प्रवासः

रुद्रदत्तटीखा ऽत्र। धूर्तस्वाम्य् अत्र

स्वस्त्ययनवाचनम् पृथग् उक्तम्।

निर्गमनम्

01 प्रवत्स्यन्सम्प्रेष्यत्यग्नीन्समाधेहीति ...{Loading}...

प्रवत्स्यन् +++(=ग्रामान्तरे रात्रिं वत्स्यन्)+++ +++(साहायकं कञ्चित्)+++ संप्रेष्यत्य् “अग्नीन् समाधेही"ति १

02 ज्वलत उपतिष्ठते ...{Loading}...

ज्वलत उपतिष्ठते २

03 पशून्नः शंस्य पाहि ...{Loading}...

“पशून्नः शंस्य पाहि, तान्नो गोपायास्माकं पुनरागमादि"त्याहवनीयम् ।
“प्रजां नो नर्य पाहि, तां नो गोपायास्माकं पुनरागमादि"ति गार्हपत्यम् ।
“अन्नं नो बुध्न्य पाहि, तन्नो गोपायास्माकं पुनरागमादि"त्यन्वाहार्यपचनम् ३

04 अन्तराग्नी तिष्ठञ्जपतीमान्नो मित्रावरुणा ...{Loading}...

अन्तराग्नी तिष्ठञ् जपति +“इमान्नो मित्रावरुणा गृहान् गोपायतं युवम् । अविनष्टान् अविहृतान् पूषैनान् अभिरक्षत्वास्माकं पुनरागमादि"ति ४

05 पूर्ववद्विराट्क्रमैरुपस्थायाशित्वा प्रवसथमेष्यन्नाहाग्नीन्समाधेहीति ...{Loading}...

पूर्ववद् विराट्क्रमैर् उपस्थायाशित्वा, प्रवसथमेष्यन्न् आह - “अग्नीन्समाधेही"ति ५

06 ज्वलत उपतिष्ठते प्रजाम् ...{Loading}...

ज्वलत उपतिष्ठते - “प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादि"ति गार्हपत्यम् ।
“अन्नं मे बुध्न्य पाहि तन्मे गोपायास्माकं पुनरागमादि"त्यन्वाहार्यपचनम् ।
“पशून्मे शंस्य पाहि तान्मे गोपायास्माकं पुनरागमादि"त्याहवनीयम् ६

07 मम नाम प्रथमञ् ...{Loading}...

“मम नाम प्रथमं जातवेद” इति च ७

08 वाग्यतोऽभिप्रव्रजति मा प्रगाम ...{Loading}...

वाग्यतो ऽभिप्रव्रजति “मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मान्तःस्थुर्नो अरातयः । उदस्माँ उत्तरान्नयाग्ने घृतेनाहुत । रायस्पोषेण संसृज प्रजया च बहून्कृधी"ति ८

09 आरादग्निभ्यो वाचं विसृजते ...{Loading}...

आरादग्निभ्यो वाचं विसृजते ९

प्रयाणम्

01 प्रवसन्काले विहारमभिमुखोऽग्न्युपस्थानञ् जपति ...{Loading}...

प्रवसन्काले विहारमभिमुखोऽग्न्युपस्थानं जपति १

02 इहैव सन्तत्र सतो ...{Loading}...

“इहैव सन् तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि ।
तिरो मा+++(ं)+++ सन्तमायुर्मा प्रहासीज्, ज्योतिषा वो वैश्वानरेणोपतिष्ठ” इति यद्यनुपस्थाय प्रवसेदेतयैवोपतिष्ठेत २

प्रत्यागतिः

03 समिधः कृत्वा प्रत्येति ...{Loading}...

समिधः कृत्वा प्रत्येति ३

04 यथा ह वा ...{Loading}...

यथा ह वा इतं पितरं प्रोषिवांसं पुत्राः प्रत्याधावन्त्येवं ह वा एतमग्नयः प्रत्याधावन्ति । स शकलान् दारूणि वाहरन्नेति, यथैव तत्पुत्रेभ्य आहरन्नेति । तादृक्तदिति विज्ञायते ४

05 आरादग्निभ्यो वाचं यच्छति ...{Loading}...

