्धप्रादेशेन कर्कटेन रज्ज्वा वा तान् शङ्कून् परितो लिखेत् । एवं प्रादेशमुखा अन्योन्यतः प्रादेशान्तराला भवन्ति । एषा श्रुतिरेवमर्थवती भवति । पदमानेन वेदिः ॥
अथ देवयजनदेशविमानभागा उच्यन्तेपदमाने एक पञ्चाशत्प्राचीं त्रिंशत्तिरश्वीं देवयजमानयोग्यां भूमिं कृत्वा तन्मध्ये तदायामां देवयजनयोग्यां भूमिं कृत्वा न्तमध्ये तदायामां प्राचीं लेखामालिख्य रज्जुं प्रसार्य तदन्तयोः शङ्कुं निखाय प्राग्वंशप्रभृति तदनुरूपं तत्क्रतुकाले कुर्यात्, पश्चादन्ते प्राग्वंशं षोडशायामं द्वादशविस्तारं द्वादशायामं नवविस्तारं वा निर्माय तस्य लालाटिकात्र्रीन् प्राच इत्यादि तत्त्रैव तच्छङ्कोरारभ्य त्रिपदा वहिर्वेदिस्तदन्ते शङ्कुः, ततस्तत्पुरस्तात्षट्त्रिंशन्महावेदिः प्राची, त्रिंशत्पश्चात्तिरश्वी, चतुर्विंशतिः पुरस्तात्तिरश्वी, एवं महावेदिं विमाय पश्चिमान्ते त्रिपदःसञ्चरः, तत्पुरस्तात्प्राक्त्वेन नवपदमुदक्त्वेनाष्टादशपदं सदः, दक्षिणोत्तरमष्टादशायामं तन्मध्ये पृष्ठ्याया दक्षिणतः पदमात्रे भवति । तदोदुंबरीस्थानं, सदसः पूर्वार्धे पुरस्तादर्धं पदमात्रं संचरमवशिष्य तत्पश्चात्पृष्ठ्यायां होत्रीयमित्यादयो धिष्ण्या अरत्निमात्राः पिशीलमात्रा वा । तेषां च तस्य तस्योत्तरतः विसांस्थित संचरः सदसः पुरस्तात्त्रिपदःसंचरः । तत्पुरस्तात्नवायामविस्तारं हविर्धानं, त्र्यरत्निविस्तारं नवायाममिति मध्यमं मध्यमे छतिषि तूष्णीमितरे छदिषी इति दर्शनात् । “दशायामविस्तारं हविर्धानम्” इति बोधायनः । यूपावटीयाच्छङ्कोः पश्चात्पदमात्रःसंचरः । तत्पश्चाद्युगमात्रोत्तरवोदिः । उत्तरवेदिहविर्धानयोरन्तरालमन्तर्वेदिः । पृष्ठ्याया दक्षिणतो दक्षिणहविर्धानं, उत्तरत उत्तरं हविर्धानं, दक्षिणहविर्धानस्य दक्षिणश्रोण्यामुपरवाः, हविर्धानस्य पश्चादाग्नीध्रस्य (दाग्नीध्रीयश्व) बाहुसमं पृष्ठ्याया दक्षिणतो द्वादशसु पार्जा लीयः । तथैव तस्या एवोदक्द्वादशस्वाग्नीध्रीयः, सर्वधिष्णियाः पिशीलमात्राः सदसोंऽसादुत्तरतः पादोनत्रिपदे पदोननवपदे चशङ्कूः । आग्नीध्रमण्टपस्य ते श्रोणी । हविर्धानपश्चिमान्तादारभ्य प्राक्र्रिपदेषु पृष्ट्याया उत्तरतः । पादोनैकादशसु पादोनसप्तदशसु शङ्कू, तावाग्नीध्रपण्टपस्यांसौ । षड्विंशिकायाः पश्चात्पृष्ठ्यायाः पूर्वान्ते अर्धमन्तर्वेद्यर्धं बहिर्वेदिः । त्रिपदविष्कम्भस्त्रिपदपरीणाहो यूपावट इति बोधायनः । उत्तरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वाल उत्तरवेदिसंमितः, चात्वालमध्यो वेद्यंसतुल्यः । अर्धान्ते चात्वालात्पश्चाद्दादशसु तद्बहिर्वेद्युत्करः, वेद्यङ्कोत्करयोर्मध्ये उत्तरतः षोडशसु शामित्रधिष्ण्यः । एतत्पदमाने । प्रक्रममाने तु सदोहविर्धानयोररत्निमानमग्नेरुत्तरवेदेर्वा पश्चात्र्रीन् प्रतीचः प्रक्रमानतीत्य तिर्यगहविर्धानं नवारत्नीत्यादि यावत् । संभवा यामीवस्तारं सदः । धिष्ण्याः पिशीलमात्राः प्रक्रमेणैव सर्वमानं षट्त्रिंशदङ्गुलपरिमिता उत्तरवेदिस्तु दशपदा युगमात्री वा तत्स्थानेऽग्निर्वा । अन्यत्सर्वं प्रक्रमकृतम् । यूपैकादशिनीपेक्ष दशरथाक्षामेकादशो (परां)परवां रज्जुं मीत्वा तस्याश्चतुर्विंशेन भागेन वेदिंविमिमीते । प्रक्रमस्थानीया भवतीत्युक्त (क्तं प्राच्येकादशिन्यां) मेकादशिन्याम् । प्राच्येकादशिनीपक्षे अर्धषष्ठानि पदान्यंसौ यूपार्धं बेदेः पुरस्तात्पदार्थमात्रमंसमपच्छिद्य तत्पुरस्तात्प्राञ्चं निदध्यादिति बोधायनः । एकादशैकादीशनीपक्षे अर्धषष्ठानि पदान्यंसावपच्छिद्य तान्येकादशधा विभज्य पृष्ठ्यान्ता पृष्ठ्यादा दारभ्य एकं विभागं मध्ये प्राञ्चन्निदध्यात् । तद्दक्षिणतः उत्तरतश्च पञ्चपञ्च विभागान् प्राञ्चो निदध्यात् । अग्निविवृद्धौ महावेदि विवृद्धिः, प्राग्वंशःप्राची चान्तरालबहुत्वे विवर्धते । अलमति विस्तरेण ॥
सुन्दरराजीया.
