विश्वास-प्रस्तुतिः
प्रक्रमस्य द्विकरणी प्रकमस्थानीया भवति ॥ ६.१ ॥
English
(Here) √/2 of a prakrama takes the place of a prakrama.
English - comment
6.1. Aśvamedha vedi. Āpastamba has given hints to the construction of similar isosceles trapezium of area 1944 sq. padas for the aśvamedha vedi. Its area equals
मूलम्
प्रक्रमस्य द्विकरणी प्रकमस्थानीया भवति ॥ ६.१ ॥
टीका
द्विकरण्या प्रमाणतृतीयेन वर्धयेदित्यादिना वर्धितेन तदेव विहरणम् ।
विश्वास-प्रस्तुतिः
प्रक्रमो द्विपदस्त्रिपदो वा । प्रक्रमे याथाकामी शब्दार्थस्य विशयित्वात् ॥ ६.२ ॥
English
One prakrama equals 2 padas or 3 padas; on account of uncertainty in the meaning of the term (prakrama) one may take such value of prakrama as one may wish.
मूलम्
प्रक्रमो द्विपदस्त्रिपदो वा । प्रक्रमे याथाकामी शब्दार्थस्य विशयित्वात् ॥ ६.२ ॥
टीका
द्विपदस्त्रिंशदङ्गुलः । त्रिपदः पञ्चचत्वारिंशदङ्गुलः । पदं पञ्चदशाङ्गुलमिति वचनाद् । काम इच्छा । यथाकाम एव याथाकामी यथेच्छा तथा गृह्णीयात् । प्रक्रमेऽध्यर्धप्रक्रमो विप्रकृष्टप्रक्रम इति नैवमन्वर्थसंज्ञा । पदाधिकस्य मानार्थस्य वाचको यथा यौगिकः तथा द्विपदं त्रिपदं वा वक्ति, क्रामत्यनेनेति क्रमः । प्रकृष्टः क्रमः इति निरूढः, कल्पनार्थद्रव्ये वचनात्पदाधिकं प्रक्रम इति शब्दार्थस्य विशयित्वात्विशयित्वं कल्पितार्थानामपि वाचकत्वादनेकवाचकत्वम् । शब्दार्थानां विशयित्वं यतः, कस्य पदादयो ग्रहीतव्याः इत्याह
विश्वास-प्रस्तुतिः
यजमानस्याध्वर्योर्वा । एष हि चेष्टानां कर्ता भवति ॥ ६.२ ॥
English
The measure (of pada) may be that of the sacrificer or of the adhvaryu, because one directs the efforts of the other,
English - Comment
6.2. The unit of prakrama has been discussed (Bśl. 4.12-4.14) and (Aśl. 5.7). Four officiating priests are usually required for the sacrifice, namely, adhvaryu, hotṛ, brāhmaṇa and the āgnidhriya. The adhvaryua should sweep the ground of altars three times and trace out the drawing with the help of the wooden sword.
मूलम्
यजमानस्याध्वर्योर्वा । एष हि चेष्टानां कर्ता भवति ॥ ६.२ ॥
टीका
यजमानस्य पदं ग्राह्यं स्वामित्वात् । अध्वर्योर्वावाशब्दः पक्षव्यावृत्तौ । न यजमानस्य । अध्वर्युरेव कुतः? एष हि चेष्टानां कर्ता भवति । चेष्टयन्त इति चेष्टाः कर्माणि । स कर्मणां कर्ता यतः हिशब्दो हेतौ । तस्मादध्वर्योरेव न यजमानस्य ।
करविन्दीया व्याख्या.
(प्रक्रमस्य भवति)
द्विस्तावायां वेद्यां अश्वमेधे प्रक्रप्रस्य द्विकरिणी प्रक्रमस्थाने भवति प्रमाणद्विकरण्या विहरेत् ।
(प्रक्रमो विशयित्वात्).
