अग्न्युपस्थानम्

रुद्रदत्तटीखा ऽत्र। धूर्तस्वाम्य् अत्र

तत्र ब्राह्मणम्।

चोदनम्

04 इत्युक्तम् ...{Loading}...

उपस्थेयोऽग्नी३र्नोपस्थेया३ इत्युक्तम् ४

05 नक्तमुपतिष्ठते न प्रातः ...{Loading}...

नक्तमुपतिष्ठते न प्रातः ५ +++(किञ्च प्रातरवनेको भवति, वर्तते च “त्रिरर्वाग्वसुना प्रातः” इत्यपि)+++

आहवनीये

01 अग्न्युपस्थानं व्याख्यास्यामः ...{Loading}...

अग्न्युपस्थानं व्याख्यास्यामः १

02 उपतिष्ठत इति चोद्यमान ...{Loading}...

उपतिष्ठत इति चोद्यमान आहवनीयमेवोपतिष्ठेत । वचनादन्यम् २

03 उत्तरामहुतिमुपोत्थाय कवातिर्यङ्ङिवोपतिष्ठेत ...{Loading}...

उत्तरामहुतिमुपोत्थाय कवा+++(=ईषत्)+++तिर्यङ्ङिवोपतिष्ठेत ३

04 उपप्रयन्तो अध्वरमिति षड्भिः ...{Loading}...

“उपप्रयन्तो अध्वरमि"ति षड्भिः ४

05 अग्नीषोमाविमं सु म ...{Loading}...

“अग्नीषोमाविमं सु म” इति सप्तम्या पूर्वपक्षे । “ऐन्द्राग्न्या” सप्तम्यापरपक्षे ५

06 दधिक्राव्णो अकारिषमित्युभयत्राष्टम्या ...{Loading}...

“दधिक्राव्णो अकारिषमि"त्युभयत्राष्टम्या ६

07 ममाग्ने वचो विहवेष्वस्त्विति ...{Loading}...

“ममाग्ने वचो विहवेष्वस्त्वि"ति चतस्रः पुरस्ताद् अग्नीषोमीयायाः पूर्वपक्षे । तथैन्द्राग्न्या अपरपक्षे ७

08 अग्न आयूंषि पवस ...{Loading}...

“अग्न आयूंषि पवस” इति षड्भिः संवत्सरेसंवत्सरे सदा वा ८

09 पवमानहवींषि वा संवत्सरेसंवत्सरे ...{Loading}...

“पवमानहवींषि”+++(=अन्वाहार्यदक्षिणानि, शतमानदक्षिणानि वा)+++ वा संवत्सरेसंवत्सरे निर्वपेदेतासां स्थाने ९

10 आयुर्दा अग्न इति ...{Loading}...

+++(उभयत्र)+++ “आयुर्दा अग्न” इति सिद्धमा चित्रावसोः+++(=मन्त्रान्तनिर्देशः)+++ १०

11 त्रिश्चित्रावसुना सायमुपतिष्ठते त्रिरर्वाग्वसुना ...{Loading}...

+++(आ॒यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे दे॒हि। व॒र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि। तनू॒पा अ॑ग्नेऽसि त॒नुवं॑ मे पा॒ह्यग्ने॒ यन् मे॑ त॒नुवा॑ ऊ॒नं तन्म॒ आ पृ॑ण )+++
त्रिश्चित्रावसुना+++(=चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒य)+++ सायमुपतिष्ठते । त्रिरर्वाग्वसुना प्रातर् -“अर्वाग्वसो स्व॒स्ति ते॑ पा॒रम॑शी॒य” ११

12 इन्धानास्त्वा शतं हिमा ...{Loading}...