(प्रादेश सामर्थ्यात्)
देशस्तु दर्शित एव “दक्षिणस्य हविर्धानस्य” इत्या दिना । सर्वत्रापि प्रक्रमैर्माने अपरस्माद्वेद्यान्तात्प्रक्रमत्रयमवशिष्य नवारात्नि सदः । उत्तरवेदेः पश्चात्प्रक्रमत्रयमवशिष्य नवारात्नि हविर्धानम् । पदमाने तूक्तप्रमाणानां सदोहविर्धानोत्तरवेदीनामसंभवाद्वेद्यनुगुणो निर्द्वासः कर्तव्यः । चात्वालस्तु शम्यामात्र एव सर्वत्रापि । “शम्यामात्रश्वात्वालः” इति बोधायनवचनात् । अत्र श्लोकाः
मीयते सौमिकी वेदिः प्रक्रमैर्द्विदशाङ्गुलैः ।
आदौ त्रिषु नव द्व्येकचन्द्रद्विशरभूद्विषु ॥ .१ ॥
एकैकद्विशरैकेषु शङ्कवो दश पञ्च च ।
षट्त्रिंशिका मानरज्जुः तस्या द्व्याष्टसु लक्षणम् ॥ .२ ॥
विमाने पाशयोर्मध्ये प्रक्रमा द्वादश स्मृताः ।
श्रोणी पञ्चमोनेषु सदोऽनन्तरतुर्ययोः ॥ .३ ॥
तत्कोणः पञ्चमोनेषु भास्करेषु दशस्वपि ।
तृतीये द्व्यन्तरा धिष्ण्यास्तेषां प्रादेशतो भ्रमः ॥ .४ ॥
रुद्रेषु सप्तदशसु शङ्कू पादोनितेष्विह ।
आग्नीध्रं तत्पञ्चमे तु धिष्ण्यौ द्वादशसु स्मृतौ ॥ .५ ॥
षष्ठे स्यात्पञ्चके धानं पञ्चाशद्द्वितयान्विते ।
सप्तमे प्राग्वदाग्नीध्रं नवमे मनुषूत्करः ॥ .६ ॥
एकादशे हविर्धानं पाशौ व्यात्यस्य पूर्ववत् ।
षोडशस्वर्धहीनेषु शामित्रो द्वादशे भवेत् ॥ .७ ॥
उत्तरार्धात्तृतीये तु त्रयोदशचतुर्दशे ।
शङ्कोरुत्तरवेदिःस्याद्द्वयोःसार्धमुपान्त्ययोः ॥ .८ ॥
अन्तिमे द्वादशस्वंसौ चात्वाललोऽसादुदक्क्रमे ।
पुरः पश्चात्सदोधानाच्यजेत्प्रक्रम पञ्चकम् ॥ .९ ॥
दक्षिणे तु हविर्धाने पश्चाच्त्रीन् प्रक्रमांस्त्यजेत् ।
पार्श्वद्वयो प्रक्रमौ द्वौ अङ्गुलद्वयसंयुतौ ॥ .१० ॥
अरत्निमात्रं मध्ये चोपरवाणां तु लक्षणम् ।
एवमेव विमांन स्यात्पदैरपि चतुर्विधैः ॥ .११ ॥
पदं पञ्चमसंयुक्तं धिष्ण्यविष्कम्भ इष्यते ।
शम्यामात्रस्तु चात्वालो व्याक्तं बोधायनोऽब्रवीत् ।
अन्यथाग्नौ विरोधःस्यात्मानं चान्यन्न विद्यते ॥ .११ ॥
कपर्दिक्षाष्यम्.
विश्वास-प्रस्तुतिः
व्यायाममात्री भवतीति गार्हपत्यचितेर्विज्ञायते ॥ ७.५ ॥
English
According to tradition, the gārhapatya fire has the measure of 1 vyāyāma.
मूलम्
व्यायाममात्री भवतीति गार्हपत्यचितेर्विज्ञायते ॥ ७.५ ॥
विश्वास-प्रस्तुतिः
चतुरश्रेत्येकेषाम्, परिमण्डलेत्येकेषाम् ॥ ७.६ ॥
English
It is a square by one tradition and a circle by another.
English - comment
7.3-7.6. Garhapatya vedi. Āpastamba has considered the construction of both square and circular gārhapatya vedi and given methods agreeing with those of Baudhāyana. For details, vide Bśl. 7.4-7.8.
मूलम्
चतुरश्रेत्येकेषाम्, परिमण्डलेत्येकेषाम् ॥ ७.६ ॥
टीका
चतुररात्निर्व्यायामः । तत्प्रमाणं गार्हपत्यचितेः । चतुरश्रा गार्हपत्यचितिरित्येकेषां शाखिनां मतम् । परिमण्डला गार्हप्त्यचितिरित्येकेषां श्रुतिः ॥
विश्वास-प्रस्तुतिः
करणं व्यायामस्य तृतीयायामं सप्तमव्यासं कारयेत् ॥ ७.७ ॥
English
The brick (to be used for the gårhapatya fire) is to measure | vyāyāma (32 angulas) long by ✈ vyāyāma (13 añgulas 24 tilas) wide.
मूलम्
करणं व्यायामस्य तृतीयायामं सप्तमव्यासं कारयेत् ॥ ७.७ ॥
टीका
चतुरश्रायां करणमुच्यते । व्यायामतृतीया पार्श्वमानी व्यायामसप्तमी तिर्यङ्नानी । एवं करणं कारयेत् । कुर्यादिति वक्तव्ये कारयेदिति वचनादन्यैस्तक्षादिभिः प्रवीणैर्नाध्वर्युणेत्यवगम्यते । कियन्तेऽनेनेष्टका इति करणं दारुमयम् ।
विश्वास-प्रस्तुतिः
ता एकविंशतिर्भवन्ति ॥ ७.८ ॥
English
There are 21 such bricks (required for each layer).
English - comment
7.7-7.8. Dhiṣnya and āgnidhriya. Details on dhiṣṇya and āgnidhriya agree with those given in Bl. 7.9.
मूलम्
ता एकविंशतिर्भवन्ति ॥ ७.८ ॥
टीका
तेन करणेन कृता इष्टकाः एकविंशतिः तस्यां गार्हपत्यचितौ भवन्तीति शेषः ।
करविन्दीया व्याख्या.
