मन्त्रः

##‌ अभिज्ञानम्

32 कर्मचोदना ब्राह्मणानि ...{Loading}...

कर्मचोदना ब्राह्मणानि ३२

33 ब्राह्मणशेषोऽर्थवादो निन्दा प्रशंसा ...{Loading}...

ब्राह्मणशेषोऽर्थवादो निन्दा प्रशंसा परकृतिः पुराकल्पश्च ३३

34 अतोऽन्ये मन्त्राः ...{Loading}...

अतोऽन्ये मन्त्राः ३४

35 अनाम्नातास्त्वमन्त्रा यथा प्रवरोहनामधेयग्रहणानीति ...{Loading}...

अनाम्नातास् त्वमन्त्रा यथा प्रवर+ऊह-नामधेयग्रहणानीति ३५

36 रथशब्दो दुन्दुभिशब्दश्च ...{Loading}...

रथशब्दो दुन्दुभिशब्दश्च ३६

03 आदिप्रदिष्टा मन्त्राः ...{Loading}...

आदिप्रदिष्टा +++(=मन्त्रादिनोपदिष्टा)+++ मन्त्राः ३

04 उत्तरस्यादिना पूर्वस्यावसानं विद्यात् ...{Loading}...

उत्तरस्यादिना पूर्वस्यावसानं विद्यात् ४

##‌ वचनम्

08 उच्चैरृग्वेदसामवेदाभ्याङ् क्रियते ...{Loading}...

उच्चैर् ऋग्वेद-सामवेदाभ्यां क्रियते ८

09 उपांशु यजुर्वेदेन ...{Loading}...

उपांशु यजुर्वेदेन ९

विश्वास-टिप्पनी

यज्ञकर्मण्यजपन्यूङ्खसामसु 1-2-34

इत्याह पाणिनिः।
तथा काशिकाकौमुद्यौ -

“अजपेति किम् । (ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु) । जपो नाम उपांशुप्रयोगः । यथा जले निमग्नस्य ।”

तेनात्र नैकश्रुतिः।

10 अन्यत्राश्रुतप्रत्याश्रुतप्रवरसंवादसम्प्रैषैश्च ...{Loading}...

अन्यत्राश्रुत-प्रत्याश्रुत-प्रवर-संवाद-संप्रैषैश् च १०

11 अन्तरा सामिधेनीष्वनूच्यम् ...{Loading}...

अन्तरा सामिधेनीष्वनूच्यम् ११

12 मन्द्रेण प्रागाज्यभागाभ्याम् प्रातःसवने ...{Loading}...

मन्द्रेण प्राग् आज्यभागाभ्यां प्रातःसवने च १२

13 मध्यमेन प्राक् स्विष्टकृतो ...{Loading}...

मध्यमेन प्राक् स्विष्टकृतो माध्यंदिने च १३

14 क्रुष्टेन शेषे तृतीयसवने ...{Loading}...

क्रुष्टेन शेषे तृतीयसवने च १४

15 वाक्सन्द्रवश्च तद्वत् ...{Loading}...

वाक्संद्रवश्च तद्वत् +++(=मन्द्रस्वरोक्ता मन्दा, कृष्टेनोक्ता वेगवती …)+++ १५

05 होत्रायाजमानेषु समुच्चयः ...{Loading}...

?? - होत्रायाजमानेषु समुच्चयः ५

06 विकल्पो याज्यानुवाक्यासु ...{Loading}...

विकल्पो याज्यानुवाक्यासु ६

07 सङ्ख्यासु च तद्वत् ...{Loading}...

संख्यासु च तद्वत् ७

08 क्रयपरिक्रयसंस्कारेषु द्रव्यसमुच्चयः ...{Loading}...

क्रयपरिक्रयसंस्कारेषु द्रव्यसमुच्चयः ८

##‌ प्रयोगः

37 स्वाध्यायेऽनध्यायो मन्त्राणान् न ...{Loading}...

स्वाध्यायेऽनध्यायो मन्त्राणां, न कर्मण्यर्थान्तरत्वात् +++(=प्रयोजनान्तरत्वात्)+++ ३७

38 एकमन्त्राणि कर्माणि ...{Loading}...

एकमन्त्राणि कर्माणि ३८

39 अपि सङ्ख्यायुक्तचेष्टापृथक्त्वनिर्वर्तीनि ...{Loading}...

अपि संख्या-युक्त-चेष्टा-पृथक्त्व-निर्वर्तीनि +++(= सङ्ख्यायुक्तानि यथा ““त्रिः प्रोक्षति”"। चेष्टा-पृथक्त्वनिर्वर्तीनि यथा मुसलाहरण-प्रहरणादिना सहावहननम्)३९

40 कण्डूयनस्वप्ननदीतराववर्षणामेध्यप्रतिमन्त्रणेषु च तद्वत्कालाव्यवेतेषु ...{Loading}...

कण्डूयन-स्वप्न-नदीतर+अववर्षणामेध्य-प्रतिमन्त्रणेषु च तद्वत् कालाव्यवेतेषु ४०

41 प्रयाणे त्वार्थनिर्वृत्तेः ...{Loading}...

+++(एकमन्त्राणि)+++ प्रयाणे त्वार्थनिर्वृत्तेः (=प्रयोजननिवृत्तेः यावत्, यथा सकृदेव प्रयाणमन्त्रः क्वचित्) ४१

42 असन्निपातिकर्मसु च तद्वत् ...{Loading}...

असंनिपातिकर्मसु (=द्रव्येषु यानि विकारान् न जनयन्ति)+++ च तद्वत् ४२

43 हविष्कृदध्रिगुपुरोऽनुवाक्यामनोतस्यावृत्तिर्भिन्नकालेषु ...{Loading}...

हविष्कृद्-अध्रिगु-पुरोऽनुवाक्यामनोतस्यावृत्तिर् भिन्नकालेषु ४३

44 वचनादेकङ् कर्म बहुमन्त्रम् ...{Loading}...

वचनादेकं कर्म बहुमन्त्रम् ४४

01 मन्त्रान्तेः कर्मादीन्सन्निपातयेत् ...{Loading}...

मन्त्रान्ते कर्मादीन् संनिपातयेत् ++++++(अन्तरं विना)++++++ १

02 आघारे धारायाञ् चादिसंयोगः ...{Loading}...

आघारे धारायां चादिसंयोगः २