“इन्धानास् त्वा शतं हिमा” इत्युपस्थाय
+++(एतत् समिधुपस्थानमिति)+++ “इन्धानास् त्वा शतं हिमाः । अग्नेः समिदस्यभिशस्त्या मा पाहि। सोमस्य समिदसि परस्पा म एधि। यमस्य समिदसि मृत्योर्मा पाही"ति चतस्रः समिध एकैकस्मिन्नाधाय
“सं त्वमग्ने सूर्यस्य वर्चसागथा” इत्यनुवाकशेषेणोपस्थाय
“वयं सोम व्रते तव मनस्तनूषु बिभ्रतः प्रजावन्तो अशीमही"ति मुखं विमृष्टे १२

शिष्टम् उपस्थानम्

01 सम्पश्यामि प्रजा अहमिति ...{Loading}...

“संपश्यामि प्रजा अहमि"ति गृहान्प्रेक्षते १

02 अम्भः स्थाम्भो वो ...{Loading}...

“अम्भः स्थ, +अम्भो वो भक्षीये"ति गोष्ठमुपतिष्ठते २

03 रेवती रमध्वमित्यन्तराग्नी तिष्ठञ्जपति ...{Loading}...

“रेवती रमध्वमि"त्यन्तराग्नी तिष्ठञ्जपति ३

04 संहितासि विश्वरूपीरिति वत्समभिमृशति ...{Loading}...

“संहितासि विश्वरूपीरि"ति वत्समभिमृशति ४

05 संहितासि विश्वरूपेति वत्साम् ...{Loading}...

“संहितासि विश्वरूपे"ति वत्साम् ५

06 भुवनमसि सहस्रपोषम् पुषेति ...{Loading}...

“भुवनमसि सहस्रपोषं पुषेति” वा वत्सम् ६

गार्हपत्ये

07 उप त्वाग्ने दिवेदिव ...{Loading}...

“उप त्वाग्ने दिवेदिव” इति तिसृभिर् गायत्रीभिर् गार्हपत्यम् उपतिष्ठते
“ऽग्ने त्वं नो अन्तम” इति चतसृभिश्च द्विपदाभिः ७

08 स नो बोधि ...{Loading}...

“स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मादि"त्येषा चतुर्थी +++(द्विपदा)+++ भवति ८

09 ऊर्जा वः पश्याम्यूर्जा ...{Loading}...

“ऊर्जा वः पश्याम्य्, ऊर्जा मा पश्यते"ति गृहान्प्रेक्षते पशून्वा ९

आहवनीये

स्वस्त्ययनम् ...{Loading}...

रुद्रदत्तटीका ऽत्र। धूर्तस्वाम्य् अत्र

10 महि त्रीणामवोऽस्तु द्युक्षम् ...{Loading}...

“महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधष वरुणस्य ।” +++(विवरणम् अत्र)+++, “नहि तेषाममा चन नाध्वसु वारणेष्वा । ईशे रिपुरघशंसः ।”, “ते हि पुत्रासो अदितेश् छर्दिर् यच्छन्त्यजस्रम् । वि दाशुषे वार्याणी"ति प्राजापत्येन तृचेनोपतिष्ठते +++(आहवनीयम्)+++१०

11 यङ् कामयेत स्वस्ति ...{Loading}...

यं कामयेत स्वस्ति पुनरागच्छेदिति तमेताभिर्+++(=पूर्वोक्त-त्र्य्-ऋचेन)+++ अन्वीक्षेत । स्वस्त्येव पुनरागच्छतीत्ययज्ञसंयुक्तः +++(नाम न यजमानस्यैव)+++ कल्पः ११

साधारणभागः

12 मा नः शंसो ...{Loading}...

“मा नः शंसो अररुषो धूर्तिः प्रणङ् मर्त्यस्य । रक्षा णो ब्रह्मणस्पते ।” “यो रेवान्यो अमीवहा वसुवित् पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः ।” “परि ते दूडभो रथोऽस्माँ अश्नोतु विश्वतः । येन रक्षसि दाशुषः” १२

01 तत्सवितुर्वरेण्यं सोमानं स्वरणम् ...{Loading}...