(व्यायाम विज्ञायते)
व्यायामश्चतुररात्निः ॥
(चतुरश्रे एकेषां)
एकेषां शाखिनामुभयमपि भवति । (करणंर्भवन्ति)
क्रियन्तेऽनेनेष्टका इति करणम्, तच्च दारुमयं लोहमयं वा । द्वात्रिंशदङ्गुल आयामः, त्रयोदशाङ्गुलयश्चतुर्विंशतितिलाश्च व्यासः । उत्सेधश्च जानोः पञ्चमभागः । एकविंशतिरिति शङ्ख्यासपत्तिं ब्रूते । पञ्चचितीकमित्यादिषु समुदायसंख्यावगत्यर्थम् ॥
सुन्दरराजीया व्याख्या.
अथाग्निचित्यायां
(व्यायाम बिज्ञायते)
चतुररात्निर्व्यायामः ।
(चतुर केषां)
तत्र चतुरश्रायाम्
(करणंर्भवन्ति)
तृतीये द्वात्रिंशदङ्गुलम् । सप्तमं दशतिलोनं चतुर्दशाङ्गुलम् । ता एकवि शतिर्भवन्त्येकैकस्मिन् प्रस्तारे ।
कपर्दिक्षाष्यम्
विश्वास-प्रस्तुतिः
प्रागायामाः प्रथमे प्रस्तारेऽपरस्मिन्नुदगायामाः ॥ ७.९ ॥
English
In the first layer, the length (of the brick) is turned towards east, and in the second layer towards north.
मूलम्
प्रागायामाः प्रथमे प्रस्तारेऽपरस्मिन्नुदगायामाः ॥ ७.९ ॥
टीका
प्रागायामाःप्रागायताः प्रथमे प्रस्तारे । उदगायामाःुदगायताः द्वितीये प्रस्तारे । एवसुपहिते भेदो न भवति । अनेन ज्ञायते सर्वत्र भेदो वर्जनीय इति । शब्देनैवोक्तं भगवता बोधायनेन ““सर्वत्र भेदो वर्जनीयः"इति । अधरोत्तरयोः पर्श्वसंस्थानं भेद इत्युपदिशन्तीति । अनेनाचार्येणोक्तमेतत्"व्यत्यासं चिनुयात्” इति ।
करविन्दीया व्याख्या.
(प्रागायमाप्रथमे प्रस्तारे)
उपधीयमाने प्रागायामाः स्युः ।
(अपरस्मिन्नुदगायामाः)
अपरस्मिन् द्वितीये तु उदगायता भवेयुः भेदाभावाय । उक्तं च बोधायनेन “सर्वत्र भेदान्वर्जयेत” इति ।
सुन्दहहाजीया व्याख्या.
(प्रागाया गायामाः)
इष्टका उपधेयाः ।
कपर्दिभाष्यम्
विश्वास-प्रस्तुतिः
मण्डलायां मृदो देहं कृत्वा मध्ये शङ्कुं निहत्यार्धव्यायामेन सह मण्डलं परिलिखेत् ॥ ७.१० ॥
English
For the circular (gārhapatya fire), a circular mound of earth is made and a pole fixed at the middle. (With this pole as centre) a circle is drawn with (a radius equal to) | vyāyāma plus the extra (as per rule 3.2 for transforming a square into a circle).
मूलम्
मण्डलायां मृदो देहं कृत्वा मध्ये शङ्कुं निहत्यार्धव्यायामेन सह मण्डलं परिलिखेत् ॥ ७.१० ॥
टीका
यदि मण्डला गार्हपत्यचितिः मृदो भृत्तिकायाः “ह” इति निपातः अत्रेत्येतस्मिन्नर्थे । उल्लेखनं कृत्वेति देहबिम्बं श्लक्ष्णीकृत्य तन्मध्ये शङ्कुं निहत्यार्धव्यायामेन मण्डलं परिलिखेत् । तद्व्यायाममात्रं णण्डलं भवति । केचिदत्र सहशब्दश्रवणादतीयेनेति वर्णयन्ति । क्षेत्रसमत्वाय तदनी प्सितमिहाचार्यस्य अर्धव्यायामेनेति वदतः । यदीप्सित मभविष्यत्मृदो देहं कृत्वा मण्डलं कुर्यादित्येवावक्ष्यत् । उक्तं त्वादेशादन्यदिति । तावतीं भूमिमिति वक्ष्याति च । कथं सहेत्युच्यते? यो मण्डलं चिकीर्षेत्स एवं कृत्वार्ऽधव्यायामेन परिलिखेत् । ह इति निपातः । एवमध्याहृत्य योजनीयम् । अथवा श्रुतिरेवेयमेवंभूता ।
विश्वास-प्रस्तुतिः
तस्मिंश्चतुरश्रमवदध्याद्यावत्सम्भवेत्तन्नवधा व्यवलिख्य त्रैधमेकैकं प्रधिकं विभजेत् ॥ ७.१० ॥
English
Within it (the circle) a square of the maximum size possible is drawn and divided into 9 parts (squares); each segment of the circle (between the circumference and the square) is to be divided into 3 parts.
