सङ्ख्यादिकम्
06 खादिरम् पालाशं वैकविंशतिदारुमिध्मङ् ...{Loading}...
खादिरं पालाशं वैकविंशतिदारुम् +++(तेष्वाघारौ २, परिध्यर्थाः ३, अनूयाज-समिच्च १)+++ इध्मं करोति ६
07 त्रयः परिधयः ...{Loading}...
+++(तेषु)+++ त्रयः परिधयः ७
08 पलाशकार्ष्मर्यखदिरोदुम्बरबिल्वरोहीतकविकङ्कतानां ये वा ...{Loading}...
+++(परिध्यर्थे -)+++ पलाश-कार्ष्मर्य-खदिर+उदुम्बर-बिल्व-रोहीतक+++(=वटजातीयो)+++-विकङ्कतानां ये वा यज्ञिया वृक्षाः ८
09 आर्द्राः शुष्का वा ...{Loading}...
आर्द्राः शुष्का वा सत्वक्काः ९
10 स्तविष्ठो मध्यमोऽणीयान्द्राघीयान्दक्षिणार्ध्योऽणिष्ठो ह्रसिष्ठ ...{Loading}...
स्थविष्ठो मध्यमो,
ऽणीयान् द्राघीयान् दक्षिणार्ध्यो,
ऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः १०
11 द्वे आघारसमिधावनूयाजसमिदेकविंशीति ...{Loading}...
+++(पूर्वोक्त इध्मे)+++ द्वे आघारसमिधाव् अनूयाजसमिद् एकविंशीति ११
आहरणम्
12 समूलानामृतेमूलानां वा दर्भाणाम् ...{Loading}...
समूलानामृते ऽमूलानां वा दर्भाणां पूर्ववच् +++(तूष्णीं)+++ छुल्बं कृत्वा, उदगग्रं वितत्य १२
01 यत्कृष्णो रूपङ् कृत्वा ...{Loading}...
“यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् ।
ततस्त्वामेकविंशतिधा संभरामि सुसंभृता ।
त्रीन् परिधींस् तिस्रः समिधो यज्ञायुर् अनुसंचरान् ।
उपवेषं+++(=लक्षणावृत्त्या +इध्मं)+++ मेक्षणं+++(=लक्षणावृत्त्या +इध्मं)+++ धृष्टिं+++(=लक्षणावृत्त्या +इध्मं)+++ संभरामि सुसंभृते"ति शुल्ब इध्मं संभरति १
02 कृष्णो ऽस्याखरेष्ठो देव ...{Loading}...
“कृष्णो ऽस्याखरेष्ठो देव पुरश्चर सघ्यासं त्वे"ति संनह्यति ।
पुरस्तात् प्रत्यञ्चं ग्रन्थिम् उपगूहति, पश्चात्प्राञ्चं वा ।
अनधो निदधाति +++(अगारे)+++२
03 इध्मप्रवश्चनानि निदधाति ...{Loading}...
इध्मप्रवश्चनानि +++(=इध्मच्छेदनप्रभवान् शकलान्)+++ निदधाति +++(क्व?)+++ ३