“तत्सवितुर्वरेण्यं”, “सोमानं स्वरणं”, “मित्रस्य चर्षणीधृतः”, “प्र स मित्र”, “कदा चन स्तरीरसि”, “कदा चन प्रयुच्छसि”, “परि त्वाग्ने पुरं वयमि"त्युपस्थाय १

शत्रुनिग्रहः

02 निमृदो ऽसि न्यहन् ...{Loading}...

“निमृदो ऽसि न्यहं तं मृद्यासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म” इति दक्षिणस्य पदः पार्ष्ण्या निमृद्गीयाद्+++(=निमृदति)+++ यदि पापीयसा स्पर्धेत ।
“प्रभूरसि प्राहं तमभिभूयासं यो ऽस्मान्द्वेष्टि यं च वयं द्विष्म” इति दक्षिणतः +++(दक्षिण)+++पदो निगृह्णीयाद् +++(=निपीडयेत्)+++ यदि सदृशेन ।
“अभिभूरस्यभ्यहं तं भूयासं योऽस्मान्द्वेष्टि यं च वयं द्विष्म” इति प्रपदेन यदि श्रेयसा २

दिशः लोकाश्च

03 पूषा मा पशुपाः ...{Loading}...

“पूषा मा पशुपाः पातु, पूषा मा पथिपाः पातु, पूषा माधिपाः पातु, पूषा माधिपतिः पात्वि"ति लोकानुपस्थाय
“प्राची दिग् अग्निर् देवता, ऽग्निं स ऋच्छतु यो मैतस्यै दिशो ऽभिदासति ।” “दक्षिणा दिगिन्द्रो देवतेन्द्रं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति ।”, “प्रतीची दिक् सोमो देवता सोमं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति ।”, “उदीची दिङ्मित्रावरुणौ देवता मित्रावरुणौ स ऋच्छतु यो मैतस्यै दिशोऽभिदासति ।”, “ऊर्ध्वा दिग्बृहस्पतिर्देवता बृहस्पतिं स ऋच्छतु यो मैतस्यै दिशोऽभिदासति ।” “इयं दिगदितिर्देवतादितिं स ऋच्छतु यो मैतस्यै दिशोऽभिदासती"ति यथालिङ्गं दिश उपस्थाय ३

समापनम्

01 अग्नीनुपसमाधाय धर्मो मा ...{Loading}...

अग्नीन् उपसमाधाय +++(इन्धनैः)+++ - “धर्मो मा धर्मणः पातु, विधर्मो मा विधर्मणः पात्व्, आयुश्च प्रायुश्च चक्षुश्च विचक्षुश्च प्राङ्चावाङ्चोरुग उरुगस्य ते वाचा वयं सं भक्तेन गमेमही"त्युपस्थाय +++(आहवनीयम्)+++
“अग्न आयूंषि पवस” इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते १

02 अग्ने गृहपत इति ...{Loading}...

“अग्ने गृहपत” इति च पुत्रस्य नाम गृह्णाति- “तामाशिषमाशासे तन्तवे” +इत्यजातस्य । अमुष्मा इति जातस्य २

03 यत्किञ्चाग्निहोत्री कामयेत तदग्नीन्याचेत ...{Loading}...

यत्किंचाग्निहोत्री कामयेत तदग्नीन् याचेत । उपैनं तन्नमतीति विज्ञायते ३

सङ्क्षिप्तकल्पः

05 नक्तमुपतिष्ठते न प्रातः ...{Loading}...

नक्तमुपतिष्ठते न प्रातः ५ +++(किञ्च प्रातरवनेको भवति, वर्तते च “त्रिरर्वाग्वसुना प्रातः” इत्यपि)+++

07 भूर्भुवः सुवः सुप्रजाः ...{Loading}...