पदं पञ्चदशाङ्गुलम्. द्विपदं त्रिंशदङ्गुलम्. त्रिपदं पञ्च चत्वारिंशदङ्गुलम्, द्विपदे त्रिपदे च प्रक्रमव्यवहारादुभयमिह ग्राह्यम् । अथवा प्रक्रमः पदविक्षेपवाची, पदादयोऽत्र मान साधनभूता गृह्यन्ते । अतो न विक्षेपमात्रेण प्रयोजनम् । किनतु तत्मंबन्धिना केनचिद्द्रव्योण, अतो विक्षेपफलभूतसंयोगविभागाभ्यामुपलक्षितदेशान्तरालपरिमितरज्ज्वादिना प्रयोजनम्, गच्छन् हि सर्वो जनः एकं पदं विक्षिप्य निदधाति, तत्र निर्विकारं संगच्छन समः पुरुषः, स्थितनिधीयमानयोः पदयोरन्तरालं यथा पदपरिमितं भवति तथा गच्छति, अतो विक्षिप्तेन पदेन पदद्वयं व्याब्तमिति द्विपदः प्रक्रमः, स्थितमपि पदं तत्सहकारीति ताभ्यां पदत्रयव्याप्तेस्त्रिपदश्च भवति । प्रक्रमे याथाकामीकाम इच्छा, तदनतिक्रमो यथाकामम्, तस्य भावः यथाकाम्यम्, याताकाम्यमेव याथाकामीयथेष्टमित्यर्थः, विविधं शेत इति विशय, उभयत्र प्रयोगो दृश्यत इत्यर्थः । ननु प्रक्रमेषु वैषम्यमपि दृश्यते, यथा चतुरो विष्णुक्रमां प्राचः क्रामत्युत्तरमुत्तरं ज्यायांसमिति । नायं दोष, तस्य वचनस्योत्त रोत्तरं ज्यायस्त्वविधिपरत्वात्, प्रक्रमे गृह्यमाणे द्विपदमेव त्रिपदमेव वा गृह्णीयात्, न मिश्रयेदित्यर्थः, चतुरो विष्णुकमानित्यत्र वाचनिकत्वात्क्रमवैषम्यस्य न क्रमवैषम्यानुयोगः । अतो विशेषितप्रकमविधौ द्वित्रिपदप्रकमयोरेवान्यतरं कृह्णीयान्न मिश्रयेदित्यर्थः । पदादिसूत्रे वक्ष्यमाणः पदविकल्पनिबन्धनः प्रक्रमयोरपि विकल्पो भवतीत्येव ।
(यजमानस्य भवति).
चजमानाध्वर्यू प्रसिद्धौ, हि शब्दो हेतौ, चेष्टन्त इति चेष्टाः, कर्माणि । अयमर्थः पदादयो यजमानस्य ग्राह्याः स्वामित्वात्, कुतः, याथाकामिर्वात्, तस्य अध्वर्योर्वा । वाशब्दो विकल्पार्थः । यस्मादेषोऽध्वर्युश्वेष्टानां कर्ता भवति तस्मादस्य पदादयो ग्राह्याः चेष्टाकर्तृत्वात्, यजमानस्य प्राप्तयर्थं वचनमध्वर्योस्तु बाधकवाधनार्थमतो विकल्पः ।
सुन्दरराजीया व्याख्या.
(प्रक्रमस्य विशयित्वात्).
शब्दार्थस्यशब्दप्रवृत्तिनिमित्तस्य विशयित्वंनेकवृत्तित्वम् । इदं प्रकमे याथाकाम्यं शब्दार्थस्य विशयित्वादुक्तमित्यर्थः । “द्विपदः प्रकमः” इति बोधायनः । “त्रिपदः प्रक्रमः” इति कात्यायनः । उभयमप्याचार्यस्यानुमतमिति विज्ञायते ।
(यजमानस्यध्वार्योर्वा).
पदेनाङ्गुलिभिर्वा प्रकमो ग्राह्यः स्वामित्वात् । कारणमाह
(एष हि भवति)
कपर्दिक्षाष्यम्.
विश्वास-प्रस्तुतिः
रथमात्री निरूढपशुबन्धस्य वेदिर्भवतीति विज्ञायते ॥ ६.३ ॥
English
According to tradition, the altar for the conventional animal sacrifice (nirudhapasabandha vedi) has the measures of a chariot.
मूलम्
रथमात्री निरूढपशुबन्धस्य वेदिर्भवतीति विज्ञायते ॥ ६.३ ॥
टीका
रथप्रमाणा निपरूढपशुबन्धस्य वेदिर्भवतीति श्रुतिः ।
विश्वास-प्रस्तुतिः
तस्य खल्वाहू रथाक्षमात्री पश्चात्तिर्यगीषया प्राची । विपथयुगेन पुरस्तात् ॥ ६.३ ॥
English
There it is said that the western side (of the altar) measures 1 akṣa (104 añgulas), the east-west line 1 iṣā (188 angulas) and the eastern side 1 yuga (86 angulas) or the distance between the two outside holes.
मूलम्
तस्य खल्वाहू रथाक्षमात्री पश्चात्तिर्यगीषया प्राची । विपथयुगेन पुरस्तात् ॥ ६.३ ॥
टीका
खलुशब्दोऽलङ्कारे । तत्र तस्मिन्नर्थे रथप्रमाणविदो रथकारा आहुः । रथाक्षमात्री पश्चात्तिर्यगीषया प्राची, विपथयुगेन पुरस्तात्, रथाक्षणात्री पश्चात्तिर्यङ्नानी । रथग्रहणं शकटनिवृच्यर्थम् । ईषामात्री पृष्ठया । विपथयुगेनव्याप्तः पन्था येन युगेन तद्विपथयुगम् । अब्यन्तरं युगछिद्रयोरन्तरालम् । तत्प्रमाणं पुरस्तात्तिर्यङ्भानी ।
विश्वास-प्रस्तुतिः
यावता वा बाह्ये छिद्रे ॥ ६.३ ॥
English
This (is to be constructed) by the methods of one cord already mentioned.