आरादग्निभ्यो वाचं यच्छति ५

06 यद्येनं राजा पिताचार्यो ...{Loading}...

यद्येनं राजा पिताचार्यो वान्तरेणाग्नीन्स्याच् +++(अगार)+++छदिर्दर्शे +++(स्थाने)+++ नैनमाद्रियेत ६

07 विश्वदानीमाभरन्तोऽनातुरेण मनसा अग्ने ...{Loading}...

“विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम । नमस्ते अस्तु मीढुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वः सं मा रय्या सृजेत्यभ्यै"ति ७

08 अग्नीन्समाधेहीति ...{Loading}...

“अग्नीन्समाधेही"ति +++(प्रेष्यति)+++८

09 ज्वलत उपतिष्ठते ...{Loading}...

ज्वलत उपतिष्ठते ९

10 पशून्नः शंस्याजूगुपस्तान्नः पुनर्देहीत्याहवनीयमभिप्राण्याग्ने ...{Loading}...

“पशून्नः शंस्याजूगुपस्, तान्नः पुनर्देही"त्याहवनीयमभिप्राण्य+++(=उपर्युच्छ्वस्य)+++
“अग्ने सहस्राक्ष शतमूर्धञ्, छतं ते प्राणाः, सहस्रमपानाः ।
त्वं साहस्रस्य राय ईशिषे, सहस्रधारस्य पयसः ।
तस्य नो रास्व तस्य ते भक्षीय
तस्य ते वयं भूयिष्ठभाजो भूयास्मे"त्याहवनीयम् १०

01 प्रजान् नो नर्याजूगुपस्तान् ...{Loading}...

“प्रजां नो नर्याजूगुपस्, तां नः पुनर्देही"ति गार्हपत्यमभिप्राण्य+++(=उपर्युच्छ्वस्य)+++
“अग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासं,
सुगृहपतिर् मया त्वं गृहपतिना भूयाः ।
शतं हिमाद्वायू राधांसीत् संपृञ्चानावसंपृञ्चानौ तन्व” इति गार्हपत्यम् १

02 अन्नन् नो बुÞयाजूगुपस्तन्नः ...{Loading}...

“अन्नं नो बुध्न्याजूगुपस्तन्नः पुनर्देही"त्यन्वाहार्यपचनमभिप्राण्यान्तराग्नी तिष्ठञ्जपति यथा प्रवत्स्यद् उपस्थाने २

03 अजूगुपतमभ्यराक्षीदिति मन्त्रं सन्नमति ...{Loading}...

“अजूगुपतम्, अभ्यराक्षीदि"ति मन्त्रं संनमति ३

04 मम नाम तव ...{Loading}...

“मम नाम तव च जातवेद” इति चतसृभिराहवनीयम् ४

05 प्रजाम् मे नर्याजूगुपस्ताम् ...{Loading}...

“प्रजां मे नर्याजूगुपस् तां मे पुनर्देही"ति गार्हपत्यम् अभ्यपान्य+++(=उपरि निश्वस्य)+++
“अन्नं मे बुध्न्याजूगुपस्, तन्मे पुनर् देही"त्यन्वाहार्यपचनमभ्यपान्य
“पशून्मे शंस्याजूगुपस् तान्मे पुनर् देही"त्याहवनीयमभ्यपान्य पूर्ववद् विराट्क्रमैर् उपतिष्ठते । अजूगुप इति मन्त्रं संनमति ५

06 अग्न्युपस्थानवदत्र समिधो दिशाञ् ...{Loading}...

अग्न्युपस्थानवदत्र समिधो +++(=“इन्धानास् त्वा शतं”)+++ दिशां चोपस्थानम् ६

दीर्घप्रवासः

07 नवमीञ् चेदतिप्रवसेन्मित्रो जनान्यातयति ...{Loading}...

