१३

01 शुष्कम् प्रच्छिन्नाग्रं वा ...{Loading}...

शुष्कं प्रच्छिन्नाग्रं वा निरस्तः पराग्वसुः सह पाप्मनेति १

02 अथ होतृषदन उपविशति ...{Loading}...

अथ होतृषदन उपविशति पातं मा द्यावापृथिवी उपस्थ इति दक्षिणपूर्विणं सव्योत्तरिणं वोपस्थं कृत्वा २

03 अथ जपति सीद ...{Loading}...

अथ जपति सीद होतर्नि होता होतृषदन इति द्वे । पिप्रीहि देवाँ उशतो यविष्ठेत्येषा । वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा । स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्यग्निरर्हन् । आ देवानाम् । त्वमग्ने व्रतपा असि । यद्वो वयं प्रमिनाम । यत्पाकत्रा मनसा । विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान । स आ यजस्व नृवतीरनु क्षाः स्पार्हा इषः क्षुमतीर्विश्वजन्याः । यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान । पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहीत्येतस्य सूक्तस्य षट् सर्वं वा । विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य । प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि । यमिच्छामि मनसा सो ऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् । स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तरः पूर्वो अस्मन्निषद्य । तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम । ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् । नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवा इति ३

04 एतज्जपित्वा स्रुचावादापयति ...{Loading}...

एतज्जपित्वा स्रुचावादापयति ४

05 सर्वत्र पुरस्ताद्याज्याया येयजामहमुक्त्वा ...{Loading}...

सर्वत्र पुरस्ताद्याज्याया येयजामहमुक्त्वा व्याहृतीर्दधाति ५

06 नानूयाजेषु येयजामहङ् करोति ...{Loading}...

नानूयाजेषु येयजामहं करोति ६

07 अनवानमनूयाजान्यजति अमत्सतेति वापानिति ...{Loading}...

अनवानमनूयाजान्यजति । अमत्सतेति वापानिति ७

08 पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या उपरिष्टाल्लक्ष्मा ...{Loading}...

पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या । उपरिष्टाल्लक्ष्मा याज्या । एतद्वा विपरीतम् ८

09 उभयतोलक्ष्मा पुरोऽनुवाक्या तथा ...{Loading}...

उभयतोलक्ष्मा पुरोऽनुवाक्या तथा याज्येत्येके ९

10 तिष्ठन्पुरोऽनुवाक्यामन्वाह आसीनो याज्याम् ...{Loading}...

तिष्ठन्पुरोऽनुवाक्यामन्वाह । आसीनो याज्याम् । उभे तिष्ठन्नासीनो वा १०

11 सा ह त्वै ...{Loading}...

सा ह त्वै समृद्धा पुरोऽनुवाक्या यामभिव्याहरन्देवतामेवाग्रेऽभिव्याहरति । सा ह त्वै समृद्धा याज्या यस्यै देवताया अधि वषट्करोति ११

12 ऋचि प्रणवन् दधाति ...{Loading}...

ऋचि प्रणवं दधाति याज्यावर्जम् १२

13 ओमित्यृचोऽधि प्रणौति ...{Loading}...

ओमित्यृचोऽधि प्रणौति १३

इति त्रयोदशी कण्डिका


  1. TS III.5.11.f and g. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. R̥V X.2.1. ↩︎ ↩︎

  3. R̥V X.52.1. ↩︎

  4. R̥V X.63.1 ↩︎

  5. R̥V X.53.4. ↩︎

  6. R̥V I.27.13. ↩︎