मूलम्
यावता वा बाह्ये छिद्रे ॥ ६.३ ॥
टीका
यावता प्रमाणेन युगस्य बाह्ये छिद्रे भवतः तावद्वा पुरस्तात्तिर्यङ्भानी वेदेः ।
करविन्दीया व्याख्या.
(रथमात्री बाह्ये छिदे)
रथमात्रीरथप्रमाणा निरूढपशुबन्धस्य वेदिरिति श्रुतिः । श्रुत्युक्तमभियुक्तोक्तया दर्शयति ।
खलुशब्दो वाक्यालङ्कारार्थः । तत्राहुरभियुक्ताःरथाक्षमात्री रथप्रमाणा पश्चात्तिर्यक्तिरश्वी ईषया संमिता प्राची । व्याप्तः पन्था येन स विपथः चारणरथ इत्यर्थः । विपथस्य युगो विपथयुगः । तेन संमिता पुरस्तात्तिरश्वी । अथवा यावता वा बाह्ये छिद्रे यावता प्रमाणेन गृहीते बाह्ये च्छिद्रे भवतः तावती वा पुरस्तात्तिर्यक् ।
सुन्दरराजीया व्याख्या.
(रथमात्री बाह्ये छिद्रे.)
इत्याहुराचार्याःपश्चात्तिर्यङ्भानी रथाक्षमात्री, ईषामात्री प्राची, विपथयुगमात्री पुरस्तात्तिर्यङ्नानी । विगतः पन्था यस्माद्युगात्तद्विपथयुगम् । बाह्यच्छिद्रसहितं षडशीत्यङ्गुलं युगम् । यावता वा बाह्ये च्छिद्रे बाह्यच्छिद्रयोरन्तरालमशी त्यङ्गुलम् ।
कपर्दिभाष्यम्
विश्वास-प्रस्तुतिः
तदेकरज्ज्वोक्तम् । पञ्चदशिकेनैवापायम्यार्धाक्षेणार्धयुगेन श्रोण्यंसान्निर्हरेत् ॥ ६.४ ॥
English
Having stretched the cord by the mark at fifteen, the western corners are to be fixed by akṣa (52 angulas) and the eastern corners by yuga (43 angulas).
English - comment
6.3-6.4. Nirudapaŝubandha vedi by one cord. The construction of the nirudapaśubandha vedi is done according to ekarajju measure taught in Āśl. 5.1 and 5.2. Here the relation,
i.e.
has been used for the construction of isosceles trapezium, whose face in 86 ang., base 104 ang. and altitude 188 ang. The construction of another isosceles trapezium having face 3 aratnis, base 4 aratnis, and altitude 6 aratnis, has been obtained by the method of one-cord (ekarajju- vidhi). Here the following relation is used:
मूलम्
तदेकरज्ज्वोक्तम् । पञ्चदशिकेनैवापायम्यार्धाक्षेणार्धयुगेन श्रोण्यंसान्निर्हरेत् ॥ ६.४ ॥
टीका
तदेकरज्जुरिति किं सौमिकी गृह्यते आहोस्वित्प्रथमसौमिकी गृह्यते? पञ्चदशिकेनेति दर्शनात्, तत्र हि पञ्चदशिके लक्षणम्, नेतरत्र । ईषामात्री ईषां षट्त्रिंशद्धा विभज्य एकं भागं प्रक्रमस्तानीयं कृत्वा सौमिकवत्पञ्चदशिकेनामायम्य अर्धाक्षेण श्रोण श्रोणीं मिनुयात् । अर्धयुगेनासौ मिनुयादिति केचित् । अपरे पुनः प्रथमामेकरज्जुं गृह्णन्ति । यदि सौमिकी गृह्यते अदृष्टकल्पना प्राप्तोति कथं पञ्चदशिकेनेति चेत्, लक्षणया षट्त्रिंशिकायामं यत्पञ्चदशकं तदपि षड्भागोनमेव । तस्मात्पञ्चदशिकेनेति षड्भागोनां लक्षयितुं न शक्यते । तेनादृष्टकल्पनाभवति । नन्वन्यत्रापि लक्षणा? सा तु लौकिकी, किं च साधारणत्वाच्च सैवैका रज्जुःसाधारणी । तस्माच्च सैव ग्राह्या । एवमुत्तरत्रापि योजनीयम् । अर्धक्षे अर्धयुगे च लक्षणं कृत्वा षड्भागोनेनापायम्य अर्धाक्षे श्रोणी । अर्धयुगे त्वंसौ ।
करविन्दीया व्याख्या.
