०४

पूर्वमविशेषेण मानमुक्तम्, अस्येयानायामः इयान्विस्तर एवं च विहर्तव्यमिति । विशेषविधानार्थमाह

English - comment

RELATIVE POSITIONS AND DISTANCES OF GĀRHAPATYA, ĀHAVANĪYA AND DAKSIṆĀGNI AND CONSTRUCTION OF DĀRŚIKYĀ VEDI

विश्वास-प्रस्तुतिः

आग्न्याधेयिके विहारे गार्हपत्याहवनीययोरन्तराले विज्ञायते ॥ ४.१ ॥

English

The distance between the gārhapatya and the āhavanīya in the arrangement for the laying of sacrificial fires is known from the tradition.

मूलम्

आग्न्याधेयिके विहारे गार्हपत्याहवनीययोरन्तराले विज्ञायते ॥ ४.१ ॥

टीका

गार्हपत्याहवनीययोरन्तरालं यथा स्यान्नाहवनीयदक्षिणाग्नयोः दक्षिणाग्निगार्हपत्ययोर्वा मा भूदित्येवमर्थं गार्हपत्याहवनीयग्रहणम् । विज्ञायतेश्रूयते । श्रुतिर्वक्ष्यमाणा ।

विश्वास-प्रस्तुतिः

अष्टासु प्रक्रमेषु ब्राह्मणोऽग्निमादधीत । एकादशसु राजन्यः । द्वादशसु वैश्यः ॥ ४.१ ॥

English

The Brāhmaṇa has to place it (the āhavanīya) (at a distance of) 8 prakramas, the prince 11 prakramas and the merchant 12 prakramas (from the garhapatya towards east).

मूलम्

अष्टासु प्रक्रमेषु ब्राह्मणोऽग्निमादधीत । एकादशसु राजन्यः । द्वादशसु वैश्यः ॥ ४.१ ॥

विश्वास-प्रस्तुतिः

चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते ॥ ४.२ ॥

English

For general use and not for any particular class, this distance is indefinite, (about) 24 prakramas to be ascertained by eye estimation and should not deviate from it much.

मूलम्

चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते ॥ ४.२ ॥

टीका

प्रक्रमेण प्रमाणं वक्ष्यति । अष्टौ प्रक्रमानतीत्य गार्हपत्यादाहवनीयं प्रतिष्ठापयति । एवमेकादशसु राजन्यस्य । वैश्यस्यद्वादशसु । चतुर्विंशत्या वा परिमिते वा यावाता वा चक्षुषा मन्यते । तस्मान्नादिदूरमाधेयः इति सर्वेषामविशेषेण श्रूयते । यावता वेति सर्वेषां विधिर्विकल्वेन । इयतान्तरालेन विहारसंपत्तिर्भवतीति मननम् । अतिदूरप्रतिषेधो व्यवायपरिहारार्थः । यद्यतिदूरमाधीयते तदा श्वादयो व्यवेयुः ।

करविन्दिया व्याख्या

उक्ताःसामान्यतो विहाराः । इदानीं दर्शपूर्णमासादिषु विशेषविवक्षया प्रथमभूताग्नयाधेयविहारयागविधिरुच्यते । अग्नय अधीयन्तेऽस्मिन् कर्मणीति तदग्नयाधेयम् । तभ्दव आग्नया धेयिकः । विह्रियन्तेऽस्मिनग्नय इति विहारः, देवयजनेदशः, तमधिकृत्य । गार्हपत्याहवनीययोरन्तरालेगार्हपत्याहवनीय शब्दाभ्यां तत्तदायतने लक्षणा अन्तराल श्रुतिसामर्श्यात्, अन्तराले अन्तरालं प्रस्तुत्य विज्ञायते श्रूयते । सर्वत्र विज्ञायत इत्यस्यायमेवार्थः गार्हपत्याहवनीयग्रहणात्, तयोरेवान्तराले । श्रुतिरेवं पठ्यते