मूलम्
तस्मिंश्चतुरश्रमवदध्याद्यावत्सम्भवेत्तन्नवधा व्यवलिख्य त्रैधमेकैकं प्रधिकं विभजेत् ॥ ७.१० ॥
टीका
तस्मिन्निति मण्डलं परामृस्यते । तस्मिन्मण्डले चतुरश्रं यावच्छेते तावच्चतुरश्रं लिखेत् । समपरिणाहं चतुर्धा विभज्य अवान्तरदिक्षु लक्षणं कृत्वा तेषु स्रक्तयो यथा भवन्ति तथा चतुरश्रमालिखेत् । दिक्षु चत्वारि धनुःसमाः । तच्चतुरश्रं नवधा व्यवलिख्य एकस्य प्रमाणेन समचतुरश्रं करणं कारयेत् । त्रैधमेकैकं प्रधिकं विभजेन् । गमनाय प्रधीयत इति प्रधिकम् । तच्च पार्श्वधनुः । तत्प्रतिकृतित्वात्प्रधिकमित्युच्यते । एकैकं प्रधिकं त्रिधा कृत्वा करणानि कारयेत् । चतुर्भिस्तिलैरूनाःष्ट्यङ्गुलाश्चतुरश्रप्रमाणम् । णण्डलमध्ये तस्य तृतीयेनैकं करणं प्रधिकमध्यं द्वाविंशतित्रयोदशाभ्यां कारयेत् । त्रिंशदङ्गुलेन त्वेकं तक्षयेत् ॥ यथ्.आ धनुराकारं यथा ज्याफलकयोर्मध्ये तिलोनमङ्गुलं भवति तथोनं त्रिभिस्त्रयोदशाङ्गुलमेकं करणं अरत्निमात्रं तिलाभ्यामेकं सप्तविंशत्यङ्गुलमष्टभिस्तिलैरूनमेकं तक्षेत् । पूर्वमङ्गुलद्वयं अग्निफलकाभ्यां सह मध्ये यथा भवति तथा तृतीयेन करणेन विपर्यस्यान्यमेवमिष्टकाः कारयेत् ।
विश्वास-प्रस्तुतिः
उपधाने चतुरश्रस्यावान्तरदेशान् प्रति स्रक्तीः सम्पादयेत् ॥ ७.११ ॥
English
In the placement (of bricks), the corners of square (in the first layer) point towards intermediate directions;
मूलम्
उपधाने चतुरश्रस्यावान्तरदेशान् प्रति स्रक्तीः सम्पादयेत् ॥ ७.११ ॥
टीका
उपधानकाले प्रथमे प्रस्तारे अवान्तरदेशान् कोणदेशान् प्रति चतुरश्रस्य स्रक्तीःसम्पादेयत्संयोजयेत् । चतुरश्रे नार्धेष्टकाःशरते । चतुरश्रे नवेष्टकाःशेरते । प्रधिकेषु द्वादश । नवसु द्वादशसु च एकविंशतिर्भवन्ति ।
विश्वास-प्रस्तुतिः
मध्यानीतरस्मिन्प्रस्तारे ॥ ७.११ ॥
English
in the other layer, these corners lie at the centres (of the segments of the first layer).
मूलम्
मध्यानीतरस्मिन्प्रस्तारे ॥ ७.११ ॥
टीका
द्वितीये प्रस्तारे मध्यानि चतुरश्रे मध्यानि अवान्तरदेशं प्रतिसम्पादयेत् ।
विश्वास-प्रस्तुतिः
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ ७.११ ॥
English
(With these two layers) alternating with each other, as many layers as desired are to be constructed.
मूलम्
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ ७.११ ॥
टीका
यावतः प्रस्तारान्कर्तुमिच्छेत्तावद्य्वत्यासं चिनुयात् । यः प्रथमःस तृतीयः । पञ्चमश्च यो द्वितीयःस चतुर्थः ।
विश्वास-प्रस्तुतिः
पिशीलमात्रा भवन्तीति धिष्ण्यानां विज्ञायते ॥ ७.१२ ॥
English
The dhiṣṇya fire, according to tradition, has the measure of the wooden vessel (pisilamātra);
मूलम्
पिशीलमात्रा भवन्तीति धिष्ण्यानां विज्ञायते ॥ ७.१२ ॥
विश्वास-प्रस्तुतिः
चतुरश्रा इत्येकेषां परिमण्डला इत्येकेषाम् ॥ ७.१३ ॥
English
it is a square by one tradition and a circle by another.
मूलम्
चतुरश्रा इत्येकेषां परिमण्डला इत्येकेषाम् ॥ ७.१३ ॥
टीका
बाह्वोरन्तरालं पिशीलमिति केचित् । मुष्टिकृतोऽरत्निः पिशीलमित्यन्यो । प्रादेशः पिशीलमित्यपरे । चतुरश्रा धिष्ण्या इत्येकेषां श्रुतिः । परिमण्डला इत्येकेषाम् ।
विश्वास-प्रस्तुतिः
मृदो देहान् कृत्वाग्नीध्रीयं नवधा व्यवलिख्य, एकस्याः स्थानेऽश्मानमुपपध्यात् ॥ ७.१४ ॥
English
Having made a circular mound of earth, the āgnīdhrīya fire is divided into 9 parts and a stone is to be placed.
मूलम्
मृदो देहान् कृत्वाग्नीध्रीयं नवधा व्यवलिख्य, एकस्याः स्थानेऽश्मानमुपपध्यात् ॥ ७.१४ ॥
विश्वास-प्रस्तुतिः
यथासङ्ख्यमितरा व्यवलिख्य यथायोगमुपदध्यात् ॥ ७.१५ ॥
English
The other (dhiṣṇya fire) is divided into as many parts as prescribed and covered with bricks as they fit.
मूलम्
यथासङ्ख्यमितरा व्यवलिख्य यथायोगमुपदध्यात् ॥ ७.१५ ॥
टीका
मृदो देहानिति प्रदर्शनं तस्मिन् चतुरश्रमित्यादेः । अश्मनवमा इति सिद्धे” प्येकस्याः स्थान इति वचनं द्रव्येष्टकानामवटेषूपधानस्य ज्ञापनार्थम् । व्यक्तमुक्तं बोधायनेन । लोकबाधानि द्रव्याण्यवटेषूपधेयानि । यथायोगमुपदध्यातग्निकल्पे यावत्सङ्ख्याका धिष्णिया आम्नाताः तावत्सङ्रष्याका ता व्यवलिख्य करणानि कृत्वा यथायोगं यथा युज्यते तथो पदध्यात् ॥
इति सप्तमःखण्डः.
इत्यापस्तम्बसूत्रविवरणे कपर्दिस्वामिभाष्ये शुल्बाख्यप्रश्ने
द्वितीयः पटलः.
करविन्दीया व्याख्या.