(तदेकरज्ज्वा विहरेत्)
एताद्विहरणमेकरज्जुविहरणेन व्याख्यातम् । एकरज्जुरिति द्वित्रिपञ्चशङ्करज्ज्वादीनां ग्रहणं, इतरथा उत्तरयोर्विधानस्यादृष्टार्थत्वकल्पनाप्रसङ्गदिति सौमिक्यां व्याख्यातम् । तथा पञ्चदशिकेनेति षड्भागोने कृतलक्षमस्य ग्रहणम् । तच्च निरञ्चनमात्रप्रदर्शनम् । इतरथा अदृष्टार्थत्वप्रसङ्गादिति तत्र्रेवोक्तम्, तत्रानेकरज्जुभिरिहापि विहरणसुक्तम्, तदिहाप्यविरोधात्गृह्यत एव । ईषामात्रा षट्त्रिंशद्भागं प्रक्रमं कृत्वा तेनैव विहरेत् ।
सुन्दरराजीया व्याख्या.
(तदेकरज्ज्वा विहरेत्)
“षट्त्रिंशिकायामष्टादशोपसमस्य” इत्यादिना एकरज्ज्वा तन्मानमुक्तम् । ईषायाःषट्त्रिंशो भागः पञ्चाङ्गुलमर्धाष्टमतिलाश्च प्रक्रमस्थाने द्रष्टव्यम् । यद्वा एकरज्जुशब्देन यावदायाममिति विहरणमभिप्रेतम् । अत्र पक्षे पञ्चदशिकेनेति लक्षणया षड्भागोनतृतीयमेवोच्यते । सोमे तत्पञ्चदशप्रक्रममभूदिति । एवमुत्तरत्रापि बाह्यच्छिद्रान्तरालपक्षे तदर्धेनांसनिर्हरणम् ।
कपर्दिभाष्यम्
विश्वास-प्रस्तुतिः
अथाप्युदाहरन्ति ॥ ६.५ ॥
English
Now, these (units of chariot measure) are explained.
मूलम्
अथाप्युदाहरन्ति ॥ ६.५ ॥
टीका
अथशब्दःसमुच्चये । एवं चोदाहरन्ति रथप्रमाणपिदो रथकाराः
विश्वास-प्रस्तुतिः
अष्टाशीतिशतमीषा तिर्यगक्षश्चतुःशतम् । षडशीतियुगं चास्य रथश्चारण उच्यते इति रथपरिमाणम् ॥ ६.५ ॥
English
1 îșâ equals 188 añgulas, 1 akṣa 104 angulas and 1 yuga 36 angulas. These are according to the (Vedic) Caraṇa school and are known as chariot measures.
मूलम्
अष्टाशीतिशतमीषा तिर्यगक्षश्चतुःशतम् । षडशीतियुगं चास्य रथश्चारण उच्यते इति रथपरिमाणम् ॥ ६.५ ॥
टीका
एवं रथपरिमाणं सर्वतो मानमुदाहरन्तिब्रुवते । सामर्थ्यसिद्धेश्वाङ्गुलिर्गृह्यते । रथेषाप्रमाणं अष्टाशीत्युत्तरमङ्गुलशतम् । तिर्यक्छब्दः पूरणार्थः । अक्षप्रमाणं चतुरधिकं शतम् । युगस्य प्रमाणं षडसीतिः । एवंलक्षणो यो रथःस चारणः, चरत्यनेनेति चारणः । चरण एव चारणः । चारणग्रहणं क्रीडादिरथनिवृच्यर्थम् । अथवा अस्यशब्दस्य स्थाने यस्यशब्दमध्याहृत्य योजनीयम् । वर्णव्यत्यासेन वा ।
विश्वास-प्रस्तुतिः
अरत्निभिर्वा चतुर्भिः पश्चात्षड्भिः प्राची त्रिभिः पुरस्तात् । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्य द्वाभ्यामध्यर्धेनेति श्रोण्यंसान्निर्हरेत् ॥ ६.६ ॥
English
The western side is 4 aratnis or other measures, the east-west line 6 and the eastern side 3. This (is to be constructed) by the method of one cord already mentioned. Having stretched the cord by the mark at fifteen, the western and the eastern corners are to be fixed by 2 and 11⁄2 (aratnis) (respectively).
