११

01 पुरस्तात्सामिधेनीनां होता हृदयदेश ...{Loading}...

पुरस्तात्सामिधेनीनां होता हृदयदेश ऊर्ध्वं प्रादेशं धारयमाणो जपति मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः पितर इति १

02 अन्तराहवनीयमुत्करञ् च प्रतीचीनङ् ...{Loading}...

अन्तराहवनीयमुत्करं च प्रतीचीनं गच्छञ्जपति कं प्रपद्ये तं प्रपद्ये । यत्ते प्रजापते शरणं छन्दस्तत्प्रपद्ये । यावत्ते विष्णो वेद तावत्ते करिष्यामि । नमो अग्नय उपद्रष्ट्रे नमो वायव उपश्रोत्रे नम आदित्यायानुख्यात्रे । जुष्टामद्य देवेभ्यो वाचमुद्यासं स्वधावतीं पितृभ्यः शुश्रूषेण्यां मनुष्येभ्यः । प्रशास्त आत्मना प्रजया पशुभिः प्रजापतिं प्रपद्ये । अभयं मे अस्तु । प्राजापत्यमनुवक्ष्यामि । वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु । वाचं प्रपद्ये भूर्भुवः सुवरिति । सत्यं प्रपद्य इति वा २

03 विष्णो स्थाने तिष्ठामीत्यवतिष्ठते ...{Loading}...

विष्णो स्थाने तिष्ठामीत्यवतिष्ठते ३

04 अन्तर्वेदि दक्षिणः पादो ...{Loading}...

अन्तर्वेदि दक्षिणः पादो भवति । बहिर्वेदि सव्यः ४

05 अथोर्ध्वस्तिष्ठन्ब्रह्मन्सामिधेनीरनुवक्ष्यामीति ब्रह्माणमामन्त्र्य दशहोतारं ...{Loading}...

अथोर्ध्वस्तिष्ठन्ब्रह्मन्सामिधेनीरनुवक्ष्यामीति ब्रह्माणमामन्त्र्य दशहोतारं व्याख्याय व्याहृतीश्च जपित्वा त्रिर्हिङ्कृत्योत्तमेन हिङ्कारेणार्धर्चमुपसन्दधाति ५

06 त्रिः प्रथमामन्वाह त्रिरुत्तमाम् ...{Loading}...

त्रिः प्रथमामन्वाह त्रिरुत्तमाम् ६

07 यङ् कामयेत सर्वमायुरियादिति ...{Loading}...

यं कामयेत सर्वमायुरियादिति तस्य त्रिरनवानं प्रथमोत्तमे अनुब्रूयात् ७

08 एकैकामेव सन्तन्वन्ननवानमनुब्रूयादित्येके ...{Loading}...

एकैकामेव सन्तन्वन्ननवानमनुब्रूयादित्येके ८

09 तृतीयां सामिधेनीन् त्रिविगृह्णाति ...{Loading}...

तृतीयां सामिधेनीं त्रिविगृह्णाति । सन्ततमन्वाहेति सामिधेनीनामविशेषात् ९

10 विज्ञायते च ऋषेरृषेर्वा ...{Loading}...

विज्ञायते च । ऋषेरृषेर्वा एता निर्मिता यत्सामिधेन्यः । ता यदसंयुक्ताः स्युः प्रजया पशुभिर्यजमानस्य वितिष्ठेरन् । अर्धर्चौ सन्दधाति संयुनक्त्येवैना इति ते मन्यामहे १०

11 पूर्वस्याश्चोत्तरमुत्तरस्याश्च पूर्वन् तौ ...{Loading}...

पूर्वस्याश्चोत्तरमुत्तरस्याश्च पूर्वं तौ सन्दध्यात् ११

12 सन्ततमन्वाहेति सामिधेनीनामनुच्छ्वासवादो विज्ञायते ...{Loading}...

सन्ततमन्वाहेति सामिधेनीनामनुच्छ्वासवादो विज्ञायते च १२

13 नान्तरर्चौ व्यन्यात् यद्यन्तरर्चौ ...{Loading}...

नान्तरर्चौ व्यन्यात् । यद्यन्तरर्चौ व्यन्यादपाने प्राणं दध्यात् । अतिहाय पूर्वस्या अर्धर्चमुत्तरस्या अर्धर्चे व्यनिति १३

14 त्रिरनुवचनेनार्धर्चसन्तानो विद्यत एकर्षित्वात् ...{Loading}...

त्रिरनुवचनेनार्धर्चसन्तानो विद्यत एकर्षित्वात् १४

15 त्वं वरुण इति ...{Loading}...

त्वं वरुण इति वसिष्ठराजन्यानां परिधानीया । जुहोतेतीतरेषां गोत्राणाम् १५

16 नराशंसो द्वितीयः प्रयाजो ...{Loading}...

नराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानाम् । तनूनपादितरेषां गोत्राणाम् १६

17 सामिधेनीरनूच्य प्रवरमुक्त्वा निविदोऽन्वाह ...{Loading}...

सामिधेनीरनूच्य प्रवरमुक्त्वा निविदोऽन्वाह १७

18 तासां सप्त पदान्युक्त्वापानिति ...{Loading}...

तासां सप्त पदान्युक्त्वापानिति १८

इत्येकादशी कण्डिका


  1. i.e. after he has been ordered by the Adhvaryu to recite the Sāmidhenī-verses (see II.12.1). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB II.2.1.6. ↩︎