अष्टासु प्रक्रमेषु ब्राह्नणोऽग्नीनादधीतैकादशसु राजन्यो द्वादशसु वैश्यः चतुर्विंशत्यामपरिमिते यावता वा चश्रुषा मन्यते तस्मान्नातिदूरमाधेय इति ॥ सर्वेषामविशेषेण्.अ श्रूयते । प्रक्रमं वक्ष्यति द्विपदस्त्रिपदो वेति । अष्टप्रक्रमादयोऽन्तरालविशेषणम् । अष्टासु प्रक्रमेष्वन्तराले इत्यादि । अपरिमितसंख्यायां तच्चतुर्विंशतेः परतः तदानन्तर्यात्, अपरिमितं प्रमाणात्भूयः, इति कात्यायनः । यावता वा चक्षुषा मन्यते तावता प्रमाणेन चक्षुषा गृहीतेन मन्यते यथा इयांश्चतुर्विंशति प्रक्रम इति चक्षुषा मानम् । यद्यपि चतुर्विशतेः परत एव पठ्यते तथापि द्वादशसु विक्रमेष्वित्यारभ्य यं द्वादशसु विक्रामेषु इत्यादितैत्तिरीयकश्रुत्यनुरोधादष्टप्रक्रमादीनमपि सर्वेषां ग्राह्यं, तेन इयानष्टप्रक्रम इयानेकदश इयान्द्वादशप्रक्रम इति संभवति । तस्माच्चतुर्विंशतेरदूरमतिदूरेनाधेयम् । अनेनापरिमितवचनप्राप्तातिदूरता निषिध्यते । चतुर्विंशतिविधानादेवेतः प्रागतिदूरा योगाः । चतुविंशत्यादि विधिचतुष्टयं सर्वेषां ब्राह्मणादीनामविशेषेण भवति । द्वादशसु विक्रमेष्वित्यपि सर्वेषामविशेषेण लभ्यते ॥

सुन्दहहाजीया व्याख्या

(आग्नयाधेयिके वैश्यः)

गार्हपत्यस्य पुरस्तादेतेषु प्रक्रमेष्वतीतेष्विति विज्ञायते अथ सावर्णिकी श्रुतिः ।

(चतुर्विंशत्या श्रूयते.)

अपरिमितं “प्रमाणाभ्दूय” इति कल्पान्तरम् । चक्षुषा मन्यत इति दण्डादिमाननिषेधः । इयानष्टौ प्रक्रमाः, इयानेकादश इयान् द्वादशेति चक्षुक्षा यावन्तं देशं मन्यते तस्मान्नातिदरं तस्यावधेःसमीप आधेयः । एतत्सर्वं प्रयोगकाल एवोक्तमनूद्यते ।

कपर्दिभाष्यम्

विश्वास-प्रस्तुतिः

दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेर्विज्ञायते ॥ ४.३ ॥

English

According to tradition, the (place of the) dakṣiņāgni is near the south-east corner of the third part of the distance of the gārhapatya (from the āhavanīya).

मूलम्

दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेर्विज्ञायते ॥ ४.३ ॥

टीका

दक्षिणतः पुरस्तात्दक्षिणाप्राक्कोणे देशे वितृतीयदेशेईषदूनतृतीयदेशेकस्य वितृतीयदेशःगार्हपत्याहवनीययोरन्तरालस्य नेदीयसि आसन्नतृतीयदेशे पार्श्वादित्यर्थः । तत्र दक्षिणाग्नेरायतनमिति श्रूयते ।

करविन्दीया व्याख्या.

(दक्षिमतःविज्ञायते)

दक्षिणतः पुरस्तात्दक्षिणाप्राक्कोणदेशे तस्य गार्हपत्यस्य नेदीयसि सन्निकृष्टे तस्यैव वितृतीयदेशे विशब्दो हीनवचनः किञ्चिद्धीनतृतीयदेशान्तराले दक्षिणाग्रेरायतनं श्रूयते ॥

सुन्दरराजीया व्याख्या.

दक्षिणाग्रयायतनविधानाथमाह ।

(दक्षिणतःविज्ञायते)

वितृतीयदेशे विकलतृतीयदेशे ईषदूनतृतीयदेश इत्यर्थः । गार्हपत्यस्य दक्षिणतः पुरस्तात्तस्यैव नेदीयसि वितृतीयदेशे दक्षिणाग्रेरायतनमिति ॥

कपर्दिभाष्यम्.