मूलम्
अरत्निभिर्वा चतुर्भिः पश्चात्षड्भिः प्राची त्रिभिः पुरस्तात् । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्य द्वाभ्यामध्यर्धेनेति श्रोण्यंसान्निर्हरेत् ॥ ६.६ ॥
टीका
अरत्निभिर्वा मातव्यमिति शेषः । चतुर्भिः पश्चात्तिर्यङ्भानी । षड्भिः प्राची पृष्ठया । त्रिभिः पुरस्तात्तिर्यङ्भानी । तदेकरज्ज्वोक्तमित्यादिगतमेतत् ।
विश्वास-प्रस्तुतिः
यजमानमात्री चतुःस्रक्तिर्भवतीति पैतृक्या वेदेर्विज्ञायते, तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेत् ॥ ६.७ ॥
English
According to tradition, the paitṛkī vedi is a square, and has the measure of a sacrificer. This (is to be constructed) by the method of one cord already mentioned. Having stretched the cord by the mark at fifteen, the western and the eastern corners are fixed by half the measure.
मूलम्
यजमानमात्री चतुःस्रक्तिर्भवतीति पैतृक्या वेदेर्विज्ञायते, तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेत् ॥ ६.७ ॥
टीका
पैतृक्या वेदेः श्रुतिःयथा दिक्षु स्रक्तयो भवन्ति तथा मातव्या । तदेकरज्ज्वेति गतार्थम् ।
करविन्दीया व्याख्या.
वेदार्थावगमस्य बहुविद्यान्तराश्रयत्वात् । तक्षशास्त्रे गार्ग्या गस्त्यादिभिरङ्गुलिसंख्ययोक्तं रथपरिमाण श्लोकमुदा हरति
(अथाप्यु प्रमाणम्)
अथापिशब्दौ समुच्चये, उदाहरन्ति मुनयः, अष्टशीतिश्च शतं चाष्टाशीतिशतं, चत्वारि च शतं च चतुःशतम्, षट्चाशीतिश्च षडशीति, आयोधनपुष्यजैत्रचारणादिभेदेन रथस्यानेकविधतामुपन्यस्त तैरुक्तं अष्टाशीतिशतमित्यादि, अस्यार्थःस्य बहुविधस्य मध्ये यस्य ईषा अष्टाशीतिशतमङ्गुलयः, चतुरधिकं शतमक्षः, युगं च षडशीतिः, एवंविधो रथश्वारण उच्यत इति । एवं रथपरिमाणमुदाहरन्ति मुनयः ।
ननु अक्षस्य तिर्यङ्भानीत्वमुक्तम्, युगेषयोः का प्राची का तिरश्वीति न ज्ञायते । उच्यतेअक्षस्य तिर्यक्त्वविधानादेवयुगेषयोरपि या द्राघीयसी सा प्राची, या ह्रसीयसी सा तिरश्वीति सामर्थ्यादीषा प्राचीति गम्यत इति मन्यन्ते । छिद्रान्तरालपक्षे षोडशाङ्गुलहीना पुरस्तात्तिरश्वी ।
(अरत्निभिर्वापुरस्तात्) गतम् ।
(तदेकरज्ज्वा निर्हरेत्)
इदमपि गतम् । अत्रारत्नावारत्निद्वये च लक्षणम् ।
(यजमानमात्री निर्हरेत्)
पितृणामियं वेदिःपैतृकी महापितृयज्ञवेदिः । चोदकप्राप्तेऽपि यजमानमात्रे पुनर्वचनं विस्तारस्यापि तथात्वा(य)त् । (आयामः) प्रतिदिशं स्रक्तयः महादिक्षुकोणाः “सर्वा ह्यनुदिशः” इति दर्शनात्, अत्र प्रयोगःग्रेणान्वाहार्यपचनं किञ्चिदन्तःसञ्चरमवशिषय तस्य पुरस्ताद्यजमानमात्रं द्विकरम्या चतुरश्रं संपाद्य तस्य करणीमध्येषु यथा स्रक्तयो भवेयुः तथा पञ्चदशिकेनेत्यादिना विहृत्यार्धेन ततः तस्य यजमानमात्रस्यार्धेन श्रोण्यंसान्निर्हरेत्तन्निमित्तो निर्ह्रासो विवृद्धिर्वेत्युक्तयोर्निर्ह्रासः, महावेद्यां पदञ्चशिकेनैवापायम्य अर्धयजमानमात्रे शङ्कुं निहन्यात्दक्षिणाप्राची वेदिः ॥
सुन्दरराजीया व्याख्या.