मण्डलायां गार्हपत्यचित्यां करणं बहुप्रयाससाध्यमिति प्रकारान्तरेणेष्टकासम्पत्तिं ब्रूते ।
(मण्ड लिखेत्)
समे शुचौ कचिद्भूतले व्यायाममात्राधिकविस्तारं जानुपञ्चमोर्ध्वप्रमाणं संसर्जनीयैर्द्रव्यैःसंसृष्टायाः संप्रकृष्टाया मृदो बिंम्बं कृत्वा तन्मध्ये व्यायामचतुरश्रक्षेत्रं मण्डलं कृत्वा तन्मध्ये शङ्कुं निखाय अर्धव्यायामेन सह अतिशयतृतीयेन सह मण्डलं परिलिखेत् ॥
(तस्मिनभवेत्)
तस्मिन्मण्डले यावत्प्रमाणं चतुरश्रं कर्तुं शक्यं तावल्लिखेत्, एवं कृते मण्डलमध्ये समचतुरश्रं एकं, तत्पार्श्वेषु चत्वारि धनुराकाराणि भवन्ति, तानि प्रधय इत्युच्यन्ते । प्रधिर्नाम रथचक्रावयवः । प्रधीयते प्रधाव्यते वानेनेति प्रधिः । तत्सारूप्यात्मण्डलावयवा अपि प्रधय इत्युच्यन्ते ॥
(तन्नवधा विभजेत्)
तच्चतुरश्रं नवधा विभजेत । त्रिभागावलेखनेन नवधा विभज्य प्रधिं त्वेकैकं त्रैधं विभजेत् । चतुरश्रं नवेष्टकं चत्वारः प्रधयः त्रिधा विभक्ता द्वादशमाच्यः एकविंशतिरिष्टकाः । मण्डलमध्ये चतुरश्रकरणोऽयं प्रयोगः । मण्डलमध्ये प्राच्युदीचीं सम्पाद्य मण्डललेखायाः परीणाहं चतुर्धा संभुज्य संभोगेषु तत्र लक्षणानि कृत्वा लक्षणाल्लक्षणं लिखेत् । एवं कृते मण्डलमध्ये चतुरश्रं भवति । तत्र विष्कम्भार्धं चतुः पञ्चदशाङ्गुलयोर्ऽधद्वाविंशतितिलाश्च मध्यचतुरश्रकरणी । (सप्त) सप्ततिरङ्गुलयोऽष्टतिलाश्च तस्यास्य तृतीयो भागः । पञ्चविंशतिरङ्गुलयः पञ्चविंशतितिलाश्च करणानि कुर्यत, तान्युच्यन्तेसर्वतः पञ्चविंशतितिलसहितं पञ्चविंशत्यङ्गुलमेकं करणं प्रधिषु । त्रीणि करणानि । प्रधिमध्याश्चतुर्भिः । तस्य पार्श्वे चतुर्दशाङ्गुलयः सप्तसप्तदश तिलाश्च । पृष्ठं पञ्चविंशतितिलसहितं पञ्चविंशत्यङ्गुलमुखम् । एकोनत्रिंशदङ्गुलं (पादोनत्रिंशदुङ्गलं) तं विष्कम्भार्धप्रमाणया रज्ज्वा कर्कटेन वा विलिख्य तक्षयेत् । प्रध्यन्तयोस्तदेवपार्श्वं पटष्ठं च । मुखं तु षट्त्रिंशदङ्गुलं, दक्षिणस्य दक्षिणं पार्श्वं सव्यस्योत्तरम् । एतान्येव चतुर्णां प्रधीनां करणानि । एवं चतुष्करणी मण्डलचितिः ॥
(उपधाने प्रस्तारे)
मण्डलायामुपधानकाले प्रयमप्रस्तारे चतुरश्रस्य स्रक्तीः कोटीः अवान्तरदेशान कोणदिशः प्रति संयोजयेत् । द्वितीये प्रस्तारे चतुरश्रस्य मध्यानि अवान्तरदेशान् प्रति संयोजेयत् । एवं भेदो न स्यात् । भेदो नाम प्रस्तारान्वयगतानामिष्टकानां प्रान्तेषु साम्यं, तत्सर्वत्र परिहरणीयमिति तत्र तत्र व्याख्यानवचनात्ज्ञायते । वचनमप्यस्ति सर्वत्र भेदान्वर्जयेदिति ॥
(व्यत्यासं चिनुयाद्यावतः प्रस्तारान् चिकीर्षेत्)
व्यत्यस्य व्यत्यस्येत्यर्थः । प्रस्तारा इष्टकाःसंघातवि शेषाः । ते पञ्चचितीकं चिन्वीतेति विहिता यावन्तःस्युः तावन्तो व्यात्यस्य व्यत्यस्य चिनुयादिति अस्मादेवावधारणात्ज्ञायते, अग्निधर्मा इष्टकायतनोर्ध्वप्रमाणादयोऽत्र प्राप्नुवन्तीति प्रस्तारेषु प्रथमतृतोयपञ्चमाःसमाः । द्वितीयचतुर्थौ समौ ननु कथं लभ्यते अतिशयतृतीयेनेति । उच्यतेसह शब्द सामर्थ्याच्चतुरश्रस्य मण्डलकरणे अतिशयतृतीयस्य करणीशेषत्वविधानाच्चातिशयतृतीयेन सह विष्कम्बार्धेन मण्डलकरणम् । एतस्या एव गार्हपत्यचितेः चतुरश्रमण्डलतया प्राप्ते क्षेत्रस्य साम्यवभिमतमिति चतुरश्रमण्डलकरणन्यायोऽनुसर्तव्यः । चतुरश्रपूर्वकत्वं चास्य मण्डलकरणस्य दृश्यते । ततोऽपि स एवानुसर्तव्यः ।
केचित्तु सहेति द्विपदं कृत्वा सार्धव्यायामेन सम्बन्धयन्ति । तेषामनयोः पदयोः प्रयोजनविशेषान्नैव पश्यामः । तस्मात्सूक्तमतिशतृतीयेन सहेति ॥