+++(सायम्)+++ “भूर्भुवः सुवः। सुप्रजाः प्रजया भूयासं, सुवीरो वीरैः, सुवर्चा वर्चसा, सुपोषः पोषैरि"त्येवोपतिष्ठेतेति वाजसनेयकम् । “भर्तुं वः शकेयं, श्रद्धा मे मा व्यागादि"ति वा ७

08 वात्सप्रेणैव सायम् प्रातरुपतिष्ठेतेत्येके ...{Loading}...

वात्सप्रेणैव+++(=)+++ सायं प्रातरुपतिष्ठेतेत्येके ८

09 गोषूक्तेनाश्वसूक्तेन वा ...{Loading}...

गोषूक्तेन+++(=आ गावो अग्मन्)+++ +आश्वसूक्तेन+++(=यदक्रन्द …, क्रमैरत्यक्रमत्)+++ वा ९

प्रातर् अवनेकः

01 प्रातरवनेकेन प्रातरुपस्थेयः ...{Loading}...

+++(शाखान्तरोक्तेन हस्तयोः)+++ प्रातरवनेकेन +++(=प्रक्षालनेन)+++ प्रातरुपस्थेयः +++(इति ज्ञायते)+++ १

02 अधिश्रित उन्नीयमाने वा ...{Loading}...

अधिश्रित उन्नीयमाने वा “ममाग्ने वर्चो विहवेष्वस्त्वि"ति चतस्रो जपित्वा
“ऽऽपां पते योऽपां भागः - स त एष प्रतिषिक्ता अरातयः, प्रतिषिक्ता अरातयः, प्रतिषिक्ता अरातय” इति त्रिर्भूमौ प्रतिषिच्य
“कालाय वां जैत्रियाय वामौद्भेत्त्रियाय वामन्नाद्याय वामवनेनिजे सुकृताय वाम् ।
इदमहं दुरद्मन्यां निष्प्लावयामि, भ्रातृव्याणां सपत्नानामहं भूयासमुत्तमः ।
अपां मैत्रादिवोदकमि"ति हस्तौ प्रक्षाल्य
श्रियं धातर्मयि धेहि श्रियो माधिपतिं कुरु ।
“विशामीशानो मघवेन्द्रो मा यशसा नयदि"ति जपित्वा
“ऽहर्व्युष्टा देवजूता वीडु छपथजम्भनीः । आपो मलमिव प्राणिजन्नस्मत्सु शपथाँ अधी"त्याचम्य
“इन्द्रियावतीमद्याहं वाचमुद्यासं +++(मुखस्पर्शः)+++, दीर्घप्राणो ऽच्छिन्नो ऽदब्धो गोपाः +++(नासास्पर्शः)+++।
अजस्रं दैव्यं ज्योतिः सौपर्णं चक्षुः, सुश्रुतौ कर्णौ, देवश्रुतौ कर्णौ, केशा बर्हिः, शिखा प्रस्तरो, यथास्थानं कल्पयध्वं, शं हृदयायादो मा मा हासिष्टे"ति यथालिङ्गमङ्गानि संमृश्य २

01 वर्चोऽसि वर्चो मयि ...{Loading}...