(अथाप्युदाहरन्ति रथपरिमाणम्)
अङ्गुलयःसंख्येयाः । अङ्गुलिश्वोर्ध्वबाहोः पुरुषस्य विंशतिशततमो भाग इति वक्ष्यते । “पञ्चारत्निः पुरुषः, चतुविंशत्य ङ्गुलयोऽरत्निः
इति । सा च चतुस्त्रिंशतत्तिलेत्याचक्षते । यथोक्तं बोधायनेन
““अङ्गुलिप्रमाणं चतुर्दशाणवः चतुस्त्रिंशत्तिलाः पृथुसांश्लिष्टा इत्यपरम्"इति चतुरधिकं शतं चतुःशतं युगमिति विपथयुगमुच्यते प्रस्तुतत्वात् । अन्यत्तु युगं शताङ्गुलमिति तक्षशास्त्रविदः । षण्णवत्यङ्गुलमित्याचार्यपादीयाः । यथाऽहुः चतुर्हस्तो धनिर्दन्डो धनुर्धन्वन्तरं युगम् ।
इति । “हस्तश्चतुर्विंशतिरङ्गुलयः” इति च ।
(अरत्निभिर्वा पुरस्तात्)
पशुबन्धवेदीत्येके ।
(तदेकर निर्हरेत्)
द्वाभ्यां श्रोणी । अध्यर्धेनांसौ ।
(यजमानमात्री विज्ञायते)
पञ्चारत्निः ।
(तदेकर निर्हरेत्)
तत इति षष्ठयन्तात्तसिल् । दक्षिणाप्राची पृष्ठया । महादिक्षु श्रोण्यंसाः । अत्र लघूपायमाह कात्यायनः
“पैतृक्यां द्विपुरुषं चतुरश्रं कृत्वा करणीमध्येषु शङ्कवःससमाधिः” इति । तत्र प्रकारःपुरुषमात्रद्विकरण्या दशतिलोनया सप्ततिशताङ्गुलया समचतुरश्रं कृत्वा करणीनां मध्येषु शङ्कून्निहत्य दशारत्नयो रज्ज्वोः पाशान पूर्वापरयोः प्रतिमुच्य तयोर्मध्ये दक्षिणोत्तरयोर्नियम्य वहिःस्पन्दमपच्छिन्द्यात् । एतं चतुररत्नमिपि केचिदिच्छन्ति । तत्र आज्यं पुरोडाशा आसादयितुं न शक्यन्ते ।
कपर्दिभाशष्यम्.
विश्वास-प्रस्तुतिः
दशपदोत्तरा वेदिर्भवतीति सोमे विज्ञायते । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेत् ॥ ६.८ ॥
English
According to the tradition of the soma sacrifice, the (side of the) uttara vedi measures 10 padas. This (is to be constructed) by the method of one cord already mentioned. Having stretched the cord by the mark at fifteen, the western and the eastern corners are to be fixed by half the measure.
English - Comment
6.7-6.8. Paitṛki vedi and uttara vedi. For the construction of the paitṛki and uttara vedi, the method of one-cord (ekarajjuvidhi) has been used. According to Āpastamba, the paitṛki vedi is a square of 5 aratnis, whereas the uttara vedi is a square of 10 padas. Hence the relation
has been used. Specifically,
[ for paitr̥ki vedi ]
and
[ for uttara vedi ]
For further discussion on paitṛki vedi, vide Bśl. 3.11.
मूलम्
दशपदोत्तरा वेदिर्भवतीति सोमे विज्ञायते । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेत् ॥ ६.८ ॥
टीका
पदग्रहणं प्रदर्शनार्थम् । प्रकममितायां महानेद्यां दशपदोत्तरवेदिः सर्वतो दशपदा “प्रमाणेन प्रमाणं विधीयत” इति वचनात् । क्षेत्रतो वा दशपता । तदा एकपदविस्तारं त्रिपदायामं दीर्घचतुरश्रं कृत्वा तस्याक्ष्णया रज्जुं गृहीत्वा चतुरश्रं कुर्यात् । प्रक्रमेऽप्येकप्रक्रमविस्तारं त्रिप्रक्रमायामं चतुरश्रं विहृत्य तस्याक्ष्णया रज्जुं गृहीत्वा चतुरश्रं कुर्यात् । तदेकरज्ज्वोक्तंर्धेन ततःतस्येत्यर्थः षष्ठयर्थे तसिल् ।
विश्वास-प्रस्तुतिः
तां युगेन यजमानस्य वा पदैर्विमाय शम्यया परिमिमीते ॥ ६.९ ॥
English
These are measured by the yuga, pada or ŝamyā measures of the sacrificer.
मूलम्
तां युगेन यजमानस्य वा पदैर्विमाय शम्यया परिमिमीते ॥ ६.९ ॥
टीका
युगेनोक्तपमाणेन यजमानस्य वा पदैः । यजमानग्रहणादध्वर्योर्न लभ्यते । यजमानग्रहणं प्रदर्शनार्थमिति केचित् । तस्मादेव वचनादुत्तरवेदिर्युगमात्री लभ्यते । सोमे पदमानायां महावेद्यां उत्तरवेदिं युगेन वा पदैर्वा विमाय शौल्बेन मानेन पश्चाच्छम्यया मानमदृष्टार्थं कर्तव्यम् । शम्यया परिमिमीत इत्येतद्वचनमदृष्टार्थं न प्रमाणविधिः इयुक्तं भवति ।
करविन्दीया व्याख्या.