तत्कथं गृह्यत इत्याय ।

विश्वास-प्रस्तुतिः

गार्हपत्याहवनीययोरन्तरालं पञ्चधा षड्धा वा संविभज्य षष्ठं सप्तमं वा भागमागन्तुमुपसमस्य समं त्रैधं विभज्यापरस्मिंस्तृतीये लक्षणं कृत्वा गार्हपत्याहवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति तद्दक्षिणाग्नेरायतनम् । श्रुतिसामर्थ्यात् ॥ ४.४ ॥

English

The distance between the gārhapatya and the āhavanīya is divided into five or six (equal) parts, a sixth or a seventh part is added, the whole (of the cord measuring the original distance plus the added part) is divided into three (equal) parts, and a mark is given at the end of the third part from the western end. (With two ties) fastened to (poles at) the two ends of (the distance between) the gārhapatya and the āhavanīya, the cord is stretched to the south by the mark and a pole fixed (at the point reached by the mark). This is the place of the dakṣiṇāgni. This is according to Śruti.

English - Comment

4.1-4.4. Āpastamba has assigned here the relative places of gārhapatya, āhavanīya and dakṣiṇāgni. Baudhǎyana’s second method is given by Āpastamba. For detail, vide Bśl. 3.1 - 3.5.

मूलम्

गार्हपत्याहवनीययोरन्तरालं पञ्चधा षड्धा वा संविभज्य षष्ठं सप्तमं वा भागमागन्तुमुपसमस्य समं त्रैधं विभज्यापरस्मिंस्तृतीये लक्षणं कृत्वा गार्हपत्याहवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति तद्दक्षिणाग्नेरायतनम् । श्रुतिसामर्थ्यात् ॥ ४.४ ॥

टीका

गार्हपत्याहवनीययोरन्तरालं पञ्चधा विभज्य षड्धा वा विभज्येत्यन्वयः । यदि पञ्चधा तदा षष्ठो भाग आगन्तुः । षष्ठं सप्तमं वा भागं आगन्तुमुपसमस्य समं त्रैधं विभज्य । यदि षोढा तदा सप्तमो भागः आगन्तिः । तमुपसमस्य संयोज्य, समं त्रैधं विभज्य॑ आगन्तुना सह विषमं माभूदिति समग्रहणम् । अपरस्मिंस्तृतीये लक्षणं कृत्वा गार्हपत्यावहनीययोरन्तौ नियम्य पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य शङ्कं निहन्यात् । दक्षिणाग्निस्थानं श्रुतिसामर्थ्यात् । सामर्थ्यमभिधानशक्तिः अस्याःश्रुतेरयमेवार्थं इति । तेन गार्हपत्याहवनीय योरन्तरालं, त्रिप्रथमविस्तारायामानि त्रीणि चतुरश्राणि कृत्वापरस्मिन् चतुरश्रे उत्तरस्यां श्रोण्यां गार्हपत्यं दक्षिणेंऽसेदक्षिणाग्नयायतनं पूर्वस्मिन् चतुरश्रे, उत्तरेंस आहवनीयमित्येवमादयो निरस्ता भवन्ति । सर्वत्राग्नयायतनानि चतुरश्राणि मण्डलानि वा । इह तु मण्डलं गार्हपत्यमर्धमण्डलाकारमन्वाहार्यपचनम् । चतुरश्रमाहवनीयमिति स्मरन्ति मण्डलचतुरश्रयोरुक्तो विधिः । इदानीं दक्षिणाग्नेः धनुराकार उच्यतेपिशीलद्विकरण्या चतुरश्रं कृत्वा पूर्वोक्तेन विधानेन मण्डलं कुर्यात् । तस्य मण्डलस्य विष्कम्भचतुर्भागं दक्षिणाग्नेः पूर्वनिहताच्छङ्कोरुदगपसार्य शङ्कं निहत्य तस्मिन्पाशं प्रतिमुच्य विष्कम्भार्धेन मण्डलं परिलिख्योत्तरमर्धं त्यजेत् । तत्र श्लोकौ भवतः