(पिशील विज्ञायते)
त्रिपदं पिशीलं, मुष्टीकृतोरत्निः पिशीलमित्येके । बाह्वोरन्तरालं पिशीलमिति बोधायनः । धिष्ण्या अग्नयः “अग्नयो वा अथ धिष्णियाः” इति दर्शनात्, तच्छब्देन तदायतनानि लक्ष्यन्ते । अग्नीनामायतनभुवः पिशीलमात्राणि भवन्ति । अपवादाभावे आकारभेदेऽपि क्षेत्रस्य साम्यं भवत्येव ॥
(चतुरश्रा लेत्येकेषाम्)
गतमेतत् । अत्र साग्निचित्ये क्रतौ विशेषमाह ।
(मृदो दध्यात्)
मुदो देहान् कृत्वा मृत्सम्बन्धिनो दहानुपचयान् बिम्बानि कृत्या आग्नीध्रीयमेकं नवधा प्राक्त्वेनोदक्तेवन च त्रिधा व्यवलिख्य मध्यस्थमेकमेकेनाश्माना उपदध्यात् । अन्यांस्तत्प्रमाणाबिरष्टकाबिरितरान् होत्रीयादीनां मृदो देहान् यथा सह्ख्यं यस्ययस्य धिष्णियाग्नेः याया सङ्ख्या द्वादश षोडश एकविंशतिं चतुर्विंशतिमित्याद्या तया संख्यया तं तं व्यवलिख्य यथायोगं यत्रयत्र देशे याया इष्टका युज्यते तत्रतत्र तां तां इष्टकामुपदध्यात् । द्वादश षोडश एकविंशतिं चतुर्विंशतिं वा होत्रीये, एकादश ब्राह्नणाच्छंसीये, षट्मार्जालीये, अष्टावष्टावन्योषु धिष्णियेषूपदधातीति विज्ञायते इति । अन्यधिष्ण्याः प्रशास्त्रीयपोत्रीयनेष्टीयाच्छावाकीयचात्वालशामित्रावभृथाः । करणानि वा कृत्वेष्टकाः कुर्यात् । चतुरश्रपक्षे सर्वतः प्रादेशाः होत्रीयस्य, द्वादशपक्षे प्रादेशे द्वे नवाङ्गुले द्वे, षोडशपक्षे सर्बतो नवकानि, एकनिंशतिपक्षे नवके द्वे सप्ताङ्गुलयः सप्ततिलाश्च द्वे, तदेकं सर्वतः सप्ततिलाःसप्ताङ्गुलय एकं, अत्र चतुरश्रमेकतः पञ्चधा विभज्य चतुरो भागान् प्रथमेन चतुर्धा विभजेत् । द्वितीयेनैकं पञ्चधा । चतुर्विंशतिपक्षेऽयेते एव करणे । तत्र पूर्ववत्पञ्चधा विभज्य चतुरो भागान् सप्ततिलसप्ताङ्गुलेन पञ्चधा विभजेत् । इतरेणैकं चतुर्धा । ब्राह्नणाच्छंसीयस्याष्टौ होत्रीये द्वादश्यः, तिस्र आग्नीध्रीयाः, मार्जालीयःस्यैकतः प्रादेशाः, अन्यतोऽध्यर्धाः षट् । अन्येषां पोत्रूयादीनां आग्नीध्रीयेष्टकाः षण्मार्जालीये अष्टके द्वे । मण्डलपक्षे करणबाहुल्यप्रसङ्गाद्यवलेखनमेवोच्यते । आग्नीध्रीयस्य प्राक्चोदक्च त्रेधा विभागः । होत्रूयस्य द्वादशपक्षे एकतस्त्रिधा विभागोऽन्यतश्चतुर्धा । षोडशपक्षे सर्वतश्चतुर्धा । एकविंशतिपक्षे त्वेकतः पञ्चधा कृत्वा चतुरो भागांश्चतुर्धा विभज्य चतुरो भागान् पञ्चधा कृत्वान्यंभागं चतुर्धा विभजेत् । एकादशपक्षे त्वेकतश्वतुर्धा विभज्य त्रीन त्रोधा कृत्वा अन्यं द्विधा विभजेत् । षट्पक्षे त्वेकतस्त्रिधा कृत्वान्यतो द्विधा विभजेत् । अष्टपक्षे चैकतस्त्रिधा विभज्य द्वौ भागौ त्रिधा कृत्वान्यं द्विधा कुर्यात् । धिष्ण्यानामेकचितीकत्वात्सुकरत्वा च्चैष एव प्रकारो वरमित्याचार्यो मन्यते । तत्र श्लोकः ॥
व्यायाममात्रे चित्येऽग्नौ करणं दारवं भवेत् ।
लैहे वा तच्चतुर्भिःस्यात्फलकाभिस्तदुच्यते ॥
द्वात्रिंशदङ्गुलायाममङ्गुल्यःस्युस्त्रयोदश ।
चतुर्विंशतितिल विस्तारः करणे भवेत् ॥
मण्डलात्मनि तत्र स्यात्करणं च चतुर्विधम् ।
मध्यमेकं पृथौ त्रीणि तान्युच्यन्ते यथाक्रमम् ॥
सपञ्चविंशतितिला अङ्गुल्यः पञ्चविंशतिः ।
सर्वतः करणं त्वेकं मध्येऽने(ते)नेष्टकाकृतिः ॥
प्रधिषु त्रीणि तानि स्युः प्रध्यन्ते करणं त्रिभिः ।
फलकैः प्रति(धि)मध्यीयं चतुर्भिः करणं भवेत् ॥
पृष्ठं पञ्चतिलोपेता अङ्गुल्यः पञ्चविंशतिः ।
पार्श्वे चतुर्दशाङ्गुल्यः तिलसप्तदशान्विताः ॥