(दशपदोत्त विज्ञायते)
महावेद्यां प्रथमनिहताच्छङ्कोः पुरस्तात्पञ्चविंशतिषु शङ्कुं निहत्य तत्पुरस्तादृशसु शङ्कुं निहत्य पञ्चदशिकेनेत्यादिना विहरेत् ॥
(तदेकर निर्हरेत्)
ततोर्ऽधेन पञ्चपदेनेत्यर्थः । “सर्वतो दशपदा” इति शतपथब्राह्नणे श्रूयते “प्रमाणेन प्रमाणं विधीयते शतुरश्रमिति तदनिरूपक्षे त्रतो दशपद
इति कात्यायनः । अस्मिन् पक्षे पदविस्तारं त्रिपदायामं दीर्घचतुरश्रं विहृत्य तस्याक्ष्णयारज्जुप्रमाणोत्तरवेदिः । अस्मिन्नपि पक्षे एतत्करण्यर्धेन श्रोण्यंसानां विहरणम् ॥
(तां युगेन परिमिमीते )
तामुत्तरवेदिं युगप्रमाणेन । तदुक्तं “षडशीतिर्युगम्” इति । तेन वा यजमानस्य वा पदैर्विमाय पश्चाददृष्टार्थं शम्यया सर्वतो मिमीते । शम्याप्रमाणं चोक्तं सूत्रान्तरे “षट्त्रिंशच्छम्या” इति पशुबन्धे त्वन्यस्याभावात्परिमाणार्थमेव शम्याविधानम् । मात्रैवास्यै सेति लिङ्गाच्च । अस्मादेव वचनात्सौमिक्युत्तरवेदिर्युगमायपि लभ्यते (भवति) ॥
सुन्दरराजीया व्याख्या.
(दशपदोत्तर निर्हरेत्)
दशपदासर्वतः । क्षेत्रतःशतपदा ।
(तां युगेन परिमिमीते)
युगमपि दशपदाया एव मानसाधनं वेणुवत् । केचित्तस्यतन्त्रं प्रमाणमाहुः, अतद्विचारणीयं सूरिभिः । यजमानग्रहणं अध्वर्युनिवृच्यर्थम् । शम्यया परिमाणमदृष्टार्थम् ।
कपर्दिक्षाष्यम्.
विश्वास-प्रस्तुतिः
पदे युगेऽरत्नावियति शम्यायां च मानार्थेषु यथाकामी शब्दार्थस्य विशयित्वात् ॥ ६.१० ॥
English
One may take such value of pada, yuga, aratni and śamyā as one may wish when these (words) are used as units of measure, on account of uncertainty in the meaning of these terms.
मूलम्
पदे युगेऽरत्नावियति शम्यायां च मानार्थेषु यथाकामी शब्दार्थस्य विशयित्वात् ॥ ६.१० ॥
टीका
पदादिषु मानार्थेषु यथाकामीयथेच्छा तथा गृह्णीयात् । किमुक्तं भवति ॥
अणवश्चतुर्दश तिलः
चतुस्त्रिंशत्तिलाः अङ्गुलः (पृथुतःसंस्पृष्टा इत्यपरम्)
द्वादशाङ्गुलाः प्रादेशः
त्रयोदशाङ्गुलः वितस्तिः
पञ्चदशाङ्गुलं पदम्
चतुर्विंशत्यङ्गुलयः अरत्निः
द्वात्रिंशदङ्गुलयः जानुः
षट्त्रिंशदङ्गुला शम्या
षडशीत्यङ्गुलं युगम्
चतुःशतं अक्षः
विंशत्युत्तरं शतं पुरुषः
इत्येवमादिशुल्बान्तरोक्तलक्षणमानार्थेषु प्रमाणावयवा गृह्येरन् । लक्षणे वर्गेण विमाय तत्र यथाकामी शब्दार्थस्य विशयित्वात् । पञ्चदशाङ्गुलं पदमपि भवति । यजमानपदमपि । तत्रान्यतरद्ग्राह्यमित्याधाने । इयद्द्वादशविक्रामा इति । तत्र स्वसंवित्तिं अपरसंवित्तिं लोकप्रसिद्धिं शास्त्रप्रसिद्धिं वा गृह्णीयादित्यर्थः ।
विश्वास-प्रस्तुतिः
विमितायां पुरस्तात्पार्श्वमान्या उपसंहरेत् । श्रुतिसामर्थ्यात् ॥ ६.११ ॥
English
In the measurement, the two sides should lie along the east according to tradition.