दक्षिणाग्नेर्हताच्छङ्कोरुदक्छङ्कुर्दशाङ्गुले ।

एकादशतिलैरूने कार्यस्य धनुषा समः ॥

तस्मिन्पाशं प्रतिमुच्य विंशत्यायतया लिखेत् ।

ऊनया तु द्वाविंशतितिलैरर्धं त्यजेदुदक् ॥

इति ।

करविन्दीया व्याख्या

गार्हपत्याहवनीययोःश्रुतिसामर्थात्.

एतस्य विहरणमाह

गार्हपत्याहवनीययोरन्तरालमष्टप्रक्रमादिकं दञ्चधा षोढा वा संभुज्य गुणयित्वा षष्ठं सप्तमं वा भागमागन्तुमुपसमस्पञ्चधा गुणने षष्ठं षोढा गुणने भागमुमसमस्य संयोज्यागन्तुन् तृतीये गार्हपत्यसन्निहिते तृतीये लक्षणं निरञ्जनं कृत्वा गार्हपत्याहवनीययोरन्तौ नियम्य रज्ज्वन्तौ पाशौ गार्हपत्यस्य पूर्वशङ्कौ पश्चिमं पाशमाहवनीयस्य पश्चिमशङ्कौ पूर्वं पाशे प्रतिमुच्य लक्षणेन दक्षिणापायम्य निमित्तं चिह्नं तत्र कुर्यात् । तन्निमित्तं धनुराकृतेर्दक्षिणाग्नेर्मध्यमं, विशेषाश्रवणात् । गार्हपत्याहवनीययोर्मध्यमशङ्क्वोरन्तौ नियम्येति केचित् । श्रुतिसामर्थ्यात् । “दक्षिणतः पुरस्तात्” इत्यादि श्रुतिबलादित्यर्थः । अत्र पञ्चधापक्षे गार्हपत्याहवनीययोरन्तरालस्य दक्षिणाग्नयायतनमध्योपक्रान्ताद्दक्षिणोत्तरलम्बात्पश्चिमो भाग एकत्रिंशदङ्गुलयः त्रिभागोनसप्ततिलाश्च । पूर्वभागोऽष्टाविंशतिरङ्गुलयः त्रिभागाधिकसप्तविंशतितिलाश्च । लम्बकः षट्त्रिंशदङ्गुलयः पादोनषोडशतिलाश्च । षड्धापक्षे द्वात्रिंशदङ्गुलयः सार्धसप्तविंशतितिलाश्च पूर्वभागः । लम्बकस्त्रिंशदङ्गुलयः सप्ततिलाश्च । पादाष्टकमितेऽन्तरालवत्प्रक्रमिते एकादशादिषु च भागयोर्लम्बकस्य प्रमाणमुन्नेयं, उन्नयनप्रकारं चात्रैव वक्ष्यामः । अत्राप्यायतनानि पिशीलमात्राणि, अथवा अस्यैष धिष्ण्यो लीयत इति प्राजहितस्यापि धिष्ण्यत्वदर्शनादायतनानां चतुरश्रमण्डलत्वयोरनियमेन प्राप्तयोरपि मण्डजलमेव गार्हपत्यायतनं अग्ननयो वै त्रयी विद्येत्यत्रानुवाकपर्याये तस्य पृथिवीस्तुतेः तदाकारत्वाच्चतस्याः अर्धमण्डलाकारं धनुराकारं दक्षिणाग्नयायतनं, तत्रैवान्तरीक्षस्तुतेः तदाकारत्वाच्च नभसश्चतुरश्रमाहवनीयम्, तत्रैव द्युलोकस्तुतेः चतुरश्रमैन्द्रस्थानमिति शास्त्रान्तरे दर्शनाच्च सभ्यावसथ्ययोरपि चतुरश्रमेव, तयोस्तद्द्विकारत्वात् । अत्र योगः गार्हपत्यायतने पिशीलमात्रं चतुरश्रं विहृत्य मण्डलं कुर्याद्दक्षिणाग्नेरपि वचनात्, विशीलद्विकरण्या चतुरश्रं विहृत्य मण्डलक्टित्य मण्डलविष्कम्भचतुर्भागेन दक्षिणाग्ननयायतनं तन्निमित्तादुत्तरतःशङ्कुं निहत्य तत्र शङ्कौ तद्विष्कम्भमध्यं नियम्यान्तौ समौ कृत्वा मण्डलं विलिख्य मण्डलध्ये प्राचीं लेखां विलिख्य उदगर्धं त्यजेत् । दक्षिणार्ध आयतनं गार्हपत्यस्य पुरस्तादष्टप्रक्रमादीनतीत्य पिशीलमात्रं चतुरश्रमाहवनीयं कुर्यात्तत्पुरस्तात्सञ्चरमवशिष्य आहवनीयवत्सभ्यं तत्पुरस्तादावसथ्यमपि । तद्वत्पिशीलप्रमाणं च । द्विप्रादेशं पिशीलम् । मुष्टिकृतोऽरत्निः पिशीलमित्येके । बाह्वोरन्तरालं पिशीलमित्येक इति केचित् । प्रक्रम्यत इति पक्रम इति पदस्यापि प्रक्रमतामिच्छन्ति । तथापि लभ्यते, अयमत्र विमानक्रमःगार्हपत्याहवनीयधिष्णियौ विमाय गार्हपत्याहवनीययोरन्तरालमित्यादि दक्षिणापायम्य नियम्य निमित्तं कृत्वा तेनैव लक्षणेनोत्तरतश्च निमित्तं विपर्यस्य दक्षिणत उत्तरतश्च निमित्तं कृत्वा पिशीलद्विकरणीचतुरश्रमण्डलीवष्कम्भचतुर्थांशेन दक्षिणयोर्निमित्तयोरुदक्कृतनिमित्तद्वयानुकूल्येन शङ्कुं निखनेत् । अनयोः पश्चिमशङ्कौ पिशीलद्विकरणी चतुरश्रमण्डलविष्कम्भार्धेन मण्डलमालिख्य पुर्वशङ्क्वानुकूल्येन प्राचीं ज्ञात्वा मण्डलस्योत्तरार्धं त्यजेत् । दक्षिणार्धो दक्षिणाग्निधिष्णियो भवति ।