सपादोनतिलस्त्रिं(त्रिं)शदेकोनत्रिंशदङ्गुलम् ।
मुखं स्यात्प्रधिमध्यीय करणस्यान्तयोरपि ॥
पृष्ठपार्श्वेषु तत्रेमे मुखं षट्त्रिंशदङ्गुलम् ।
अन्तयोर्यत्र यस्य स्यात्पार्श्वं नान्यस्य तत्र तत् ॥
करणानां मुखान्यत्र विष्कम्बार्धप्रमाणया ।
आलिख्य तक्षयेद्रज्ज्वा कर्कटेनाथवा लिखेत् ॥
षट्त्रिंशदङ्गुलायामा धिष्मयाःसर्वतःसमाः ।
तत्रतत्र यथासङ्ख्यामुच्यन्ते करणान्यथ ॥
प्रादेशमेकतो यस्मादन्यतोऽष्टादशाङ्गुलम् ।
मार्जालीयेनेन कृता धिष्णिये षट्स्युरिष्टकाः ॥
प्रादेशःसर्वतो यस्मादाग्नीध्रीये तु तत्कृताः ।
द्वादशाङ्गुलमेकत्र यस्यान्यत्र नवाङ्गुलम् ॥
होत्रीये द्वादशोपेता तत्कृता द्वादशेष्टकाः ॥
नवाङ्गुलं सर्वतःस्याद्धोत्रीये तेन षोडश ॥
तिलपञ्चकसंयुक्ताःसप्ताङ्गुलय एकतः ।
नवाङ्गुलं चान्यतःस्यात्करणं त्वेकविंशतौ (कौ) ॥
तिलसप्त(पञ्च)कसंयुक्ता अङ्गल्यःसप्त सर्वतः ।
इदमत्रैकविंशे स्याच्च्तुर्विंशेऽप्युभे इमे ॥
प्रथमे चैकविंशे स्युः षोडशान्येन पञ्चकम् ।
चतुर्विंशे द्वितीयेन विंशतिस्त्वन्यदन्यतः ॥
याः प्रादेशे(श)नुवाङ्गल्यस्त्वष्टौ तास्तिस्र एव च ।
प्रादेशाब्राह्नणाच्छंसिधिष्णिये त्वेकयुग्दश ॥
प्रादोशाः षट्पदाध्यर्धेद्वेचे….त्यष्टके विधिः ।
पोत्रियादौ यथायोगमुपधानं तु सर्वतः ॥
एकचित्याधिष्णियानां भेदस्यानवकाशतः ।
वैषम्येणैव सह्ख्यानां करणानेकता भ(वे)यात् ॥
व्यवलिख्य यथासङ्क्यमुपदध्यादिहेष्टकाः ।
यथायोगमिति त्वेवमाचार्यो मण्डलेऽब्रवीत् ॥
अधिकांशेन कर्णस्य हृने कर्णयुगे भुवा ।
हृते फलेन (फलोने) हीनाया युजो वा यद्भुवो दरम् ॥
तस्य वर्गेऽस्य कर्णस्य वर्गात्तु परिशोधिते ।
परिशिष्टस्य मूलं तु लम्बकं तद्विदो विदुः ॥
वदिप्राचीमितां रज्जुमन्तरालोक्तया वृता ।
दक्षिणोत्तरमायम्य वेदेः पूर्वापरार्धयोः ॥
वि(द्वि)दृतीयौ तु विज्ञेया प्रागुद्वेदि रुत्करः (त्तरम्) ।
मध्यदेशोत्रिमध्यं तु वह्नेः प्राच्यप्रतीच्ययोः ॥
लक्षणेन निमित्तार्थं (द्वि) विकृतीये त्वपायते ।
पश्चिमे चोत्तरत्रापि निमित्तं स्यादपायते ॥
विपर्यस्य तु पूर्वत्र निमित्ते दक्षिणोत्तरे ।
कृत्वा विष्कम्भ तुर्ये स्यादुभयस्यापि लक्षणम् ॥
तयोर्लक्षणयोर्तेखां रज्जुं वा प्राङ्निपातयेत् ।
लेखाया दक्षिणं ग्राह्यं मण्डलार्थं त्यजेदुदक् ॥
परिणाहे चतुर्था षट्संभुग्ने भुग्नलाञ्छने ।
अङ्कादङ्कगता रेखा चतुरश्रस्य साधिका ॥
विष्कम्भार्धीयवर्गस्य द्विगुणस्यैष मूलतः ।
मण्डले चतुरश्रस्य करणी परिकल्पना ( कल्पिता) ॥
यद्वा विष्कम्भमूलार्ध (वर्गार्ध) मूलेन करणीकृतिः ।
मण्डले चतुश्रस्य यावत्संभवजन्मनः ॥
अक्ष्णयावस्थितां रज्जुं यावत्संभवजन्मनः ।
चतुरश्रस्य विष्कम्भं मण्डलस्य वदन्ति हि ॥
विष्कम्भस्यान्तरा वर्गे विष्कम्भार्धस्य वर्गतः ।
शोधिते परिशिष्टस्य मूलं स्याद्दललक्षणम् ॥
विष्कम्भस्याद्दलग्रस्तचापज्यार्धास्य वर्गके ।
पूर्वज्यादलवर्गे तु विष्कम्भार्धस्य वर्गतः ॥
शोधिते परिशिष्टस्य मूलं तद्धनुषःशिरः ।
सज्यावर्गःषड्गुणेषु वर्गश्वापस्य वर्गकः ॥
शराहतस्तु कोदण्डो दलितो धनुषः फलम् ॥
विष्कम्भ आत्मद्विगुणेन(ऽपि)योज्यः स चात्मविंशेन स पञ्चमाख्याम् ।
सपञ्चविंशेन च तौ समेतौ व्यासेन सैषा परिणाहल्लप्तिः ॥
नेमिद्विरेकादशवात्रकार्यस्तद्भाग एकश्च तथा द्विधा च ।
व्यासःस्वरांशाः परिधेःसह स्युर्भागांशतुर्येण स सप्तमेन ॥
इत्यापस्तम्बसूत्रविवरणे करविन्दीयभाष्ये शुल्बाख्यप्रश्ने
द्वितीयः पटलः.
।
सुन्दहहाजीया व्याख्या.
