१२

01 अथ चत्वार्यथ चत्वारि ...{Loading}...

अथ चत्वार्यथ चत्वारि १

02 ता अनूच्य देवता ...{Loading}...

ता अनूच्य देवता आवाहयति या यक्ष्यमाणो भवति २

03 स वै खलु ...{Loading}...

स वै खलु वाजिनो नावाहयेद्देविका देवसुवो यच्च किं चैतादृक्ते मन्यामहे ३

04 परप्रधानानाम् परतन्त्रव्यवेतानाञ् च ...{Loading}...

परप्रधानानां परतन्त्रव्यवेतानां च प्रतिषेधः स्यात्तल्लिङ्गत्वाच्छब्दस्य ४

05 एकदेवतानान् नानादेवताव्यवेतानान् तन्त्रमावाहनं ...{Loading}...

एकदेवतानां नानादेवताव्यवेतानां तन्त्रमावाहनं विभवात् ५

06 अथोर्द्वज्ञुः प्रादेशेन भूमिमभिनिधाय ...{Loading}...

अथोर्द्वज्ञुः प्रादेशेन भूमिमभिनिधाय जपतीदमहं त्रिवृता स्तोमेन रथन्तरेण साम्ना वषट्कारेण वज्रेणास्यै पृथिव्या अस्यै प्रतिष्ठाया अस्मादायतनाद्यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तं हन्मि । यदद्य होतृवर्ये जिह्मं चक्षुः परापतत् । अग्निष्टत्पुनराभरज्जातवेदा विचर्षणिः । वसूनां रातौ स्याम रुद्राणामूर्म्यायां स्वादित्या अदितयेऽनहसः । चारुमद्य देवेभ्यो वाचमुद्यासं चारुं ब्रह्मभ्यश्चारुं मनुष्येभ्यश्चारुं नराशंसायानुमतां पितृभिः । ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा । तेभ्यो न इन्द्रः सवितोत विष्णुर्विश्वे देवा मुञ्चन्तु मरुतः स्वस्त्येति ६

07 अथ यदेनमाहासौ मानुष ...{Loading}...

अथ यदेनमाहासौ मानुष इति तदुपोत्थाय दक्षिणेन पाणिना दक्षिणमध्वर्योरंसमन्वारभ्य जपति । सव्येनाग्नीध्रस्य दक्षिणम् । षष्टिश्चाध्वर्यो नवतिश्च पाशा होतारमग्निमन्तरा विचृत्ताः । सिनन्ति पाकमति धीर एत्यृतस्य पन्थामन्वेति होता । अग्निमन्वारभामहे होतृवर्ये पुरोहितम् । येनायन्नुत्तमं स्वर्देवा अङ्गिरसो दिवमिति ७

08 मयि प्राणापानाविति पाणी ...{Loading}...

मयि प्राणापानाविति पाणी प्रत्याहृत्योरोदेशं स्पृशते ८

09 आ पृणोषि सम्पृण ...{Loading}...

आ पृणोषि संपृण प्रजया मा पशुभिरापृणेतीध्मसन्नहनानि मुखं प्रति विधूनुते ९

10 अथाप उपस्पृश्याग्ने नय ...{Loading}...

अथाप उपस्पृश्याग्ने नय सुपथा राये अस्मान् । एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः । अवतां मा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवानित्येते ऋचौ जपन्होतृषदनाय प्रव्रजति १०

11 जघनेन होतृषदनम् प्राङ्मुख ...{Loading}...

जघनेन होतृषदनं प्राङ्मुख उपविश्याथ होतृषदनमभिमृशत्यहे दैधिषव्येति ११

12 अथास्मात्तृणन् निरस्यति ...{Loading}...

अथास्मात्तृणं निरस्यति १२

इति द्वादशी कण्डिका


  1. For XXIV. 11.18 and this Sūtra cf. KB II.2. For the Nigada see also TS II.5.9.1-3; TB III.5.3.1-3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. XIII.23.2. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cp. ŚB I.5.1.20. ↩︎ ↩︎