सुन्दरराजीया व्याख्या.

(गार्हपत्याहवनीययोःश्रुतिसामर्थात्.)

तत्कथं ग्राह्यमित्यत आह

समं सर्वं, गार्हपत्याहवनीययोः गार्हपत्यस्य पौरस्त्ये शङ्कौ आहवनीयस्य पाश्वात्ये शङ्कौ च दक्षिणतो दक्षिणाग्नयायतनम् । तदायतनमध्यमित्यन्ये । तस्मिन्, पक्षे गार्हपत्याहवनीययोरापि मध्ययोरेव ग्रहणम् । सर्वाण्येवाग्रयायतनानि पिशीलमात्राणि चतुरश्राणि परिमण्डलानि वा धिष्णियत्वान्मण्डलं गार्हपत्यस्य । अर्धमण्डलं दक्षिणाग्नेश्चतुरश्रमाहवनीयस्येत्यैतिहासिकाःसर्वाणि चायतनानि क्षेत्रतस्तुल्यानीत्याहुः । तत्रोक्तो मण्डलविधिः आहवनीयस्याक्ष्णयारज्ज्वा चतुरश्रं विहृत्य विधानेन मण्डलं कृत्वा उत्तरार्वं जह्यात्तद्दक्षिणाग्नयायतनम् ॥

कपर्दिक्षाष्यम्

विश्वास-प्रस्तुतिः

यजमानमात्री प्राच्यपरिमिता वा यथासन्नानि हवींषि संभवेदेवं तिरश्ची प्राञ्चौ वेद्यंसावुन्नयति । प्रतीची श्रोणी पुरस्तादंहीयसी पश्चात्प्रथीयसी मध्ये संनततरैवमिव हि योषेति दार्शिक्या वेदेर्विज्ञायते ॥ ४.५ ॥

English

The east-west line (prācî) has the measure of the sacrificer (96 angulas) or of indefinite measure like that of clarified butter in relation to fire. Such is the case with the breadth. The two amsas (shoulders) of the fire-altar are to be raised in the east and the two śroṇīs (hips) in the west. It (the altar) is shorter on the eastern side, broader on the western side and curved in the middle. It is like a wooden doll. Such is the tradition of the dārśikyā fire-altar.

