अध्वर्युः
11 यो वा अध्वर्योर्गृहान्वेद ...{Loading}...
यो वा अध्वर्योर् गृहान् +++(नाम वक्ष्यमाणानि कर्माणि)+++ वेद - गृहवान् भवति । आ चतुर्थात् कर्मणो ऽभिसमीक्षेत - इदं करिष्यामीदं करिष्यामीत्येते +++(“प्रणयनं कृत्वाग्नीन् अन्वाधास्ये, ततश् शाखाहरणम्, ततो वत्सापकरणं करिष्ये”)+++ वा अध्वर्योर्गृहाः । य एवं +++(अध्वर्युमहत्त्वं)+++ वेद गृहवान् भवतीति विज्ञायते ११