“वर्चोऽसि, वर्चो मयि धेह्य्, आयुकृद् आयुःपत्नी, स्वधा वो, गोप्त्र्यो मे स्थ, गोपायत, मा रक्षत, मात्मसदो मे स्थ ।
मा नः कश्चित् प्रघान्, मा प्रमेष्मह्युप प्रत्नमुप भूर्भुवः सुवरायुर्मे यच्छते"ति सर्वान् उपस्थाय
+++(उत्तराहुतेः परम् - यतस् तृणापनयनम् भवति)+++ उत्तरेणानुवाकेन अहवनीयं
“घर्मा जठरान्नादं माम् अद्यास्मिञ् जने जुरुतम्,
अन्नादो ऽहम् अद्यास्मिञ् जने भूयासम्, अनन्नादः स यो ऽस्मान्द्वेष्टि ।
कवी मातरिश्वाना पशुमन्तं मामद्यास्मिञ्जने कुरुतं
पशुमानहमद्यास्मिञ्जने भूयासम्, अपशुः स योऽस्मान्द्वेष्टि ।
यमाङ्गिरसा यशस्विनं मामद्यास्मिञ्जने कुरुतं
यशस्व्यहमद्यास्मिञ्जने भूयासमयशाः स योऽस्मान्द्वेष्टि ।
अग्ने यो नो अन्ति शपति, यश्च दूरे समानो अग्ने अरणो दुरस्युः ।
वैश्वानरेण सयुजा सजोषास् तं प्रत्यञ्चं संदह जातवेदः ।”
“अग्ने यत्ते ऽर्चिस्तेन तं प्रत्यर्च यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मो
ऽग्ने यत्ते शोचिस्तेन तं प्रतिशोच योऽस्मान्द्वेष्टि यं च वयं द्विष्मो
ऽग्ने यत्ते तपस्तेन तं प्रतितप योऽस्मान्द्वेष्टि यं च वयं द्विष्मो
ऽग्ने यत्ते हरस्तेन तं प्रतिहर योऽस्मान्द्वेष्टि यं च वयं द्विष्मो
ऽग्ने यत्ते तेजस्तेन तं प्रतितितिग्धि योऽस्मान्द्वेष्टि यं च वयं द्विष्मः॥ १

01 अग्ने रुचाम् पते ...{Loading}...

अग्ने रुचां पते, नमस्ते रुचे, रुचं मयि धेहि ।”
“अर्वाग्वसो स्वस्ति ते पारमशीया+++(,)+++ऽर्वाग्वसो स्वस्ति ते पारमशीया+++(,)+++ऽर्वाग्वसो स्वस्ति ते पारमशीय ।” +++(“त्रिरर्वाग्वसुना प्रातः” इति सूत्रभागो यः पूर्वमागतः)+++
“तन्तुरसि ततो मा च्छित्था, असौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्वसौ स्वस्ति तेऽस्त्वि"ति पुत्राणां नामानि गृह्णाति त्रिस्त्रिरेकैकस्य ।
“स्वस्ति वोऽस्तु ये मामनुस्थ, षण्मोर्वीरंहसस्पान्तु, द्यौश्च पृथिवी चापश्चौषधयश् चोर्क्च सूनृता च ।
यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः । एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ।
वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ।”
“अग्न आयूंषि पवसे”, “दधिक्राव्णो अकारिषमि"ति द्वे, “ममाग्ने वर्चो विहवेष्वस्त्वि"ति चतस्रो, “ऽग्नीषोमाविमं सु म” इत्येषा ।
तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि । अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् । न मिनन्ति स्वराज्यम् १”

01 अद्या नो देव ...{Loading}...

“अद्या नो देव सवितः प्रजावत्सावीः सौभगं । परा दुःष्वप्नियं सुव ।
विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्म आ सुव ।
अनागसो अदितये वयं देवस्य सवितुः सवे । विश्वा वामानि धीमहि ।
स हि रत्नानि दाशुषे सुवाति सविता भगः । तं चित्रं भागमीमहे ।
वाममद्य सवितर्वाममु श्वो दिवेदिवे वाम्, अस्मभ्यं सावीः सौभगम् ।
वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम ।
दीक्षा तपो मनसो मातरिश्वा बृहस्पतिर्वाचो अस्याः स योनिः ।
वेदांसि विद्या मयि सन्तु चारवो ऽग्नीषोमा यशो अस्मासु धत्तम् ।”
“अग्निर्येन विराजति, सोमो येन विराजति, सूर्यो येन विराजति, विराड् येन विराजति, तेनाहं विश्वतस्परि विराज्यासम् इहैकवृदि"त्युपस्थायाग्नेस् +++(परिस्तरण)+++तृणान्य् अपचिनोति । तेजस्वी ह ब्रह्मवर्चसी भवतीति विज्ञायते १