मूलम्

यजमानमात्री प्राच्यपरिमिता वा यथासन्नानि हवींषि संभवेदेवं तिरश्ची प्राञ्चौ वेद्यंसावुन्नयति । प्रतीची श्रोणी पुरस्तादंहीयसी पश्चात्प्रथीयसी मध्ये संनततरैवमिव हि योषेति दार्शिक्या वेदेर्विज्ञायते ॥ ४.५ ॥

टीका

यजमानमात्रीत्यादि दार्शिक्यावेदेःश्रुतिः । अस्याःश्रुतेरर्थं विमानविधिनैव व्याचष्टे ।

करविन्दिया व्याख्या

आयतनविहरणानन्तरं प्रकृतिभूतयोर्दर्शपूर्णमासयोर्विहरणमुच्यते ।

(यजमानमात्रीवेदेर्विज्ञायते.)

यजमानमात्रीति ॥ .॥ यजमामात्री षण्णवत्यङ्गुला प्राक्त्वेनापरि मिता । तदधिका प्राची प्राङ्मुखा, संभवो व्याप्तिः, यथा हवींषि परस्परसंबन्धेन आसन्नानि भवन्ति तथा तिरश्वी तिर्यङ्भानी स्यात्, आयामस्य त्रिभागोना पश्चत्तिरश्वी । “आयामास्यार्धेन पुरस्तात्तिरश्वी” इति बोधायनः । पशुबन्धे च तथा दृश्यते, अरत्निभिर्वा चतुर्भिः पश्चात्षड्भिः प्राची त्रिभिः पुरस्तादिति, विकृतिषु वहुहविःषु भहुविस्तारा, अल्पहविः षु प्रकृतिवत् । प्राञ्चौ वेद्यंसावुन्नयति प्राक्त्वेन पूर्वान्तमतीतावंसौ कुर्यात्प्रतीची श्रोणी तथा पृथक्त्वेन श्रोण्याकुर्यातंहीयसीतन्वी प्रथीयसी विस्तीर्णा सन्नततरा अतिशयेन तनुः, एवमिव हि योषेति । एवमिवहीति शब्दो निपातसमुदायः प्रसिद्धवचनः । यथाएवमिव हि पशुः, एवमिव ह्यन्नमद्यत इति । एतदेव हि योषा सादृश्यमस्याः । यन्मध्ये कृशत्वं पृथ्वंसत्वं पृथुतरश्रोणीत्वं च । एतत्"चतुःशिखण्डा युवतिःसुपेशा" इति मन्त्रवर्णाच्च लभ्येत, दार्शिक्या वेदेः दर्शपुर्णमासयोःसाधारणा" पि वेदिः दर्शे पूर्वेद्युर्द्दश्यतया दार्शिकीत्युच्यते । यद्वादर्शपूर्णमासयोरेकशेषं कृत्वा निर्देशः,

सुन्दरराजीया व्याख्या

(यजमानमात्री विज्ञायते.)

यजमानमात्री चतुररत्निः पञ्चारत्निर्वा यथाऽसन्नानि हवीषि संभवेत्संगृह्णीयात् । एवं तिरश्वी अर्धलक्षणं तिर्यगित्यर्थः । उन्नयति दीर्घं नयति । प्रतीची प्रतीच्या योषासादृश्यं च “चतुःशिखण्डा” इति मन्त्रवर्णात्दर्शिक्याः दर्शपूर्णमासिक्याः ।

