१०

01 अथ शण्डिलानान् द्व्यार्षेयः ...{Loading}...

अथ शण्डिलानां द्व्यार्षेयः । दैवलासितेति । असितवद्देवलवदिति १

02 त्र्यार्षेयमु हैके काश्यप ...{Loading}...

त्र्यार्षेयमु हैके । काश्यप दैवलासितेति । असितवद्देवलवत्कश्यपवदिति २

03 द्व्यार्षेयास्त्वेवन्न्यायेन ...{Loading}...

द्व्यार्षेयास्त्वेवन्न्यायेन ३

04 एकार्षेया वासिष्ठा अन्यत्र ...{Loading}...

एकार्षेया वासिष्ठा अन्यत्र पराशरेभ्यः । वासिष्ठेति होता । वसिष्ठवदित्यध्वर्युः ४

05 त्र्यार्षेयमु हैके वासिष्ठैन्द्रप्रमदाभरद्वसो ...{Loading}...

त्र्यार्षेयमु हैके । वासिष्ठैन्द्रप्रमदाभरद्वसो इति । आभरद्वसुवदिन्द्रप्रमदवद्वसिष्ठवदिति ५

06 अथ पराशराणान् त्र्यार्षेयः ...{Loading}...

अथ पराशराणां त्र्यार्षेयः । वासिष्ठ शाक्त्य पाराशर्येति । पराशरवच्छक्तिवद्वसिष्ठवदिति ६

07 अथ कुण्डिनानान् त्र्यार्षेयः ...{Loading}...

अथ कुण्डिनानां त्र्यार्षेयः । वासिष्ठ मैत्रावरुण कौण्डिन्येति । कुण्डिनवन्मित्रावरुणवद्वसिष्ठवदिति ७

08 अथ सङ्कृमिपूतिमाषाणान् त्र्यार्षेयः ...{Loading}...

अथ सङ्कृमिपूतिमाषाणां त्र्यार्षेयः । शाक्त्य साङ्कृत्य गौरिवीतेति । गौरिवीतिवत्सङ्कृतिवच्छक्तिवदिति ८

09 अथागस्तीनामेकार्षेयः आगस्त्येति होता ...{Loading}...

अथागस्तीनामेकार्षेयः । आगस्त्येति होता । अगस्तिवदित्यध्वर्युः ९

10 त्र्यार्षेयमु हैके आगस्त्य ...{Loading}...

त्र्यार्षेयमु हैके । आगस्त्य दार्ढच्युतैध्मवाहेति । इध्मवाहवद्दृढच्युतवदगस्तिवदिति १०

11 अथ क्षत्रियाणाम् ...{Loading}...

अथ क्षत्रियाणाम् ११

12 यद्यत्र सार्ष्टिम् प्रवृणीरन्नेक ...{Loading}...

यद्यत्र सार्ष्टिं प्रवृणीरन्नेक एवैषां प्रवरः । मानवैड पौरूरवसेति । पुरूरवोवदिडावन्मनुवदिति १२

13 अथ येषामु ह ...{Loading}...

अथ येषामु ह मन्त्रकृतो न स्युः सपुरोहितप्रवरास्ते प्रवृणीरन् १३

14 अथ येषां स्युरपुरोहितप्रवरास्ते ...{Loading}...

अथ येषां स्युरपुरोहितप्रवरास्ते १४

15 सपुरोहितप्रवरास्त्वेवन्न्यायेन ...{Loading}...

सपुरोहितप्रवरास्त्वेवन्न्यायेन १५

16 एकार्षेया विशः वात्सप्रेति ...{Loading}...

एकार्षेया विशः । वात्सप्रेति होता । वत्सप्रवदित्यध्वर्युः १६

17 अथासम्प्रज्ञातबन्धुराचार्यामुष्यायणमनुप्रब्रवीताचार्यप्रवरम् प्रवृणीत ...{Loading}...

अथासम्प्रज्ञातबन्धुराचार्यामुष्यायणमनुप्रब्रवीताचार्यप्रवरं प्रवृणीत १७

18 अथाह ताण्डिन एकार्षेयं ...{Loading}...

अथाह ताण्डिन एकार्षेयं सार्ववर्णिकं समामनन्ति । मानवेति होता मनुवदित्यध्वर्युः । मानव्यो हि प्रजा इति हि ब्राह्मणमिति हि ब्राह्मणम् १८

इति दशमी कण्डिका


  1. e.g. Aṣṭakas (XXIV.9.7) or Pūraṇas (XXIV.9.9) ↩︎ ↩︎ ↩︎

  2. TS V.1.5.6. ↩︎