१४

01 उत्तमस्याक्षरस्य विकारमेक आहुः …{Loading}…

उत्तमस्याक्षरस्य विकारमेक आहुः १

02 अधिकः स्यादित्यपरम् …{Loading}…

अधिकः स्यादित्यपरम् २

03 विज्ञायते च ऋचमुक्त्वा …{Loading}…

विज्ञायते च । ऋचमुक्त्वा प्रणौत्यपरामुक्त्वा प्रणौत्यधिके पुनरेतदुपपद्यते सन्ततमृचा वषट्करोतीति च तद्वद्याज्याया अधि वषट्करोति ३

04 अपगूर्य वषट्करोतीत्युच्चैर्वादः शब्दस्य …{Loading}…

अपगूर्य वषट्करोतीत्युच्चैर्वादः शब्दस्य ४

05 यङ् कामयेत प्रमायुकः …{Loading}…

यं कामयेत प्रमायुकः स्यादिति तस्योच्चैरपगूर्य निखिदन्निव वषट्कुर्यात् । यं कामयेत पापीयान्स्यादिति नीचैस्तरां तस्य याज्याया वषट्कुर्यात् । यं कामयेत वसीयान्स्यादित्युच्चैस्तरां तस्य याज्याया वषट्कुर्यात् । न वसीयान्न पापीयानिति समं तस्य याज्याया वषट्कुर्यात् । उच्चैः क्रौञ्चमिव वषट्कुर्यात्स्वर्गकामस्येति विज्ञायते ५

06 बलीय ऋचो वषट्करोतीति …{Loading}…

बलीय ऋचो वषट्करोतीति तद्वत् ६

07 यान् देवतां यजेत्ताम् …{Loading}…

यां देवतां यजेत्तां मनसा ध्यायेत्पुरा वषट्कारात्स्वर्गकामस्येति विज्ञायते ७

08 वषट्कृत्य प्राण्यापान्य निमिषेत् …{Loading}…

वषट्कृत्य प्राण्यापान्य निमिषेत् ८

09 अपानेनैव प्राणन् धारयेन्निमिषेण …{Loading}…

अपानेनैव प्राणं धारयेन्निमिषेण चक्षुरिति विज्ञायते ९

10 यन् द्विष्यात्तस्यौषडिति वषट्कुर्यात् …{Loading}…

यं द्विष्यात्तस्यौषडिति वषट्कुर्यात् । ओषत्येवेति विज्ञायते १०

11 वाषडित्येके समामनन्ति वौषडित्येके …{Loading}…

वाषडित्येके समामनन्ति । वौषडित्येके । वौषाडित्येके । वाक्षडित्येके । वौक्षडित्येके । वौक्षाडित्येके ११

12 वषट्कार मा मे …{Loading}…

वषट्कार मा मे प्र वाङ्मो अहं त्वां बृहता मन उपह्वये । न मां न मे वाचं हिनसात् । हव्यं देवेभ्योऽभिवहाम्योजः सहः सह ओजः । वाग्वषट्कार नमस्ते अस्तु मा मा हिंसीरित्येतद्वषट्कृते जपति । वाग्वषट्कार नमस्ते अस्तु मा मा हिंसीरिति वा १२

13 अङ्गुली मुक्त्वा मिषे …{Loading}…

अङ्गुली मुक्त्वा मिषे प्राणायेति मुखदेशमूर्ध्वमुत्कृष्योर्जेऽपानायेत्यवाचीनं नियच्छति १३

14 अवानरेडामवत्तामङ्गुलीभिर्निगृह्य न मुष्टिङ् …{Loading}…

अवानरेडामवत्तामङ्गुलीभिर्निगृह्य न मुष्टिं करोति १४

15 मुखमिव प्रत्युपह्वयते …{Loading}…

मुखमिव प्रत्युपह्वयते १५

16 यङ् कामयेतापशुः स्यादिति …{Loading}…

यं कामयेतापशुः स्यादिति पराचीं तस्येत्युक्तम् १६

17 पदाभ्यासप्रतिषेधस्तु …{Loading}…

पदाभ्यासप्रतिषेधस्तु १७

18 विज्ञायते चेडोपहूतेति तत्पराची …{Loading}…

विज्ञायते चेडोपहूतेति तत्पराची । उपहूतेति तत्प्रतीची १८

19 आध्वर्यव एवातोऽन्यानि कर्माणि …{Loading}…

आध्वर्यव एवातोऽन्यानि कर्माणि होतुराम्नातानि भवन्ति । उपदेशादितराणीतराणि १९

इति चतुर्दशी कण्डिका इति चतुर्विंशः प्रश्नः


  1. This is the usual practice. See ĀśvaŚS 1.5.9ff. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For the formulae cp. ĀśvaŚS I.7.2. For this Sūtra cp. in general III.2.3-4. ↩︎