कपर्दिक्षाष्यम्

विश्वास-प्रस्तुतिः

अपरेणाहवनीयं यजमानमात्री दीर्घं चतुरश्रं विहृत्य तावतीं रज्जुमायम्य मध्ये लक्षणं कृत्वा दक्षिणयोः श्रोण्यंसयोरन्तरा नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति । निमित्ते रज्जुं नियम्यान्तौ समस्य । दक्षिणायाः श्रोणेर्दक्षिणमंसमालिखेत् । एवमुत्तरतः । तिर्यङ्मानीं द्विगुणां तथा कृत्वा पश्चात्पुरस्ताच्चोपलिखेत् । विमितायां पुरस्तात्पार्श्वमान्यावुपसंहरेत् । श्रुतिसामर्थ्यात् ॥ ४.६ ॥

English

To the west of the āhavanīya is constructed the four-sided elongated figure of which the length has the measure of the sacrificer (96 angulas). A cord equal to this measure is increased by itself and a mark given at the middle. With the two ties (of the cord) fastened to the (poles at the) south-western and south-eastern corners, it is stretched towards the south by the mark and a pole fixed (at the spot reached by the mark). Fixing both ends of the cord. at this pole, an arc of a circle is drawn from the south-western to the south-eastern corner (with the middle mark of the cord). The same is done on the northern side (of the fire-altar). The western and the eastern sides are to be similarly circumscribed by means of a cord double the (respective) side.

English - Comment

4.5-4.6. Āpastamba has followed Baudhāyana’s method of construction of dāršikyā vedi (vide Bśl. 3.6-3.8). The only difference is that Baudhāyana used an isosceles trapezium whereas Āpastamba took a rectangle.

मूलम्

अपरेणाहवनीयं यजमानमात्री दीर्घं चतुरश्रं विहृत्य तावतीं रज्जुमायम्य मध्ये लक्षणं कृत्वा दक्षिणयोः श्रोण्यंसयोरन्तरा नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति । निमित्ते रज्जुं नियम्यान्तौ समस्य । दक्षिणायाः श्रोणेर्दक्षिणमंसमालिखेत् । एवमुत्तरतः । तिर्यङ्मानीं द्विगुणां तथा कृत्वा पश्चात्पुरस्ताच्चोपलिखेत् । विमितायां पुरस्तात्पार्श्वमान्यावुपसंहरेत् । श्रुतिसामर्थ्यात् ॥ ४.६ ॥

टीका

इति चतुर्थखण्डः.

अपरेणाहवनीयं एकरज्ज्वादिभिदीर्ङ्घं चतुरश्रं विहृत्य संपाद्य यजमानमात्री पार्श्वमानी यथा सन्नानि हवींषि संभवेत्परस्परासंघटितानि तिष्ठन्ति तथा तिर्यङ्भानी । तस्यास्त्रिभागोन वा तिरश्वीति बोधायनीये शुल्बान्तरे प्रतिपादितम् । तावतीं रज्जुमभ्यस्य उभयतः पाशौ कृत्वा दक्षिणयोःश्रोण्यंसयोरन्तौ नियम्य पाशौ प्रतिमुच्य लक्षणेन जक्षिणापायम्य निमित्तं शङ्कुं निहत्य तास्मिन् शङ्कौ रज्जुं संयोज्य पाशावुन्मुच्य तेन हस्तेन गृहीत्वा दक्षिणां श्रोणिमारभ्य यावद्दक्षिणांसमालिखेत् । एवमुत्तरपार्श्वमालिखेत् । एतत्सन्नतत्वं वेदेः । तिर्यङ्भान्याप्येवं कुर्यात् । तिर्यङ्भानीप्रमाणां रज्जुमभ्स्य मध्ये लक्षणं कृत्वा श्रोण्योरन्ते पाशौ प्रतिमुच्य पार्श्वादपसार्य तत्र शङ्कुं निहत्य तत्र रज्जु प्रबध्यान्तौ समस्य दक्षिणां श्रोणिमारभ्य यावदुत्तरा क्षोणी तावदालिखेत् । एवं पुरस्तादपि करोति । एवमुन्नयनं श्रोण्यंसौ । एवंप्रकारा हि योषा । हिशब्दो रूपप्रसिद्धौ । प्राक्छिराःस्त्री एवमेवेत्यर्थः । विमिताया मेवं चतुरश्रमापादितायां पुरस्तात्पार्श्वमान्यावुपसंहरेत्, सङ्कोचयेत् । श्रुतिसामर्थ्यात्"पुरस्तादंहीयसी" इति यैषा श्रुतिः तस्याःसामर्थ्यात् । इतरथा योषासादृश्यमपि न स्यात् ॥

इति चतुर्थःखण्डः

करविन्दीया व्याख्या

एताद्विहरणेन व्याचष्टे.