नवमीं चेद् अतिप्रवसेन् “मित्रो जनान्यातयति प्रजानन्नि"ति मैत्र्योपस्थाय
“मनो ज्योतिर्जुषतामि"त्याहुतिं जुहुयात् ७

08 समिध आहुतिमुपस्थानमित्येवमनुपूर्वाण्येके समामनन्ति ...{Loading}...

समिध आहुतिमुपस्थानम् इत्येवमनुपूर्वाण्येके समामनन्ति ८

सङ्क्षिप्तविधयः

01 तदाहुर्नाग्निरुपस्थेयः कः श्रेयांसं ...{Loading}...

तदाहुर् नाग्निरुपस्थेयः- कः श्रेयांसं विषुप्तं बोधयिष्यतीति । +++(व्यक्तेषु त्वग्निषु तु)+++ “अभयंकराभयं मे कुरु+++(अकार्षीर् इति प्रत्यागमने)+++, स्वस्ति मेऽस्त्व्, अभयं मे अस्त्वि"त्येव ब्रूयात् - प्रवत्स्यदुपस्थानम् आगतोपस्थानं चाधिकृत्य वाजसनेयिनः समामनन्ति १ +++(वाङ्नियमः समिदाहरणम् प्रत्यागमने तु भवत्येव।)+++

02 नमो वोऽस्तु प्रवत्स्यामि ...{Loading}...

“नमो वो ऽस्तु प्रवत्स्यामि, नमो वोऽस्तु प्रावात्स्यमि"ति बृह्वृचाः २

पत्नीगृहगमनम्

03 गृहा मा बिभीत ...{Loading}...

“गृहा मा बिभीत, मा वेपिढ्वम्, ऊर्जं बिभ्रत एमसि ।
ऊर्जं बिभ्रद्वः, सुवनिः सुमेधा गृहानैमि, मनसा मोदमानः ।
येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः ।
गृहान् उपह्वयामहे, ते नो जानन्तु जानतः ।
उपहूता भूरिधनाः सखायः स्वादुसंमुदः ।
अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा ।
उपहूता इह गाव उपहूता अजावयः ।
अथो अन्नस्य कीलाल उपहूतो गृहेषु न” इति गृहानभ्येति ३

04 क्षेमाय वः शान्त्यै ...{Loading}...

“क्षेमाय वः शान्त्यै प्रपद्ये, शिवं शग्मं शंयोः शंयोरि"ति प्रविशति ४

05 ऊर्जम् बिभ्रद्वः सुमनाः ...{Loading}...

“ऊर्जं बिभ्रद्वः सुमनाः सुमेधा गृहानागां मनसा मोदमानः ।
इरां वहन्तो घृतमुक्षमाणास् तेष्वहं सुमनाः संविशामी"ति प्रविश्य जपति । संविशन्वा ५

सगृह-यानम्

निर्गमहोमः

कालः

01 सगृहः प्रयास्यन्वास्तोष्पतीयञ् जुहोति ...{Loading}...

सगृहः प्रयास्यन्वास्तोष्पतीयं +++(होमं)+++ जुहोति १

02 अहुते यानेषु भण्डान्यारोपयन्ति ...{Loading}...

अहुते यानेषु भण्डान्यारोपयन्ति २

03 न हीनमन्वाहरेयुः ...{Loading}...

न +++(होमात् पूर्वम् आरोपणे यद्)+++ हीनम् अन्वाहरेयुः ३

04 यद्यनोवाह्यं स्यात्पूर्वन् तम् ...{Loading}...

यद्यनो+++(=शकट)+++वाह्यं +++(धान्यादिकम्)+++ स्यात् पूर्वं तं प्रवहेयुर्, अप वोद्धरेयुः +++(नामान्यत्र स्थापयेयुर्वा पश्चान् नयनाय)+++ ४

05 यत्र संहिता रात्रीर्वसेत्पञ्च ...{Loading}...

यत्र संहिता रात्रीर्वसेत्पञ्च सप्त नव दश वा, तत्+++(=तस्मात्)+++ प्रयास्युञ्जुहुयात् +++(वास्तोष्पतीयम्)+++ ५

06 नवरात्रवास्तौ वा पुनरेत्यैकामुषित्वा ...{Loading}...