मण्डलायां तु करणानां वहुवक्तव्यत्वात्तैर्विनैवेष्टकोपायमाह
मण्ड विभजेत्
देहौपचयःषडुङ्गलोत्सेधः । सहेति निपातो वाक्यालं कारे । स इति वा च्छेदः । “अर्धव्यायामेन मण्डलं परिलिखेत्” इत्येव सत्याषाढः । चतुरश्रं सविशेषेण विष्कम्भार्धेन चतुस्तिलोनेनाष्टषष्ट्यङ्गुलेनावदध्यात् । चतुरश्रं नवधा कृत्वा प्रथिकान् त्रेधा विभझेत् । प्रथिरेव प्रथिकः । प्रथिश्वक्रपर्यन्तः । अथवा करणैरेवेष्टकाः कुर्यात् । त्रीणि करणानिसमचतुरश्रं प्रथिमध्यं प्रथ्यन्तमिति । अत्र समचतुरश्रं द्वाविंशत्यङ्गुलं सैकविंशतितिलम् । प्रथिमध्यस्य पार्श्वमान्याः प्रमाणमेतदेव । तिर्यङ्नान्या दशतिलोनत्रयोदशाह्गुले एकं पार्श्वं फलकं धनुराकारं तक्षेत् । यथा अङ्गुलिः द्वादशतिलाश्च शरप्रमाणं भवति । प्रथ्यन्तं तु प्रमाणम् । तस्यापि चतुरश्रवदेकं पार्श्वं, त्रयोदशाङ्गुलं दशतिलोनमपरं, षड्विंशकं तिलद्वयोनमपरं, तद्धनुरिव तक्षेत्, यथा अङ्गुलिः सप्तविंशतिश्च तिलाःशरो भवति ॥
उपधाने श्चिकीर्षेत्
मण्डलचतुरश्रयोःसाधारणमिदं भेदपरिहाराय, अनेनैव ज्ञायते सर्वत्र भेदो वर्जनीय इति । तथाच बोधायनः
भेदान् वर्जयेदधरोत्तरयोः पार्श्वसंधानं भेद इत्याचक्षते, तदाद्यान्तेषु न विद्यतेइति ।
पिशील विज्ञायते
विशीलं पञ्चधा वर्णयन्तिबाह्वोरन्तरालमित्येकम्, कृतमु ष्टिमरत्निं(कृतमुष्टिरर त्निः) द्वितीयम् । अकृतमुष्टिमरत्निं तृतीयं, द्वात्रिंशदङ्गुलं चतुर्थं, षट्त्रिंशदङ्गुलं पञ्चममिति ।
चतुरश्रान् कृत्वा
तान् कुर्यादिति शेषः ।
आग्नीध्रो दध्यात्
इतरान् धिष्णियान् यथासंख्यं व्यवलिख्य द्वादश षोडशेत्यादि होत्रीये, एकादश ब्राह्नणाच्छंसीये, षण्मार्जालीये, अष्टावष्टावन्योष्विति । तेषां च यथासंभवं विभागा इति केचिदाहुः । सम चतुहश्राणां धिष्णियानां समचतुरश्रा एवेष्टकाः कार्याः चतुरश्रमादेशादन्यदिति । तवारत्नीविष्कम्भाणां धिष्णियाना मिष्टका अष्टाङ्गुला आग्नीध्रीयस्य । होत्रीयस्य द्वादशकस्य मध्ये चतस्रश्चतुरङ्गुलाः । परितोऽष्टाङ्गुलाः । षोडशिके षडङ्गुलाःसर्वाः । एकविंशकस्य मध्ये नव चतुरङ्गुलाः, परितो द्वादश षडङ्गुला । चतुर्विंशकस्य कोणेऽप्वष्टाङ्गुलाः, शेषो विंशतिश्चतुरङ्गुलाः । व्लाह्नणाच्छंसीये सप्त षडङ्गुला, चतस्रो नवाङ्गुलाः । मार्जालीये पञ्चाष्टाङ्गुलाः । अन्ये त्वाहुःयथासंख्यमितरानिति वचनात्सर्वा इष्टकास्तुल्यक्षेत्रा एव । तत्र समचतुरक्षाणामेव कर्तुमशक्यत्वाद्दीर्घचतुरश्रा अपि क्रियेरन्निति । तन्मतेऽप्याग्नीध्री यस्य पूर्ववत् । होत्रीयस्य द्वादशकस्येष्टका अष्टाङ्गुलायामाः षडङ्गुलव्यासाः । षोडशकस्य पूर्ववदेव । एकविंशकस्य तु अष्टाङ्गुलायामा अरत्निस(प्त)मव्यासाः । (चतुर्विंशकस्य षडङ्गुला यामाश्चतुरङ्गुलव्यासाः । मार्जालीयस्य प्रादेशायामा अष्टाङ्गुलिर्व्यासाः अष्टकानां प्रादेशायामाःषडङ्गुलव्यासाः) । ब्राह्नणाच्छंसीयस्य द्वे सरणे अष्टाङ्गुलायामं साष्टादशतिलषडङ्गुलव्यासमेकं करणम् । तेन तिस्र इष्टकाःषडङ्गुलव्यासा भवन्ति । नवतिलोननवाङ्गुलायाममपरम् । तेन अष्टाविष्टकाः । अन्येषु पिशीलमात्रेष्वेतदनुसारेणेष्टका द्रष्टव्याः ॥
अथ परिमण्डलानां षट्त्रिंशदङ्गुलविष्कम्बानां आग्नीध्रीयस्य मध्ये प्रादेशव्यासं परिमण्डलमश्मानं निधाय परितोऽष्टाविष्टकास्तासां करणं, पार्श्वे द्वादशाङ्गुले, चतुर्दशाङ्गुलमष्टतिलोनमेकं तिर्यक्फलकं, तद्धनुरिव तक्षेत्, यथा अङ्गुलिः द्वादशतिलाश्च शरो भवति । सविंशतितिलं चतुरङ्गुलमन्यत्तिर्यक्फलकं, तच्च धनुरिव तक्षेत्, अन्तर्वक्रं तु भवति यथा पञ्चदशतिलाःशरः । एवमिष्टका अन्येषां धिष्णियानां त्रीणि करणानि । सर्वेषां च द्वेट्वे फलके अष्टादशाङ्गुले । होत्रीयस्य द्वादशकस्य तृतीयं फलके नवाङ्गुलं सैकादशतिलं, तद्धनुरिव तक्षेत्, यथैक विंशतितिलाःशरः एवं षोडशकादीनां च द्रष्टव्यम् । ब्राह्नणाच्छंसीयस्य तृतीयं फलकं दशाङ्गुलं सपञ्चदशतिलं, तद्धनुरिवतक्षेत, पञ्चविंशतितिलाःशारः, सप्ततिलमिति व्कचित् । मार्जा लीयस्य तृतीयमप्यष्टादशाङ्गुलं, तदर्धधनुरिव तक्षेत्, व्द्यङ्गुलं चतुर्दशतिलाःशरः । अष्टकानां तृतीयफलकं चतुर्दशाङ्गुलमष्टतिलोनं, तद्धनुरिव तक्षेत्, अङ्गुलिर्द्वादशतिलाश्च शरः । अन्येषां च पिशीलानामेतदनुसारेण द्रष्टव्यम् ॥
॥ इति सप्तमः खण्डः ॥
इति सुन्दहहाजीये आपस्तम्बशुल्बसूत्रव्याख्याने शुल्बप्रदीपे
द्वितीयः पटलः.