(अपरेणाहवनीयमेवमुत्तरतः.)

अपरेणेति । अपरेणाहवनीयं आहवनीयस्य पश्चात्समीपे । गार्हपत्याहवनीययोर्यद्यपि महदन्तरालं तथाप्याहवनीयसमीप एव वेदिः । केचिद्विस्तारद्विगुणायामं दीर्घमिच्छन्ति । उक्तप्रमाणं दीर्घचतुरश्रमाहवनीयमपरेण विहृत्य श्रोण्यंसेषु शङ्कुन्निहत्य यावदायामः तावतीं रज्जुमभ्यस्य आयामद्विगुणां रज्जुं कृत्वा मध्ये लक्षणं निरञ्जनं कृत्वा दक्षिमयोःश्रोण्यंसयोरन्तौ नियम्य निरञ्जनेन दक्षिणापायम्य शङ्कुं निहत्य तस्मिन् रज्जुं प्रतिमुच्य पाशावेकीकृत्य श्रोण्या आरभ्य यावदंसं वृत्तमार्गेणालिखेत् । उत्तरपार्श्व उत्तरतोऽपायम्य एवमेव कुर्यात् ॥

(तिर्यङ्भानीं द्विगुणांलिखेत्)

तिर्यङ्भानीमिति । पूर्वां तिर्यङ्भानीं पूर्ववद्द्विगुणां कृत्वा पुरतोऽपायम्य दक्षिणस्मदंसात्प्रक्रम्य उत्तरमंसमालिखेत्, पश्चिमया तिर्यङ्भान्या पश्चादप्येवमेव कुर्यात्, वेदिप्राचीमितां रज्जुं गार्हपत्याहवनीययोरन्तरालमित्युक्तप्रकारेण वेद्या दक्षिणोत्तरमायम्य पूर्ववद्द्वितृतीयदेशे लक्षणं कुर्यातुदग्बहिर्वेदेरुत्तरतः उत्तरार्थं लक्षणं च कृत्वा वेद्याः पश्चादप्यवेमेव वितृतीये लक्षणं कुर्यात्. गार्हपत्याहवनीययोर्मध्यंमध्यदेशः तत्र लक्षणं कुर्यात् ॥

(विमितायांश्रुतिसामर्थ्यात्.)

विमितायामिति । विमितायां चतुरश्रीकृतमात्रायां लेखाकरणात्प्रागेव पार्श्वमान्यौ पुरस्तात्पुरत उपसंहारेत्संकोचयेत् ।

इति चतुर्थः खण्डः.

सुन्दरराजीया व्याख्या.

(अपरेण श्रुतिसामर्थ्यात्)

तस्या विहरणमाह

निमित्ते रज्जुं रज्जुमध्यं नियम्य प्रतिमुच्य दक्षिणायै दक्षिणस्याः श्रोणेरारभ्य दक्षिणमंसं प्रत्यालिखेत् । तिर्यङ्भान्योरपि मध्ये लक्षणं कृत्वा श्रोण्योरंसयोश्वान्तौ नियम्य पश्चात्पुरस्ताच्चापायम्येत्यादि द्रष्टव्यम् । एतदेव श्रोण्यंसयोरुन्नयनम् । विमितायां चतुरश्रीकृतायां संनमनात्पूर्वमेव किञ्चिदुपसंहरेत्, “पुरस्तादंहीयसी” इति श्रुतिसामर्थ्यात् । अत्र बोधायनः

“यजमानमात्री प्राची, तस्या एवार्धं पुरस्तात्तिरश्वी, त्रिभागोना पश्चात्तिरश्वी त्रिंशत्पदानि” इति ॥

कपर्दिभाष्यं