English - comment
6.9-6.11. Units of measure. The units like yuga, pada, śamyā, aratni and others are relative measures (vide Bśl. 1.3).
मूलम्
विमितायां पुरस्तात्पार्श्वमान्या उपसंहरेत् । श्रुतिसामर्थ्यात् ॥ ६.११ ॥
टीका
एवं चतुरश्रे आपादिते पार्श्वमान्या पुरस्तादु पसंहरेत्, श्रुतिसामर्थ्यात्"“चतुःशिखण्डे युवती कनीने"इति युवतिसादृश्यानुवादः सामर्थ्यम् ॥
इति षष्ठःखण्डः.
करविन्दीया व्याख्या.
(पदे युगे विशयित्वात्)
पदे युगेऽरत्नावियति प्रादेशे प्रक्रमे शम्यायां चेति हिरण्यकोशिशुल्बे बोधायनीयशुल्बे च । अथाङ्गुलीप्रमाणं चतुर्दशाणवः चतुस्त्रिंशत्तिलाः पृथुसंश्लिष्टा इत्यपरम् । दशाङ्गुलं क्षुद्रपदम् । द्वादश प्रादेशः । पृथोत्तरयुगे त्रयोदशिके प्रक्रामे च (पञ्च) दश । अष्टाशीतिशतमीषा । षडशीतिर्युगम् । द्वात्रिंशज्जानुः षट्त्रिंशच्छम्या, बाहुर्द्द्विपदः प्रकामः, द्वौ प्रादेशावरत्निरिति । तथा पञ्चा रत्निः पुरुषश्चतुररत्निर्वा याम इति च । तत्रैव इयत्यग्रे जुहोति, इयत्यग्रे हरति, इयन्तं गृह्णाति, इयन्तं करोति, इयद्भवतीत्यादि ब्राह्नणव्याख्यानावसर एवाचार्येण जानुदघ्नादिभिः परिमाणैर्व्याख्यातः । तत्र पदादिषु मानसाधनवया निर्दिष्टेषु याथाकामी स्याद्यथेच्छा तथा कुर्यादित्यर्थः । शब्दार्थस्य विशयित्वादिति गतम् । अयमर्थःपदादिषु यजमानस्याध्वर्योर्वावयवभूताङ्गुल्या परिकल्पितानि अणुतिलपरिकल्पिताङ्गुल्या परिकल्पि तानि वा पदादीनि गृह्नीयात् । पदादिशब्दार्थस्योभयत्रापि प्रयुक्तत्वादिति । अणवो धान्यविशेषाः । (आचार्येणैव निरूढपशौ रथ परिमाणज्ञानार्थं तक्षशास्त्रोक्तादष्टाशीतिशतमित्युदाहरणात्, श्येनेपञ्चारत्निः पुरुष इत्यादेः क्ल्प्तिशब्देन प्रमाणविदां समयानुकथनान्न शास्त्रान्तरपरिगृहीताङ्गुलिपदादिपरिग्रहानुयोगः । द्विपदस्त्रिपदो वेति प्रक्रमप्रस्तावे यजमानस्याध्वर्योर्वेति वचनान्न केवलमवयवादिविमिताङ्गुलिपरिच्छिन्नपदादिग्रह्रणम्) ॥
प्रासाङ्गुकं परिसमाप्य प्रस्तुतशेषं ब्रूते
(विमिता सामर्थ्थात्)
व्याख्यातमेतद्दार्शिक्याम् । इह तु श्रुतिसामर्थ्यात्"चतुःशिखण्डे युवती कनीने” इद्यस्याः श्रुतेरहीयसीं पुरस्तादित्येक इत्युपसंहाराच्च विकल्पः कर्मोपदेश उक्तः ॥
षष्ठ.खण्डः.
सुन्दरराजीया व्याख्या.
(पदयुगे विशयत्वात्)
पदचातुर्विध्यमुक्तम् । युगत्रौविध्यं च षडशीतिषण्णवतिशताङ्गुलैः । अरत्निर्द्विविधःचतुर्विंशत्यङ्गुलो हस्तश्चेति । इयानिति प्रादेशोऽभिप्रेतः । स च द्विविधःद्वादशाङ्गुलः प्रसारिते अङ्गुष्ठप्रेदशिन्याविति । शम्या त्रिविधा"चत्वारोऽष्टद्वात्रिंशदङ्गुला शम्या, इति कात्यायनः । “षट्त्रिंशच्छम्या” इति होधायनः, लौकिकी तृतीया । एषु मानेषु याथा काम्यं भवति, शब्दार्थस्यानेकत्र वृत्तैः ।
(विमितायांसामर्थ्यात्)
अंहीयसी पुरस्तादिति अस्य वैकल्पिकत्वं प्रागेवोक्तम् ॥
षष्ठ.खण्डुः
कपर्दिभाष्यम्.