नवरात्रवास्तौ +++(सङ्कल्पितायाम्)+++ वा पुनरेत्यैकाम् +++(रात्रिम्)+++ उषित्वा प्रयास्यञ् जुहुयात् ६

07 दक्षिणो युक्तो भवति ...{Loading}...

+++(शकटानाम्)+++ दक्षिणो युक्तो भवति सव्यो ऽयुक्तः +++(यदा तदा होमकालः)+++। अपि वाग्निष्ठस्य+++(=अरणियुक्ते शकटे)+++ दक्षिणो युक्तः सव्यस्य योक्त्रं परिहृतम् +++(यदा तदा होमकालः)+++। सर्वेषु वा युक्तेषु +++(होमकालः)+++७

विवरणम्

08 वास्तोष्पत इत्यनुद्रुत्योत्तरया गार्हपत्ये ...{Loading}...

वास्तोष्पत इत्यनुद्रुत्योत्तरया +++(अग्नीन् प्रणीयेति केचित्)+++ गार्हपत्ये हुत्वा
अवक्षाणानि+++(=उल्मूकानि)+++ संप्र-क्षाप्य+++(=पूर्णं दाहयित्वा)+++ पृथग् अरणीष्व् अग्नीन् समारोपयते ये धार्यन्ते ८

आरोपणम्

09 उपर्यग्नावरणी धारयञ्जपत्ययन् ते ...{Loading}...

उपर्यग्नावरणी धारयञ् जपत्य् “अयं ते योनिरृत्विय” इति ९
+++(अ॒यं ते॒ योनि॑र्ऋ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम् । )+++

10 अपि वा यजमान ...{Loading}...

अपि वा यजमान एवात्मन्समारोपयते १०

11 या ते अग्ने ...{Loading}...

“या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्यारो॑हा॒त्माऽऽत्मान॑म् । अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ ।
य॒ज्ञो भू॒त्वा य॒ज्ञमा सी॑द॒ स्वां योनि॑म् । जात॑वेदो॒ भुव॒ आ जाय॑मान॒स्सक्ष॑य॒ एहि॑” + इति हस्तं प्रताप्य मुखायाहरते ११

अवारोपः

12 वास उपावरोह जातवेदः ...{Loading}...

वास+++(य्)+++ “उपावरोह जातवेदः पुनस् त्वं, देवेभ्यो हव्यं वह नः प्रजानन् ।
आयुः प्रजां रयिमस्मासु धेह्य्, अजस्रो दीदिहि नो दुरोण” इति लौकिकेऽग्नावुपावरोहयति १२

13 अरण्योर्वोपावरोह्य मन्थेत् ...{Loading}...

अरण्योर्वोपावरोह्य मन्थेत् १३

14 यदरण्योः समारूढः स्यान्निर्वर्तमान ...{Loading}...

यदरण्योः समारूढः स्यान्, निर्वर्तमान एतं मन्त्रं जपेत् १४

21 उपावरोह जातवेदᳶ ...{Loading}...

उ॒पाव॑रोह जातवेद॒ᳶ पुन॒स् त्वम् ॥41॥
दे॒वेभ्यो॑ ह॒व्यव्ँ व॑ह नᳶ प्रजा॒नन् ।
आयु॑ᳶ प्र॒जाँ र॒यिम् अ॒स्मासु॑ धेहि ।
अज॑स्रो दीदिहि नो दुरो॒णे ।

प्राप्तौ होमः

01 इदं श्रेयोऽवसानं यदागां ...{Loading}...

“इदं श्रेयोऽवसानं यदागां, स्योने मे द्यावापृथिवी अभूताम् ।
अनमीवाः प्रदिशः सन्तु मह्यम्, गोमद्धनवद् अश्ववत् पुरुषवद् धिरण्यवत् सुवीरवत् स्वाहे"त्यवसिते +++(प्रयाणे)+++ जुहोति +++(आहवनीये)+++१